ऋग्वेदः सूक्तं ९.३
← सूक्तं ९.२ | ऋग्वेदः - मण्डल ९ सूक्तं ९.३ आजीगर्तिः शुनःशेपः, कृत्रिमो वैश्वामित्रो देवरातः |
सूक्तं ९.४ → |
दे. पवमानः सोमः। गायत्री |
एष देवो अमर्त्यः पर्णवीरिव दीयति ।
अभि द्रोणान्यासदम् ॥१॥
एष देवो विपा कृतोऽति ह्वरांसि धावति ।
पवमानो अदाभ्यः ॥२॥
एष देवो विपन्युभिः पवमान ऋतायुभिः ।
हरिर्वाजाय मृज्यते ॥३॥
एष विश्वानि वार्या शूरो यन्निव सत्वभिः ।
पवमानः सिषासति ॥४॥
एष देवो रथर्यति पवमानो दशस्यति ।
आविष्कृणोति वग्वनुम् ॥५॥
एष विप्रैरभिष्टुतोऽपो देवो वि गाहते ।
दधद्रत्नानि दाशुषे ॥६॥
एष दिवं वि धावति तिरो रजांसि धारया ।
पवमानः कनिक्रदत् ॥७॥
एष दिवं व्यासरत्तिरो रजांस्यस्पृतः ।
पवमानः स्वध्वरः ॥८॥
एष प्रत्नेन जन्मना देवो देवेभ्यः सुतः ।
हरिः पवित्रे अर्षति ॥९॥
एष उ स्य पुरुव्रतो जज्ञानो जनयन्निषः ।
धारया पवते सुतः ॥१०॥
सायणभाष्यम्
‘एष देवः' इति दशर्चं तृतीयं सूक्तमाजीगर्तेः शुनःशेपस्यार्षं गायत्रं पवमानसोमदेवताकम् । अनुक्रान्तं च - एषः शुनःशेपः' इति । उक्तो विनियोगः ॥
ए॒ष दे॒वो अम॑र्त्यः पर्ण॒वीरि॑व दीयति ।
अ॒भि द्रोणा॑न्या॒सदं॑ ॥१
ए॒षः । दे॒वः । अम॑र्त्यः । प॒र्ण॒वीःऽइ॑व । दी॒य॒ति॒ ।
अ॒भि । द्रोणा॑नि । आ॒ऽसद॑म् ॥१
एषः । देवः । अमर्त्यः । पर्णवीःऽइव । दीयति ।
अभि । द्रोणानि । आऽसदम् ॥१
“देवः द्योतमानः “अमर्त्यः मरणरहितः “एषः सोमः “द्रोणानि द्रोणकलशानि “अभि अभिलक्ष्य “आसदम् आसदनार्थं “पर्णवीरिव यथा पक्षी तथा वेगेन “दीयति गच्छति ॥
ए॒ष दे॒वो वि॒पा कृ॒तोऽति॒ ह्वरां॑सि धावति ।
पव॑मानो॒ अदा॑भ्यः ॥२
ए॒षः । दे॒वः । वि॒पा । कृ॒तः । अति॑ । ह्वरां॑सि । धा॒व॒ति॒ ।
पव॑मानः । अदा॑भ्यः ॥२
एषः । देवः । विपा । कृतः । अति । ह्वरांसि । धावति ।
पवमानः । अदाभ्यः ॥२
"विपा अङ्गुल्या । ‘अथर्यो विपः' इत्यङ्गुलिनामसु पाठात् । “कृतः अभिषुतः “एषः सोमः "देवः “पवमानः क्षरन् “अदाभ्यः केनाप्यहिंसितश्च सन् "ह्ररांसि शत्रून् “अति “धावति हन्तुमभिगच्छति ॥
ए॒ष दे॒वो वि॑प॒न्युभिः॒ पव॑मान ऋता॒युभिः॑ ।
हरि॒र्वाजा॑य मृज्यते ॥३
ए॒षः । दे॒वः । वि॒प॒न्युऽभिः॑ । पव॑मानः । ऋ॒त॒युऽभिः॑ ।
हरिः॑ । वाजा॑य । मृ॒ज्य॒ते॒ ॥३
एषः । देवः । विपन्युऽभिः । पवमानः । ऋतयुऽभिः ।
हरिः । वाजाय । मृज्यते ॥३
“पवमानः क्षरन् “एषः सोमः "देवः “विपन्युभिः स्तोतृभिः “ऋतायुभिः यज्ञकामैः “हरिः अश्व इव “वाजाय संग्रामार्थं "मृज्यते स्तुतिभिरलंक्रियते ॥
ए॒ष विश्वा॑नि॒ वार्या॒ शूरो॒ यन्नि॑व॒ सत्व॑भिः ।
पव॑मानः सिषासति ॥४
ए॒षः । विश्वा॑नि । वार्या॑ । शूरः॑ । यन्ऽइ॑व । सत्व॑ऽभिः ।
पव॑मानः । सि॒सा॒स॒ति॒ ॥४
एषः । विश्वानि । वार्या । शूरः । यन्ऽइव । सत्वऽभिः ।
पवमानः । सिसासति ॥४
“पवमानः क्षरन् “शूरः वीरः “एषः सोमो देवः “विश्वानि सर्वाणि “वार्या वरणीयाणि धनानि सत्वभिः बलैः "यन्निव गच्छन्निव “सिषासति अस्मदर्थं संभक्तुमिच्छति ॥
ए॒ष दे॒वो र॑थर्यति॒ पव॑मानो दशस्यति ।
आ॒विष्कृ॑णोति वग्व॒नुं ॥५
ए॒षः । दे॒वः । र॒थ॒र्य॒ति॒ । पव॑मानः । द॒श॒स्य॒ति॒ ।
आ॒विः । कृ॒णो॒ति॒ । व॒ग्व॒नुम् ॥५
एषः । देवः । रथर्यति । पवमानः । दशस्यति ।
आविः । कृणोति । वग्वनुम् ॥५
“पवमानः क्षरन् “एषः सोमः "देवः “रथर्यति अस्मदीयं यागं प्रत्यागमनाय रथं कामयते । “दशस्यति आगत्य चास्मभ्यमभिलषितं प्रयच्छति। “वग्वनुं शब्दम् “आविष्कृणोति । अभिषूयमाणः प्रकटयति ॥ ॥ २० ॥
ए॒ष विप्रै॑र॒भिष्टु॑तो॒ऽपो दे॒वो वि गा॑हते ।
दध॒द्रत्ना॑नि दा॒शुषे॑ ॥६
ए॒षः । विप्रैः॑ । अ॒भिऽस्तु॑तः । अ॒पः । दे॒वः । वि । गा॒ह॒ते॒ ।
दध॑त् । रत्ना॑नि । दा॒शुषे॑ ॥६
एषः । विप्रैः । अभिऽस्तुतः । अपः । देवः । वि । गाहते ।
दधत् । रत्नानि । दाशुषे ॥६
“विप्रैः मेधाविभिः स्तोतृभिः “अभिष्टुतः परितः स्तुतः “एषः सोमः "देवः “दाशुषे हविषां प्रदात्रे यजमानाय "रत्नानि रमणीयानि धनानि “दधत् धारयन् प्रयच्छन् “अपः वसतीवरीः “वि “गाहते प्रविशति ॥
ए॒ष दिवं॒ वि धा॑वति ति॒रो रजां॑सि॒ धार॑या ।
पव॑मानः॒ कनि॑क्रदत् ॥७
ए॒षः । दिव॑म् । वि । धा॒व॒ति॒ । ति॒रः । रजां॑सि । धार॑या ।
पव॑मानः । कनि॑क्रदत् ॥७
एषः । दिवम् । वि । धावति । तिरः । रजांसि । धारया ।
पवमानः । कनिक्रदत् ॥७
“धारया “पवमानः क्षरन् “एषः सोमः “कनिक्रदत् अभिषूयमाणः शब्दं कुर्वन् “रजांसि लोकान् “तिरः तिरस्कुर्वन् यागात् “दिवं स्वर्गं “वि “धावति गच्छति ॥
ए॒ष दिवं॒ व्यास॑रत्ति॒रो रजां॒स्यस्पृ॑तः ।
पव॑मानः स्वध्व॒रः ॥८
ए॒षः । दिव॑म् । वि । आ । अ॒स॒र॒त् । ति॒रः । रजां॑सि । अस्पृ॑तः ।
पव॑मानः । सु॒ऽअ॒ध्व॒रः ॥८
एषः । दिवम् । वि । आ । असरत् । तिरः । रजांसि । अस्पृतः ।
पवमानः । सुऽअध्वरः ॥८
“पवमानः क्षरन् “एषः सोमः “स्वध्वरः सुयज्ञः "अस्पृतः कैनाप्यहिंसितश्च सन् “रजांसि लोकान् “तिरः तिरस्कुर्वन् यज्ञात् “दिवं प्रति “व्यासरत् विसरति गच्छति ॥
ए॒ष प्र॒त्नेन॒ जन्म॑ना दे॒वो दे॒वेभ्यः॑ सु॒तः ।
हरिः॑ प॒वित्रे॑ अर्षति ॥९
ए॒षः । प्र॒त्नेन॑ । जन्म॑ना । दे॒वः । दे॒वेभ्यः॑ । सु॒तः ।
हरिः॑ । प॒वित्रे॑ । अ॒र्ष॒ति॒ ॥९
एषः । प्रत्नेन । जन्मना । देवः । देवेभ्यः । सुतः ।
हरिः । पवित्रे । अर्षति ॥९
“हरिः हरितवर्णः “देवः द्योतमानः “एषः सोमः “प्रत्नेन पुराणेन “जन्मना जननेन “देवेभ्यः देवार्थं “सुतः अभिषुतः सन् "पवित्रे स्थातुम् “अर्षति गच्छति ॥
ए॒ष उ॒ स्य पु॑रुव्र॒तो ज॑ज्ञा॒नो ज॒नय॒न्निषः॑ ।
धार॑या पवते सु॒तः ॥१०
ए॒षः । ऊं॒ इति॑ । स्यः । पु॒रु॒ऽव्र॒तः । ज॒ज्ञा॒नः । ज॒नय॑न् । इषः॑ ।
धार॑या । प॒व॒ते॒ । सु॒तः ॥१०
एषः । ऊं इति । स्यः । पुरुऽव्रतः । जज्ञानः । जनयन् । इषः ।
धारया । पवते । सुतः ॥१०
“स्यः “एष “उ सोम एव “पुरुव्रतः बहुकर्मा “जज्ञानः जायमान एव “इषः अन्नानि “जनयन् उत्पादयन् “सुतः अभिषुतः सन् “धारया “पवते क्षरति ॥ ॥ २१ ।।
टिप्पणी
९.३.१ एष देवो अमर्त्य इति
एष देवो अमर्त्य इति सूक्तम् अनुरूपो भवति - पशवो वै सूक्तम्। पशवश् छन्दोमाः - पशूनाम् एवावरुद्ध्यै। अथो भूमा वै पशवः। भूमा सूक्तम्। पशूनाम् एवैतत् पशून् अनुरूपान् कुर्वन्ति। नात्र प्रत्यक्षानुरूपान् कुर्वन्ति। तस्मात् पशवो नानारूपान् जनयन्त्य् - उत श्वेता। कृष्णं जनयत्य्, उत कृष्णा श्वेतम्, उत रोहिणी कन्माषम्, उत कन्माषी रोहितम्। तास् समानप्रभृतयो भवन्ति नानोदर्काः - एष देवो अमर्त्य, एष देवो विपा कृत, एष देवो विपन्युभिर् इति। इदं वै प्रथमं पदम्, इदं द्वितीयं, अदस् तृतीयम्। - जै.ब्रा ३.२४१
मण्डल ९ | |||
---|---|---|---|