श्रीमद्भगवद्गीता (गूढार्थदीपिकासमेता)

विकिस्रोतः तः
श्रीमद्भगवद्गीता (गूढार्थदीपिकासमेता)
[[लेखकः :|]]

ग्रन्थाङ्कः ४५

वेदव्यासप्रणीतमहाभारतान्तर्गता

श्रीमद्भगवद्गीता ।


श्रीमधुसूदनसरस्वतीविरचितया गूढार्थदीपिकाख्यया
व्याख्यया, तथा श्रीधरस्वामिविरचितसुबो-
धिन्याख्यया व्याख्यया समेता ।

एतत्पुस्तकम्

वे. शा० रा. “काशीनाथशास्त्री आगाशे
इत्येतैः संशोधितम् ।

तञ्च

हरि नारायण आपटे

इत्यनेन

पुण्याख्यपत्तने

आनन्दाश्रममुद्रणालये

आयसाक्षरैर्मुद्रयित्वा

प्रकाशितम् ।


शालिवाहनशकाब्दाः १८२३

ख्रिस्ताब्दाः १९०१

( अस्य सर्वेऽधिकारी राजशासनानुसारेण स्वायत्तीकृताः )

मूल्यं रूपकपञ्चकं चत्वार आणकाश्च (५०४)।

 अथास्याः श्रीमधुसूदनसरस्वतीश्रीधरस्वामिविरचितटीकाभ्य समेत

भगवद्गीतायाः पुस्तकानि यानि परहितैकपरतया संस्करणार्थं प्रदत्ता : नामग्रामादिकं पुस्तकानां संज्ञाश्च कृतज्ञतया प्रदर्श्यन्ते ।

 तत्र मधुसूदनसरस्वतीकृतटीकासहितपुस्तकानां नामादिकं लिख्यते---

क. इति संज्ञितम्-मूलं सटीकं पूर्णम्, एतत्पुस्तकं मोहमय्यां मुद्रितम् ।

ख. इति संज्ञितम्-मूलं सटीकं पूर्णम्, एतत्युस्तकं पुण्यपत्तननिवासिन रा० रा० "भाऊसाहेब नगरकर" इत्येतेषाम् ।

ग. इति संज्ञितम्--मूलं सटीकं पूर्णम्, एतत्पुस्तकं रा० रा० "सदाशिव विनायक परांजपे " इत्येतेषाम् ।

घ. इति संज्ञितम्- मूलं सटीकं पूर्णम्, एतत्पुस्तकम्-इन्दूरपुरनिवासिनां श्रीमतां किबे इत्युपाह्वानां भाऊसाहेब बाळासाहेब इत्येतेषाम् ।

ङ. इति संज्ञितम्-मूलं सटीकं पूर्णम्, एतत्पुस्तकं रा०रा० निळोपंतवझे " इत्येतेषाम् ।

च. इति संज्ञितम्-मूलं सटीकं पूर्णम्, एतत्पुस्तकं पुण्यपत्तननिवासिनी रा० रा० भाऊसाहेब जोग वकील " इत्येतेषाम् ।

छ. इति संज्ञितम्-भूलं सटीकं पूर्णम्, एतत्पुस्तकं ६३७६ इत्येतदनुक्रमसंख्याङ्कान्वितमानन्दाश्रमसंस्कृतग्रन्थसंग्रहालयस्थम् ।

ज. इति संज्ञितम्-मूलं सटीकं पूर्णम्, एतत्पुस्तकं पुण्यपत्तननिवासिनी कै० रा० रा० " नारायण बाबाजी जोशी " इत्येतेषाम् ।

झ. इति संज्ञितम्-मूलं सटीकं पूर्णम्, एतत्पुस्तकं पुण्यपत्तननिवासिन रा० रा० "कृष्णाजी महादेव पेणसे " इत्येतेषाम् ।

ञ. इति संज्ञितम्-मूलं सटीकं पूर्णम्, एतत्पुस्तकं रा० रा० " भास्कर रघुनाथ दाते' इत्येतेषाम् ।


क. इति संज्ञितम्---मूलं सटीक पूर्णम्, एतत्पुस्तकं मोहमय्यां निर्णयसागराख्यमुद्रणालये मुद्रितम् ॥

ख. इति संज्ञितम्---मूलं सटीकं पूर्णम्, एतत्पुस्तकं ० ० " मल्हारराव पुरंदरे " इत्येतेषाम् ।

ग. इति संज्ञितम्---मूलं सटीकं पूर्णम् , एतत्पुस्तकम्--इन्दूरपुरनिवासिना र० स० " गोपाळराव हरी बक्षी " इत्येतेषाम् ।

घ. इति संज्ञितम्---मूलं सटीकं पूर्णम् , एतत्पुस्तकं पुण्यपत्तननिवासिनां रा० रा० "कृष्णाजी महादेव पेणसे" इत्येतेषाम् ।

ङ्. इति संज्ञितम्---मूलं सटीकं पूर्णम्, एतत्पुस्तकं १३७० इत्यनुक्रमसंख्या ङ्कान्वितमानन्दाश्रमसंस्कृतग्रन्थसंग्रहालयस्थम् ।

च. इति संज्ञितम्---मूल सटीकं पूर्णम् , एतत्पुस्तकम्---इन्दूरपुर निवासिन किवें इत्युपाद्वानां " भाऊसाहेब बाळासाहेब '" इत्येतेषाम् ।

छ. इति संज्ञितम्---मूलं सटीकं पूर्णम्, एतत्पुस्तकं १०९९ इत्येतदनुक्रमसंख्याङ्कान्वितमानन्दाश्रमसंस्कृतग्रन्थसंग्रहालयस्थं गुरुजी इत्युपाह्वानाम् ।

ज. इति संज्ञितम्---मूलं सटीकं पूर्णम्, एतत्पुस्तकं १५५५ इत्येतदनुक्रमसंरूयाङ्कान्वितमानन्दाश्रमसंस्कृतग्रन्थसंग्रहालयस्थं " विसाजी रघुनाथ " इत्येतेषाम् ।

झ. इति संज्ञितम्---मूलं सटीकं पूर्णम्, एतत्पुस्तकं : ठाणेग्रामनिवासिनां रा० रा० " लक्ष्मणराव जोगळेकर वकील " इत्येतेषाम् ।

ञ. इति संज्ञितम्---मूलं सटीकं त्रुटितं त्रयोदशाध्यायस्थषोडशश्लोकपर्यन्तम्, एतत्पुस्तकं शिलामुद्रणयत्रे मुद्रितं रा० रा० " भास्कर रघुनाथ दाते " इत्येतेषाम् ।

समाप्तेयं श्रीमधुसूदनसरस्वतश्रीधरस्वामिविरचितटीकासमेतश्रीमद्भगवद्गीताया आदर्शपुस्तकोल्लेखपत्रिका ॥


श्रीमद्भगवद्गीता ।
तत्र प्रथमोऽध्यायः ।
( मधुसूदनसरस्वतीकृत टीका । )

भगवत्पादभाष्यार्थमालोच्यातिप्रयत्नतः ॥
प्रायः प्र[१]तिपदं कुर्वे गीतागूढार्थदीपिकाम् ॥ १ ॥
सहेतुकस्य संसारस्यात्यन्तोपरमात्मकम् ॥
परं निःश्रेयसं गीताशास्त्रस्योक्तं प्रयोजनम् ॥ २ ॥
सच्चिदानन्दरूपं तत्पूर्णं विष्णाः परं पदम् ॥
यत्प्राप्तये समारब्धा वेदाः काण्डत्रयात्मकाः ॥ ३ ॥
कर्मोपास्तिस्तथा ज्ञानमिति काण्डत्र[२]यं क्रमात् ॥
तद्रूपाष्टादशा[३]ध्यायी गीता काण्डत्रयात्मिका ॥ ४ ॥
एकमेकेन षट्केन काण्डमत्रोपलक्षयेत् ॥
कर्मनिष्ठाज्ञाननिष्ठे कथिते प्रथमान्त्ययः ॥ ९ ॥
यतः समुच्चयो नास्ति तयोरतिविरोधतः ॥
भगवद्भक्तिनिष्ठा तु मध्यमे परिकीर्तिता ॥ ६ ॥
उभयानुगता सा हि सर्वविघ्नापनोदिनी ॥
कर्ममिश्रा च शुद्धा च ज्ञानमिश्रा च सा त्रिधा ॥ ७ ॥
तत्र तु प्रथमे काण्डे कमेतत्यागवर्त्मना ॥
त्वंपदार्थो विशुद्धात्मा सोपपत्ति[४]निरूप्यते ॥ ८ ॥
द्वितीये भगवद्भक्तिनिष्ठावर्णनवर्त्मना ॥
भगवान्परमानन्दस्तत्पदार्थोऽवधार्यते ॥ ९ ॥
तृतीये तु तयोरैक्यं वाक्यार्थो वर्ण्यते स्फुटम् ॥
एवमप्यत्र काण्डानां संबन्धोऽस्ति परस्परम् ॥ १० ॥


प्रत्यध्यायं विशेषस्तु तत्र तत्रैव वक्ष्यते ॥
मुक्तिसाधनपदं शास्त्रार्थत्वेन कथ्यते ॥ ११ ॥
निष्कामकर्मानुष्ठानं त्यागात्काम्यनिषिद्धयोः ॥
तत्रापि परमो धर्मों जपस्तुत्यादिकं हरेः ॥ १२ ॥
क्षीणपापस्य चित्तस्य विवेके योग्यता यदा ॥
नित्यानित्यविवेकस्तु जायते सुदृढस्तदा ॥ १३ ॥
इहामुत्रार्थवैराग्यं वशीकाराभिधं कमात् ॥
ततः शमादिसंपत्त्या संन्यासो निष्ठितो भवेत् ॥ १४ ॥
एवं सर्वपरित्यागान्मुमुक्षा जायते दृढा ॥
ततो गुरूपसदनमुपदेशग्रहस्ततः ॥ १५ ॥
ततः संदेहहानाय वेदान्तश्रवणादिकम् ॥
सर्वमुत्तरमीमांसाशास्त्रमत्रोपयुज्यते ॥ १६ ॥
ततस्तत्परिपाकेण निदिध्यासननिष्ठता ॥
योगशास्त्रं तु संपूर्णमुपक्षीणं भवेदिह ॥ १७ ॥
क्षीणदोषे ततश्चित्ते वाक्यात्त[५]त्त्वमतिर्भवेत् ॥
साक्षात्कारो निर्विकल्पः शब्दादेवोपजायते ॥ १८ ॥
अविद्याविनिवृत्तिस्तु तत्त्वज्ञानोदये भवेत् ॥
तत आवरणे क्षीणे क्षीयते भ्रमसंशयौ ॥ १९ ॥
अनारब्धानि कर्माणि नश्यन्त्येव समन्ततः ॥
[६] चाऽऽगामीनि जायन्ते तत्त्वज्ञानप्रभावतः ॥ २० ॥
प्रारब्धकर्मविक्षेपाद्वासना तु न नश्यति ॥
सा सर्वतो बलवता संयमेनोपशाम्यति ॥ २१ ॥
संयमो धारणा ध्यानं समाधिरिति यञ्चिकम् ॥
यमादिपञ्चकं पूर्वं तदर्थमुपयुज्यते ॥ २२ ॥
ईश्वरप्रणिधानात्तु समाधिः सिध्यति द्रुतम् ॥
ततो भवेन्मनोनाशो वासनाक्षय एव च ॥ २३ ॥
तत्त्वज्ञानं मनोनाशो वासनाक्षय इत्यपि ॥
युगपत्रितयाभ्यासाज्जीवन्मुक्तिदृढा भवेत् ॥ २४ ॥
विद्वत्संन्यासकथनमेतदर्थं श्रुतौ कृतम् ॥
प्रागसिद्धो य एवांशो यत्नः स्यात्तस्य साधने ॥ २५ ॥


निरुद्धे चेतसि पुरा सविकल्पसमाधिना ॥
निर्विकल्पसमाधिस्तु भवेदत्र त्रिभूमिकः ॥ २६ ॥
व्युत्तिष्ठते स्वतस्त्वाद्ये द्वितीये परबोधितः ॥
अन्त्ये व्युत्तिष्ठते नैव सदा भवति तन्मयः ॥ २७ ॥
एवंभूतो ब्राह्मणः स्याद्वरिष्ठो ब्रह्मवादिनाम् ॥
गुणातीतः स्थितप्रज्ञो विष्णुभक्तश्च कथ्यते ॥ २८ ॥
अतिवर्णाश्रमी जीवन्मुक्त आत्मरतिस्तथा ॥
एतस्य कृतकृत्यत्वाच्छास्त्रमस्मान्निवर्तते ॥ २९ ॥
यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ ॥
तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः ॥ ३० ॥
इत्यादिश्रुतिमानेन कायेन मनसा गिरा ॥
सर्वावस्थासु भगवद्भक्तिरत्रोपयुज्यते ॥ ३१ ॥
पूर्वभूमौ कृता भक्तिरुत्तरां भूमिमानयेत् ॥
अन्यथा विघ्नबाहुल्यात्फलसिद्धिः सुदुर्लभा ॥ ३२ ॥
पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोऽपि सः ॥
अनेकजन्मसंसिद्ध इत्यादि च वचो हरेः ॥ ३३ ॥
यदि प्राग्भवसंस्कारस्याचिन्त्यत्वात्तु कश्चन ॥
प्रागेव कृतकृत्यः स्यादाकाशफलपातवत् ॥ ३४ ॥
न तं प्रति कृतार्थत्वाच्छास्त्रमारब्धुमिष्यते ॥
प्राक्सिद्धसाधनाभ्यासाद्दुर्ज्ञेया भगवत्कृपा ॥ ३९ ॥
एवं प्राग्भूमिसिद्धावप्युत्तरोत्तरभूमये ॥
विधेया भगवद्भक्तिस्तां विना सा न सिध्यति ॥ ३६ ॥
जीवन्मुक्तिदशायां तु न भक्तेः फलकल्पना ॥
अद्वैष्टृत्वादिवत्तेषां स्वभावो भजनं हरेः ॥ ३७ ॥
आत्मारामाश्च मुनयो निर्ग्रन्था अप्युरुक्रमे ॥
कुर्वन्त्य हैतुकीं भक्तिमित्थंभूतगुणो हरिः ॥ ३८ ॥
तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते ॥
इत्यादिवचनात्प्रेमभक्तोऽयं मुख्य उच्यते ॥ ३९ ॥ .
एतत्सर्वं भगवता गीताशास्त्रे प्रकाशितम् ॥
अतो व्याख्यातुमेतन्मे मन उत्सहते भृशम् ॥ ४० ॥
निष्कामकर्मानुष्ठानं मूलं मोक्षस्य कीर्तितम् ॥
शोकादिरासुरः पाप्मा तस्य च प्रतिबन्धकः ॥ ४१ ॥

यतः स्वधर्मविभ्रंशः प्रतिषिद्धस्य सेवनम् ॥
फलाभिसंधिपूर्वा वा साहंकारा क्रिया भवेत् ॥ ४२ ॥
आविष्टः पुरुषो नित्यमेवमासुरपाप्मभिः ॥
पुमर्थलाभायोग्यः सल्लँभते दुःखसंततिम् ॥ ४३ ॥
दुःखं स्वभावतो द्वेष्यं सर्वेषां प्राणिनामिह ॥
अतस्तत्साधनं त्याज्यं शोकमोहादिकं सदा ॥ ४४ ॥
अनादिभव[७]संताननि[८]
रूढं दुःखकारणम् ॥
दुस्त्यजं शोकमोहादि केनोपायेन हीयताम् ॥ ४५ ॥
एवमाकाङ्क्षयाऽऽविष्टं पुरुषार्थोन्मुखं नरम् ॥
बुबोधयिषुराहेदं भगवाञ्शास्त्रमुत्तमम् ॥ ४६ ॥

 तत्राशोच्यानन्वशोचस्त्वमित्यादिना शोक मोहादिसर्वासुरपाप्मनिवृत्युपायोपदेशेन स्वधर्मानुष्ठानात्पुरुषार्थः प्राप्यतामिति भगवदुपदेशः सर्वसाधारणः । भगवदर्जुनसंवाद- रूपा चाऽऽख्यायिका विद्यास्तुत्यर्था जनक याज्ञवल्क्यसंवादादिवदुपनिषत्सु । कथं, प्रसिद्धमहानुभावोऽप्यर्जुनो राज्यगुरुपुत्रमित्रादिष्वहमेषां ममैत इत्येवंप्रत्ययनिमित्तस्ने- हनिमित्ताभ्यां शोकमोहाभ्यामभिभूतविवेकविज्ञानः स्वत एव क्षत्रधर्मे युद्धे प्रवृत्तोऽपि तस्माद्युद्धादुपरराम परधर्मं च भिक्षाजीवनादि क्षत्रियं प्रति प्रतिषिद्धं कर्तुं प्रववृते । तथा च महत्यनर्थे मग्नोऽभूत् । भगवदुपदेशाच्चेमां विद्यां लब्ध्वा शोकमोहावपनीय पुनः स्वधर्मे प्रवृत्तः कृतकृत्यो बभूवेति प्रशस्ततरेयं महाप्रयोजना विद्येति स्तूयते । अर्जुनापदेशेन चोपदेशाधिकारी दर्शितः । तथा च व्याख्यास्यते । स्वधर्मप्रवृत्तौ। जातायामापे तत्प्रच्युतिहेतुभूतौ शोकमोहौ कथं भीष्ममहं संख्ये इत्यादिनाऽ- जुनेन दशितौ । अर्जुनस्य युद्धाख्ये स्वधर्मे विनाऽपि विवेकं किंनिमित्ता प्रवृत्तिरिति दृष्ट्वा तु पाण्डवानीकामित्यादिना परसैन्यचेष्टितं तन्निमित्तमुक्तम् । तदुपोद्घातत्वेन धृतराष्ट्रप्रश्नः संजयं प्रति धर्मक्षेत्र इत्यादिना श्लोकेन । तत्र धृतराष्ट्र उवाचेति वैश- म्पायनवाक्यं जनमेजयं प्रति । पाण्डवानां जयकारणं बहुविधं पूर्वमाकर्ण्य स्वपुत्रराज्य भ्रंशाद्भीतो धृतराष्ट्रः पप्रच्छ स्वपुत्रजयकारणमाशंसन्-

धृतराष्ट्र उवाच-

 धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः ॥
 मामकाः पाण्डवाश्चैव किमकुर्वत संजय ॥ १ ॥

पूर्वं युयुत्सवो योद्भुमिच्छवोऽपि सन्तः कुरुक्षेत्रे समवेताः संगता मामका मदीया


दुर्योधनादयः पाण्डवाश्च युधिष्ठिरादयः किमकुर्वत किं कृतवन्तः । किं पूर्वोद्भूत्युयुत्सानुसारेण युद्धमेव कृतवन्त उत केनचिन्निमित्तेन युयुत्सानिवृत्याऽन्यदेव किंचित्कृतवन्तः । भीष्मार्जुनादि वीरपुरुषनिमित्तं दृष्टभयं युयुत्सानिवृत्तिकारणं प्रसिद्धमेव । अदृष्टभयमपि दर्शयितुमाह --धर्मक्षेत्र इति । धर्मस्य पूर्वमविद्यमानस्योत्पतर्विद्यमानस्य च वृद्धेर्निमित्तं सस्यस्येव क्षेत्रं यत्कुरुक्षेत्रं सर्वश्रुतिस्मृतिप्रसिद्धम् । " बृहस्पतिरुवाच याज्ञवल्क्यं यदन कुरुक्षेत्रं देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनम्” इति जाबालश्रुतेः, “कुरुक्षेत्रं वै देवयजनम्” इति शतपथश्रुतेश्च । तस्मिन्गताः पाण्डवाः पूर्वमेव धार्मिका यदि पक्षद्वयहिंसानिमित्तादधर्माद्भीता निवर्तेरंस्ततः प्राप्तराज्या एव मत्पुत्राः । अथवा धर्मक्षेत्रमाहात्म्येन पापानामपि मत्पुत्राणां कदाचिञ्चित्तप्रसादः स्यात्तदा च तेऽनुतप्ताः[९] कपटोपात्तं राज्यं पाण्डवेभ्यो यदि दद्युस्तर्हि विनाऽपि युद्धं हता एवेति स्वपुत्रराज्य लाभे पाण्डवराज्यालाभे च दृढतरमुपायमपश्यतो महानुद्वेग एवं प्रश्नबीजम् । संजयेति च संबोधनं रागद्वेषादिदोषान्सम्यग्जितवानसीति कृत्वा निर्व्याजमेव कथनीयं त्वयेतिसूचनार्थम् । मामकाः किमकुर्वतेत्येतावतैव प्रश्ननिर्वाहे पाण्डवाश्चेति पृथनिर्दिशन्पाण्डवेषु ममकाराभावप्रदर्शनेन[१०] तद्रोहमभिव्यक्ति ॥ १ ॥

( श्रीधरस्वामिकृता टीका ।)

शेषाशेषमुखव्याख्याचातुर्यं त्वेकवक्त्रतः ॥
दधानमद्भुतं वन्दे परमानन्दमाधवम् ॥ १ ॥
श्रीमाधवं प्रणम्योमाधवं विश्वेशमादरात् ॥
तद्भक्तियन्त्त्रितः कुर्वे गाताव्याख्यां सुबोधिनीम् ॥ २ ॥
भाष्यकारमतं सम्यक्तव्याख्यातृगिरस्तथा ॥
यथामति समालोड्य गीताव्याख्या समारमे ॥ ३ ॥

 + ध. पुस्तक इतः प्राक्-* नारायणं नमस्कृत्य० ॥ १ ॥ यं ब्रह्मा वरुणेन्द्र० ॥ २ ॥ पाराशर्यवचःसरोजममलं० ॥ ३ ॥ वसुदेवसुतं देवं० ॥ ४ ॥ मूकं करोति वाचाऽलं० ॥ ५ ॥” इति श्लोकपञ्चकं विद्यते ॥

 * छ. पुस्तके शेषाशेषेत्यादिश्लोकचतुष्टयस्थाने-“एक तज्जनयत्यनेकतनुभृत्सस्यान्यजस्रं मिथोभिन्नाकारगुणानि कैश्चिदपि वा नोप्तं न सिक्तं जलैः । कालेनापि न जीर्यते हुतभुजा नो दह्यते क्लियते नाद्भिस्तत्सकलस्य बीजमसकृद्बह्माभिधं धीमहि ॥ १ ॥ श्रीमत्पद्मजतार्क्ष्यपन्नगशुकप्रहलाद भीष्मोद्धवव्यासाक्रूरपराशरध्रुवमुखान्वन्दे मुकुन्दप्रियान् । यैस्तथैरिव पावित त्रिभुवनं रत्नैरिवालंकृतं सदैवैरिव रक्षितं सुखकरैश्चन्द्ररिवाऽऽप्यायितम् ॥ २ ॥ सर्वोपनिषदो गावो दोग्धा गौपालनन्दनः । पार्थो वत्सः सुधीभॊक्ता दुग्धं गीतामृतं महत् ॥ ३ ॥ हृदि विकसितपद्मं सार्कसोमाग्निबिम्बं प्रणवमयविकारं यस्य पीठाग्निकल्पम् । अथ च परमसूक्ष्मं ज्योतिराकाशसारे स भवतु मनसो मे वासुदेवः प्रतिष्ठा ॥ ४ । नमोऽस्तु ते व्यास विशालबुद्धे ० ॥ ५ ॥ पार्थाय प्रतिबोधितां भगवता० ॥ ६ ॥” इति श्लोकषट्क ते।


गीता व्याख्यायते यस्याः पाठमा[११]त्रप्रयत्नतः ॥
सेयं सुबोधिनी टीका सदा ध्येया[१२] मनीषिभिः ॥ ४ ॥

 इह खलु सकललोकहितावतारः सकलवन्दितचरणः परमकारुणिको भगवान्देवकीनन्दनस्तत्वाज्ञानविज़ृम्भितशोक मोहविभ्रंशितविवेकतया निजधर्मत्यागपरधर्माभिसंधिपरमर्जुनं धर्मज्ञानरहस्योपदेशप्लवेन तस्माच्छोकमोहसागरादुद्दधार । तमेव भगवदुपदिष्टमर्थं कृष्णद्वैपायनः सप्तभिः श्लोकशतैरुपनिबन्ध । तत्र के प्रायशः श्रीकृष्णमुखनिःसृतानेव श्लोकानलिखत् । कांश्चित्तत्संगतये स्वयं व्यरचयत् । यथोक्तं गीतामाहात्म्ये--

"गीताः सुगीताः कर्तव्याः किमन्यैः शास्त्रविस्तरैः ।
याः स्वयं पद्मनाभस्य मुखपद्माद्विनिःसृताः इति ॥

 तत्र तावद्धर्मक्षेत्र इत्यादिना विषीदन्नदमब्रवीदित्यन्तेन ग्रन्थेन श्रीकृष्णार्जुनसं- वादप्रस्तावाय कथा निरूप्यते । ततः परमा समाप्तेस्तयोर्धर्मज्ञानार्थसंवादः । तत्र धर्मक्षेत्र इत्यनेन श्लोकेन धृतराष्ट्रेण हस्तिनापुरस्थितं स्वसारथिं समीपस्थं संजयं प्रति कुरुक्षेत्रवृन्तान्ते पृष्टे संजयो हस्तिनापुरस्थितोऽपि व्यासप्रसादाल्लब्धदिव्यचक्षुः कुरुक्षेत्रवृत्तान्तं साक्षात्पश्यन्निव धृतराष्ट्राय निवेदयामास-दृष्ट्वा तु पाण्डवानीकमित्यादिना ।

  धर्मक्षेत्र इति । भोः संजय धर्मभूमौ कुरुक्षेत्रे मत्पुत्राः पाण्डुपुत्राश्च युयुत्सवो योद्भुमिच्छन्तः समवेता मिलिताः सन्तः किं कृतवन्तः ॥ १ ॥

 म०टी०एवं कृपालोकव्यवहारनेत्राभ्यामपि हीनतया महतोऽन्धस्य पुत्रस्नेहमात्राभिनिविष्टस्य धृतराष्ट्रस्य प्रश्ने विदिताभिप्रायस्य संजयस्यातिधार्मिकस्य प्रतिवचनमवतारयति वैशम्पायनः--

संजय उवाच-
 दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा ॥
 आचार्यमुपसंगम्य राजा वचनमब्रवीत् ॥ २॥

 तत्र पाण्डवानां दृष्टभयसंभावनाऽपि नास्ति अदृष्टभयं तु भ्रान्त्याऽर्जुनस्योत्पन्नं भगवतोपशमितमिति पाण्डवानामुत्कर्षस्तुशब्देन द्योत्यते । स्वपुत्रकृतराज्यप्रत्यर्पणशङ्कया तु मा ग्लासीरिति राजानं तोषयितुं दुर्योधनदौष्ट्यमेव प्रथमतो वर्णयति--- दृष्ट्वेति । पाण्डुसुतानामनीकं सैन्यं व्यूढं व्यूहरचनया धृष्टद्युम्नादिभिः स्थापितं दृष्ट्वा


चाक्षुष[१३]ज्ञानविषयीकृत्य तदा सङ्ग्रामोद्यमकाल आचार्यं द्रोणनामानं धनुर्विद्यासंप्रदायप्रवर्तयितारमुपसंगम्य स्वयमेव तत्समीपं गत्वा न तु स्वसमी[१४]पे तमाहूय । एतेन पाण्डवसैन्यदर्शनजनितं भयं सूच्यते । भयेन स्वरक्षार्थं तत्समीपगमनेऽपि आचार्यगौरवव्याजेन भयसंगोपनं राजनीतिकुशलत्वादित्याह-राजेति । आचार्यं दुर्योधनोऽब्रवीदित्येतावतैव निर्वाहे वचनपदं संक्षिप्तबह्वर्थत्वादिबहुगुणविशिष्टे वाक्यविशेषे संक्रा[१५] मितुं, वचनमात्रमेवाब्रवीन्न तु[१६] कंचिदर्थमिति वा ॥ २ ॥

 श्री०टी०-दृष्ट्वेति । पाण्डवानामनीकं सैन्यं व्यूढं व्यूहरचनया व्यवस्थितं दृष्ट्वा द्रोणाचार्यसमीपं गत्वा राजा दुर्योधनो वक्ष्यमाणं वाक्यमुवाच ॥ २ ॥

 म० टी०-तदेव वाक्यविशेषरूपं वचनमुदाहरति-पश्यैतामित्यादिना तस्य संजनयन्हर्षमित्यतःप्राक्तनेन । पाण्डवेषु प्रियशिष्येष्वतिस्निग्धहृदयत्वादाचार्यो युद्धं न करिष्यतीति संभाव्य तस्मिन्परेषामवज्ञां विज्ञापयंस्तस्य क्रोधातिशयमुत्पादयितुमाह---

पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् ॥
व्यूढां दुपदपुत्रेण तव शिष्येण धीमता ॥ ३ ॥

 एतामत्यासन्नत्वेन भवद्विधानपि महानुभावानवगणय्य भयशून्यत्वेन स्थितां पाण्डुपुत्राणां चमूं महतीमनेकाक्षौहिणीसहितत्वेन दुर्निवारां पश्यापरोक्षी कुरु प्रार्थनायां लोट् । अहं शिष्यत्वात्त्वामाचार्यं प्रार्थय इत्याह-आचार्येति । दृष्ट्वा च तत्कृतामवज्ञां स्वयमेव ज्ञास्यसीति भावः । ननु तदीयावज्ञा सोढव्यैवास्माभिः प्रतिकर्तुमशक्यत्वादित्याशङ्क्य तन्निरसनं तव सुकर मेवेत्याह--व्यूढां तवशिष्येणेति । शिष्यापेक्षया गुरोराधिक्यं सर्वसिद्धमेव । व्यूढां तु धृष्टद्युम्नेनेत्यनुक्त्वा द्रुपदपुत्रेणेतिकथनं द्रुपदपूर्ववैरसूचनेन क्रोधोद्दीपनार्थम् । धीमतेति पदमनुप्रेक्षणीयत्वसूचनार्थम् । व्यासङ्गान्तरनिराकरणेन त्वरातिशयार्थं पश्येति प्रार्थनम् । अन्यच्च हे पाण्डुपुत्राणामाचार्य नतु मम तेषु स्नेहातिशयात् । द्रुपदपुत्रेण तव शिष्येणेति त्वद्वधार्थमुत्पन्नोऽपि त्वयाऽध्यापित इति तव मौढ्यमेव ममानर्थकारणमिति सूचयति । शत्रोस्तव सकाशात्त्वद्वधोपायभूता विद्या गृहीतेति तस्य धीमत्त्वम् । अत एव तच्चमूदर्शनेनाऽऽनन्दस्तवैव भविष्यति भ्रान्तत्वात् , नान्यस्य कस्यचिदपि यं प्रतीयं प्रदर्शनीयेति त्वमेवैतां पश्येत्याचार्यं प्रति तत्सैन्यं प्रदर्शयान्निगूढं द्वेषं द्योतयति । एवं च


यस्य धर्मक्षेत्रं प्राप्याऽऽचार्येऽपीदृशी दुष्टबुद्धिस्तस्य काऽनुतापशङ्का सर्वाभिशङ्कित्वेनातिदुष्टाशयत्वादिति भावः ॥ ३ ॥

 श्री० टी०-तदे[१७]व वाक्यमाह पश्यैतामित्यादिनवमिः श्लोकैः–भो आचार्य पाण्डवानां विततां चमूं से[१८]नां सप्ताक्षौहिणीपरिमितां पश्य द्रुपदपुत्रेण धृष्टद्युम्नेन व्यूढां व्यूहरचनयाऽधिष्ठिताम् ॥ ३ ॥

 म० टी०-नन्वेकेन द्रुपदपुत्रेणाप्रसिद्धेनाधिष्ठितां चमूमेतामस्मदीयो यः कश्चिदपि जेष्यति किमिति त्वमुत्ताम्यसीत्यत आह-

अत्र शूरा महेष्वासा भीमार्जुनसमा युधि ॥
युयुधानो विराटश्च द्रुपदश्च महारथः ॥ ४ ॥
धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् ॥
पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुंगवः ॥ ५ ॥
युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् ॥
सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ॥ ६ ॥

 अत्र शूरा इत्यादिभिस्त्रिभिः ।' न केवलमत्र धृष्टद्युम्न एव शूरो येनोपेक्षणीयता स्यात्किं तु अस्यां चम्वामन्येऽपि बहवः शूराः सन्तीत्यवश्यमेव तज्जये यतनीयमित्यभिप्रायः । शूरानैव विशिनष्टि --महेष्वासा इति । महान्तोऽन्यैरप्रधृष्या इष्वासा धनूंषि येषां ते तथा दूरत एव पर सैन्यविद्रावणकुशला इति भावः । महाधनुरादिमत्त्वेऽपि युद्धकौशलाभावमाशङ्क्याऽऽह-युधि युद्धं भीमार्जुनाभ्यां सर्वसंप्रतिपन्नपराक्रमाभ्यां समास्तुल्याः । तानेवाऽऽह-युयुधान इत्यादिना महारथा इत्यन्तेन । युयुधानः सात्यकिः । द्रुपदश्च महारथ इत्येकः । अथवा युयुधानविराटद्रुपदानां विशेषणं महारथ इति । धृष्टकेतुचेकितानकाशिराजानां विशेषणं वीर्यवानिति । पुरुजित्कुन्तिभोजशैब्यानां विशेषणं नरपुंगव इति । विक्रान्तो युधामन्युवीर्यवांश्चोत्तमौजा इति द्वौ । अथवा सर्वाणि विशेषणानि समुचित्य सर्वत्र योजनीयानि । सौभद्रोऽभिमन्युः । द्रौपदेयाश्च द्रौपदीपुत्राः प्रतिविन्ध्यादयः पञ्च । चकारा दन्येऽपि पाण्ड्यराजघटोत्कचप्रभृतयः । पञ्च पाण्डवास्त्वतिप्रसिद्ध। एवेति न गणिताः। ये गणिताः सप्तदशान्येऽपि तदीयाः सर्व एव महारथाः सर्वेऽपि महारथा एवं नैकोऽपि रथेाऽर्धरथो वा । महारथा इत्यतिरथत्वस्याप्युपक्षणम् ॥


तल्लक्षणं च----
 " एको दश सहस्राणि योधयेद्यस्तु धन्विनाम् ।
 शस्त्रशास्त्रप्रवीणश्च महारथ इति स्मृतः ॥
 अमितान्याधयेद्यस्तु संप्रोक्तोऽतिरथस्तु सः ।
 रथस्त्वेकेन यो योद्धा तन्न्यूनोऽर्धरथः स्मृतः" ॥

 इति ॥ ४ ॥ ९ ॥ ३ ॥

 श्री० टी०-अत्र शूरा इति । अत्रास्यां चम्वामिषवो बाणा अस्यन्ते क्षिप्यन्त एभिरितीष्वासा धनूंषि महान्त इष्वासा येषां ते तथा । भीमार्जुनौ तावदत्रातिप्रसिद्धौ योद्धारौ । ताभ्यां समाः शू[१९]राः सन्ति । तानेव नामभिनिर्दिशति युयुधानः सात्यकिः ॥ ४ ॥

 किं च---धृष्टकेतुरिति । चेकितानो नामैको राजा । नरपुंगव नरश्रेष्ठः शैब्यः ॥ ५ ॥

 युधामन्युश्चेति । विक्रान्तो युधामन्युर्नामैकः । सौभद्रोऽभिमन्युः । द्रौपदेया द्रौपद्यां पञ्चभ्यो युधिष्ठिरादिभ्यो जाताः प्रतिविन्ध्यादयः पञ्च । महारथादीनां लक्षणम्-

"एको दश सहस्राणि योधयेद्यस्तु धन्विनाम् ।
शस्त्रशास्त्रप्रवीणश्च महारथ इति स्मृतः ॥
अमितान्योधयेद्यस्तु संप्रोक्तोऽतिरथस्तु सः ।
रथी त्वेकेन यो युध्येत्तन्यूनोऽर्धरथो मतः इति ॥ ६ ॥

 म० टी०--यद्येवं परबलमतिप्रभूतं दृष्ट्वा भीतोऽसि हन्त तर्हि संधिरेव परैरिष्यतां किं विग्रहाग्रहेणेत्याचार्यभिप्रायमाशङ्कयाऽऽह-

अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम ॥
नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते ॥ ७ ॥

 तुशब्देनान्तरुत्पन्नमपि भयं तिरोदधानो धृष्टतामात्मनो द्योतयति । अस्माकं सर्वेषां मध्ये ये विशिष्टाः सर्वेभ्यः समुत्कर्षजुषस्तान्मयोच्यमानान्निबोध निश्चयेन मद्वचनाद्वधारयेति भौवादिकस्य परस्मैपदिनो बुधे रूपम् । ये च मम सैन्यस्य नायका मुख्या नेतारस्तान्संज्ञार्थमसंख्येषु तेषु मध्ये कतिचिन्नामभिगृहीत्वा परिशिष्टा-


नुपलक्षयितुं ते तुभ्यं ब्रवीमि न त्वज्ञातं किंचिदपि तव ज्ञापयामीति द्विजोत्तमेति विशेषणेनाऽऽचार्यं स्तुवन्स्वकार्ये तदाभिमुख्यं संपादयति । दौष्ट्यपक्षे द्विजोत्तमेति ब्राह्मणत्वात्तावद्युद्धाकुशलस्त्वं तेन त्वयि विमुखेऽपि भीष्मप्रभृतीनां क्षत्रियप्रवराणां सत्वान्नास्माकं महती क्षतिरित्यर्थः । संज्ञार्थमिति प्रियशिष्याणां पाण्डवानां चमूं दृष्ट्वा हर्षेण व्याकुलमनसस्तव स्वीयवीर विस्मृतिर्मा भूदिति ममेयमुक्तिरिति भावः ॥ ७ ॥

 श्री० टी०-अस्माकमिति । निबोध निबुध्यस्व । नायका नेतारः संज्ञार्थं सम्यग्ज्ञानार्थमित्यर्थः ॥ ७ ॥

म० टी०-तत्र विशिष्टान्गणयति--
 भवान्भीष्मश्च कर्णश्च कृपश्च समितिंजयः ॥
 अश्वत्थामा विकर्णश्च सौमदत्तिर्जय[२०]द्रथः ॥ ८॥

 भवान्द्रोणो भीष्मः कर्णः कृपश्च । समितिं सङ्ग्रामं जयतीति समितिंजय इति कृपविशेषणं कर्णादनन्तरं गण्यमानत्वेन तस्य कोपमाशङ्कय तन्निरासार्थम् । एते चत्वारः सर्वतो विशिष्टाः । नायकान्गणयति-अश्वत्थामा द्रोणपुत्रः । भीष्मापेक्ष याऽऽचार्यस्य प्रथमगणनवद्विकर्णाद्यपेक्षया तत्पुत्रस्य प्रथमगणनमाचार्यपारितोषार्थम् । विकर्णः स्वभ्राता कनीयान् । सौमदत्तिः सोमदत्तस्य पुत्रः श्रेष्ठत्वाद्भूरिश्रवाः[२१] । जयद्रथः । सिन्धुराजस्तथैव चेति क्वचित्पाठः [२२]॥ ८ ॥

 श्री० टी०–तानेवाऽऽह-भवानिति द्वाभ्याम् । भवान्द्रोणः समितिं सङ्ग्रामं जयतीति तथा । सौमदत्तिः सोमदत्तस्य पुत्रो भूरिश्रवाः ॥ ८ ॥

म० टी०-किमेतावन्त एव नायका नेत्याह--
 अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः ॥
 नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ॥ ९ ॥

अन्ये च शल्यकृतवर्मप्रभृतयो मदर्थे मत्प्रयोजनाय जीवितमपि त्यक्तुमध्यवसिता इत्यर्थेन त्यक्तजीविता इत्यनेन स्वस्मिन्ननुरागातिशयस्तेषां कथ्यते । एवं स्वसैन्यबाहुल्यं तस्य स्वस्मिन्भक्तिः शौर्यं युद्धोद्योगो युद्धकौशलं च दर्शितं शूरा इत्यादिविशेषणैः ॥ ९ ॥


 अत्र टिप्पणीरूपेण प्रदर्शिता मूलपाठा: श्रीधरकृतटीकादर्शपुस्तकस्थमूलस्था इति बोध्यम् । ततोऽन्ये मूलपाठास्तु मधुसूदनकृतटीकादर्शपुस्तकस्थमूलस्था इति ध्येयम् । + जयद्रथ इत्यस्य स्थाने तथैव चैति श्रीधरटीकादर्श पुस्तकमूलपाठः ।


 श्री० टी०-अन्ये चैति । मदर्थे मत्प्रयोजनार्थ जीवितं त्यक्तुमध्यवसिता इत्यर्थः । नानाऽनेकानि शस्त्राणि प्रहरणसाधनानि येषां ते । युद्धे विशारदा निपुणा इत्यर्थः ॥ ९ ॥

 म० टी०-राजा पुनरपि सैन्यद्वयसाम्यमाशङ्कय स्वसैन्याधिक्यमावेदयति--

अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् ॥
पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् ॥ १० ॥

 अपर्याप्तमनन्तमैकादशाक्षौहिणीपरिमितं भीष्मेण च प्रथितमहिम्ना सूक्ष्मबुद्धिनाऽभितः सर्वतो रक्षितं तत्तादृशगुणवत्पुरुषाधिष्ठितमस्माकं बलम् । एतेषां पाण्डवानां बलं तु पर्याप्तं परिमितं सप्ताक्षौहिणीमात्रात्मकत्वान्न्यून भीमेन चातिचपलबुद्धिना रक्षितं तस्मादस्माकमेव विजयो भविष्यतीत्यभिप्रायः । अथवा तत्पाण्डवानां बलमपर्याप्तं नालमस्माकमस्मभ्यम् । कीदृशं तद्भीष्मोऽभिरक्षितोऽस्माभिर्यस्मै यन्निवृत्त्यर्थमित्यर्थः । तत्पाण्डवबलं भीष्माभिरक्षितम् । इदं पुनरस्मदीयं बलमेतेषां पाण्डवानां पर्याप्तं परिभवे समर्थम् । भीमोऽतिदुर्बलड्दयोऽभिरक्षितो यस्मै तदस्माकं बलं भीमाभिरक्षितम् । यस्माद्भीमोऽत्ययोग्य एवैतन्निवृत्यर्थं तै रक्षितस्तस्मादस्माकं न किंचिदपि भयकारणमस्तीत्यभिप्रायः ॥ १० ॥

 श्री० टी०–ततः किमित्यत आह-अपर्याप्तमिति । तत्तथाभूतैर्वीरैर्युक्तमपि भीष्मेणाभिरक्षितमप्यस्माकं बलं सैन्यमपर्याप्तं तैः सह याद्भुमसमर्थं भाति । इदं तु एतेषां पाण्डवानां बलं भीमेनाभिरक्षितं सत्पर्याप्तं समर्थं भाति । भीष्मस्योभयपक्षपातित्वादस्मद्बलं पाण्डवसैन्यं प्रत्यसमर्थम् । भीमस्यैकपक्षपातित्वादेतद्बलमस्मद्बलं प्रति समर्थ भातिं ॥ १० ॥

 म० टी०----एवं चेन्निर्भयोऽसि तर्हि किमिति बहु जल्पसत्यत आह--

अयनेषु तु[२३] सर्वेषु यथाभागमवस्थिताः ॥
भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि ॥ ११ ॥

 कर्तव्यविशेषद्योती तुशब्दः । समरसमारम्भसमये योधानां यथाप्रधानं युद्धभूमौ पूर्वापरादिदिग्विभागेनावस्थितिस्थानानि यानि नियम्यन्ते तान्यत्रायनान्युच्यन्ते । सेनापतिश्च सर्वसैन्यमधिष्ठाय मध्ये तिष्ठति । तत्रैवं सति यथाभागं विभक्तां स्वां स्वां रणभूमिमपरित्यज्यावस्थिताः सन्तो भवन्तः सर्वेऽपि युद्धाभिनिवेशात्पुरतः


श्रीधरटीकादशपुस्तकमूले चैत्येव पाठः ।

पृष्ठतः पार्श्वतश्चानिरीक्षमाणं भीष्मं सेनापतिमेव रक्षन्तु । भीष्मे हि सेनापतौ रक्षिते तत्प्रसादादेव सर्वं सुरक्षितं भविष्यतीत्यभिप्रायः ॥ ११ ॥

 श्री० टी०-तस्माद्भवद्भिरेव वर्तितव्यमित्याह-अयनेष्विाति । अयनेषु व्यूहप्रवेशमार्गेषु यथाभागं विभक्तां स्वां स्वां रणभूमिमपरित्यज्यावस्थिताः सन्तः सर्वे भीष्ममेवाभितो रक्षन्तु । यथाऽन्यैर्युध्यमानः पृष्ठतः कैश्चिन्न हन्येत तथा रक्षन्तु । भीष्मबलेनैवास्माकं जीवितमिति भावः ॥ ११ ॥

 म० टी०---स्तौतु वा निन्दतु वा, एतदर्थे देहः पतिष्यत्येवेत्याशयेन तं हर्षयन्नेव सिंहनादं [विनद्य] शङ्खवाद्यं च कारि(वादि)तवानित्याह-

तस्य संजनयन्हर्ष कुरुवृद्धः पितामहः ॥
सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् ॥१२॥

 एवं पाण्डवसैन्यदर्शनादतिभीतस्य भयनिवृत्त्यर्थमाचार्यं कपटेन शरणं गतस्येदानीमप्ययं मां प्रतारयतीत्यसंतोषवशादाचार्येण वाङमात्रेणाप्यनादृतस्याऽऽचार्योपेक्षां बुद्ध्वाऽयनेष्वित्यादिना भीष्ममेव स्तुवतस्तस्य राज्ञो भयनिवर्तकं हर्षं बुद्धिगतमुल्लासविशेषं स्वविजयसूचकं जनयन्नुच्चैर्महान्तं सिंहनादं विनद्य कृत्वा, यद्वा सिंहनादमिति णमुलन्तम् । अतो रैपोषं पुष्यतीतिवत्तस्यैव धातोः पुनः प्रयोगः । शङ्खं दध्मौ वादितवान् । कुरुवृद्धत्वादाचार्यदुर्योधनयोरभिप्रायपरिज्ञानं, पितामहत्वादनुपेक्षणं न त्वाचार्यवदुपेक्षणं, प्रतापवत्वादुच्चैः सिंहनादपूर्वकशङ्खवादनं परेषां भयोत्पादनाय । अत्र सिंहनादशङ्खवाद्ययोर्हर्षजनकत्वेन पूर्वापरकालत्वेऽप्यभिचरन्यजेतेतिवज्जनयन्निति शताऽवश्यंभावित्वरूपवर्तमानत्वे व्याख्यातव्यः ॥ १२ ॥

 क्ष्री० टी०---- तदेवं बहुमानयुक्त्तं राज्ञो दुर्योधनस्य वाक्यं क्ष्रुत्वा भीष्मः किं कृतवांस्तदाह-तस्येति । तस्य राज्ञो हर्षं संजनयन्कुर्वन्पितामहो भीष्म उच्चैर्महान्तं सिंहनादं कृत्वा शङ्खं दध्मौ वादितवान् ॥ १२ ॥

ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः ॥
सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ॥ १३ ॥

 म० टी०--ततो भीष्मस्य सेनापतेः प्रवृत्यनन्तरं पणवा आनका गोमुखाश्च वाद्यविशेषाः सहसा तत्क्षणभेवाभ्यहन्यन्त वादिताः । कर्मकर्तरि प्रयोगः । स शब्दस्तुमुलो महानासीत्तथाऽपि न पाण्डवानां क्षोभो जात इत्यभिप्रायः ॥ १३ ॥

 श्री० टी०–तदेवं सेनापतेर्भीष्मस्य युद्धोत्सवमालक्ष्य सर्वतो युद्धोत्सवः प्रवृत्त इत्याह–तत इति । पणवा आनका गोमुखाश्च वाद्यविशेषाः सहसैव तत्क्षणमेवाम्यहन्यन्त वादिताः । स च शङ्खादिशब्दस्तुमुलो महानभवत् ॥ १३ ॥

ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ ॥
माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः ॥१४॥

 म० टी०-अन्येषामपि रथस्थत्वे स्थित एवासाधारण्येन रथोत्कर्षकथनार्थं ततः श्वेतैर्हयैर्युक्त इत्यादि[२४] ना रथस्थत्वकथनं, तेनाग्निदत्ते दुष्प्रधृष्ये रथे स्थितौ सर्वथा जेतुमशक्यावित्यर्थः ॥ १४ ॥

 श्री० टी०-ततः पाण्डवसैन्ये प्रवृत्तं युद्धोत्सवमाह-तत इति पञ्चभिः [२५] । ततः कौरवसैन्यवाद्यकोलाहलानन्तरं स्यन्दने रथे स्थितौ सन्तौ कृष्णार्जुनौ दिव्यौ शङ्खौ प्रकर्षेण दध्मतुर्वादयामासतुः ॥ १४ ॥

पाञ्चजन्यं हृषीकेशो देवदत्तं धनंजयः ॥
पौण्डं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः ॥ १५ ॥
अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः
नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ॥ १६॥

 म० टी०-पाञ्चजन्यो देवदत्तः पौण्ड्रोऽनन्तविजयः सुघोषो मणिपुष्पकश्चेति शङ्खनामकथनं परसैन्ये स्वस्वनामभिः प्रसिद्धा एतावन्तः शङ्खा भवत्सैन्ये तु नैकोऽपि स्वनामप्रसिद्धः शङ्खोऽस्तीति परेषामुत्कर्षातिशयकथनार्थम् । सर्वेन्द्रियप्रेरकत्वेन सर्वान्तर्यामी सहायः पाण्डवानामिति कथयितुं हृषीकेशपदम् । दिग्विजये सर्वान्राज्ञो जित्वा धनमादृतवानिति सर्वथैवायमजेय इति कथयितुं धनंजयपदम् । भीमं हिडिम्बवधादिरूपं कर्म यस्य तादृशो वृकोदरत्वेन बह्वन्नपाकादतिबलिष्ठो भीमसेन इति कथितम् । कुन्तीपुत्र इति कुन्त्या महता तपसा धर्ममाराध्य लब्धः । स्वयं च राजसूययाजित्वेन मुख्यो राजा । युधि चायमेव जयभागित्वेन स्थिरो न त्वेतद्विपक्षाः स्थिरा भविष्यन्तीति युधिष्ठिरपदेन सूचितम् । नकुलः सुघोषं सहदेवो मणिपुष्पकं दध्मावित्यनुषज्यते ॥ १९ ॥ १६ ॥

 श्री० टी०--तदेव विभागेन दर्शयन्नाह–पाञ्चजन्यमिति । पाञ्चजन्यादीनि श्रीकृष्णादिशङ्खानां नामानि । भीमं घोरं कर्म यस्य सः । वृकवदुदरं यस्य[२६] स वृकोदरो महाशङ्खं पौण्डू दध्माविति ॥ १९ ॥

 अनन्तविजयमिति । नकुलः सुघोषं नाम शङ्खं दध्मौ । सहदेवो मणिपुष्पकं नाम ॥ १६ ॥


काश्यश्च परमेष्वासः शिखण्डी च महारथः ॥
धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः ॥ १७ ॥
द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते ॥
सौभद्रश्च महाबाहुः शङ्खान्दध्मुः पृथक्पृथक् ॥१८॥

 म० टी०-परमेष्वासः काश्यो महाधनुर्धरः काशिराजः । न पराजितः पारिजातहरणबाणयुद्धादिमहासङ्ग्रामेषु एतादृशः सात्यकिः । हे पृथिवीपते धृतराष्ट्र स्थिरो भूत्वा शृण्वित्यभिप्रायः । सुगममन्यत् ॥ १७ ॥ १८ ॥

 श्री० टी०-काश्यश्चेति । काश्यः काशिराजः । कथंभूतः, परमः श्रेष्ठ इष्वासो धनुर्यस्य सः ॥ १७ ॥

 द्रुपद इति । हे पृथिवीपते धृतराष्ट् ॥ १८ ॥

स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् ॥
नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन् ॥ १९ ॥

 म० टी०-धार्तराष्ट्राणां सैन्ये शङ्खादिध्वनितितुमुलोऽपि न पाण्डवानां क्षोभकोऽभूत् । पाण्डवानां सैन्ये जातस्तु स शङ्खघोषो धार्तराष्ट्राणां धृतराष्ट्रस्य तव संवन्धिनां सर्वेषां भीष्मद्रोणादीनामपि हृदयानि व्यदारयत्, हृदयविदारणतुल्यां व्यथां जानितवानित्यर्थः । यतस्तुमुलोऽतितीव्रो नभश्च पृथिवीं च प्रतिध्वनिभिरापूरयन् ॥ १९ ॥

 श्री० टी०–स च शङ्खानां नादस्त्वदीयानां महाभयं जनयामासेत्याह----स घोष इति । धार्तराष्ट्राणां त्वदीयानां हृदयानि विदारितवान् । किं कुर्वन्नभश्च पृथिर्वी चैव तुमुलो व्यनुनादयन्प्रतिध्वनिभिरापूरयन् ॥ १९ ॥

 म० टी०-धार्तराष्ट्राणां भयप्राप्तिं प्रदर्श्य पाण्डवानां तद्वैपरीत्यमुदाहरति-

 अथ व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान्कपिध्वजः ॥
 प्रवृत्ते शस्त्रसंपाते धनुरुद्यम्य पाण्डवः ॥ २० ॥
 हृषीकेशं तदा वाक्यमिदमाह महीपते ।
अर्जुन उवाच-
 सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत ॥ २१ ॥

 अथेत्यादिना । भीतिप्रत्युपास्थितेरनन्तरं पलायने प्राप्तेऽपि तद्विरुद्धतया युद्धोद्योगेनावस्थितानेव परान्प्रत्यक्षेणोपलभ्य तदा शस्त्रसंपाते प्रवर्तमाने सति,

वर्तमाने क्तः, कपिध्वजः पाण्डवो हनूमता महावीरेण ध्वजरूपतयाऽनुगृहीतोऽर्जुनः सर्वथा भयशून्यत्वेन युद्धाय गाण्डीवं धनुरुद्यम्य हृषीकेशमिन्द्रियप्रवर्तकत्वेन सर्वान्तः- करणवृत्तिज्ञं श्रीकृष्णमिदं वक्ष्यमाणं वाक्यमाहोक्तवान्न त्वविमृश्यकारितया स्वयमेव यत्किंचित्कृतवानिति परेषां विमृश्यकारित्वेन नीतिधर्मयाः कौशलं वदन्नविमृश्यकारितया परेषां राज्यं गृहीतवानसीति नीतिधर्मयोरभावात्तव जयो नास्तीति महीपत इति संबोधनेन सूचयति । तदेवार्जुनवाक्यमवतारयति-सेनयोरुभयोः स्वपक्षप्रतिपक्षभूतयोः संनिहितयोर्मध्ये मम रथं स्थापय स्थिरी कुर्विति सर्वेश्वरो नियुज्य[२७] तेऽर्जुनेन[२८] । अनेन किं हि भक्तानामशक्यं यद्भगवानपि तन्नियोगमनुतिष्ठतीति ध्रुवो जयः पाण्डवानामिति[२९] सूचयति । नन्वेवं रथं स्थापयन्ते मामेते शत्रवो रथाच्यावयिष्यन्तीति भगवदाशङ्कामाशङ्कयाऽऽह–अच्युतेति । देशकालवस्तुष्वच्युतं त्वां को वा च्यावयितुमर्हतीति भावः । एतेन सर्वदा निर्विकारत्वेन नियोगनिमित्तः कोषोऽपि परिहृतः ॥ २० ॥२१॥

 श्री० टी०-एतस्मिन्समये श्रीकृष्णमर्जुनो विज्ञापयामासेत्याहाथेति चतुर्भिः-- व्यवस्थितन्युद्धोद्योगेन स्थितान् । कपिध्वजोऽर्जुनः ॥ २० ॥

 हृषीकेशमिति । तदेव वाक्यमाह-सेनयोरिति ॥ २१ ॥'

 म० टी०मध्ये रथस्थापनप्रयोजनमाह---

यावदैतान्निरीक्षेऽहं योद्धकामानवस्थितान् ॥
कैर्मया सह योद्धव्यमस्मिन्नणसमुद्यमे ॥ २२ ॥

 योद्भुकामान्न त्वस्माभिः सह संधिकामानवस्थितान्न तु भयात्प्रचलितान्, एतान्भीष्मद्रोणादीन्यावद्गत्वाऽहं निरीक्षितुं क्षमः स्यां तावत्प्रदेशे रथं स्थापयेत्यर्थः । यावदिति कालपरं वा। ननु त्वं योद्धा न तु युद्धप्रेक्षकः, अतस्तव किमेषां दर्शनेनेत्यत्राऽऽहकैरिति । अस्मिन्रणसमुद्यमे बन्धूनामेव परस्परं युद्धोद्योगे मया कैः सह योद्धव्यं मत्कर्तृकयुद्धप्रतियोगिनः के कैर्मया सह योद्धव्यं किंकर्तृकयुद्धप्रतियोग्यहमिति च महदिदं कौतुकमेतज्ज्ञानमेव मध्ये रथस्थापनप्रयोजनमित्यर्थः ॥ २२ ॥

 श्री० टी०-यावदेतानिति । ननु त्वं योद्धा न तु युद्धप्रेक्षकस्तत्राऽऽहं- कैरिति । कैः सह मया योद्धव्यम् ॥ २२ ॥

 म० टी०-ननु बन्धव एते परस्परं संधिं कारयिष्यन्तीति कुतो युद्धमित्याश- ङ्कयाऽऽह---

योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः ॥
धार्तराष्ट्रस्य दुर्बुद्धेयुद्धे प्रियचिकीर्षवः ॥ २३ ॥


 य एते भीष्मद्रोणादयो धार्तराष्ट्रस्य दुर्योधनस्य दुर्बुद्धेः स्वरक्षणोपायमजानतः प्रियचिकीर्षको युद्धे न तु दुर्बुद्ध्यपनयनादौ तान्योत्स्यमानानहमवेक्ष उपलभे न तु संधिकामान् । अतो युद्धाय तत्प्रतियोग्यवलोकनमुचितमेवेति भावः ॥ २३ ॥

 श्री० टी०-योत्स्यमानानिति । धार्तराष्ट्रस्य दुर्योधनस्थ प्रियं कर्तुमिच्छन्तो य इह समागतास्तान्यावद्रक्ष्यामि तावदुभयोः सेनयोर्मध्ये मे रथं स्थापये- त्यन्वयः ॥ २३ ॥

 म० टी०-एवमर्जुनेन प्रेरितो भगवानहिंसारूपं धर्ममाश्रित्य प्रायशो युद्धात्तं व्यावर्तयिष्यतीति धृतराष्ट्राभिप्रायमाशङ्कय ते निराचिकीर्षुः संजयो धृतराष्ट्रं प्रत्युक्तवानित्याह वैशम्पायनः----

- संजय उवाच-
 एवमुक्तो हृषीकेशो गुडाकेशेन भारत ॥
 सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् ॥ २४ ॥
 भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् ॥
 उवाच पार्थ पश्यैतान्समवेतान्कुरूनिति ॥ २५ ॥

 हे भारत धृतराष्ट्र भरतवंशमर्यादामनुसंधायापि द्रोहं परित्यज ज्ञातीनामिति संबोधनाभिप्रायः । गुडाकाया निद्राया ईशेन जितनिद्रतया सर्वत्र सावधानेना र्जुनेनैवमुक्तो भगवानयं मद्भृत्योऽपि सारथ्ये मां नियोजयतीति दोषमासज्य नाकृप्यत् , न वा तं युद्धान्न्यर्वतयत्किंतु सेनयोरुभयोर्मध्ये भीष्मद्रोणप्रमुखतस्तयोः प्रमुख संमुखे सर्वेषां महीक्षितां च संमुखे, आद्यादित्वात्सार्विभक्ति कस्तसिः । चकारेण समासनिविष्टोऽपि प्रमुखतःशब्द आकृष्यते । भीष्मद्रोणयोः पृथक्कीर्तन मतिप्राधान्यसूचनाय । रथोत्तममग्निना दत्तं दिव्यं रथं भगवता स्वयमेव सारथ्येनाधिष्ठिततया च सर्वोत्तमं स्थापयित्वा हृषीकेशः सर्वेषां निगूढाभिप्रायज्ञो भगवानर्जुनस्य शोक मोहावुपस्थिताविति विज्ञाय सोपहासमर्जुनमुवाच । हे पार्थ पृथायाः स्त्रीस्वभावेन शोकमोहग्रस्ततया तत्संबन्धिनस्तवापि तद्वत्ता समुपस्थितेति सूचयन्हृषीकेशत्वमात्मनो दर्शयति । पृथा मम पितुः स्वसा तस्याः पुत्रोऽसीतिसंबन्धोल्लेखेन चाऽऽश्वासयति । मम सारथ्ये निश्चितो भूत्वा सर्वानपि समवेतान्कुरून्युयुत्सुन्पश्य निःशङ्कतयेति दर्शनविध्यभिप्रायः । अहं सारथ्येऽतिसावधानत्वं तु सांप्रतमेव रथित्वं त्यक्ष्यसीति किं तव परसेनादर्शनेनेत्यर्जुनस्य धैर्यमापादयितुं पश्येत्येतावत्पर्यन्तं भगवतो वाक्यम् । अन्यथा रथं सेनयोर्मध्ये स्थापयामासेत्येतावन्मात्रं ब्रूयात् ॥ २४ ॥ २१ ॥

 श्री० टी०-ततः किं वृत्तमित्यपेक्षायाम्-एवमिति । गुडका निद्रा तस्या

ईशेन जितनिद्रेणार्जुनेनैवमुक्तः सन्हे भारत धृतराष्ट्र भीष्मद्रोणयोर्महीक्षितां राज्ञां च प्रमुखतः संमुखे रथं स्थापयित्वा हे पार्थैतान्कुरून्पश्येत्युवाच ॥ २४ ॥ ११ ॥

तत्रापश्यस्थितान्पार्थः पितृनथ पितामहान् ॥
आचार्यान्मातुलान्भ्रातन्युत्रान्पौत्रान्सखींस्तथा ॥
श्वशुरान्सुहृदश्चैव सेनयोरुभयोरपि ॥ २६ ॥

 म० टी०--तत्र समरसमारम्भार्थं सैन्यदर्शने भगवताऽभ्यनुज्ञाते सति सेनयोरुभयोरपि स्थितान्पार्थोऽपश्यदित्यन्वयः । अथशब्दस्तथाशब्दपर्यायः । परसेनायां पितृन्पितृव्यान्भूरिश्रवःप्रभृतीन्पितामहान्भीष्मसोमदत्तप्रभृतीनाचार्यान्द्रोणकृपप्रभृतीन्मातुलाशल्यशकुनिप्रभृतीन्भ्रातृन्दुर्योधनप्रभृतीन्पुत्रालँक्ष्मणप्रभृती-न्पौत्राल्लक्ष्मणादिपुत्रान्सखीनश्वत्थामजयद्रथप्रभूतन्वयस्यान्, श्वशुरान्भार्याणां जनयितृन्, सुत्दृदो मित्राणि कृतवर्मभगदत्तप्रभृतीन् । सुत्दृद इत्यनेन यावन्तः कृतोपकारा मातामहादयश्च ते द्रष्टव्याः । एवं स्वसेनायामप्युपलक्षणीयम् ॥ २६ ॥

 श्री० टी०–ततः किं वृत्तमित्यत आह तत्रापश्यदितिसार्धेन–तत्रेति । पितृनिति । पितृव्यानित्यर्थः । पुत्रान्पौत्रानिति । दुर्योधनादीनां ये पुत्राः पौत्राश्च तानित्यर्थः । सखीन्मित्राणि सुहृदः कृतोपकारांश्चापश्यत् ॥ २६ ॥

 म० टी०–एवं स्थिते महानधर्मो हिंसेति विपरीतबुध्ध्या मोहाख्यया शास्त्रविहितत्वेन धर्मत्वमितिज्ञानप्रतिबन्धकेन च ममकारनिबन्धनेन चित्तैवक्लव्येन शोकाख्येनाभिभूतविवेकस्यार्जुनस्य पूर्वमारब्धाद्युद्धाख्यात्स्वधर्मादुपरिरंसा महानर्थपर्यवसायिनी वृत्तेति दर्शयति--

तान्समीक्ष्य स कौन्तेयः सर्वान्बन्धूनवस्थितान् ॥
कृपया परयाऽऽविष्टो विषीदन्निदमब्रवीत् ॥ २७ ॥

 कौन्तेय इति स्त्रीप्रभवत्वकीर्तनं पार्थवत्तादात्विकमूढतामपेक्ष्य । कृपया कर्त्या स्वव्यापारेणैवाऽऽविष्टो व्याप्तो न तु कृपां केनचिद्वयापारेणाऽऽविष्ट इति स्वतःसिद्धै- वास्य कृपेति सूच्यते । एतत्प्रकटीकरणाय परयेति विशेषणम् । अपरयेति वा छेदः ।। स्वसैन्ये पुराऽपि कृपाऽभूदेव तस्मिन्समये तु कौरवसैन्येऽप्यपरा कृपाऽभूदित्यर्थः । विषीदन्विषादमुपतापं प्राप्नुवन्नब्रवीदित्युक्तिविषादयोः समकालतां वदन्सगद्गदकण्ठता- श्रुपातादि विषादकार्यमुक्तिकाले द्योतयति ॥ २७ ॥


 श्री० टी०--ततः किं कृतवानित्यत आह--तानिति । आविष्टो [३०]व्याप्तो युक्तो विषीदन्विशेषेण सीदन्नवसादं ग्लानिं लभमानः ॥ २७ ॥

 म० टी०-तदेव भगवन्ते प्रत्यर्जुनवाक्यमवतारयति संजयोऽर्जुन उवाचेत्यादिना, एवमुक्त्वाऽर्जुनः संख्ये इत्यतःप्राक्तनेन ग्रन्थेन । तत्र स्वधर्मप्रवृत्तिकारणीभूततत्त्वज्ञानप्रतिबन्धकः स्वपरदेह आत्मात्मीयाभिमानवतोऽनात्मविदोऽर्जुनस्य युद्धेन स्वपरदेहविनाशप्रसङ्गदर्शिनः शोको महानासीदिति तल्लिङ्गकथनेन दर्शयति त्रिभिः क्ष्लोकैः-

अर्जुन उवाच-
 दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम् ॥
 सीदन्ति मम गात्राणि मुखं च परिशुष्यति ॥ २८ ॥

 इमं स्वजनमात्मीयं बन्धुवर्गं युद्धेच्छुं युद्धभूमौ चोपस्थितं दृष्ट्वा स्थितस्य मम पश्यतो ममेत्यर्थः । अङ्गानि व्यथन्ते । मुखं च परिशुष्यतीति श्रमादिनिमित्तशोषापेक्षयाऽतिशयकथनाय सर्वतोभाववाचिपरिशब्दप्रयोगः ॥ २८ ॥

 श्री० टी०-किमब्रवीदित्यपेक्षायामाह दृष्ट्वेममित्यादियावदध्यायसमाप्ति-हे कृष्ण योद्भुमिच्छन्तं पुरतः सम्यगवस्थितमिमं बन्धुजनं दृष्ट्वा मदीयानि गात्राणि करचरणादीनि सीदन्ति विशीर्यन्ते । किं च मुखं परि समन्ताच्छुष्यति निर्द्रवी मवति ॥२८॥

वेपथुश्च शरीरे मे रोमहर्षश्च जायते ॥
गाण्डीवं स्रसते हस्तात्त्वक्चैव परिदृह्यते ॥ २९॥

 म० टी०-वेपथुः कम्पः । रोमहर्षः पुलकितत्वम् । गाण्डीवभ्रंशेनाधैर्यलक्षणं दौर्बल्यं त्वक्पारदाहेन चान्तःसंतापो दर्शितः ॥ २९ ॥

 श्री० टी०--किं च--वेपथुश्चेति । वेपथुः कम्पः, रोमहर्षो रोमाञ्चः । स्रंसते निपतति परिदह्यते सर्वतः संतप्यते ॥ २९ ॥

न च शक्रोम्यवस्थातुं भ्रमतीव च मे मनः ॥
निमित्तानि च पश्यामि विपरीतानि केशव ॥ ३० ॥

 म० टी०--अवस्थातुं शरीरं धारयितुं च न शक्नोमीत्यनेन मूर्छा सुच्यते । तत्र हेतुः-मम मनो भ्रमतीवेति । भ्रमणकर्तृसादृश्यं नाम मनसः कश्चिद्विकारविशेषो मूर्छायाः पूर्वावस्था । चो हेतौ । यत एवमतो नावस्थातुं शक्नोमीत्यर्थः । पुनरप्यवस्थानासामर्थ्ये कारणमाह-निमित्तानि च सूचकतयाऽऽसन्नदुःखस्य विपरीतानि वामनेत्र-


स्फुरणादीनि पश्यामि अनुभवामि । अतोऽपि नावस्थातुं शक्नोमीत्यर्थः । अहमनात्मवित्त्वेन दुःखित्वाच्छोकनिबन्धनं क्लेशमनुभवामि त्वं तु सदानन्दरूपत्वाच्छोकासंसर्गीति कृष्णपदेन सूचितम् । अतः स्वजनदर्शने तुल्येऽपि शोकासंसर्गित्वलक्षणाद्विशेषात्त्वं मामशोकं कुर्विति भावः । केशवपदेन च तत्करणसामर्थ्यं को ब्रह्मा सृष्टिकर्ता, ईशो रुद्रः संहर्ता तौ वात्यनुकम्प्यतया गच्छतीति तद्व्युत्पत्तेः । भक्तदुःखकर्षित्वं वा कृष्णपदेनोक्तं केशवपदेन च केश्वादिदुष्टदैत्यनिवर्हणेन सर्वदा भक्तान्पालयसीत्यतो मामपि शोकनिवारणेन पालयिष्यसीति सूचितम् ॥ ३० ॥

 श्री० टी०--अन्यच्च-न चेति । विपरीतानि निमित्तानि अनिष्टसूचकानि शकुनानि पश्यामि ॥ ३० ॥

 म० टी०--एवं लिङ्गद्वारेण समीचीनप्रवृत्तिहेतुभूततत्त्वज्ञानप्रतिबन्धकीभूतं शोकमुक्त्वा संप्रति तत्कारितां विपरीतप्रवृत्तिहेतुभूतां विपरीतबुद्धिं दर्शयति

न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे ॥ ३१ ॥

 श्रेयः पुरुषार्थं दृष्टमद्दष्टं वा बहुविचारणादनु पश्चादपि न पश्यामि अस्वजनमपि युद्धे हत्वा श्रेयो न[३१] पश्यामि ।

"द्वाविमौ पुरुषौ लोके सूर्यमण्डलभेदिनौ ।
पारव्राड्योगयुक्तश्च रणे चाभिमुखो हतः " ॥

 इत्यादिना हतस्यैव श्रेयोविशेषाभिधानात् । हन्तुस्तु न किंचित्सुकृतम् । एवमस्वजनवधेऽपि श्रेयसोऽभावे स्वजनवधे सुतरां तदभाव इति ज्ञापयितुं स्वजनामत्युक्तम् । एवमनाहववधे श्रेयो नास्तीतिसिद्धसाधनवारणायाऽऽहव इत्युक्तम् ॥ ३१ ॥

 म० टी०----ननु मा भूदद्दष्टं प्रयोजनं दृष्टप्रयोजनानि तु विजयो राज्यं सुखानि च निर्विवादानीत्यत आहे---

न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च ॥
किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा ॥३२॥

 फलाकाङ्क्षा ह्युपायप्रवृत्तौ कारणम् । अतस्तदाकाङ्क्षाया अभावात्तदुपाये युद्धे भोजनेच्छाविरहिण इव पाकादौ मम प्रवृत्तिरनुपपन्नेत्यर्थः । कुतः पुनरितरपुरुषौरिष्यमाणेषु तेषु तवानिच्छेत्यत आह–किं न इति । भोगैः सुखैर्जीवितेन जीवितसाधनेन विजयेनेत्यर्थः । विना राज्यं भोगान्कौरवविजयं च वने निवसतामस्माकं तेनैव जगति श्लाघनीयजीवितानां किभेभिराकाङ्क्षतैरिति भावः । गोशब्दवाच्यानीन्द्रियाण्यधि-


ष्ठानतया नित्यं प्राप्तस्त्वमेव ममैहिकफलविरागं जानासीति सूचयन्संबोधयति-- गोविन्देति ॥ ३२ ॥

 म० टी०--राज्यादीनामाक्षेपे हेतुमाह-

येषामर्थे काक्षितं नो राज्यं भोगाः सुखानि च ॥
त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च॥३३॥

 एतेन स्वस्य वैराग्येऽपि स्वीयानामर्थे यतनीयमित्यपास्तम् । एकाकिनो हि राज्याद्यनपेक्षितमेव । येषां तु बन्धूनामर्थे तदपेक्षितं त एते प्राणान्प्राणाशां धनानि धनाशां च त्यक्त्वा युद्धेऽवस्थिता इति न स्वार्थः स्वीयार्थो वाऽयं प्रयत्न इति भावः । भोगशब्दः पूर्वत्र सुखपरतया निर्दिष्टोऽप्यत्र पृथक्सुखग्रहणात्सुखसाधनविषयपरः । प्राणधनशब्दौ तु तदाशालक्षकौ । स्वप्राणत्यागेऽपि स्वबन्धूनामुपभोगाय धनाशा संभवेदिति तद्वारणाय पृथग्धनग्रहणम् ॥ ३३ ॥

 म० टी०-येषामर्थै राज्याद्यपेक्षितं तेऽत्र नाऽऽगता इत्याशङ्कय तान्वि- शिनष्टि--

आचार्याः पितरः पुत्रास्तथैव च पितामहाः॥ मातुलाः श्वशुराः पौत्राः श्यालाः संबन्धिनस्तथा॥३४॥

स्पष्टम् ॥ ३४ ॥

 श्री० टी०-कं च---न चेति । स्वजनमाहवे युद्धे हत्वा श्रेयः फलं न पश्यामि । विजयादिकं फलं किं न पश्यसीति चेत्तत्राऽऽह-न काङ्क्ष इति । एतदेव प्रपञ्चयति किं न इति सार्धाभ्याम् -यदर्थमस्माकं राज्यादिकमपेक्षितं त एते प्राणधनानि त्यक्त्वा त्यागमङ्गीकृत्य युद्धार्थमवस्थिताः । अतः किमस्माकं राज्यादिभिः कृत्यमित्यर्थः ॥ ३१ ॥ ३२ ॥ ३३ ॥ ३४॥

 म० टी०-ननु यदि कृपया त्वमेतान्न हंसि तर्हि त्वामेते राज्यलोभेन हनिष्य- न्त्येवातस्त्वमेवैतान्हत्वा राज्यं भुङ्क्वेत्यत आह---

एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन ॥
अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते ॥ ३५॥


 च. झ. पुस्तकयोस्तु “ आचार्या द्रोणादयः । पितरः स्वगोत्रजाः । पुत्रा द्रौपद्यां जाताः स्वकीया अभिमन्यवादयो यो । पितामह भीष्मादयः । मातलाः शल्यशकुनिप्रभृतयः । श्वशुरा द्रुपदाद्याः । पौत्रा लक्ष्मणादिपुत्राः । श्याला धृष्टद्युम्नादयः। संबन्धिनो विवाहादिसंबन्धं प्राप्ताः । तथाईपरे बहवः स्वसेनापरसैनास्थिता योद्धार उभयोः सेनयोर्मध्ये मदीया एव । अतो न योत्स्यामीति भावः" इति व्याख्यानं वर्तते ।  त्रैलोक्यराज्यस्यापि हेतोस्तत्प्राप्त्यर्थमपि अस्मान्घ्नतोऽप्येतान्न हन्तुमिच्छामीच्छामपि न कुर्यामहं किं पुनर्हन्यां, महीमात्रप्राप्तये तु न हन्यामिति किमु वक्तव्यमित्यर्थः । मधुसूदनेति संबोधयन्वैदिकमार्गप्रवर्तकत्वं भगवतः सूचयति ॥ ३९ ॥

 म० टी०-नन्वन्यान्विहाय धार्तराष्ट्रा एवं हन्तव्यास्तेषामत्यन्तक्रूरतरतत्तद्दुःखदातृणां वधे प्रीतिसंभवादित्यत आह-

निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याजनार्दन ॥
पापमेवाऽऽश्रयेस्मान्हत्वैतानाततायिनः ॥ ३६॥

 धार्तराष्ट्रान्दुर्योधनादीन्भ्रातृन्निहत्य स्थितनामस्माकं का प्रीतिः स्यात्, न काऽपीत्यर्थः । नहि मूढजनोचितक्षणमात्रवर्तिसुखाभासलोभेन चिरतरनरकयातनाहेतुर्बन्धुवधोऽस्माकं युक्त इति भावः । जनार्दनेतिसंबोधनेन यदि वध्या एते तर्हि त्वमेवैताञ्जहि प्रलये सर्वजनहिंसकत्वेऽपि सर्वपापासंसर्गित्वादिति सूचयति । ननु--

"अग्निदो गरदश्चैव शस्त्रपाणिर्धनापहः ।
क्षेत्र[३२] [३३]दारापहारी च षडेते आततायिनः" ॥

 इति स्मृतेरेतेषां च सर्वप्रकारैराततायित्वात्,

आततायिनमायान्तं हन्यादेवाविचारयन् ।
नाऽऽततायिवधे दोषो हन्तुर्भवति कश्चन " ॥

 इति वचनेन दोषाभावप्रतीतेर्हन्तव्या एवं दुर्योधनादय आततायिन इत्याशङ्कयाऽऽह-पापमेवेति । एतानाततायिनोऽपि हत्वा स्थितानस्मान्पापमाश्रयेदेवेति संबन्धः । अथवा पापमेवाऽऽश्रयेन्न किंचिदन्यद्दष्टमद्दष्टं वा प्रयोजनमित्यर्थः । “न हिंस्यात् ' इति धर्मशास्त्रादाततायिने हन्यादित्यर्थशास्त्रस्य दुर्बलत्वात् । तदुक्तं याज्ञवल्क्ये न----

"स्मृत्योर्विरोधे न्यायस्तु बलवान्व्यवहारतः ।
अर्थशास्त्रात्तु बलवद्धर्मशास्त्रमिति स्थितिः "इति ॥

 अपरा व्याख्या--ननु धार्तराष्ट्रान्घ्नतां भवतां प्रीत्यभावेऽपि युष्मान्घ्नतां धार्तराष्ट्राणां प्रीतिरस्त्येवातस्ते युष्मान्हन्युरित्यत आह-पापमेवेति । अस्मान्हत्वा स्थितानेतानाततायिनो धार्तराष्ट्रान्पूर्वमपि पापिनः सांप्रतमपि पापमेवाऽऽश्रयेन्नान्यत्किंचित्सुस्वमित्यर्थः । तथा चायुध्यतोऽस्मान्हत्वैत एव पापिनो भविष्यन्ति नास्माकं काऽपि क्षतिः पापासंबन्धादित्यभिप्रायः ॥ ३६ ॥


 म० टी०-फलाभावादनथसंभवाञ्च परहिंसा न कर्तव्येति नच श्रेयोऽनुपश्यामीत्यारन्योक्तं तदुपसंहति--

तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रा[३४]न्स्वबान्धवान् ।
स्वजनं हि कथं हत्वा सुखिनः स्याम माधव ॥ ३७॥

 अदृष्टफलाभावोऽनर्थसंभवश्च तच्छब्देन परामृश्यते । दृष्टसुखभावमाह-स्वजनं इति । माधवेति लक्ष्मीपतित्वान्नालक्ष्मीके कर्मणि प्रवर्तयितुमर्हसीति भावः ॥ ३७॥

 श्री०टी०-ननु यदि कृपया त्वमेतान्न हंसि तर्हि त्वामेते राज्यलोभेन हनिष्यन्त्येवातस्त्वमेवैतान्हत्वा राज्यं भुड्क्ष्व तत्राऽऽह सार्धेन-एतानिति । घ्नतोऽप्यस्मान्घातयतोऽपि एतान्त्रैलोक्यराज्यस्यापि हेतोस्तत्प्राप्त्यर्थमम्यहं हन्तुं नेच्छामि के पुनर्महीमात्रप्राप्त्यर्थमित्यर्थः । ननु च-

"अग्निदो गरदश्चैव शस्त्रपाणिर्धनापहः ।
क्षेत्रदा[३५]रापहत च षडेते आततायिनः "॥

 इति स्मरणादग्निदत्वादिभिः षड्भिरपि हेतुभिरेते तावदाततायिनः । आततायिनां च वधो युक्त एव, "आततायिनमायान्तं हन्यादेवाविचारयन् । नाऽऽततायिवधे दोष हन्तुर्भवति कश्चन "॥

 इति वचनात्तत्राऽऽह सार्थेन-पापमिति । आततायिनमायान्तमित्यादिकमर्थ- शास्त्रं हि । तच्च धर्मशास्त्रादुर्बलम् । यथोक्तं याज्ञवल्क्येन--

"स्मृत्योर्विरोधे न्यायस्तु बलवान्व्यवहारतः ।
अर्थशास्त्राच्च बलवद्धर्मशास्त्रमिति स्थितिः ॥

 तस्मादाततायिनामप्येतेषामाचार्यादीनां वधेऽस्माकं पापमेव भवेत् , अन्याय्यत्वाद्धर्मैत्वाच्चैतद्वधस्य । नचेह सुखं स्यादित्याह-स्वजनं हीति ॥३५॥३६॥३७॥

 म० टी०--कथं तर्हि परेषां कुलक्षये स्वजनाहिंसायां च प्रवृत्तिस्तत्राऽऽह---

यद्यप्येते न पश्यन्ति लोभोपहतचेतसः ॥
कुलक्षयकृतं दोष मित्रद्रोहे च पातकम् ॥ ३८ ॥

लोभोपहतबुद्धित्वात्तेषां कुलक्षयादिनिमित्तदोषप्रतिसंधनाभावात्प्रवृत्तिः संभवतीत्यर्थः । अत एव भीष्मादीनां शिष्टानां बन्धुवधे प्रवत्तत्वाच्छिष्टाचारत्वेन वेदमूलत्वादितरेषामपि तत्प्रवृत्तिरुचितेत्यपास्तं हेतुदर्शनाच्चेतिन्यायात् । तत्र हि लोभादिहेतुद-


र्शने वेदमूलत्वं न कल्प्यत इति स्थापितम् । यद्यप्येते न पश्यन्ति तथाऽपि कथमस्माभिर्न ज्ञेयमित्युत्तरश्लोकेन संबन्धः ॥ ३८ ॥

 म० टी०- ननु यद्यप्येते लोभात्प्रवृत्तास्तथाऽपि आहूतो न निवर्तेत द्युतादपि रणादपीति विजितं क्षत्रियस्येत्यादिभिः [च } क्षत्रियस्य युद्धं धर्मो युद्धार्जितं च धर्म्यं धनमिति धर्मशास्त्रे निश्चयाद्भवतां च तैराहूतत्वाद्युद्धे प्रवृत्तिरुचितैवेति श[३६] ङ्कयाऽऽहं---

कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम् ॥
कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन ॥ ३९ ॥

 अस्मात्पापाद्बन्धुवधफलकयुद्धरूपात् । अयमर्थः---श्रेयःसाधनताज्ञानं हि प्रवतकं, श्रेयश्च तद्यदश्रेयोननुबन्धि, अन्यथा श्येनादीनामपि धर्मत्वापत्तेः। तथा चोक्तं--

फलतोऽपि च यत्कर्म नानर्थेनानुबध्यते ।
केवलप्रीति हेतुत्वात्तद्धर्म इति कथ्यते " इति ॥

 ततश्चाश्रेयोनुबन्धितया शास्त्रप्रतिपादितेऽपि श्येनादाविवास्मिन्युद्धेऽपि नास्माकं प्रवृत्तिरुचितेति ॥ ३९ ॥

 श्री० टी०-- ननु तवैतेषामपि बन्धुवधदोषे समाने सति यथैवैते बन्धुवधदोषमङ्गीकृत्य युद्धे प्रवर्तन्ते तथैव भवानपि प्रवर्तता किमनेन विषादेनेत्यत आह द्वाभ्याम्यद्यपीति । राज्यलोभेनोपहतं भ्रष्टविवेकं चेतो येषां त एते दुर्योधनादयो यद्यपि दोष न पश्यन्ति तथाऽप्यस्माभिर्दोषं प्रपश्यद्भिरस्मात्पापान्निवर्तितुं कथं न ज्ञेयम्, निवृत्तावैव बुद्धिः कर्तव्येत्यर्थः ॥ ३८ ॥ ३९ ॥

 म० टी०--एवं च विजयादीनामश्रेयस्त्वेनानाकाङ्क्षितत्वान्न तदर्थं प्रवर्तितव्यमिति द्रढयितुमनर्थानुबन्धित्वेनाश्रेयस्त्वमेव प्रपञ्चयन्नाह--

कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः ॥
धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत ॥ ४० ॥

 सनातनाः परम्पराप्राप्ताः कुलधर्माः कुलोचिता धर्माः कुलक्षये प्रणश्यन्ति कर्तुरभावात् । उतापि अग्निहोत्राद्यनुष्ठातृपुरुषनाशेन धर्मे नष्टे जात्यभिप्रायमेकवचनम्, अवशिष्टं बालादिरूपं कृत्स्नमपि कुलमधर्मोऽभिभवति स्वाधीनत्या व्याप्नोति । उतशब्दः कृत्स्नपदेन संबध्यते ॥ ४० ॥

 श्री० टी०-तमेव दोषं दर्शयति-कुलक्षय इति । सनातनाः परम्पराप्राप्ताः । उतापि कृत्स्नमपि अवशिष्टं कुलमधर्मोऽभिभवति व्याप्नोति ॥ ४० ॥


अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रियः ॥
स्त्रीषु दुष्टासु वाष्र्णेय जायते वर्णसंकरः ॥ ४१ ॥

 म० टी०-अस्मदीयैः पतिभिर्धर्ममतिक्रम्य कुलक्षयः कृतश्चैदस्माभिरपि व्यभि- चारे कृते को दोषः स्यादित्येवं कुतर्कहताः कुलस्त्रियः प्रदुष्येयुरित्यर्थः । अथवा कुल- क्षयकारिपतितपतिसंबन्धादेव स्त्रीणां दुष्टत्वम् । “आ शुद्धेः संप्रतीक्ष्यो हि महापा- तकदूषितः " इत्यादिस्मृतेः ॥ ४१ ॥

 श्री० टी०-–ततश्च-अधर्माभिभवादिति ॥ ४१ ॥

संकरो नरकायैव कुलघ्नानां कुलस्य च ॥
पतन्ति पितरो ह्येषां लुप्तपिण्डोद्कक्रियाः ॥ ४२ ॥

 म० टी०-कुलस्य संकरश्च कुलघ्नानां नरकायैव भवतीत्यन्वयः । न केवलं कुलघ्नामेव नरकपातः किं तु तत्पितॄणामपत्याह-पतन्तीति । हिशब्दोऽभ्यर्थे हेतौ वा । पुत्रादीनां कर्तृणामभावाल्लुप्ता पिण्डस्योदकस्य च क्रिया येषां ते तथा । कुलघ्नानां पितरः पतन्ति नरकायैवेत्यनुषङ्गः ॥ ४२ ॥

 श्री० टी०–एवं च सति-संकर इति । एषां कुलघ्नानां पितरः पतन्ति । हि यस्माल्लुप्ता पिण्डोदकक्रिया येषां ते ॥ ४२ ॥

दोषैरेतैः कुलघ्नानां वर्णसंकरकारकैः ॥
उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः ॥ ४३ ॥

 म० टी०–जातिधर्माः क्षत्रियत्वादिनिबन्धना: कुलधर्मा असाधारणाश्च । एतैर्दोषैरुत्साद्यन्त उत्सन्नाः क्रियन्ते विनाश्यन्त इत्यर्थः ॥ ४३ ॥

 श्री० टी०–उक्तं दोषमुपसंहरति द्वाभ्याम्-दोषैरिति । उत्साद्यन्ते लुप्यन्ते जातिधर्मा वर्णधर्माः कुलधर्माश्च । चकारादाश्रमधर्मादयोऽपि गृह्यन्ते ॥ ४३ ॥

उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन ॥
नरके नियतं वासो भवतीयनुशुश्रुम ॥ १४ ॥

 म० टी०-ततश्च प्रेतत्वपरावृत्तिकारणाभावान्नरक एव निरन्तरं वासो भवति ध्रुवमित्यनुशुश्रुमाऽऽचार्याणां मुखाद्वयं श्रुतवन्तो न स्वाभ्यूहेन कल्पयाम इति पूर्वोक्तस्यैव दृढीकरणम् ॥ ४४ ॥  श्री० टी०---उत्सन्नेति । उत्सन्नाः कुलधर्मा येषां ते तथा तेषाम् । उत्सन्नकुलधर्माणामिति उत्सन्नजातिधर्मादीनामप्युपलक्षणम् । अनुशुश्रुम श्रुतवन्तो वयम् ।

"प्रायश्चित्तमकुर्वाणाः पापेषु निरता नराः ।
अपश्चात्तापिनः कष्टान्निरयान्यान्ति दारुणान् "॥

 इत्यादिवचनेभ्यः ॥ ४४ ॥

 म० टी०-बन्धुवधपर्यवसायी युद्धाध्यवसायोऽपि सर्वथा पापिष्ठतरः किं पुनर्युद्धमिति वक्तुं तदध्यवसायेनाऽऽत्मानं शोचन्नाह-

अहो बत महत्पापं कर्तुं व्यवसिता वयम् ॥
यद्वाज्यसुखलोभेन हन्तुं स्वजनमुद्यताः ॥ ४५ ॥

 यदीदृशीं ते बुद्धिः कुतस्तर्हि युद्धाभिनिवेशेनाऽऽगतोऽसीति न वक्तव्यमविमृश्य- कारितया मयौद्धत्यस्य कृतत्वादिति भावः ॥ ४९ ॥

 श्री० टी०–बन्धुवधव्यवसायेन संतप्यमान आह-अहो इति । स्वजनं हन्तुमुद्यता इति यत्, एतन्महत्पापं कर्तुमध्यवसायं कृतवन्तो वयम्, अहो बत कष्टमित्यर्थः ॥ ४५ ॥

 म० टी०–ननु तव वैराग्येऽपि भीमसेनादीनां युद्धोत्सुकत्वाद्बन्धुवधो भविष्यत्येव त्वया पुनः किं विधेयमित्यत आह--

यदि मामप्रतीकारमशस्त्र शस्रपाणयः ॥
धार्तराष्ट्रा रणे हन्युस्तन्मे क्षे[३७]मतरं भवेत् ॥ ४६॥

 प्राणादपि प्रकृष्टो धर्मः प्राणभृतामहिंसा, पापानिष्पत्तेः । तस्माज्जीवनापेक्षया मरणमेव मम क्षेमतरमत्यन्तं हितं भवेत् । प्रियतरमिति पाठेऽपि स एवार्थः । अप्रतीकारं स्वप्राणत्राणाय व्यापारमकुर्वाणं बन्धुवधाध्यवसायमात्रेणापि प्रायश्चित्तान्तररहितं वा । तथाच प्राणान्तप्रायश्चित्तेनैव शुद्धिर्भविष्यतीत्यर्थः ॥ ४६ ॥

 श्री० टी०--एवं संतप्तः सन्मृत्युमेवाऽऽशासन आह-यदीति । अकृतप्रतीकारं तूष्णीमुपविष्टं मां यदि हनिष्यन्ति तर्हि तद्धननं मम क्षेमतरमत्यन्तं हितं भवेत्पापानिष्पत्तेः ॥ ४६ ॥


अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रियः ॥
स्त्रीषु दुष्टासु वाष्र्णेय जायते वर्णसंकरः ॥ ४१ ॥

 म० टी०-अस्मदीयैः पतिभिर्धर्ममतिक्रम्य कुलक्षयः कृतश्चैदस्माभिरपि व्यभिचारे कृते को दोषः स्यादित्येवं कुतर्कहताः कुलस्त्रियः प्रदुष्येयुरित्यर्थः । अथवा कुलक्षयकारिपतितपतिसंबन्धादेव स्त्रीणां दुष्टत्वम् । “अ शुद्धेः संप्रतीक्ष्यो हि महापातकदूषितः " इत्यादिस्मृतेः ॥ ४१ ॥

 श्री० टी०-ततश्च–अधर्माभिभवादिति ॥ ४१ ॥

सेकरो नरकायैव कुलप्नानां कुलस्य च ॥
पतन्ति पितरो येषां लुप्तपिण्डोदकक्रियाः ॥ १२ ॥

 म० टी०-कुलस्य संकरश्च कुलझानां नरकायैव भवतीत्यन्वयः । न केवलं कुलझानामेव नरकपातः किं तु तत्पितॄणामपत्याह-पतन्तीति । हिशब्दोऽप्यर्थे हेतौ वा । पुत्रादीनां कर्तृणामभावाल्लुप्ता पिण्डस्योदकस्य च क्रिया येषां ते तथा । कुलघ्नान पितरः पतन्ति नरकायैवेत्यनुषङ्गः ॥ ४२ ॥

 श्री० टी०एवं च सति-संकर इति । एषां कुलघ्नानां पितरः पतन्ति । हि यस्मालुप्ता पिण्डोदकक्रिया येषां ते ॥ ४२ ॥

दोषैरेतैः कुलम्नानां वर्णसंकरकारकैः ॥
उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः ॥ ४३ ॥

 म० टी०---जातिधर्माः क्षत्रियत्वादिनिवन्धना: कुलधमा असाधारणाश्च । एतैयन्तेषैरुत्साद्यन्त उत्सन्नाः क्रियन्ते विनाश्यन्त इत्यर्थः ॥ ४३ ॥

 श्री० टी०-उक्तं दोपमुपसंहरति द्वाभ्याम्-दोपैरिन् । उत्साद्यन्ते लुप्यन्ते जातिधर्मा वर्णधर्माः कुलधर्माश्च । चकारादाश्रमधर्मादयोऽपि गृह्यन्ते ॥ ४३ ॥

उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन ॥
नरके नियतं वासो भवतीत्यनुशुश्रुम ॥ ४४ ॥

 म० टी०–ततश्च प्रेतत्वपरावृत्तिकारणाभवान्नरक एव निरन्तर वाम भवति ध्रुवमित्यनुशु[३८]श्रृंमाऽऽचार्याणां मुखाद्यं श्रुतवन्तो न स्वाभ्यूहेन कल्पयाम इति पूर्वोक्तस्यैव दृढीकरणम् ॥ ४४ ॥


 श्री० टी०--उत्सनेति । उत्सन्नाः कुलधर्मा येषां ते तथा तेषाम् । उत्सचकुलधर्माणामिति उत्सन्नजातिधर्मादीनामप्युपलक्षणम् । अनुशुश्रुम श्रुतवन्तो वयम् ।

"प्रायश्चित्तमकुर्वाणाः पापेषु निरता नराः ।
अपश्चात्तापनः कष्टान्निरयान्यान्ति दारुणान् " ॥

 इत्यादिवचनेभ्यः ॥ ४४ ॥

 म० टी०-बन्धुवधपर्यवसायी युद्धाध्यवसायोऽपि सर्वथा पापिष्ठतरः किं पुनर्यु- द्धमिति वक्तुं तदध्यवसायेनाऽऽत्मानं शोचनाह-

अहो बत महत्पापं कर्तुं व्यवसिता वयम् ॥
यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः ॥ ४५ ॥

 यदीदृशी ते बुद्धिः कुतस्तहि युद्धाभिनिवेशेनाऽऽगतोऽसीति न वक्तव्यमविमृश्यकारितया मयौद्धत्यस्य कृतत्वादिति भावः ॥ ४५ ॥

 श्री० टी०-बन्धुवधव्यवसायेन संतप्यमान आह----अहो इति । खननं हन्तुमुद्यता इति यत्, एतन्महत्पापं कर्तुमध्यवसायं कृतवन्तो वयम्, अहो बत कष्टमित्यर्थः ॥ ४६ ॥

 म० ट०-ननु तव वैराग्येऽपि भीमसेनादीनां युद्धोत्सुकत्वाइन्धुवधो भविष्य- त्येव त्वया पुनः किं विधेयमित्यत आह-

यदि मामप्रतीकारमशस्त्रं शम्रपाणयः ।
धार्तराष्ट्रा रणे न्युस्तन्मे क्षे[३९]मतरं भवेत् ॥ ४६॥

 प्राणादपि प्रकृष्टो धर्मः प्राणभृतामहिंसा, पापानिष्पत्तेः । तस्माज्जीवनापेक्षया मरणमेव मम क्षेमतरमत्यन्तं हितं भवेत् । प्रियतरमिति पाठेऽपि स एवार्थः । अप्रतीकारं स्वप्राणत्राणाय व्यापारमकुर्वाणं बन्धुवधाध्यवसायमात्रेणापि प्रायश्चित्तान्तररहितं वा । तथाच प्राणान्तप्रायश्चित्तेनैव शुद्धिभविष्यतीत्यर्थः ॥ ४६ ॥

 श्री० टी०--एवं संतप्तः सन्मृत्युमेवाऽऽशासन आह-यदीति । अकृतप्रतीकारं तुमुपविष्टं मां यदि हनिष्यन्ति तर्हि तद्धननं मम क्षेमतरमत्यन्तं हितं भवेत्पा-पत्तेः ॥ १६ ॥


 म० टी०–ततः किं वृत्तमित्यपेक्षायाम् -

संजय उवाच-
 एवमुक्त्वाऽर्जुनः संख्ये रथोपस्थ उपाविशत् ॥
 विसृज्य सशरं चापं शोकसंविग्नमानसः ॥ ४७ ॥

इति श्रीमहाभारते शतसाहस्यां संहितायां वैयासि-

क्यां भीष्मपर्वणि श्रीमद्भगवद्गीतासूपनिषत्सु

ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसं-

वादेऽर्जुनविषादयोगो नाम प्रथ-

मोऽध्यायः ॥ १ ॥

 संख्ये सङ्ग्रामे रथोपस्थे रथस्योपर्युपविवेश । पूर्वं युद्धार्थमवलोकनार्थं चोत्थितः सशोकेन संविग्नं पीडितं मानसं यस्य सः ॥ ४७ ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यविश्वेश्वर सरस्वतीश्रीपादशिष्यश्रीमधुसूदनसरस्वतीविरचितायां श्रीमद्भगवद्गीतागूढार्थदीपिकायां प्रथमोऽध्यायः ॥ १ ॥

 श्री० टी०–ततः किं वृत्तमित्यपेक्षायाम्-एवमिति । संख्ये सङ्ग्रामे रथो- पस्थे रथस्योपरि उपाविशदुपविवेश ! शोकेन संविग्नं प्रकम्पितं मानसं चित्तं यस्य सः ॥ ४७ ॥

इति श्रीसुबोधिन्यां टीकायां श्रीधरस्वामिविरचितायां प्रथमोऽध्यायः ॥ १ ॥

अथ द्वितीयोऽध्यायः ।

 म० टी०--अहिंसा परमो धर्मो भिक्षाशनं चेत्येवंलक्षणया बुद्ध्या युद्धवैमृस्रयम- र्जुनस्य श्रुत्वा स्वपुत्राणां राज्यमप्रचलितमधार्य स्वस्थहृदयस्य धृतराष्ट्र हर्षनिमित्तां ततः किं वृत्तमित्याकाङ्क्षामपनिनीषुः संजयस्तं प्रत्युक्तवानित्याह वैशम्पायन:--..

संजय उवाच-
 ते तथा कृपयाऽऽविष्टमश्रुपूर्णाकुलेक्षणम् ॥
 विषीदन्तमिदं वाक्यमुवाच मधुसूदनः ॥ १॥

 कृपा ममैत इतिव्यामोहनिमित्तः स्नेहविशेषः । तयाऽऽविष्टं स्वभावसिद्धया व्याप्तम् । अर्जुनस्य कर्मत्वं कृपायाश्च कर्तुत्वं वदता तस्या आगन्तुकत्वं व्युदस्तम् । अत एव विषीदन्तं स्नेहविषयीभूतस्वजनविच्छेदाशङ्कानिमित्तः शोकापरपर्यायश्चित्तव्याकुलीभावो विषादस्तं प्राप्नुवन्तम् । अत्र विषादस्य कर्मत्वेनार्जुनस्य कर्तृत्वेन च तस्याऽऽगन्तुकत्वं सूचितम् । अत एव कृपाविषादवशादश्रुभिः पूर्णे आकुले दर्शनाक्षसे चेक्षण यस्य तम् । एवमश्रुपातव्याकुलीभावाख्यकार्यद्वयजनकतया परिपोषं गताभ्यां कृपाविषादाभ्यामुद्विग्नं तमर्जुनमिदं सोपपत्तिकं वक्ष्यमाणं वाक्यमुवाच ने तुपेक्षितवान् । मधुसूदन इति । स्वयं दुष्टनिग्रहकर्ताऽर्जुनं प्रत्याप तथैव वक्ष्यतीति भावः ॥ १ ॥

 श्री० टी०-- ततः किं वृत्तमित्यपेक्षायाम्-ते तथेति । अश्रुभिः पूर्णे आकुले इक्षणे यस्य तम् । तथोक्तप्रकारेण विषीदन्तं तमर्जुनं प्रति मधुसूदन इदं वाक्यमुयाच ॥ १ ॥

 म० टी०---तदेव भगवतो वाक्यमवतारयति--

श्रीभगवानुवाच---
 " ऐश्वर्यस्य समग्रस्य धर्मस्य यशसः श्रियः ।
 वैराग्यस्याथ मोक्षस्य षण्णां भग इतीङ्गना " ॥

 समग्रस्येति प्रत्येक संबन्धः । मोक्षस्येति तत्साधनस्य ज्ञानस्य । इङ्गना संज्ञा । एतादृशं समग्रमैश्वर्यादिकं नित्यमप्रतिबन्धेन यत्र वर्तते स भगवान् । नित्ययोंगे मतुप् ।

तथा----
 " उत्पत्तिं च विनाशं च भूतानामागतिं गतिम् ।
 वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति ॥

 [४०]अत्र भूतानामिति प्रत्येक संबध्यते । उत्पत्तिविनाशशब्दौ तत्कारणस्याप्युपलक्षकौ । गतिगती आगामिन्यौ संपदापदौ । एतादृशो भगवच्छब्दार्थः श्रीवासुदेव एव पर्यवसित इति तथोच्यते ॥

कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् ॥
अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन ॥ २ ॥

 इदं स्वधर्मात्पराङ्मुखत्वं कृपाव्यामोहाश्रुपातादिपुरःसरे कश्मलं शिष्टगर्हितत्वेन मलिनं विषमे समये स्थाने त्वा त्वां सर्वक्षत्रियप्रवरं कुतो हेतोः समुपस्थितं प्राप्तम् । कि मोक्षेच्छातः, किं वा स्वच्छातः, अथवा कीर्तच्छात इति किंशब्देनाऽऽक्षिप्यते । हेतुत्रयमपि निषेधति त्रिभिर्विशेषणैरुत्तरार्धेन । आर्यैर्मुमुक्षुभिर्न जुष्टमसेवितं स्वधर्मैराश-


यशुद्धिद्वारा मोक्षामिच्छद्भिरपक्वकषायैर्मुमुक्षुभिः कथं स्वधर्मस्त्याज्य इत्यर्थः । संन्यासाधिकारी तु पक्वकषायोऽग्रे वक्ष्यते । अस्वर्ग्यं स्वर्गहेतुधर्मविरोधित्वान्न स्वर्गेच्छया सेव्यम् । अकीर्तिकर कीर्त्यभावकरमपकीर्तिकरं वा न कीर्तीच्छया सेव्यम् । तथा च मोक्षकामैः स्वर्गकामैः कीर्तिकामैश्च वर्जनीयं, तत्काम एव त्वं सेवस इत्यहो अनुचितं चेष्टितं तवेति भावः ॥ २ ॥

 श्री० टी०-तदेव वाक्यमाह-कुत इति । कुतो हेतोः । त्वेति । त्वाम् । विषमे[४१] संक[४२]ट इदं कश्मलं समुपस्थितमयं मोहः प्राप्तः । यत आर्यैरसेवितमस्वर्ग्यमधर्म्यमयशस्करं च ॥ २ ॥

 म० टी०-ननु बन्धुसेनावेक्षणजीतेनाधैर्येण धनुरपि धारयितुमशक्नुवता मया किं कर्तुं शक्यमित्यत आह--

क्लैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते ॥
क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परंतप ॥ ३ ॥

 क्लैब्यं क्लीवभावमधैर्यमोजस्तेजआदिभङ्ग रूपं मा स्म गमो मा गा हे पार्थ पृथातनय । पृथया देवप्रसादलब्धे तत्तनयमात्रे वीर्यातिशयस्य प्रसिद्धत्वात्पृथातनयत्वेन त्वं क्लैव्यायोग्य इत्यर्थः । अर्जुनत्वेनापि तदयोग्यत्वमाह-नैतदिति । त्वयि अर्जुने साक्षान्महेश्वरेणापि सह कृताहवे प्रख्यातमहाप्रभावे नोपपद्यते न युज्यत एतत्क्लैब्यमित्य साधारण्येन तदयोग्यत्वनिर्देशः। ननु न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः' इति पूर्वमेव मयोक्तमित्याशङ्कयाऽऽ--- क्षुद्रमिति । हृदयदौर्बल्यं मनो भ्रमणादिरूपमधैय< क्षुद्रत्वकारणत्वात्क्षुद्रं सुनिरसने वा त्यक्त्वा विवेकेनापनीयोत्तिष्ठ युद्धाय सज्जो भव हे परंतप परं शत्रु तापयतीति तथा संबोध्यते हेतुगर्भम् ॥ ३ ॥

 श्री० टी०-तस्मात्-क्लैब्यमिति । हे पार्थ क्लैब्यं कातर्यं मा स्म गमो न प्राप्नुहि । यतस्त्वय्येतन्नोपपद्यते योग्यं न मवति । क्षुद्रं तुच्छं दृदयदौर्बल्यं कातर्यं त्यक्त्वा युद्धायोत्तिष्ठ हे परंतप शत्रुतापन ॥ ३ ॥

 म० टी०---ननु नायं स्वधर्मस्य त्यागः शोकमोहादिवशात्किंतु धर्मत्वाभावादधर्मत्वाच्चास्य युद्धस्य त्यागो मया क्रियत इति भगवदभिप्रायमप्रतिपद्यमानस्यार्जुनस्याभिप्रायमवतारयति--

अर्जुन उवाच-
 कथं भीष्ममहं संख्ये द्रोणं च मधुसूदन ॥
 इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन ॥ ४ ॥


 भीष्मं पितामहं द्रोणं चाऽऽचार्यं संख्ये रण इषुभिः सायकैः प्रतियोत्स्यामि प्रहरिष्यामि कथं, न कथंचिदपीत्यर्थः । यतस्तौ पूजार्हौ कुसुमादिभिरर्चनयोग्यौ । पूजार्हाभ्यां सह क्रीडास्थानेऽपि वाचाऽपि हर्षफलकमपि लीलायुद्धमनुचितं किं पुनर्युद्धभूमौ शरैः प्राणत्यागफलकं प्रहरणमित्यर्थः । मधुसूदनारिसूदनेति संबोधनद्वयं शोकव्याकुलत्वेन पूर्वीपरपरामर्शवैकल्यात् । अतो न मधुसूदनारिसूदनेत्यस्यार्थस्य पुनरुक्तत्वं दोषः । युद्धमात्रमपि यत्र नोचितं दूरे तत्र वध इति प्रतियोत्स्यामीत्यनेन सूचितम् । अथवा पूजार्हौ कथं प्रतियोत्स्यामि । पूजार्ह्योरेव विवरणं भीष्म द्रोणं चेति । द्वौ ब्राह्मणौ भोजय देवदत्तं यज्ञदत्तं चेतिवत्संबन्धः । अयं भावः-दुर्योधनादयो नापुरस्कृत्य भीष्मद्रोणौ युद्धाय सज्जी भवन्ति । तत्र ताभ्यां सह युद्ध न तावद्धर्मः पूजादिवदविहितत्वात् । न चायमनिषिद्धत्वादधर्मोऽपि न भवतीति वाच्यम् । "गुरुं हुंकृत्य[४३] त्वंकृत्य " इत्यादिना शब्दमात्रेणापि गुरुद्रोहो यदाऽनिष्टफलत्वप्रदर्शनेन निषिद्धस्तदा किं वाच्यं ताभ्यां सह सङ्ग्रामस्याधर्मत्वे निषिद्धत्वे चेति॥४॥

 श्री० टी०–नाहं कात[४४]र्येण युद्धापरतोऽस्मि किंतु युद्धस्यान्याय्यत्वादिति--- कथमिति । भीष्मद्रोणौ पूजायामर्हौ योग्यौ तौ प्रति कथमहं योत्स्यामि तत्रापीषुभिः । यत्र वाचाऽपि योत्स्यामीति वक्तुमनुचितं तत्र बाणैः कथं योत्स्यामीत्यर्थः । हेऽरिसूदन शत्रु[४५]निर्दलन ॥ ४ ॥

 म० टी०-ननु भीष्मद्रोणयोः पूजार्हत्वं गुरुत्वेनैव, एवमन्येषामपि कृपादीनां, न च तेषां गुरुत्वेन स्वीकारः सांप्रतमुचितः--

"गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः ।
उत्पथप्रतिपन्नस्य परित्यागो विधीयते" ॥

इति स्मृतेः, तस्मादेषां युद्धगर्वेणावलिप्तानामन्यायराज्यग्रहणेन शिष्यद्रोहेण च कार्याकार्यविवेकशून्यानामुत्पथनिष्ठानां वध एव श्रेयानित्याशङ्कयाऽऽह-

गुरूनहत्वा हि महानुभावा-
 ञ्छ्रेयो भोक्तुं भै[४६]क्षमपीह लोके ॥
हवाऽर्थकामांस्तु गुरूनिहैव।
 भुञ्जीय भोगान्रुधिरप्रदिग्धान् ॥ ५ ॥


 गुरूनहत्वा परलोकस्तावदस्त्येव । अस्मिस्तु लोके तैर्हतराज्या[४७]नां नो नृपादीनां निषिद्ध भैक्ष[४८] मपि भोक्तं श्रेयः प्रशस्यतरमुचितं न तु तद्वधेन राज्यमपि श्रेय इति [४९]धर्भेऽपि युद्धे वृत्तिमात्रफलत्वं गृहीत्वा पापमारोप्य ब्रूते । नन्ववलिप्तत्वादिना तेषां गुरुत्वाभाव उक्त इत्याशङ्कयाऽऽह-महानुभावानिति । महाननुभावः श्रुताध्ययनतपआचारादिनिबन्धनः प्रभावो येषां तान् । तथा च कालकामादयोऽपि यैर्वशीकृतास्तेषां पुण्यातिशयशालिनी नावलिप्तत्वादिक्षुद्रपाप्मसंश्लेष इत्यर्थः । हिमहानुभावानित्येकं वा पदं, हिमं जाड्यमपहन्तीति हिमह आदित्योऽग्निर्वा तस्येवानुभावः सामर्थ्यं येषां तान् । तथा चातितेजस्वित्वात्तेषामवलिप्तत्वादिदोषो नास्येव ।

"धर्मव्यतिक्रमो दृष्ट ईश्वराणां च साहसम् ।
तेजीयसां न दोषाय वह्नेः सर्वभुजो यथा इत्युक्तेः ॥

 ननु यदाऽर्थलुब्धाः सन्तो युद्धे प्रवृत्तास्तदैषां विक्रीतात्मनां कुतस्त्यं पूर्वोक्तं माहात्म्यं, तथा चोक्तं भीष्मेण युधिष्ठिरं प्रति--

"अर्थस्य पुरुषो दासो दासत्वर्थो न कस्यचित् ।
इति सत्यं महाराज बद्धोऽस्म्यर्थेन कौरवैः

 इत्याशङ्कयाऽऽह---हत्वेति । अर्थलुब्धा अपि ते मदपेक्षया गुरुवो भवन्त्येवेति पुनर्गुरुग्रहणेनोक्तम् । तुशब्दोऽप्यर्थे । ईदृशानपि गुरून्हत्वा भोगानेव भुञ्जीय नतु मोक्षं लभेय । भुज्यन्त इति भोगा विषयाः कर्मणि घन् । ते च भोगा इहैव न परलोके । इहापि च रुधिरप्रदिग्धा इवापयशोव्याप्तत्वेनात्यन्तजुगुप्सिता इत्यर्थः । यदेहाप्येवं तदा परलोकदुःस्वं कियद्वर्णनीयमिति भावः । अथवा गुरून्हत्वाऽर्थकामात्मकान्भोगानेव भुञ्जीय नतु धर्ममोक्षावित्यर्थकामपदस्य भोगविशेषणतया व्याख्यानान्तरं द्रष्टव्यम् ॥ ५ ॥

 श्री० टी०---तहिं तव देहयात्राऽपि न स्यादिति चेत्तत्राऽऽह--- गुरूनिति । गुरून्द्रोणादीनहत्वा परलोकविरुद्धो गुरुवधस्तमकृत्वेह लोके भिक्षान्नमपि भोक्तुं श्रेय उचितम् । विपक्षे तु न केवलं परत्र दुःखमिहैव तु नरकदुःखमनुभवेयमित्याह----इवेति । गुरून्हत्वेनैव तु रुधिरेण प्रदिग्धान्प्रकर्षेण लिप्तानर्थकामात्मकान्भोगानहं भुञ्जीयाश्नीयाम् । यद्वा-अर्थकामानिति गुरूणां विशेषणम् । अर्थतृष्णाकुलत्वादेते तावद्युद्धान्न निवर्तेरन् । तस्मादेतद्वधः प्रसज्येतैवेत्यर्थः । तथाच युधिष्ठिरं प्रति भीष्मेणोक्तम्----


अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्यचित् ।
इति सत्यं महाराज बद्धोऽस्म्यर्थेन कौरवैः

 इति ॥ ५ ॥

 मे० टी०-ननु भिक्षाशनस्य क्षत्रियं प्रति निषिद्धत्वाद्युद्धस्य च विहितत्वात्स्वधर्मत्वेन युद्धमेव तव श्रेयस्करमित्याशङ्कयाऽऽह-

न चैतद्विद्मः कतरन्नो गरीयो
 यद्दा जयेम यदि वा नो जयेयुः ॥
यानेव हत्वा न जिजीविषाम-
 स्तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः ॥ ६॥

 एतदपि न जानीमो भै[५०]क्षयुद्धयोर्मध्ये कतरन्नोऽस्माकं गरीयः श्रेष्ठं किं [५१] मैक्षं हिंसाशून्यत्वादुत युद्ध स्वधर्मत्वादिति । इदं च न विद्म आरब्धेऽपि युद्धे यद्वा वयं जयेमातिशयीमहि यदि वा नोऽस्माञ्जयेयुर्धार्तराष्ट्राः । उभयोः साम्यपक्षोऽप्यर्थाद्बोद्धव्यः । किं च जातोऽपि जयो नः फलतः पराजय एव । यता यान्बन्धून्हत्वा जीवितुमपि वयं नेच्छामः किं पुनर्विषयानुपभोक्तुं त एवावस्थिताः संमुखे धार्तराष्ट्रा धृतराष्ट्रसंबन्धिनो भीष्मद्रोणादयः सर्वेऽपि । तस्माद्भै[५२]क्षाद्युद्धस्य श्रेष्ठत्वं न सिद्धमित्यर्थः । तदेवं प्राक्तनेन ग्रन्थेन संसारदोषनिरूपणादधिकारि विशेषणान्युक्तानि । तत्र “ न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे" इत्यत्र रणे हतस्य परिव्राटसमानयोगक्षेमत्वोक्तेः " अन्यच्छ्योऽन्यदुतैव प्रेयः' इत्यादिश्रुतिसिद्धं श्रेयो मोक्षाख्यमुपन्यस्तम् । अर्थाच्च तदितरदश्रेय इति नित्यानित्यवस्तुविवेको दर्शितः, न काङ्क्षे विजयं कृष्णेत्यत्रैहिकफलविरागः, अपि त्रैलोक्यराज्यस्य हेतोरित्यत्र पारलौकिकफलविरागः, नरके नियतं वास इत्यत्र स्थलदेहातिरिक्त आत्मा, किं नो राज्येनेति व्याख्यातवर्मना शमः, किं भोगैरिति दमः यद्यप्येते न पश्यन्तीत्यत्र निर्लोभता, तन्मे क्षेमतरं भवेदित्यत्र तितिक्षा, इति प्रथम यार्थः संन्याससाधनसूचनम् । अस्मिंस्त्वध्याये श्रेयो भोक्तुं भै[५३]क्षमपीत्यत्र भिक्षाचर्योपलक्षितः संन्यासः प्रतिपादितः । गुरूपसदनमिदानीं प्रतिपाद्यते समधिगतसं- सारदोषजातस्यातितरां निर्विणस्य विधिवद्रुमुपसन्नस्यैव विद्याग्रहणेऽधिकारात् ॥६॥

 श्री० टी०-किं च यद्यपि अधर्ममङ्गी करिष्यामस्तथाऽपि किमस्माकं जयः पराजयो वा भवेदिति न ज्ञायत इत्याह-न चेति । एतद्वयोर्मध्ये नोऽस्माकं कतरत्किं नाम गरीयोऽधिकतरं भवतीति न विद्मः । तदेव द्वयं दर्शयति-यद्वैतान्वयं जयेम


जेष्यामः । यदि वा नोऽस्मानेते जयेयुर्जेष्यन्तीति । किं चास्माकं जयोऽपि फलतः परा- जय एवेत्याह-यानेव हत्वा जीवितुं नेच्छामस्त एवैते संमुखेऽवस्थिताः ॥ ६ ॥

 म० टी०--तदेवं भीष्मादिसंकटवशात् “ व्युत्थायाथ भिक्षाचर्यं चरन्ति" इतिश्रुतिसिद्धभिक्षाचर्येऽर्जुनस्याभिलाषं प्रदश्य विधिवद्गुरूपसत्तिमपि तत्संकटव्याजेनैव दर्शयति-

कार्पण्यदोषापहतस्वभावः
 पृच्छामि त्वा[५४]* धर्मसंमूढचेताः ॥
यच्छ्रेयः स्यानिश्चितं ब्रूहि तन्मे
 शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् ॥ ७॥

 यः स्वल्पामपि वित्तक्षर्ति न क्षमते स कृपण इति लोके प्रसिद्धः । तद्विधत्वादखिलोऽनात्मविदप्राप्तपुरुषार्थतया कृपणो भवति । * यो वा एतदक्षरं गार्ग्यविदित्वाऽस्माल्लोकात्प्रैति स कृपणः” इति श्रुतेः । तस्य भावः कार्पण्यमनात्माध्यासवत्त्वं तन्निमित्तोऽस्मिञ्जन्मन्येत एव मदीयास्तेषु हतेषु किं जीवितेनेत्यभिनिवेशरूपो ममतालक्षणो दोषस्तेनोपहतस्तिरस्कृतः स्वभावः क्षात्रो युद्धोद्योगलक्षणो यस्य स तथा । धमें विषये निर्णायकप्रमाणादर्शनात्संमूढे किमेतेषां वधो धर्मः किमे(किं वै) तत्परिपालनं धर्मः। तथा किं पृथ्वीपरिपालनं धर्मः किं वा यथावस्थितोऽरण्यनिवास एवं धर्म इत्यादिसंशयैर्व्याप्तं चेतो यस्य स तथा । न चैताद्वैद्मः कतरन्नो गरीय इत्यत्र व्याख्यातमेतत् । एवंविधः सन्नहं त्वा त्वामिदानीं पृच्छामि श्रेय इत्यनुषङ्गः । अतो यन्निश्चितमैकान्तिकमात्यन्तिकं च श्रेयः परमपुमर्थभूतं फलं स्यात्तन्मे मह्यं ब्रूहि । साधनानन्तरम. वश्यंभावित्वमैकान्तिकत्वं, जातस्याविनाश आत्यन्तिकत्वम् । यथा ह्यौषधे कृते कदाचिद्रोगनिवृत्तिर्न भवेदपि जाताऽपि च रोगनिवृत्तिः पुनरपि रोगोत्पत्त्या विनाश्यते, एवं कृतेऽपि यागे प्रतिबन्धवशात्स्वर्गो न भवेदपि जातोऽपि स्वर्गो दुःखाक्रान्तो नश्यति चेति नैकान्तिकत्वमात्यन्तिकत्वं वा तयोः । तदुक्तम्---

"दुखत्रयाभिघाताज्जिज्ञासा तदपघातके हेतौ ॥
दृष्टे साऽपार्था चेन्नैकान्तात्यन्ततोऽ(ता)भावात् " इति ।
" दृष्टवदानुश्रविकः स ह्यविशुद्धिक्षयातिशययुक्तः ।
तद्विपरीतः श्रेयान्व्यक्ताव्यक्त[५५]ज्ञविज्ञानात् " इतिं च ॥


श्रीधरटीकादर्शपुस्तकमूले त्वामित्येव पाठः ।


 ननु त्वं मम सखा न तु शिष्योऽत आह---शिष्यस्तेऽहमिति । त्वदनुशासनयोग्यत्वादहं तव शिष्य एव भवामि न[५६] सखा न्यूनज्ञानत्वात् । अतस्त्वां प्रपन्नं शरणागतं मां शाधि शिक्षय करुणया न त्वशिष्यत्वशङ्कयोपेक्षणीयोऽहमित्यर्थः । एतेन " तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम्, " " भृगुर्वै वारुणिर्वरुणं पितरमुपससार, अधीहि भगवो ब्रह्म " इत्यादिगुरूपसत्तिप्रतिपादकः श्रुत्य दर्शितः ॥ ७ ॥

 श्री०टी०तस्मात्-कार्पण्येति । कार्पण्यदोषोपहतस्वभाव एतान्हत्वा कथं जीविष्याम इति कापण्यं, दोषश्च स्वकुलक्षयकृतस्ताभ्यामुपहतोऽभिभूतः स्वभावः शौर्यादिलक्षणो यस्य सोऽहं त्वां पृच्छामि । तथा धर्म संमूढं चेतो यस्य स युद्धं त्यक्त्वा भिक्षाटनमपि क्षत्रियस्य धर्मो वाऽधर्मों वेति संदिग्धचित्तः सन्नित्यर्थः । अतो मे यन्निश्चित श्रेयो युक्तं स्यात्तब्रूहि । किंच तेऽहं शिष्यः शासनार्हः । अतस्त्वां प्रपन्नं शरणागतं मां शाधि शिक्षय ॥ ७ ॥

 म० टी०–ननु स्वयमेव त्वं श्रेयो विचारय श्रुतसंपन्नोऽसि किं परशिष्यत्वेनेत्यत आह--

न हि प्रपश्यामि ममापनुद्या-
 घच्छोकसुच्छोषणमिन्द्रियाणाम् ॥
अवाप्य भूमावसपत्नमृद्ध
 राज्यं सुराणामपि चाऽऽधिपत्यम् ॥ ८॥

 यच्छ्रेयः प्राप्त सत्कर्ते मम शोकमपनुद्यादपनुदेन्निवारयेत्तन्न पश्यामि हि यस्मात्तस्मान्मां शाधीति सोऽहं भगवः शोचामि ते मा भगवाञ्शोकस्य पारं तारयतु " इतिश्रुत्यर्थों दर्शितः । शोकानपनोदे को दोष इत्याशङ्कय तद्विशेषणमाह-इन्द्रियाणामुच्छोषणमिति । सर्वदा संतापकरमित्यर्थः । ननु युद्धे प्रयतमानस्य तव शाकानिवृत्तिभविष्यति जेष्यसि चेत्तदा राज्यप्राप्त्या, इतरथा च स्वर्गप्राप्त्या द्रावेतौ पुरुषौ लोके " इत्यादिधर्मशास्त्रादित्याशङ्कयाऽऽह–अवाप्येत्यादिना । शत्रुवजितं सस्यादिसंपन्नं च राज्यं तथा सुराणामधिपत्यं हिरण्यगर्भवपर्यन्तमैश्वर्यमवाप्य स्थितस्यापि मम यच्छोकमपनुद्यात्तन्न पश्यामीत्यन्वयः । " तद्यथेह कर्म[५७]जितो लोकः क्षीयत एवमेवामुत्र पुण्य[५८]नितो लोकः क्षीयते " इति श्रुतेः । यत्कृतकं तदनित्यमित्यनुमानात्प्रत्यक्षेणाप्यैहिकानां विनाशदर्शनाच्च नैहिक आमुत्रिको वा भोगः शोकनि-


वर्तकः किंतु स्वसत्ताकालेऽपि[५९] भोग पारतन्त्र्यादिना विनाशकालेऽपि विच्छेदाच्छोकजनक एवेति न युद्धं शोकनिवृत्तयेऽनुष्ठेयमित्यर्थः । एतेनेहामुत्रभोगविरागोऽधिकारिविशेषणत्वेन दर्शितः ॥ ८ ॥

 श्री० टी०---त्वमेव विचार्य यद्युक्तं तत्कुर्विति चेत्तत्राऽऽह-न हीति । इन्द्रियाणामुच्छोषणमतिशोषणकरं मदीयं शोकं यत्कर्मापनुद्यादपनयेत्तदहं न प्रपश्यामि । यद्यपि भूमौ निष्कण्टकं समृद्धं राज्यं प्राप्स्यामि तथा सुरेन्द्रत्वमपि यदि प्राप्स्यामि एवमभीष्टं तत्सर्वमवाप्यापि शोकापनोदनोपायं न प्रपश्यामीत्यन्वयः ॥ ८ ॥

 म० टी०--तदनन्तरमर्जुनः किं कृतवानिति धृतराष्ट्राकाङ्क्षायाम्---

संजय उवाच--.
 एवमुक्त्वा हृषीकेशं गुडाकेशः [६०] परंत[६१]पः ॥
 न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह ॥९॥

गुडाकेशो जितालस्यः परंतपः शत्रुतापनोऽर्जुनो हृषीकेशं सर्वेन्द्रियप्रवर्तकत्वेनान्तर्यामिणं गोविन्दं गां वेदलक्षणां वाणी विन्दतीति व्युत्पत्या सर्ववेदोपादानत्वेन सर्वज्ञमादावेवं कथं भीष्ममहं संख्य इत्यादिना युद्धस्वरूपायोग्यतामुक्त्वा तदनन्तरं न योत्स्य इति युद्धफलाभावं चोक्त्वा तूष्णीं बभूव बाह्येन्द्रियव्यापारस्य युद्धार्थं पूर्वं कृतस्य निवृत्त्या निर्व्यापारो जात इत्यर्थः । स्वभावतो जितालस्ये सर्वशत्रुतापने च तस्मिन्नागन्तुकमालस्यमतापकत्वं च नाऽऽस्पदमाधास्यतीति द्योतयितुं हशब्दः । गोविन्दत्दृषीकेशपदाभ्यां सर्वज्ञत्वसर्वशक्तित्वसूचकाभ्यां भगवतस्तन्मोहापनोदनमनायाससाध्यमिति सूचितम् ॥ ९ ॥

 श्री०टी०--एवमुक्त्वाऽर्जुनः किं कृतवानित्यपेक्षायाम्-एवमिति । स्पष्टार्थः॥९॥

 म० टी०-एवं युद्धमुपेक्षितवत्यप्यर्जुने भगवान्नापेक्षितवानिति धृतराष्ट्रदुराशानिरासायाऽऽह---

तमुवाच हृषीकेशः प्रहसन्निव भारत ॥
सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः ॥ १० ॥

सेनयोरुभयोर्मध्ये युद्धोद्यमेनाऽऽगत्य तद्विरोधिनं विषादं मोहं प्राप्नुवन्तं तमर्जुनं प्रहसन्निवानुचिताचरणप्रकाशनेन लज्जाम्बुधौ मज्जयन्निव त्दृषीकेशः सर्वान्तर्यामी भगवानिदं वक्ष्यमाणमशोच्यानित्यादि वचः परमगम्भीरार्थमनुचिताचरणप्रकाशकमु-


+ श्रीधरटीकादर्शपुस्तकमूले परंतपेति पाठः ।


क्तवान्न तूपेक्षितवानित्यर्थः । अनुचिताचरणप्रकाशनेन लज्जोत्पादन प्रहासः । लज्जा च दुःखात्मिकेति द्वेषविषय एव स मुख्यः । अर्जुनस्य तु भगवत्कृपाविषयत्वादनुचिताचरणप्रकाशनस्य च विवेकोत्पत्तिहेतुत्वादेकदलाभावेन गौण एवायं प्रहास इति कथयितुमिवशब्दः । लज्जामुत्पादयितुमिव विवेकमुत्पादयितुमर्जुनस्यानुचिताचरणं भगवता प्रकाश्यते । लज्जोत्पत्तिस्तु नान्तरीयकतयाऽस्तु माऽस्तु वेति न विवक्षितेति भावः । यदि हि युद्धारम्भात्प्रागेव गृहे स्थितो युद्धमुपेक्षेत तदा नानुचितं कुर्यात् । महता संरम्भेण तु युद्धभूमावागत्य तदुपेक्षणमतवानुचितमिति कथयितुं सेनयोरित्यादिविशेषणम् । एतच्चाशाच्यानित्यादौ स्पष्टं भविष्यति ॥ १० ॥

 श्री० टी०–ततः किं वृत्तमित्य[६२]पेक्षायामाह-तमुवाचति । प्रहसन्निवेति प्रस- नमुखः सन्नित्यर्थः ॥ १० ॥

 म० टी०-तत्रार्जुनस्य युद्धाख्ये स्वधर्म स्वतो जाताऽपि प्रवृत्तिद्विविधैन मोहेन तन्निमित्तेन च शोकेन प्रतिबद्धेति द्विविधो मोहस्तस्य निराकरणीयः । तत्राऽऽत्मनि स्वप्रकाशपरमानन्दरूपे सर्वसंसारधर्मासंसर्गिणि स्थूलसूक्ष्मशरीरद्वयतत्कारणाविद्याख्योपाधित्रयाविवेकेन मिथ्याभूतस्यापि संसारस्य सत्यत्वात्मधर्मत्वादिप्रतिभासरूप एकः सर्वप्राणिसाधारणः । अपरस्तु युद्धाख्ये स्वधर्मे हिंसादिबाहुल्येनाधर्मत्वप्रतिभासरूपोऽर्जुनस्यैव करुणादिदोषनिबन्धनोऽसाधारणः । एवमुपाधित्रयविवेकेन शुद्धात्मस्वरूपबोधः प्रथमस्य निवर्तकः सर्वसाधारणः । द्वितीयस्य तु हिंसादिमत्त्वेऽपि युद्धस्य स्वधर्मत्वेनाधर्मत्वाभावबोधोऽसाधारणः । शोकस्य तु कारणानिवृत्यैव निवृत्तेर्न पृथक्साधनान्तरापेक्षेत्यभिप्रेत्य क्रमेण भ्रमद्वयमनुवदन्-

श्रीभगवानुवाच-
 अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे ॥
 गतासुनगतासुंश्च नानुशोचन्ति पण्डिताः ॥ ११ ॥

 अशोच्याशोचितुमयोग्यानेव भीष्मद्रोणादीनात्मसहितांस्त्वं पण्डितोऽपि सन्नन्वशोचोऽनुशोचितवानसि ते म्रियन्ते मन्निमित्तमहं तैर्विनाभूतः किं करिष्यामि राज्यसुखादिनेत्येवमर्थकेन दृष्ट्वेमं स्वजनमित्यादिना । तथा चाशोच्ये शोच्यभ्रमः पश्वादिसाधारणस्तवात्यन्तपण्डितस्यानुचित इत्यर्थः । तथा कुतस्त्वा कश्मलमित्यादिना मद्वचनेनानुचितमिदमाचरितं मयेति विमर्शे प्राप्तेऽपि त्वं स्वयं प्रज्ञोऽपि सन्प्रज्ञानामवादान्प्रज्ञैर्वक्तुमनुचिताशब्दांश्च कथं भीष्ममहं संख्य इत्यादीन्भाषसे वदसि न तु लज्जया तूष्णीं भवसि । अतः परं कि मनुचितमस्तीति सूचयितुं चकारः । तथाचाधर्मे


थर्मत्वभ्रान्तिधमें चाधर्मत्वभ्रान्तिरसाधारणी तवातिपण्डितस्य नोचितेति भावः । प्रज्ञावतां पण्डितानां वादान्भाषसे परं न तु बुध्यस इति वा । भापणापेक्षयाऽनुशोचनस्य प्राक्कालत्वादतीतत्वनिर्देशः । भाषणस्य तु तदुत्तरकालत्वेनाव्यवहितत्वार्द्वतमानत्वानिर्देशः । छान्दसेन तिङ्व्यत्ययेनानुशोचसीति वर्तमानत्वं वा व्याख्येयम् । ननु बन्धुविच्छेदे शोको नानुचितो वसिष्ठादिभिर्महाभागैरपि कृतत्वादित्याशङ्कयाऽऽहगतासूनितिः । ये पण्डिता विचारजन्यात्मतत्त्वज्ञानवन्तस्ते गतप्राणानगतप्राणांश्च वन्धुत्वेन कल्पितान्देहान्नानुशोचन्ति । एते मृताः सर्वोपकरणपरित्यागेन गताः किं कुर्वन्ति क्व तिष्ठन्ति एते च जीवन्तो बन्धुविच्छेदेन कथं जीविष्यन्तीति न व्यामुह्यन्ति, समाधिसमये तत्प्रतिभासाभावात् , व्युत्थानसमये तत्प्रतिभासेऽपि मृषात्वेन निश्चयात् । न हि रज्जुतत्वसाक्षात्कारेण सर्पभ्रमेऽपनीते तन्निमित्तभयकम्पादि संभवति, न वा पित्तोपहतेन्द्रियस्य कदाचिद्गृडे तिक्तताप्रतिभासेऽपि तिक्तार्थितया तत्र प्रवृत्तिः संभवतिं मधुरत्वनिश्चयस्य बलवत्वात् । एवमात्मस्वरूपाज्ञाननिबन्धनत्वाच्छोच्यभ्रमस्य तत्स्वरूपज्ञानेन तदज्ञानेऽपनीते तत्कार्यंभूतः शोच्यभ्रमः कथमवतिष्ठेतेति भावः । वसिष्ठादीनां तु प्रारब्धकर्मप्राबल्यात्तथा तथाऽनुकरणं न शिष्टाचारतयाऽन्येषामनुष्ठेयतामापादयति, शिष्टैर्धर्मबुद्ध्याऽनुष्ठीयमानस्यालौकिकव्यवहारस्यैव तदाचारत्वात्, अन्यथा निष्ठीवनादेरप्यनुष्ठानप्रसङ्गादिति द्रष्टव्यम् । यस्मादेवं तस्मात्त्वमपि पण्डितो भूत्वा शाकं मा कार्षीरित्यभिप्रायः ॥ ११ ॥

 श्री० टी०-देहात्मनोरविवेकादस्यैवं शोको भवतीति तद्विवेकप्रदर्शनार्थम्--- अशोच्यानिति[६३] शोकस्याविषयभूतानेव बन्धुंस्त्वमन्वशोचोऽनुशोचितवानसि दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितमित्यादिना । तत्र कुतस्त्वा कश्मलमिदं विषमे समुपस्थितमित्यादिना मया बोधितोऽपि पुनश्च प्रज्ञावतां पण्डितानां वादाशब्दान्कथं भीष्ममहं संख्य इत्यादीन्केवलं भाषसे न तु पण्डितोऽसि यतो गतासून्गतप्राणान्बन्धूनगतासुंश्च जीवतोऽपि बन्धुहीना एते कथं जीविष्यन्तीति नानुशोचन्ति ॥ ११ ॥

 म० टी०---न त्वेवेत्याद्येकोनविंशतिश्लोकैरशोच्यानन्वशोचस्त्वमित्येतस्य विवरणं क्रियते । स्वधर्ममपि चावेक्ष्येत्याद्यष्टभिः लौकैः प्रज्ञावादांश्च भापस इत्यस्य मोहद्व- यस्य पृथक्प्रयत्ननिराकर्तव्यत्वात् । तत्र स्थूलशरीरादात्मानं विवेक्त्तुं नित्यत्वं साधयति--

न त्वेवाहं जातु नाऽऽसं न त्वं नेमे जनाधिपाः ॥
ने चैव न भविष्यामः सर्वे वयमतः परम् ॥ १२ ॥


 तुशब्दो देहादिभ्यो व्यतिरेकं सूचयति । यथाऽहमितः पूर्वं जातु कदाचिदपि नाऽऽसमिति नैवापि तु आसमेव तथा त्वमप्यासीः । इमे जनाधिपाश्चाऽऽसन्नेव । एतेन प्रागभावाप्रतियोगित्वं दर्शितम् । तथा सर्व वयमहं त्वमिमे जनाधिपाश्चातः परं न भविष्याम इति न, अपि तु भविष्याम एवेति ध्वंसाप्रतियोगित्वमुक्तम् । अतः कालत्रयेऽपि सत्तायोगित्वादात्मनो नित्यत्वेनानित्याद्देहाद्वैलक्षण्यं सिद्धमित्यर्थः ॥१२॥

 श्री० टी०--अशोच्यत्वे हेतुमाह-न त्वेवेति । यथाऽहं परमेश्वरो जातु कदाचिल्लीलाविग्रहस्याऽऽविभवे तिरोभावेऽपि नाऽऽसमिति नैव । अपि तु आसमेवानादित्वात् । न च त्वं नाऽऽसीर्नाभूः । अपि त्वासीरेव । इमे च जनाधिपा नृपा नाऽऽसन्निति न । अपि तु आसन्नेव मदंशत्वात् । तथाऽतः पर[६४]मित उपर्यपि न भविष्यामो न स्थास्याम इति च नैव । अपि तु स्थास्यामः । एवं जन्ममरणशून्यत्वादशोच्या इत्यर्थः ॥ १२ ॥

 म० टी०–ननु देहमात्रं चैतन्यविशिष्टमात्मेति लोकायतिकाः । तथा च स्थूलोऽहं गौरोऽहं गच्छामि चेत्यादिप्रत्यक्षप्रतीतीनां प्रामाण्यमन[६५]पोहितं भविष्यति । अतः कथं देहादात्मनो व्यतिरेको व्यतिरेकेऽपि कथं वा जन्मविनाशशून्यत्वं जातो देवदत्तो मृतो देवदत्त इति प्रतीतेर्दैहजन्मनाशाभ्यां सहाऽऽत्मनोऽपि जन्माविनाशोपपत्तेरित्याशङ्कयाऽऽह-

देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा ॥
तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति ॥ १३ ॥

 देहाः सर्वे भूतभविष्यद्वर्तमाना जगन्मण्डलवर्तनोऽस्य सन्तीति देहीं । एकस्यैव विभुत्वेन सर्वदेहयोगित्वात्सर्वत्र चेष्टोपपत्तेर्न प्रतिदेहमात्मभेदे प्रमाणमस्तीति सूचयितुमेकवचनम् । सर्वे वयमिति बहुवचनं तु पूर्वत्र देहभेदानुवृत्त्या न त्वात्ममेदाभिप्रायेणेति न दोषः । तस्य देहिन एकस्यैव सतोऽस्मिन्वर्तमाने देहे यथा कौमारं यौवनं जरेत्यवस्थात्रयं परस्परविरुद्धं भवति न तु तद्भेदेनाऽऽत्मभेदः, य एवाह बाल्ये पितरावन्बभूवं स एवाहं वार्धके प्रनसुननुभवामीति दृढतरप्रत्यभिज्ञानादन्यनिष्ठसंस्कारस्य चान्यत्रानुसंधानाजनकत्वात् , तथा तेनैव प्रकारेणाविकृतस्यैव सत आत्मनो देहान्तरप्राप्तिरेतस्माद्देहादत्यन्तविलक्षणदेहप्राप्तिः स्वप्ने योगैश्वर्ये च तद्देहभेदानुसंधानेऽपि स एवाहमिति प्रत्यभिज्ञानात् । तथा च यदि देह एवाऽऽत्मा भवेत्तदा कौमारादिभेदेन देहे भिद्यमाने प्रतिसंधानं न स्यात्। अथ तु कौमाराद्यवस्थानामत्यन्तवैलक्षण्येऽप्यवस्थावतो देहस्य यावत्प्रत्यभिज्ञं वस्तुस्थितिरिति न्यायेनैक्यं ब्रूयात्त-


दाऽपि स्वप्नयोगैश्वर्ययोर्देहधर्मभेदे प्रतिसंधानं न स्यादित्युभयोदाहरणम् । अतो मरुमरीचिकादावुदकादिबुद्धेरिव स्थूलोऽहमित्यादिबुद्धेरपि भ्रमत्वमवश्यमभ्युपेयं बाधस्योभयत्रापि तुल्यत्वात् । एतच्च न जायत इत्यादौ प्रपञ्चयिष्यते । एतेन देहाद्यतिरिक्तो देहेन सहोत्पद्यते विनश्यति चेति पक्षोऽपि प्रत्युक्तः । तत्रावस्थाभेदे प्रत्यभिज्ञोपपत्तावपि धर्मिणो देहस्य भेदे प्रत्यभिज्ञानुपपत्तेः । अथवा यथा कौमाराद्यवस्थाप्राप्तिरविकृतस्याऽऽत्मन एकस्यैव तथा देहान्तरप्राप्तिरेतस्माद्देहादुत्क्रान्तौ । तत्र स एवाहमितिप्रत्यभिज्ञानाभावेऽपि जातमात्रस्य हर्षशोकमयादिसंप्रतिपत्तेः पूर्वसंस्कारजन्याया दर्शनात् । अन्यथा स्त [६६]न्यपानादौ प्रवृत्तिर्न स्यात्तस्या इष्टसाधनतादिज्ञानजन्यत्वस्यादृष्टमात्रजन्यत्वस्य चाभ्युपगमात् । तथा च पूर्वापरदेहयोरात्मैक्यसिद्धिः, अन्यथा कृतनाशाकृताभ्यागमप्रसङ्गादित्यन्यत्र विस्तरः । (+कृतयोः पुण्यपापयोर्भोगमन्तरेण नाशः कृतनाशः । अकृतयोः पुण्यपापयोरकस्मात्फलदातृत्वमकृताभ्यागमः ।) अथवा देहिन एकस्यैव तव यथा क्रमेण देहावस्थोत्पत्तिविनाशयोर्न भेदो नित्यत्वात्तथा युगपत्सर्वदेहान्तरप्राप्तिरपि तवैकस्यैव विभुत्वात् , मध्यमपरिमाणत्वे सावयवत्वेन नित्यत्वायोगात्, अणुत्वे सकलदेहव्यापिसुखाद्यनुपलब्धिप्रसङ्गात्, विभुत्वे निश्चिते सर्वत्र दृष्टकार्यत्वात्सर्वशरीरेष्वेक एवाऽऽत्मा त्वमिति निश्चितोऽर्थः । तत्रैवं सति वध्यघातकभेदकल्पना त्वमधीरत्वान्मुह्यसि धीरस्तु विद्वान्न मुह्यति अहमेषां हन्तैते मम वध्या इति भेददर्शनाभावात् । तथा च विवादगोचरापन्नाः सर्वे देहा एकभोक्तृका देहत्वात्त्वद्देहवदिति । श्रुतिरपि--" एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा " इत्यादि । एतेन यदाहुदेहमात्रमात्मेति चार्वाकाः, इन्द्रियाणि मनः प्राणश्चेति तदेकदेशिनः, क्षणिकं विज्ञानमिति सौगताः, देहातिरिक्तः स्थिरो देहपरिमाण इति दिगम्बराः, मध्यमपरिमाणस्य नित्यत्वानुपपत्तेनित्योऽणुरित्येकदेशिनः, तत्सर्वमपाकृतं भवति नित्यत्वविभुत्वस्थापनात् ॥ १३ ॥

 श्री० टी०-नन्वीश्वरस्य तव जन्मादिशून्यत्वं सत्यमेव जीवानां तु जन्ममरणे प्रसिद्ध तत्राऽऽह -देहिन इति । देहिनो देहाभिमानिनो जीवस्य यथाऽस्मिन्स्थूलदेहे कौमाराद्यवस्था देहनिबन्धना एव न तु स्वतः पूर्वावस्थानाशेऽवस्थान्तरोत्पत्तावापि स एवाहमिति प्रत्यभिज्ञानात्तथैवैतद्देहनाशे देहान्तरप्राप्तिरपि लिङ्गदेहनिबन्धना । न तु तावदात्मनो नाशो जातमात्रस्य पूर्वसंस्कारेण[६७] स्तन्यपानादौ प्रवृत्तिदर्शनात् । अतो धीरे धीमांस्तत्र तयोर्देहनाशोत्पत्त्योर्न मुह्यति आत्मैव[६८] मृतो जातश्चेति न मन्यते ॥ १३ ॥


+ धनुश्चिान्तर्गतं क, पुस्तक एव ।


 म०टी०-नन्वात्मनो नित्यत्वे विभुत्वे च न विवदामः प्रतिदेह[६९]मेकत्वं तु न सहामहे, तथाहि-बुद्धिसुखदुःखच्छाद्वेषप्रयत्नधर्माधर्मभावनाख्यनवविशेषगुणवन्तः प्रतिदेहं भिन्ना एव नित्या विभवश्वाऽऽत्मान इति वैशेषिका मन्यन्ते । इममेव च पक्षं तार्किकमीमांसकादयोऽपि प्रतिपन्नाः । सांख्यास्तु विप्रतिपद्यमान अध्यात्मनो गुणवत्त्वे प्रतिदेह भेदे न विप्रतिपद्यन्तेऽन्यथा सुखदुःखादिसंकरप्रसङ्गात् । तथाच भीष्मादिभिन्नस्य मम नित्यत्वे विभुत्वेऽपि सुखदुःखादियोगित्वाद्धीष्मादिबन्धुदेहविच्छेदे सुखवियोगो दुःखसंयोगश्च स्यादिति शोकमोहौ नानुचिताविति अर्जुनाभिप्रायमाशङ्कय लिङ्गशरीरविवेकायाऽऽहं--

मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः ॥
आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत ॥ १४॥

 मीयन्त आभिर्विषया इति मात्रा इन्द्रियाणि तासां स्पर्शा विषयैः संबन्धास्तत्तद्विषयाकारान्तःकरणपरिणामा वा । त आगमापायिन उत्पत्तिविनाशव[७०]तोऽन्तःकरणस्यैव शीतोष्णादिद्वारा सुखदुःखदा नतु नित्यस्य विभोरात्मनः, तस्य निर्गुणत्वान्निर्विकारत्वाच्च । न हि नित्यस्यानित्यधर्माश्रयत्वं संभवति धर्मधर्मिणोरभेदात्संबन्धान्तरानुपपत्तेः साक्ष्यस्य साक्षिधर्मत्वानुपपत्तेश्च । तदुक्तम्---

"नर्ते स्याद्विक्रियां दुःखी साक्षिता का विकारिणः ।
धीविक्रियासहस्राणां साक्ष्यतोऽहमविक्रियः " इति ॥

 तथा च सुखदुःखाद्याश्रयीभूतान्तःकरणभेदादेव सर्वव्यवस्थोपपत्तेर्न निर्विकारस्य सर्वभासकस्याऽऽत्मनो भेदे मानमस्ति सद्रूपेण स्फुरणरूपेण च सर्वत्रानुगमात् । अन्तः- करणस्य तावत्सुखदुःखादौ जनकत्वमुभयवादिसिद्धम् । तत्र समवायिकारणत्वस्यैवाम्यहिंतत्वात्तदेव कल्पयितुमुचितं न तु समवायिकारणान्तरानुपस्थितौ निमित्तत्वमात्रम् । तथा च कामः संकल्प इत्यादिश्रुतिरेतत्सर्वं मन एवेति कामादिसर्वविकारोपादानत्वमभेदनिर्देशान्मनस आह । आत्मनश्च स्वप्रकाशज्ञानानन्दरूपत्वस्य श्रुतिभिर्बोधनान्न कामाद्याश्रयत्वम् । अतो वैशेषिकादयो भ्रान्त्यैवाऽऽत्मनो विकारित्वं भेदं चाङ्गीकृतवन्त इत्यर्थः । अन्तःकरणस्याऽऽगमापायित्वाद्दश्यत्वाच्च नित्यदृग्रूपात्वत्तो भिन्नस्य सुखादिजनका ये मात्रास्पशास्तेऽप्यनित्या अनियतरूपा एकदा सुखजनकस्यैव शीतोष्णादेरन्यदा दुःखजनकत्वदर्शनात्, एवं कदाचिद्दुःखजनकस्याप्यन्यदा सुखजनकत्वदर्शनात् । शीतोष्णग्रहणमाध्यामिकाधिभौतिकाधिदैविकसुखदुःखेपलक्षणार्थम् । शीतमुष्णं च कदाचित्सुखं कदाचिद्दुःखं सुखदुःखे तु न कदाऽपि विपर्ययेते इति पृथङ्-


निर्देशः । तथा चात्यन्तास्थिरांस्त्वद्भिन्नस्य विकारिणः सुखदुःखादिप्रदान्भीष्मादिसंयोगवियोगरूपान्मात्रास्पर्शास्त्वं तितिक्षस्व नैते मम किंचित्करा इति विवेकेनोपेक्षस्व दुःखितादात्म्याध्यासेनाऽऽत्मानं दुःखिनं मा ज्ञासीरित्यर्थः । कौन्तेय भारतेति संबोध- नद्वयेनोभयकुलविशुद्धस्य तवाज्ञानमनुचितमिति सूचयति ॥ १४ ॥

 श्री०टी०-ननु गतासूनगतासुंश्चाहं न शोचामि किंतु तद्वियोगादिदुःखभाजं मामेवेति चेत्तत्राऽऽह----मात्रास्पर्शा इति । मीयन्ते[७१] वि,या आभिरिति मात्रा इन्द्रियवृतयस्तासां स्पर्शा विषयैः संबन्धास्ते शीतोष्णादिप्रदा भवन्ति । ते त्वागमापायित्वादनित्या अस्थिराः । अतस्तांस्तितिक्षस्व सहस्व । यथा जलातपादि संपर्कस्तत्तत्कालकृताः स्वभावतः शीतोष्णादि प्रयच्छन्ति एवमिष्ट संयोगवियोगा अपि सुखदुःखादि प्रयच्छन्ति तेषां चास्थिरत्वात्सहनं तव धीरस्योचितं नतु तन्निमित्तहर्षविषादपारवश्यमित्यर्थः॥१४॥

 म० टी०-नन्वन्तःकरणस्य सुखदुःखाद्याश्रयत्वे तस्यैव कर्तृत्वेन भोक्तृत्वेन च चैतनत्वमभ्युपेयं, तथा च तव्द्यतिरिक्ते तद्भासके भोक्तरि मानाभावान्नाममात्रे विवादः स्यात्, तदभ्युपगमे च बन्धमोक्षयोर्वैयधिकरण्यापत्तिः, अन्तःकरणस्य सुखदुःखाद्याश्रयत्वेन बद्धत्वात् , आत्मनश्च तव्द्ययतिरिक्तस्य मुक्तत्वादित्याशङ्कामर्जुनस्यापनेतुमाह भगवान्---


यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ ॥
समदुःखसुखं धीरे सोऽमृतत्वाय कल्पते ॥ १५ ॥

 यं स्वप्रकाशत्वेन स्वत एव प्रसिद्धम् “अत्रायं पुरुषः स्वयंज्योतिर्भवति इति श्रुतेः, पुरुषं पूर्णत्वेन पुरि शयानं स वा अयं पुरुषः सर्वासु पूर्षु पुरिशयो नैतेन किंचनानावृतं नैतेन किंचनासंवृतम्” इति श्रुतेः, समदुःखसुखं समे दुःखसुखे अनात्मधर्मतया भास्यतया च यस्य निर्विकारस्य स्वयंज्योतिषस्तं, सुखदुःस्वग्रहणमशेषान्तःकरणपरिणामोपलक्षणार्थम्, ‘* एष नित्यो महिमा ब्राह्मणस्य न[७२] कर्मणा वर्धते नो कनीयान् इति श्रुत्या वृद्धिकनीयस्तारूपयोः सुखदुःखयोः प्रतिषेधात् , धीरं धियमीरयति प्रेरयतीति व्युत्पत्या चिदाभासद्वारा धीतादात्म्याध्यासेन धीप्रेरकं धीसाक्षिणमित्यर्थः । "सधीः स्वप्नो भूत्वेमं लोकमतिक्रामति इति श्रुतेः । एतेन बन्धप्रसक्तिर्दशिता । तदुक्तम्-

"यतो मानानि सिध्यन्ति जाग्नदादित्रयं तथा ।
भावाभावविभागश्च स ब्रह्मास्मीति बोध्यते " इति ॥


पेति चेत्, न, मानस्य सर्वदेशकालानुस्यूततया भेदकधर्मशून्यतया च विभोर्नित्यस्यैकस्य चानित्यपरिच्छिन्नानेकरूपबुद्धिपरिणामात्मकत्वानुपपत्तेः । उत्पत्तिविनाशादिप्रतीतेश्चावश्यकल्प्याविषयसंबन्धविषयतयाऽप्युपपत्तेः । अन्यथा तत्त[७३]ज्ज्ञानेात्पत्तिविनाशभेदा- दिकल्पनायामतिगौरवापत्त्तेरित्याद्यन्यत्र विस्तरः । तथाच श्रुतिः-" न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यतेऽविनाशित्वात् , आकाशवत्सर्वगतश्च नित्यः, महद्भूतमनन्तमपारं विज्ञानघन एव, तदेतद्ब्रह्मापूर्वमनपरमनन्तरमबाह्यमयमात्मा ब्रह्म सर्वानुभूः' इत्याद्या विभुनित्यस्वप्रकाशज्ञानरूपतामात्मनो दर्शयति । एतेनाविद्यालक्षणादप्युपधिर्व्यतिरेकः सिद्धः । अतोऽसत्योपाधिनिबन्धनबन्धभ्रमस्य सत्यात्मज्ञानान्निवृत्तौ मुक्तिरिति सर्वमवदातम् । पुरुषर्षभेति संबोधयन्स्वप्रकाशचैतन्यरूपत्वेन पुरुषत्वं परमानन्दरूपत्वेन चाऽऽत्मन ऋषभत्वं सर्वद्वैतापेक्षया श्रेष्ठत्वमजानन्नेव शोचसि अतः स्वस्वरूपज्ञानादेव तव शोकनिवृत्तिः सुकरा “तरति शोकमात्मवित्' इति श्रुतेरिति सूचयति । अत्र पुरुषमित्येकवचनेन सांख्यपक्षी निराकृतस्तैः पुरुषबहुत्वाभ्युपगमात् ॥ १५ ॥

 श्री० टी०–तत्प्रतीकारप्रयत्नादपि तत्सहनमेवोचितं महाफलत्वादित्याह---- यमिति । एते मात्रास्पर्शा यं पुरुषं न व्यथयन्ति नाभिभवन्ति । समे सुखदुःखे यस्य तम् । स तैरविक्षिप्यमाणो धर्मज्ञानद्वाराऽमृतत्वाय मोक्षाय कल्पते येाग्यो भवति ॥ १९ ॥

  म० टी०- ननु भवतु पुरुषैकत्वं तथाऽपि तस्य स[७४]त्यजडदृष्टृत्वरूपः सत्य एव संसारः । तथाच शीतोष्णादिसुखदुःखकारणे सति तद्भोगस्याऽऽवश्यकत्वात्सत्यस्य च ज्ञानाद्विनाशानुपपत्तेः कथं तितिक्षा कथं वा सोऽमृतत्वाय कल्पत इति चेत्, न, कृत्स्नस्यापि द्वैतप्रपञ्चस्याऽऽत्मनि कल्पितत्वेन तज्ज्ञानाद्विनाशोपपत्तेः शुक्तौ कल्पितस्य रजतस्य शक्तिज्ञानेन विनाशवत् कथं पुनरात्मनात्मनोः प्रतीत्यावशेष आत्मवदनात्माऽपि सत्यो न भवेदनात्मवदात्माऽपि मिथ्या न भवेदुभयोस्तुल्ययोगक्षेमत्वादित्याशङ्कय विशेषमाह भगवान्---

नासतो विद्यते भावो नाभावो विद्यते सतः ॥
उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्वदर्शिभिः ॥ १६ ॥

 यत्कालतो देशता वस्तुतो वा परिच्छिन्नं तदसत् । यथा घटादि जन्मविनाशशीलं प्राक्कालेन परकालेन च परिच्छिद्यते ध्वंसप्रागभावप्रतियोगित्वात् । कादचित्कं कालपरिच्छिन्नमित्युच्यते । एवं देशपरिच्छिन्नमपि तदेव मूर्तत्वेन सर्वदेशावृत्तित्वात् । कालपरिच्छिन्नस्य देशपरिच्छेदनियमेऽपि देशपरिच्छिन्नत्वेनाभ्युपगतस्य परमाण्वादेस्तार्किकैः का-


 एते सुखदुःखदा मात्रास्पर्शा हि यस्मान्न व्यथयन्ति परमार्थतो न विकुर्वन्ति सर्वविकारभासकत्वेन विकारायोग्यत्वात् ।

“सूर्यो यथा सर्वलोकस्य चक्षुर्न लिप्यते चाक्षुषैर्बाह्यदोषैः ।
एकस्तथा सर्वभूतान्तरात्मा न लिप्यते लोकदुःखेन बाह्यः' इति श्रुतेः ॥

 अतः स पुरुषः स्वस्वरूपभूतब्रह्मात्मैक्यज्ञानेन सर्वदुःखपादानतदज्ञाननिवृत्त्युपलक्षिताय निखिलद्वैतानुपरक्तस्वप्रकाशपरमानन्दरूपायामृतत्वाय मोक्षाय कल्पते योग्य भवतीत्यर्थः । यदि ह्यात्मा स्वाभाविकबन्धाश्रयः स्यात्तदा स्वाभाविकधर्माणां धर्मिनिवृत्तिमन्तरेणानिवृत्तेर्न कदाऽपि मुच्येत । तथाचोक्तम्--

"आत्मा कर्त्रादिरूपश्चेन्मा काङ्क्षीस्तर्हि मुक्तताम् ।
न हि स्वभावो भावानां व्यावर्तेंतौप्ण्यवद्रवेः इति ॥

 प्रागभावासहवृत्तेर्युगपत्सर्वविशेषगुणनिवृत्तेधर्मनिवृत्तिनान्तरीयकत्वदर्शनात् । अथाऽऽत्मनि बन्धो न स्वाभाविकः किंतु बुद्याद्युपाधिकृतः, “आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुमनीषिणः' इति श्रुतेः । तथा च धर्मिसद्भावेऽपि तन्निवृत्त्या मुक्त्युपपत्तिरिति चेत्, हन्त तहिं यः स्वधर्ममन्यनिष्ठतया भासयति स उपाधिरित्यभ्युपगमाद्बुद्धयादिरुपाधिः स्वधर्ममात्मनिष्ठतया भासयतीत्यायातम् । तथा चाऽऽयातं मार्गे बन्धस्यासत्यत्वाम्युपगमात् । न हि स्फटिकमणौ जपाकुसुमेधाननिमित्तो लोहितिमा सत्यः । अतः सर्वसंसारधर्मसंसर्गिणोऽप्यात्मन उपाधिवशात्तत्संसर्गित्वप्रतिभासो बन्धः, स्वस्वरूपज्ञानेन तु स्वरूपाज्ञानतत्कार्यबुद्धयाद्युपाधिनिवृत्त्या तन्निमित्तनिखिलभ्रमनिवृत्तौ निर्मूष्टनिखिलभास्योपरागतया शुद्धस्य स्वप्रकाशपरमानन्दतया पूर्णस्याऽऽत्मनः स्वत एवं कैवल्यं मोक्ष इति न बन्धमोक्षयोर्वैयधिकरण्यापात्तिः । अत एव नाममात्रे विवाद इत्यपास्तं, भास्यभासकयोरेकत्वानुपपत्तेः । दुःखी स्वव्यतिरिक्तभास्यो भास्यत्वाद्धटवदित्यनुमानाद्भास्यस्य भासकत्वादर्शनात् । एकस्यैव भास्यत्वे भासकत्वे च कर्तृकर्मविरोधादात्मनः । कथमिति चेत्, न, तस्य भासकत्वमात्राभ्युपगमात्, अहं दुःखीत्यादिवृत्तिसहिताहंकारभासकत्वेन तस्य कदाऽपि भास्यकोटावप्रवेशात् । अत एवं दुःखी न स्वातिरिक्तभासकापेक्षा भासकत्वाद्दीपवादत्यनुमानमपि न, भास्यत्वेन स्वातिरिक्तभासक[७५]त्वसाधकेन प्रतिरोधात् । भासकत्वं च भानकरणत्वं स्वप्रकाशभानरूपत्वं वा । आद्ये दीपस्येव करणान्तरानपेक्षत्वेऽपि स्वातिरिक्तभानसापेक्षत्वं दुःखिनो न व्याहन्यतेऽन्यथा दृष्टान्तस्य साव्यवैकल्यापत्तेः । द्वितीये त्वसिद्धो हेतुरित्याधिक बलतया भास्यत्वहेतुरेव विजयते । बुद्धिवृत्त्यतिरिक्तभानानभ्युपगमाबुद्धिरव भानरू-


लपरिच्छेदानभ्युपगमाद्देशपरिच्छेदोऽपि पृथगुक्तः । स च किंचिद्देशवृत्तिरत्यन्ताभावः । एवं सजातीयभेदो विजातीयभेदः स्वगतभेदचेति त्रिविधो भेदो वस्तुपरिच्छेदः । यथा वृक्षस्य वृक्षान्तराच्छिलादेः पत्रपुष्पादेश्च भेदः । अथवा जीवेश्वरभेदो जीवजगद्भेदो जीवपरस्परभेद ईश्वरजगद्भेदो जगत्परस्परभेद इति पञ्चविधो वस्तुपरिच्छेदः । कालदेशापरिच्छिन्नस्याप्याकाशादेस्तार्किकैर्वस्तुपरिच्छेदाभ्युपगमात्पृथङ्निर्देशः । एवं सांख्यमतेऽपि योजनीयम् । एतादृशस्यासतः शीतोष्णादेः कृत्स्नस्यापि प्रपञ्चस्य भावः सत्ता पारमार्थिकत्वं स्वान्यूनसत्ताकतादृशपरिच्छेदशून्यत्वं न विद्यते न संभवति घटत्वाघटत्वयोरिव परिच्छिन्नत्वापरिच्छिन्नत्वयोरेकत्र विरोधात् । न हि दृश्यं किंचित्क्वचित्काले देशे वस्तुनि वा न निषिध्यते सर्वत्राननुगमात् । न वा सद्स्तु क्वचिद्देशे काले वस्तुनि वा निषिध्यते सर्वत्रानुगमात् । तथाच सर्वत्रानुगते सद्वस्तुनि अननुगतं व्यभिचारि वस्तु कल्पितं रज्जुखण्ड इवानुगते व्याभिचारि सर्पधारादिकामिति भावः । ननु व्यभिचारिणः कल्पितत्वे सद्वस्त्वपि कल्पितं स्यात्तस्यापि तुच्छव्यावृत्तत्वेन व्यभिचारित्वादित्यत आह–नाभावो विद्यते सत इति । सदधिकरणकभेदप्रतियोगित्वं हि वस्तुपरच्छिन्नत्वं तच्च न तुच्छव्यावृत्तत्वेन तुच्छे शशविषाणादौ सत्त्वायोगात् । “[७६]सद्भयामभावो निरूप्यते" इति न्यायात् । एकस्यैव स्वप्रकाशस्य नित्यस्य विभोः सतः सर्वानुस्यूतत्वेन सद्यक्तिभेदानम्युपगमात् । घटः सन्नित्यादिप्रतीतेः सार्वलौकिकत्वेन सतो घटाद्यधिकरणकभेदप्रतियोगित्वायोगात् । अभावः परिच्छिन्नत्वं देशतः कालतो वस्तुतो वा सतः सर्वानुस्यूतसन्मात्रस्य न विद्यते न संभवति पूर्ववद्विरोधादित्यर्थः । ननु सन्नाम किमपि वस्तु नास्त्येव यस्य देशकालवस्तुपरिच्छेदः प्रतिषिध्यते, किं तह सत्त्वं नाम परं सामान्यं तदाश्रयत्वेन द्रव्यगुणकर्मसु सद्व्यवहारः, तदेकाश्र[७७]यत्वसंबन्धेन सामान्यविशेषसमवायेषु । तथाचासतः प्रागभावप्रतियोगिनो घटादेः सत्त्वं कारणव्यापारात्सतोऽपि तस्याभावः कारणनाशाद्भवत्येवेति कथमुक्तं नासतो विद्यते भावो नाभावो विद्यते सत इति । एवं प्राप्ते परिहरति-उभयोरपीत्यर्थेन । उभयोरपि सदसतोः सतश्चासतश्चान्तो मर्यादा नियतरूपत्वं यत्सत्तत्सदेव यदसत्तदसदेवेति दृष्टो निश्चितः श्रुतिस्मृतियुक्तिभिचारपूर्वकम् । कैः, तत्त्वदर्शिभिर्वस्तुयाथात्म्यदर्शनशीलैर्ब्रह्मविद्भिर्न तु कुतार्किकैः । अतः कुतर्किकाणां न विपर्ययानुपपत्तः । तुशब्दोऽवधारण एकान्तरूपो नियम एव दृष्टो न त्वनेकान्तरूपोऽन्यथाभाव इति, तत्त्वदर्शिभिरेव दृष्टो नातत्त्वदर्शिभिरिति वा । तथा च श्रुतिः “सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्' इत्युपक्रम्य ऐतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा तत्त्वमसि श्वेतकेतो, इत्युपसंहरन्ती सदेकं सजातीयविजातीयस्वगतभेदशून्यं सत्यं दर्शयति । “वाचारम्भणं


विकारो नामधेयं मृत्तिकेत्येव सत्यम्' इत्यादिश्रुतिस्तु विकारमात्रस्य व्यभिचारिणो वाचारम्भणत्वेनानृतत्वं दर्शयति । अनेन सोम्य शुङ्गेनापो मूलमन्विच्छाद्भिः सोम्य शुङ्गेन

तेजोमूलमन्विच्छ तेजसा सोम्य शृङ्गेन सन्मूलमन्विच्छ सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठाः” इति श्रुतिः सर्वेषामपि विकाराणां सति कल्पितत्वं दर्शयति । सत्त्वं च न सामान्यं तत्र मानाभावात् । पदार्थमात्रसाधार[७८]ण्या[७९]त्सत्सदितिप्रतीत्या द्रव्यगुणकर्ममात्रवृत्तिसत्त्वस्य स्वानुपपादकस्याकल्पनात् । वैपरीत्यस्यापि सुवचत्वात् । एकरूपप्रतीतेरेकरूपविषयनिर्वाह्यत्वेन संबन्धभेद[८०]स्य [८१]स्वस्वरूपसत्त्वस्य च कल्पयितुमनुचितत्वात् । विषयस्याननुगमेऽपि प्रतीत्यनुगमे जातिमात्रोच्छेदप्रसङ्गात् । तस्मादेकमेव सद्वस्तु स्वतःस्फुरणरूपं ज्ञाताज्ञातावस्थाभासकं स्वतादात्म्याध्यासेन सर्वत्र सद्व्यवहारोपपादकम् । सन्घट इति प्रतीत्या तावत्सद्वयक्तिमात्राभिन्नत्वं घटे विषयीकृतं न तु सत्तासमवायित्वमभेदप्रतीतेर्भेदघटितसंबन्धनिर्वाह्यत्वात् । एवं द्रव्यं सट्टणः सन्नित्यादिप्रतीत्या सर्वाभिन्नत्वं सतः सिद्धम् । द्रव्यगुणादिभेदासिद्व्या च न तेषु धर्मिषु सत्त्वं नाम धर्मः कल्प्यते किं तु सति धर्मिणि द्रव्याद्यभिन्नत्वं लाधवात् । तच्च वास्तवं न संभवतीत्याध्यासिकमित्यन्यत् । तदुक्तं वार्तिककारैः---

"सत्तातोऽपि न भेदः स्याद्द्रव्यत्वादेः कुतोऽन्यतः ।
एकाकारा हि संवित्तिः सद्द्र्व्यं सन्गुणस्तथा " इत्यादि ॥

 सत्ताऽपि नासतो भेदिका तस्याप्रसिद्धेः । द्रव्यत्वादिकं तु सद्धर्मत्वा[८२]न्न सतो भेदकमित्यर्थः । अत एव घटाद्भिन्नः पट इत्यादिप्रतीतिरपि न भेदसाधिका घटपटतद्भेदानां सदभेदेनैक्यात् । एवं यत्रैव न भेदहस्तत्रैव लब्धपदा सती सदभेदप्रतीतिर्विजयते । तार्किकैः कालपदार्थस्य सर्वात्मकस्याभ्युपगमात्तेनैव सर्वव्यवहारोपपत्तौ तदतिरिक्तपदार्थकल्पने मानाभावात्तस्यैव सर्वानुस्यूतस्य सद्रूपेण स्फुरणरूपेण च सर्वतादात्म्येन प्रतीत्युपपत्तेः । स्फुरणस्यापि सर्वानुस्यूतत्वेनैकत्वान्नित्यत्वं विस्तरेणाग्रिमश्लोके वक्ष्यते । तथाच यथा कस्मिंश्चिद्देशे काले वाडटस्य पटादेर्न देशान्तरे कालान्तरे वा घटत्वम् । एवं कस्मिाश्चिद्देशे काले वा घटस्यान्यत्राघटत्वं शक्रेणापि न शक्यते संपादयितुं पदार्थस्वभावभङ्गायोगात् । एवं कस्मिंश्चिद्देशे काले वाऽसतो देशान्तरे कालान्तरे वा सत्त्वं कस्मिंश्चिद्देशे काले वा सतोऽन्यत्रीसत्त्वं न शक्यते संपादयितुं युक्ति[८३]साम्यात् । अत उभयोर्नियतरूपत्वमेव द्रष्टव्यमित्यद्वैतसिद्धौ विस्तरः ।


अतः सदेव वस्तु मायाकल्पितासनिवृत्त्याऽमृतत्वाय कल्पते सन्मात्रदृष्ट्या चे तितिक्षाऽप्युपपद्यत इति भावः ॥ १६ ॥

 श्री० टी०-ननु तथाऽपि शीतोष्णादिकमतिदुःसहं कथं सोढव्यम्, अत्यन्तं तत्सहने च कदाचि[८४]दात्मनाशस्यापि संभवादित्याशङ्कय तत्त्वविचारतः सर्वं सोढुं शक्यमित्याशयेनाऽऽह---नेति । असतोऽनात्मधर्मत्वादविद्यमानस्य शीतोष्णादेरात्मनि भावः सत्ता न विद्यते । तथा सतः सत्स्वभावस्याऽऽत्मनोऽभावो विनाशो न विद्यते । एवमुभयोः सदसतोरन्तो निर्णयो दृष्टः । कैस्तत्वदर्शिभिर्वस्तुयाथात्म्यावद्भिः । एवंभूतविवेकेन सहस्वेत्यर्थः ॥ १६ ॥

 म० टी०-नन्वेतादृशस्य सतो ज्ञानाद्भेदे परिच्छिन्नत्वापत्तेर्ज्ञानात्मकत्वमभ्युपेयम् । तच्चानाध्यासिकमन्यथा जडत्वापत्तेः । तथा चानाध्यासिकज्ञानरू[८५]पस्य सतो धात्वर्थत्वादुत्पत्तिविनाशवत्वं घटज्ञानमुत्पन्नं घटज्ञानं नष्टमिति प्रतीतेश्च । एवं चाहं घटं जानामीतिप्रतीतेस्तस्य साश्रयत्वं सविषयत्वं चेति देशकालवस्तुपरिच्छिन्नत्वात्स्फुरणस्य कथं तद्रूपस्य सतो देशकालवस्तुपरिच्छेदशून्यत्वमित्याशङ्कयाऽऽह-

अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् ॥
विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति ॥ १७॥

 विनाशो देशतः कालतो वस्तुतो वा परिच्छेदः सोऽस्यास्तीति विनाशि परिच्छिन्नं तद्विलक्षणमविनाशि सर्वप्रकारपरिच्छेदशून्यं तु एव तत्सद्रूपं स्फुरणं त्वं विद्धि जानीहि । किं तत् , येन सद्रूपेण स्फुरणेनैकेन नित्येन विभुना सर्वमिदं दृश्यजातं स्वतः सत्तास्फूर्तिशून्यं ततं व्याप्तं स्वसत्तास्फूर्त्यध्यासेन रज्जुशकलेनेव सर्पधारादि स्वस्मिन्समावेशितं तदविनाश्येव विद्धीत्यर्थः । कस्मात् , यस्माद्विनाशं परिच्छेदमव्ययस्यापरिच्छिन्नस्यास्यापरोक्षस्य सर्वानुस्यूतस्य स्फुरणरूपस्य सतः कश्चित्कोऽपि आश्रयो वा विषयो वेन्द्रियसंनिकर्षादिरूपो हेतुर्वा न कर्तुमर्हति समर्थो न भवति कल्पितस्याकल्पितपरिच्छेदकत्वायोगात् । आरोपमात्रे चेष्टापत्तेः । अहं घटं जानामात्यत्र हि अहंकार आश्रयतया भासते घटस्तु विषयतया । उत्पात्तविनाशवती काचिदहंकारवृत्तिस्तु सर्वतो विप्रसृतस्य सतः स्फुरणस्य व्यञ्जकतया, आत्ममनोयोगस्य परैरपि ज्ञानहेतुत्वाभ्युपगमात् । तदुत्पत्तिविनाशेनैव च तदुपहिते स्फुरणरूपे सत्युत्पत्तिविनाशप्रतीत्युपपत्तेर्नैकस्यं स्फुरणस्य[८६] स्वतउत्पत्तिविनाशकल्पनाप्रसङ्गः, ध्वन्यवच्छेदेन शब्दवद्घटाद्यवच्छेदेनाऽऽकाशवच्च । अहंकारस्तु तस्मिन्नध्यस्तोऽपि तदाश्रयतया


भासते तद्वृत्तितादात्म्याध्यासात् । सुषुप्तावहंकाराभावेऽपि तद्वासनावासिताज्ञानभासकस्य चैतन्यस्य स्वतः स्फुरणात् । अन्यथैतावन्तं कालमहं किमपि नाज्ञासिषमिति सुषुप्तोत्थितस्य स्मरणं न स्यात् । न चोत्थितस्य ज्ञानाभावानुमितिरियमिति वाच्यं सुषुप्तिकालरूपपक्षाज्ञानालिङ्गासंभवाच्च । अस्मरणादेर्व्यभिचारित्वात्स्मरणाजनकनिर्विकल्पकाद्यभावासाधकत्वाच्च । ज्ञानसामग्यभावस्य चोन्योन्याश्रयग्रस्तत्वात् । तथा च श्रुतिः यद्वै तन्न पश्यति पश्यन्वै तद्दष्टव्यं न पश्यति न हि द्रष्टुर्द्दष्टेर्विपरिलोपो विद्यतेऽविनाशित्वात् " इत्यादिः सुषुप्तौ स्वप्रकाशस्फुरणसद्भावं तन्नित्यतया दर्शयति । एवं घटादिविषयोऽपि तदज्ञातावस्थाभासके स्फुरणे कल्पितः, य एवं प्रागज्ञातः स एवेदानीं मया ज्ञात इति प्रत्यभिज्ञानात् । अज्ञातज्ञापकत्वं हि प्रामाण्यं सर्वतन्त्रसिद्धान्तः । यथर्थानुभवः प्रमेति वदद्रिस्तार्किकैरपि ज्ञातज्ञापिकायाः स्मृतेर्व्यावर्तैकमनुभवपदं प्रयुञ्जानैरेतदभ्युपगमात् । अज्ञातत्वं च घटादेर्न चक्षुरादिना परिच्छिद्यते तत्रासामर्थ्यातज्ज्ञानोत्तरकालमज्ञानस्यानुवृत्तिप्रसङ्गाच्च । नाप्यनुमानेन लिङ्गाभावात् । नहीदानीं ज्ञातत्वेन प्रागज्ञातत्वमनुमातुं शक्यं धारावाहिकानेकज्ञानविषये व्यभिचारात् । इदानीमेव ज्ञातत्वं तु प्रागज्ञातत्वे सतीदानीज्ञातत्वरूपं साध्याविशिष्टत्वादसिद्धम् । नचाज्ञातावस्थाज्ञानमन्तरेण ज्ञान प्रति घटादेर्हेतुता ग्रहीतुं शक्यते पूर्ववर्तित्वाग्रहात् । घटं न जानामीति सावलौकिकानुभवविरोधश्च । तस्मादज्ञातं स्फुरणं भासमानं स्वाध्यस्तं घटादिकं भासयति घटादीनामज्ञाते स्फुरणे कल्पितत्वसिद्विः, अन्यथा घटादेर्जडत्वेनाज्ञातत्वतद्भानयोरनुपपत्तेः । स्फुरणं चाज्ञातं स्वाध्यस्तेनैवाज्ञानेनेति स्वयमेव भगवान्वक्ष्यति* अज्ञानेनाऽऽवृतं ज्ञाने तेन मुह्यन्ति जन्तवः' इत्यत्र । एतेन विभुत्वं सिद्धम् । तथाच श्रुतिः “महद्भूतमनन्तमपारं विज्ञानघन एव" इति “सत्यं ज्ञानमनन्तम्' इति च ज्ञानस्य महत्त्वमनन्तत्वं च दर्शयति । महत्त्वं स्वाध्यतसर्वसंबन्धित्वमन-त्वं त्रिविधपरिच्छेदशून्यत्वमिति विवेकः । एतेन शून्यवादोऽपि प्रत्युक्तः, निरधिष्ठानभ्रमायोगान्नरवधिवाधायोगाच्च । तथाच श्रुतिः " पुरुषान्न परं किंचित्सा काष्ठा सा परा गतिः " इति सर्वबाधावधिं पुरुषं परिशिनष्टि । उक्तं च भाष्यकारैः- “सर्वं विनश्यद्वस्तुजातं पुरुषान्तं विनश्यति पुरुषो विनाशहेत्वभावान्न विनश्यति" इति । एतेन क्षणकवादोऽपि परास्तः, अबाधितप्रत्यभिज्ञानादन्यदन्यस्मरणाद्यनुपपत्तेश्च । तस्मादे कस्य सर्वानुस्यूतस्य स्वप्रकाशस्फुरणरूपस्य सतः सर्वप्रकारपरिच्छेदशून्यत्वादुपपन्नं नाभावो विद्यते सत इति ॥ १७ ॥

 श्री० टी०---तत्र सत्स्वभावमविनाशि वस्तु सामान्येनोक्तं विशेषतो दर्शयति--- अविनाशीति । येन सर्वमिदमागमापायधर्मकं देहादिकं ततं तत्साक्षित्वेन व्याप्तं तत्तु आत्मस्वरूपमविनाशि विनाशंशून्यं विद्धि जानीहि । तत्र हेतुमाह--- विनाशमिति ॥ १७ ॥  म० टी०--ननु स्फुरणरूपस्य सतः कथमविनाशित्वं तस्य देहधर्मत्वाद्देहस्य चानुक्षणविनाशादिति भूतचैतन्यवादिनस्तान्निराकुर्वन्नासतो विद्यते भाव इत्येतद्विवृणोति-

अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः ॥
अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत ॥ १८ ॥

 अन्तवन्तो विनाशिन इमेऽपरोक्षा देहा उपचितापचितरूपत्वाच्छरीराणि । बहुवचनात्स्थूलसूक्ष्मकारणरूपा विराट्सूत्राव्याकृताख्याः समष्टिव्ययात्मानः सर्वे नित्यस्याविनाशिन एव शरीरिण आध्यासिकसंवन्धेन शरीवत एकस्याऽऽत्मनः स्वप्रकाशस्फुणरूपस्य संबन्धिनो दृश्यत्वेन भोग्यत्वेन चोक्ताः श्रुतिभिर्ब्रह्मवादिभिश्च । तथाच तैत्तिरीयकेऽन्नमयाद्यानन्दमयान्तान्पञ्च कोशान्कल्पयित्वा तदधिष्ठानमकल्पितं “ब्रह्म पुच्छं प्रतिष्ठा' इति दर्शितम् । तत्र पञ्चीकृतपञ्चमहाभूततत्कार्यात्मको विराण्मूर्तराशिरन्नमयकोशः स्थूलसमष्टिः । तत्कारणीभूतोऽपञ्चीकृतपञ्चमहाभूततत्कार्यात्मको हिरण्यगर्भः सूत्रममूर्तराशिः सूक्ष्मसमष्टिः “त्रयं वा इदं नाम रूपं कर्म " इतिबृहदाण्यकोक्तव्यन्नात्मकः सर्वकर्मात्मकत्वेन क्रियाशक्तिमात्रमादाय प्राणमयकोश उक्तः । नामात्मकत्वेन ज्ञानशक्ति मात्रमादाय मनोमयकोश उक्तः । रूपात्मकत्वेन तदुभयाश्रयतया कर्तृत्वमादाय विज्ञानमयकोश उक्तः । ततः प्राणमयमनोमयविज्ञानमयात्मैक एव हिरण्यगर्भाख्यो लिङ्गशरीरकोशः । तत्कारणीभूतस्तु मायोपहित चैतन्यात्मा सर्वसंस्कारशेषोऽव्याकृताख्य आनन्दमयकोशः । ते च सर्व एकस्यैवाऽऽत्मनः शरीराणत्युक्तम् । तस्यैष एवं शारीर आत्मा यः पूर्वस्य इति । तस्य प्राणमयस्यैष एवं शरीरे भवः शारीर आत्मा यः सत्यज्ञानादिलक्षणों गुहानिहितत्वेनोक्तः पूर्वस्यान्नमयस्य । एवं प्राणमयमनोमयविज्ञानमयानन्दमयेषु येाज्यम् । अथवेमे सर्वे देहास्त्रैलोक्यवर्तिसर्वप्राणिसंबन्धिन एकस्यैवाऽऽत्मन उक्ता इति योजना । तथा च श्रुतिः--

" एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा ।
कर्माध्यक्षः सर्वभूताधिवासः साक्षी चेता केवलो निर्गुणश्च ”

 इति सर्वशरीरसंबन्धनमेकमात्मानं नित्यं विभुं दर्शयति । ननु नित्यत्वं यावत्कालस्था- यित्वं तथाचाविद्यादिवत्कालेन सह नाशेऽपि तदुपपन्नमित्यत आह–अनाशिन इति । देशतः कालतो वस्तुतश्च परिच्छिन्नस्याविद्यादेः कल्पितत्वेनानित्यत्वेऽपि यावत्कालस्थायित्वरूपमौपचारिकं नित्यत्वं व्यवहियते “यावद्विकारं तु विभागो लोकवत्” इतिन्यायात् । आत्मनस्तु परिच्छेदत्रयशून्यस्याकल्पितस्य विनाशहेत्वभावान्मुख्यमेव कूटस्थनित्यत्वं नतु परिणामिनित्यत्वं यावत्कालस्थायित्वं चेत्यभिप्रायः । नन्वेतादृशे देहिनि किंचित्प्रमाणमवश्यं वाच्यमन्यथा निष्प्रमाणस्य तस्यालीकत्वापत्तेः शास्त्रारम्भवैयर्थ्यापत्तेश्च । तथाच वस्तुपरिच्छेदो दुष्परिहरः "शास्त्रयोनित्वात् ” इति न्यायाच्च, अत आह-अप्रमेयस्येति । “एकचैवानुद्रष्टव्यमेतदप्रमयं ध्रुवम् " । अप्रमयमप्रमेयम् ।

"न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युत भान्ति कुतोऽयमग्निः ।
तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति "

 इति च श्रुतेः स्वप्रकाशचैतन्यरूप एवाऽऽत्माऽतस्तस्य सर्वभासकस्य स्वभानार्थं ने स्वभास्यापेक्षा, किंतु कल्पिताज्ञानतत्कार्यनिवृत्त्यर्थं कल्पितवृत्तिविशेषापेक्षा, कल्पितस्यैव कल्पितविरोधित्वात् , “यक्षानुरूपो बलिः' इति न्यायात् । तथा च सवैकल्पितनिवर्तकवृत्तिविशषोत्पत्त्यर्थं शास्त्रारम्भः, तस्य तत्त्वमस्यादिवाक्य मात्राधीनत्वात् । स्वतः सर्वदाभासमानत्वात्सर्वकल्पनाधिष्ठानत्वादृश्यमात्रभासकत्वाच्च न तस्य तुच्छत्वापत्तिः । तथा चैकमेवाद्वितीयं सत्यं ज्ञानमनन्तं ब्रह्मेत्यादिशास्त्रमेव स्वप्रमेयानुरोधेन स्वस्यापि कल्पितत्वमापादयति अन्यथा स्वप्रामाण्यानुपपत्तेः । कल्पितस्य चाकल्पितपरिच्छेदकत्वं नास्तीति प्राक्प्रतिपादितम् । आत्मनः स्वप्रकाशत्वं च युक्तितोऽपि भगवत्पूज्यपादैरुपपादितम् । तथाहि-यत्र जिज्ञासोः संशयविपर्ययव्यतिरेकप्रमाणानामन्यतममपि नास्ति तत्र तद्विरोधि ज्ञानमिति सर्वत्र दृष्टम् । अन्यथा त्रितयान्यतमापत्तेः । आत्मनि चाहं वा नाहं वेति न कस्यचित्संशयः, नापि नाहमिति विपर्ययो व्यतिरेकः प्रमा वेति तत्स्वरूपप्रमा सर्वदाऽस्तीति वाच्यं तस्य सर्वसंशयविपर्ययधर्मित्वात् , “ धर्म्यंशे सर्वमभ्रान्तं प्रकारे तु विपर्ययः' इति न्यायात् । अत एवोक्तम्---

"प्रमाणमप्रमाणं च प्रमाभासस्तथैव च ।
कुर्वन्त्येव प्रमां यत्र तदसंभावना कुतः " इति ॥

 प्रमाभासः संशयः । स्वप्रकाशे सद्रूपे धर्मिणि प्रमाणाप्रमाणयोर्विशेषो नास्तीत्यर्थः । आत्मनो भासमानत्वे च घटज्ञानं मयि जातं न वेत्यादिसंशयः स्यात् । न चाऽऽन्तरपदार्थे विषयस्यैव संशयादिप्रतिबन्धकत्वस्वभावः कल्प्यः, बाह्यपदार्थे कृतेन विरोधिज्ञानेनैव संशयादिप्रतिबन्धसंभव आन्तरपदार्थे स्वभावभेदकल्पनाया अनौचित्यात् । अन्यथा सर्वविप्लवापत्तेः । आत्ममनोयोगमात्र चाऽऽत्मसाक्षात्कारे हेतुः । तस्य च ज्ञानमात्रे हेतुत्वाद्घटादिभानेऽप्यात्मभानं समूहालम्बनन्यायेन तार्किकाणां प्रवरेणापि दुर्निवारम् । न च चाक्षुषत्वमानसत्वादिसंकरः[८७], लौकिकत्वालौकिकत्ववदंशभेदेनोपपत्तेः । संकरस्यादोपत्वाचाक्षुषत्वादेर्जातित्त्वानभ्युपगमाद्वा । व्यवसायमात्र एवाऽऽत्मभानसामत्र्या विद्यमानत्वादनुव्यवसायोऽप्यपास्तः । न च व्यवसायभानार्थं सजा- तस्य दीपवत्स्वव्यवहारे सनातीयानपेक्षत्वात् । न हि घटत[८८]ज्ज्ञानयोरिव व्यवसायानुव्यवसाययोरपि विषयत्वविष-


यित्वव्यवस्थापकं वैजात्यमस्ति व्यक्तिभेदातिरिक्तवैधर्म्यनम्युपगमात् । विषयत्वावः च्छेदकरूपेणैव विषयित्वाभ्युपगमे घट[८९]तज्ज्ञानयोरपि तद्भावपत्तिरविशेषात् । ननु यथा घटव्यवहारार्थं घटज्ञानमभ्युपेयते तथा घटज्ञानव्यवहारार्थं घटज्ञानाविषयं ज्ञानमभ्युपेयं व्यवहारस्य व्यवहर्तव्यज्ञानसाध्यत्वादिति चेत्, काऽनुपपत्तिरुद्भाविता देवानांप्रियेण स्वप्रकाशवादिनः । न हि व्यवहर्तव्यभिन्नत्वमपि ज्ञानविशेषणं व्यवहारहेतुतावच्छेकं गौरवात् । तथाचेश्वरज्ञानवद्योगिज्ञानवत्प्रमेयामतिज्ञानवच्च स्वेनै[९०]व स्वव्यवहारोपपत्तौ न ज्ञानान्तरकल्पनावकाशः । अनुव्यवसायस्यापि घटज्ञानव्यवहारहेतुत्वं किं घटज्ञानज्ञानत्वेन किंवा घटज्ञानत्वेनैवेति विवेचनीयम् , उभयस्यापि तत्र [९१]सत्वात् । तत्र घटव्यवहारे घटज्ञानत्वेनैव हेतुतायाः कृप्तत्वात्तेनैव रूपेण घटज्ञानव्यवहारेऽपि हेतुतोपपत्तौ न घटज्ञानज्ञानत्वं हेतुतावच्छेदकं गौरवान्मानाभावाच्च । तथा च नानुव्यवसायसिद्धिकस्यैव व्यवसायस्य व्यवसातरि व्यवसेये व्यवसाये च व्यवहारजनकत्वोपपत्तेरिति त्रिपुटीप्रत्यक्षवादिनः प्राभाकराः । औपनिषदास्तु मन्यन्ते स्वप्रकाशज्ञानरूप एवाऽऽत्मा न स्वप्रकाशज्ञानाश्रयः कर्तृकर्मविरोधेन तद्भावानुपपत्तेः । ज्ञानभिन्नत्वे घटादिवज्जडत्वेन कल्पितत्वापत्तेश्च स्वप्रकाशज्ञानमात्रस्वरूपोऽप्यात्माऽविद्योपहितः सन्साक्षात्युच्यते । वृत्तिमदन्तःकरणोपहितः प्रमातेत्युच्यते । तस्य चक्षुरादीनि करणानि । स चक्षुरादिद्वाराऽन्तःकरणपरिणामेन घटादीन्व्याप्य तदाकारो भवति । एकस्मिश्चान्तःकरणपरिणाम घटावच्छिन्नचैतन्यमन्तःकरणावच्छिन्नचैतन्यं चैकलोलीभावापन्नं भवति । ततो घटावच्छिन्न चैतन्यं प्रमात्रभेदात्स्वाज्ञानं नाशयदपरोक्षं भवति । घटं च स्वावच्छेदकं स्वतादात्म्याध्यासाद्भासयति । अन्तःकरणपरिणामश्च वृत्याख्योऽतिस्वच्छः स्वावच्छिन्नेनैव चैतन्येन भास्यत इत्यन्तःकरणतद्वृत्तिघटानामपरोक्षता । तदेतदाकारत्रयमहं जानामि घटमिति । भासक चैतन्यस्यैकरूपत्वेऽपि घटं प्रति वृत्त्यपेक्षत्वात्प्रमातृता, अन्तःकरणतद्वृत्तीः प्रति तु वृत्त्यनपेक्षत्वात्साक्षितेति विवेकः । अद्वैतसिद्धौ सिद्धान्तबिन्दौ च विस्तरः । यस्मादेवं प्रागुक्तन्यायेन नित्य विभुरसंसारी सर्वदैकरूपश्चाऽऽत्मा तस्मात्तन्नाशशङ्कया स्वधर्मे युद्धे प्राक्प्रवृत्तस्य तव तस्मादुपरतिर्न युक्तेति युद्धाभ्यनुज्ञया भगवानाह--तस्माद्युध्यस्व भारतेति । अर्जुनस्य स्वधर्मे युद्धे प्रवृत्तस्य तत उपरतिकारणं शोकमोहौ । तौ च विचारजनितेन विज्ञानेन बाधितावित्यपवादापवाद उत्सर्गस्य स्थितिरिति न्यायेन युध्यस्वेत्यनुवाद न विधिः । यथा“कर्तृकर्मणोः कृति' इत्युत्सर्गः । “उभयप्राप्तौ कर्मणि' इत्यपवादः । “अकाकारयोः स्त्रीप्रत्यययोः प्रयोगे नेति वक्तव्यम्” इति तदपवादः । तथाच मुमुक्षोर्ब्रह्मणो जिज्ञासे-


त्यत्रापवादापवादे पुनरुत्सर्गस्थितैः कर्तृकर्मणः कृतात्यनेनैव षष्ठी । तथा च कर्मणि चेति निषेधाप्रसराद्ब्रह्मजिज्ञासेति कर्मषष्ठीसमासः सिद्धो भवति । कश्चित्तस्मादेव विधेर्मोक्ष ज्ञानकर्मणोः समुच्चय इति प्रलपति । तन्न, युध्यस्वेत्यतो मोक्षस्य ज्ञानकर्मसमुच्चयसाध्यत्वाप्रतीतेः । विस्तरेण चैतद्ग्रे भगवद्गीतावचनविरोधेनैव निराकरिष्यामः ॥ १८ ॥

 श्री० टी०--आगमापायधर्मकमसद्दर्शयति-अन्तवन्त इति । अन्त नाशो विद्यते येषां तेऽन्तवन्तः । नित्यस्य सर्वदैकरूपस्य शरीरिणः शरीरवतः । अत एवानाशिनो विनाशरहितस्याप्रमेयस्यापरिच्छिन्नस्याऽऽत्मन इमे सुखदुःखादिधर्मका देहा उक्तास्तत्त्वदर्शिभिः । यस्मादेवमात्मनो न विनाशो न च सुखदुःखादिसंबन्धस्तस्मान्मोहजं शोकं त्यक्त्वा युध्यस्व स्वधर्मं मा त्याक्षीरित्यर्थः ॥ १८ ॥

 म० टी०--नन्वेवमशोच्यानन्वशोचस्त्वमित्यादिना भीष्मादिबन्धुविच्छेदनिबन्धने शोकेऽपनीतेऽपि तद्वधकर्तृत्वनिबन्धनस्य पापस्य नास्ति प्रतीकारः । नहि यत्र शोको नास्ति तत्र पापं नास्तीति नियमः, द्वेष्यब्राह्मणवधे शोकाविषये पापाभावप्रसङ्गात् । अतोऽहं कर्ता त्वं प्रेरक इति द्वयोरपि हिंसानिमित्तपातकापतेरयुक्तमिदं वचनं तस्माद्युध्यस्व भारतत्याशङ्कय काठकपठितयर्चा परिहरति भगवान्

य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् ॥
उभौ तौ न विजानीतो नायं हन्ति न हन्यते॥ १९॥

 एनं प्रकृतं देहिनमदृश्यत्वादिगुणकं यो हन्तारं हननक्रियायाः कर्तारं वेत्ति अहमस्य हन्तेति विजानाति । यश्चान्य एनं मन्यते हतं हननक्रियायाः कर्मभूतं देहहननेन हतोऽहमिति विजानाति । तावुभौ देहाभिमानित्वादेनमविकारिणमकारकस्वभावमात्मानं न विजानीतो न विवेकेन जानीतः शास्त्रात् । कस्मात् , यस्मान्नायं हन्ति न हन्यते कर्ता कर्म च न भवतीत्यर्थः । अत्र य एवं वेत्ति हन्तारं हतं चेत्येतावति वक्तव्ये पदानामावृत्तिर्वाक्यालंकारार्था । अथवा य एनं वेत्ति हन्तारं तार्किकादिरात्मनः कर्तृत्वाभ्युपगमात् । तथा यश्चैनं मन्यते हतं चार्वकादिरात्मनो विनाशित्वाभ्युपगमात् । तावुभौ न विजानीत इति येाज्यम् । वादिभेदख्यापनाय पृथगुपन्यासः । अतिशूरातिकातरविषयतया वा पृथगुपदेशः । * हन्ता चेन्मन्यते हन्तुं हतश्चेन्मन्यते हतम् ' इति पूर्वार्धे श्रौतः पाठः ॥ १९ ॥

 श्री० टी०–तदेवं भीष्मादिमृत्युनिमित्तः शोको निवारितः । यच्चाऽऽत्मनो हन्तृत्वानिमित्तं दुःखमुक्तम्-एतान्न हन्तुमिच्छामीत्यादिना, तदपि तद्वदेव निर्निमित्तमित्याह—य एनमिति । एनमात्मानम् । आत्मनो हननक्रियायाः कर्मत्ववत्कर्तृत्वमपि नास्तीत्यर्थः । तत्र हेतुः---नायमिति ॥ १९ ॥

 म० टी० कस्मादयमात्मा हननक्रियायाः कर्ता कर्म च न भवति अविक्रियत्वादित्याहि द्वितीयेन मन्त्रेण---

न जायते म्रियते वा कदाचि-
 न्नायं भूत्वा भविता वा न भूयः ॥
अजो नित्यः शाश्वतोऽयं पुराणो
 न हन्यते हन्यमाने शरीरे ॥ २० ॥

 "जायतेऽस्ति वर्धते विपरिणमतेऽपक्षीयते विनश्यतीति षड्भावाविकारा इति वार्ष्यायणिः” इति नैरुक्ताः । तत्राऽऽद्यन्तयो निषेधः क्रियते--न जायते म्रियते वेति । वाशब्दः समुच्चयार्थः । न जायते न म्रियते चेत्यर्थः । कस्मादयमात्मा नोत्पद्यते, यस्मादयमात्मा कदाचित्कस्मिन्नपि काले न भूत्वाऽभूत्वा प्राग्भूयः पुनरपि भविता न । यो ह्यभूत्वा भवति स उत्पत्तिलक्षणां विक्रियामनुभवति । अयं तु प्रागपि सत्त्वाद्यतो नोत्पद्यतेऽतोऽजः । तथाऽयमात्मा भूत्वा प्राक्कदाचिद्भूयः पुनर्न भविता । नवाशब्दाद्वाक्यविपरिवृत्तिः । यो हि प्राग्भूत्वोत्तरकाले न भवति स मृतिलक्षणां विक्रियामनुभवति । अयं तूत्तरकालेऽपि सत्त्वाद्यतो न म्रियतेऽते नित्यो विनाशायोग्य इत्यर्थः । अत्र न भूत्वेत्यत्र समासाभावेऽपि नानुपपत्त्तिर्ननुयाजेष्वितिवत्, भगवता पाणिनिना महाविभाषाधिकारे नञ्समासपाठात् । यत्तु कात्यायनेनोक्तं समासनित्यताभिप्रायेण “वावचनानर्थ[९२]क्यं तु स्वभावसिद्धत्वात् इति, तद्भगवत्पाणिनिवचनविरोधादनादेयम् । तदुक्तमाचार्यशबरस्वामिना--असद्वादी हि कात्यायनः' इति । अत्र न जायते म्रियते वेति प्रतिज्ञा । कदाचिन्नायं भूत्वा भविता वा न भूय इति तदुपपादनम् । अजो नित्य इति तदुपसंहार इति विभागः । आद्यन्तयोर्विकारयोर्निषेधेन मध्यवर्तविकाराणां तव्याप्यानां निषेधे जातेऽपि गमनादिविकाराणामनुक्तानामप्युपलक्षणायापक्षयश्च वृद्धिश्च स्वशब्देनैव निराक्रियेते । तत्र कूटस्थनित्यत्वादात्मनो निर्गुणत्वाच्च न स्वरूपतो गुणतो वाऽपक्षयः संभवतीत्युक्तं ---शाश्वत इति । शश्वत्सर्वदा भवति नापक्षीयते नापचीयत इत्यर्थः । यदि नापक्षीयते तर्हि वर्धतामिति नेत्याह--पुराण इति । पुराऽपि नव एकरूपो न त्वधुना नूतनां कांचिदवस्थामनुभवति । यो हि नूतनां कांचिदुपचयावस्थामनुभवति स वर्धत इत्युच्यते लोके । अयं तु सर्वदैकरूपत्वान्नापचीयते नोपचीयते चैत्यर्थः । अस्तित्वावपरिणामौ तु जन्मविनाशान्तर्भूतत्वात्पृथङ्न निषिद्धौ । यस्मादेवं सर्वविकारशून्य आत्मा तस्माच्छरीरे हन्यमाने तत्संबद्धोऽपि केनाप्युपायेन न हन्यते न हन्तुं शक्यत इत्युपसंहारः ॥ २० ॥


 श्री०टी०- न हन्यत इत्येतदेव षड्भावविकारशून्यत्वेन द्रढयति नेति । न जायत इति जन्मप्रतिषेधः । न म्रियते चेति विनाशप्रतिषेधः । वाशब्दो चार्थे । न चायं भूत्वोत्पद्य भविता भवति अस्तित्वं भजते । किं तु प्रागेव स्वतः सद्रूप इति जन्मानन्तरास्तित्वलक्षणद्वितीयविकारप्रतिषेधः । तत्र हेतुः---यस्मादजः । यो हि जायते स जन्मानन्तरमस्तित्वं भजते न तु यः स्वयमेवास्ति स भूयोऽप्यन्यदस्तित्वं भजत इत्यर्थः । नित्यः सर्वदैकरूप इति वृद्धिप्रतिषेधः । शाश्वतः शश्वद्भव इत्यपक्षयप्रतिषेधः । पुराण इति विपरिणामप्रतिषेधः । पुराऽपि नव एव न तु परिणामतो रूपान्तरं प्राप्य नवो भवतीत्यर्थः । यद्वा न भवितेत्यस्यानुषङ्गं कृत्वा भूयोऽधिकं यथा भवति तथा न भवितेति वृद्धिप्रतिषेधः । अजो नित्य इति चोभयं वृद्धयभावे हेतुरित्यपौनरुक्त्यम् । तदेवं जायतेऽस्ति वर्धते विपरणमतेऽपक्षीयते विनश्यतीत्येवं यास्का [९३]दिभिरुक्ताः षड्भावविकारा निरस्ताः । यदर्थमेते विकारा निरस्तास्तं प्रस्तुतं विनाशाभावमुपसंहरति–न हन्यते हन्यमाने शरीर इति ॥ २० ॥

 म० टी०-नायं हन्ति न हन्यत इति प्रतिज्ञाय न हन्यत इत्युपपादितमिदानी न हन्तीत्युपपादयन्नुपसंहरति----

वेदाविनाशिनं नित्यं य एनमजमव्ययम् ॥
कथं स पुरुषः पार्थ कं घातयति हन्ति कम् ॥ २१ ॥

 न विन(नं)ष्टुं शीलं यस्य तमविनाशिनमन्त्यविकाररहितम् । तत्र हेतुः--अव्ययं न विद्यते व्ययोऽवयवापचयो गुणापचयो वा यस्य तमव्ययमवयवापचयेन गुणापचयेन वा विनाशदर्शनात्तदुभयरहितस्य न विनाशः संभवतीत्यर्थः । ननु जन्यत्वेन विनाशित्वमनुमास्यामहे नेत्याह-अजमिति । न जायत इत्यजमाद्यविकाररहितम् । तत्र हेतुः---- नित्यं सर्वदा विद्यमानं, प्रागविद्यमानस्य हि जन्म दृष्टं न तु सर्वदा सत इत्यभिप्रायः । अथवाऽविनाशिनमवाध्यं सत्यमिति यावत् । नित्यं सर्वव्यापकम् । तत्र हेतुः---अजमव्ययं जन्मविनाशशून्यं जायमानस्य विनश्यतश्च सर्वव्यापकत्वसत्यत्वयोरयोगात् । एवं सर्वविक्रियाशून्यं प्रकृतमेनं देहिनं स्वमात्मानं यो वेद विजानाति शास्त्राचार्योपदेशाम्यां साक्षात्करोति अहं सर्वविक्रियाशून्यः सर्वभासकः सर्वद्वैतरहितः परमानन्दबोधरूप इति स एवं विद्वान्पुरुषः पूर्णरूपः कं हन्ति कथं हन्ति । किंशब्द आक्षेपे । न कमपि हन्ति न कथमपि हन्तीत्यर्थः । तथा कं घातयति कथं घातयति कमपि न घातयति कथमपि न घातयतीत्यर्थः । नहि सर्वविकारशून्यस्याकर्तृहननक्रियायां कर्तुत्वं संभवति । तथा च श्रुतिः----


" आत्मानं चेद्विजानीयादयमस्मीति पूरुषः ।
किमिच्छन्कस्य कामाय शरीरमनुसंज्वरेत् ”

 इति शुद्धमात्मानं विदुषस्तदज्ञाननिबन्धनाध्यासनिवृत्तौ तन्मूलरागद्वेषाद्यमावात्कर्तृत्वभौक्तृत्वाद्यभावं दर्शयति । अयमत्राभिप्रायो भगवतः–वस्तुगत्या कोऽपि न करोति न कारयति च किंचित्सर्वविक्रियाशून्यस्वभावत्वात्परं तु स्वप्न इवाविद्यया कर्तृत्वादिकमात्मन्यभिमन्यते मूढः । तदुक्तम्-“उभौ तौ न विजानीतः इति । श्रुतिश्च "ध्यायतीव लेलायतीव" इत्यादिः । अत एव सर्वाणि शास्त्राण्यविद्वदधिकारिकाणि । विद्वांस्तु समूलाध्यासबाधान्नाऽऽत्मनि कर्तृत्वादिकमभिमन्यते स्थाणुस्वरूपं विद्वानिव चोरत्वम् । अतो विक्रियारहितत्वादद्वितीयत्वाच्च विद्वान्न करोति कारयति चेत्युच्यते । तथा च श्रुतिः--"विद्वान्न बिभेति कुतश्चन" इति । अर्जुनो हि स्वस्मिन्कर्तृत्वं भगवति च कारयितृत्वमध्यस्य हिंसानिमित्तं दोषमुभयत्राप्याशशङ्के । भगवानपि विदिताभिप्रायो हन्ति घातयतीति तदुभयमाचिक्षेप । आत्मनि कतृत्वं मयि च कारयितृत्वमारोप्य प्रत्यवायशङ्कां मा कार्षीरित्यभिप्रायः । अविक्रियत्वप्रदर्शनेनाऽऽत्मनः कर्तृत्वप्रतिषेधात्सर्वकर्माक्षेपे भगवदभिप्रेते हन्तिरुपलक्षणार्थः पुरःस्फूर्तिकत्वात् । प्रतिषेधहेतोस्तुल्यत्वात्कर्मान्तराभ्यनुज्ञानुपपत्तेः । तथा च वक्ष्यति–तस्य कार्यं न विद्यत इति । अतोऽत्र हननमात्राक्षेषेण कर्मान्तरं भगवताऽभ्यनुज्ञायत इति मूढजनजल्पितमपास्तम् । तस्माद्युध्यस्वेत्यत्र हननस्य भगवताऽऽभ्यनुज्ञानाद्वास्तवकर्तृत्वाद्यभावस्य कर्ममात्रे समत्वादिति दिक् ॥ २१ ॥

 श्री० टी०'----अत एव हन्तृत्वाभावोऽपि पूर्वोक्तः सिद्ध इत्याह-वेदेति । नित्यं वृद्धिशून्यमव्ययमपक्षयशून्यमनमविनाशिनं च यो वेद स पुरुषः कं हन्ति कथं वा हन्ति एवंभूतस्य वधे साधनाभावात् । तथा स्वयं प्रयोजको भूत्वाऽन्येन कं घातयति कथं वा घातयति, न कंचिदपि कथंचिदपीत्यर्थः । अनेन मय्यपि प्रयोजकत्वाद्दोषदृष्टिं मा कार्षीरित्युक्तं भवति ॥ २१ ॥

 म० टी०-नन्वेवमात्मनो विनाशित्वाभावेऽपि देहानां विनाशित्वाद्युद्धस्य च तन्नाशकत्वात्कथं भीष्मादिदेहानामनेकसुकृतसाधनानां मया युद्धेन विनाशः कार्य इत्याशङ्काया उत्तरम्--

वासांसि जीर्णानि यथा विहाय
 नवानि गृह्णाति नरोऽपराणि ॥
तथा शरीराणि विहाय जीर्णा-
 न्यन्यानि संयाति नवानि देही ॥ २२ ॥

 जीणोनि विहाय वस्त्राणि नवानि गृह्णाति विक्रियाशून्य एवं नरो यथेत्येतावतैव निर्वाहेऽपराणीति विशेषणमुत्कर्षातिशयख्यापनार्थम् । तेन यथा निकृष्टानि वस्त्राणि विहायोत्कृष्टानि जनो गृह्णातीत्यौचित्यायातम् । तथा जीर्णानि वयसा तपमा च कृशानि भीष्मादिशरीराणि विहायान्यानि देवादिशरीराणि सर्वोत्कृष्टानि चिरोपार्जितधर्मफलभोगाय संयाति सम्यग्गर्भवासादिक्लेशव्यतिरेकेण प्राप्नोति देही प्रकृष्टधर्मानुष्ठातृदेहवान्भीष्मादिरित्यर्थः । “अन्यन्नवतरं-कल्याणतरं रूपं कुरुते पियं वा गान्धर्व वा दैवं वा प्राजापत्यं वा ब्राह्म वा इत्यादिश्रुतेः । एतदुक्तं भवति-भीष्मादयो हि यावज्जीवं धर्मानुष्ठानक्लेशेनैव जर्जरशरीरा वर्तमानशरीरपातमन्तरेण तत्फलभोगायोसमर्था यदि धर्मयुद्धेन स्वर्गप्रतिबन्धकानि जर्जराणि शरीराणि पातयित्वा दिव्यदेहसंपादनेन स्वर्गभोगयोग्याः क्रियन्ते त्वया तदाऽत्यन्तमुपकृता एव ते । दुर्योधनादीनामपि स्वर्गभोगयोग्यदेहसंपादनान्महानुपकार एव । तथा चात्यन्तमुपकारके युद्धेऽपकारकत्वभ्रमं मा कार्षीरिति । अपराणि अन्यानि संयातीतिपदत्रयवशाद्भगवदभिप्राय एवमभ्यूहितः । अनेन दृष्टान्तेनाविकृतत्वप्रतिपादन मात्मनः क्रियत इति तु प्राचां व्याख्यानमतिस्पष्टम् ॥ २२ ॥

 श्री० टी०--नन्वात्मनोऽविनाशेऽपि तदीयशरीरनाशं पर्यालोच्य शोचामीति चेत्तत्राऽऽह-वासांसीति । कर्मनिबन्धनानां नूतनानां देहानामवश्यंभावित्वान्न जीर्णदेहनाशे शोकावकाश इत्यर्थः ॥ २२ ॥

 म० टी०-ननु देहनाशे तदभ्यन्तरवर्तिन आत्मनः कुतो न विनाशो गृहदाहे तदन्तर्वर्तिपुरुषवदित्यत आह—-

नैनं छिन्दन्ति शस्राणि नैनं दहति पावकः ॥
न चैनं छेदयन्त्यापो न शोषयति मारुतः ॥ २३ ॥

 शस्त्राण्यस्यादीनि अतितीक्ष्णान्यपि एनं प्रकृतमात्मानं न च्छिन्दन्ति अवयवविभा- गेन द्विधा कर्तुं न शक्नुवन्ति । तथा पावकोऽग्निरतिप्रज्वलितोऽपि नैनं भस्मीकर्तुं शक्नोति । न चैनमापोऽत्यन्तं वेगवत्योऽपि आर्द्रीकरणेन विश्लिष्टावयवं कर्तुं शक्नुवन्ति । मारुतो वायुरतिप्रवलोऽपि नैनं नीरसं कर्तुं शक्नोति । सर्वनाशकाक्षेपे प्रकृते युद्धसमये शस्त्रादीनां प्रकृतत्वादवयुत्यानुवादेनोपन्यासः । पृथिव्यतेजोवायूनामेव नाशकत्वप्रास- द्भेस्तेषामेवोपन्यासो नाऽऽकाशस्य ॥ २३ ॥

 श्री० टी०---कथं हन्तीत्यनेनोक्तं वधसाधनाभावं दर्शयन्नविनाशित्वमात्मनः स्फुटों करोति-नैनमिति । आपो नैनं क्लेदयन्ति मृदूकरणेन शिथिलं न कुर्वन्ति[९४] मारुतोऽप्येनं न शोषयति ॥ २३ ॥


 म० टी०-शस्त्रादीनां तन्नाशकत्वासामर्थ्ये तस्य तज्जनितनाशानर्हत्वे हेतुमाह-

अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च ॥
नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः ॥ २४ ॥

 यतोऽच्छेद्योऽयमतो नैनं छिन्दन्ति शस्त्राणि । अदाह्योऽयं यतोऽतो नैनं दहति पावकः । यतोऽक्लेद्योऽयमतो नैनं क्लेदयन्त्यापः। यतोऽशोष्योऽयमतो नैनं शोषयति मारुत इति क्रमेण योजनीयम् । एवकारः प्रत्येकं संबध्यमानोऽच्छेद्यत्वाद्यवधारणार्थः । चः समुच्चये हेतौ वा । छेदाद्यनर्हत्वे हेतुमाहोत्तरार्धेन-नित्योऽयं पूर्वापरकोटिरहितोऽतोऽनुत्पाद्यः । असर्वगतत्वे ह्यनित्यत्व स्यात्, “यावद्विकारं तु विभागः” इति न्यायात्पराभ्युपगतपरमाण्वादीनामनभ्युपगमात् । अयं तु सर्वगतो विभुरतो नित्य एव । एतेन प्राप्यत्वं पराकृतम् । यदि चायं विकारी स्यात्तदा सर्वगतो न स्यात् । अयं तु स्थाणुरविकारी । अतः सर्वगत एव । एतेन विकार्यत्वमपाकृतम् । यदि चायं चलः क्रियावान्स्यात्तदा विकारी स्याद्धटादिवत् । अयं त्वचलोऽतो न विकारी । एतेन संस्कार्यत्वं निराकृतम् । पूर्वावस्थापरित्यागेनावस्थान्तरापत्तिर्विक्रिया । अवस्थैक्येऽपि चलनमात्रं क्रियेति-विशेषः । यस्मादेवं तस्मात्सनातनोऽयं सर्वदैकरूपो न कस्या अपि क्रियायाः कर्मेत्यर्थः । उत्पत्त्याप्तिविकृति संस्कृत्यन्यतरक्रियाफलयोगे हि कर्मत्वं स्यात् । अयं तु नित्यत्वान्नोत्पाद्यः, अनित्यस्यैव घटादेरुत्पाद्यत्वात् । सर्वगतत्वान्न प्राप्यः परिच्छिन्नस्यैव [९५] पयआदेः प्राप्यत्वात् । स्थाणुत्वादविकार्यः, विक्रियावतो[९६] घृतादेव विकार्यत्वात् । अचलत्वादसंस्कार्यः सक्रियस्यैव दर्पणादेः संस्कार्यत्वात् । तथा च श्रुतयः- "आकाशवत्सर्वगतश्च नित्यः, " "वृक्ष इव स्तब्धो दिवि तिष्ठत्येकः, " "निष्कलं निष्क्रिय शान्तम् " इत्यादयः । " यः पृथिव्यां तिष्ठन्पृथिव्या अन्तरो[९७] योऽप्सु तिष्ठन्नद्भयोऽन्तरो यस्तेजसि तिष्ठंस्तेजसोऽन्तरो यो वायौ तिष्ठन्वायोरन्तरः " इत्याद्या च श्रुतिः सर्वगतस्य सर्वान्तर्यामितया तदविषयत्वं दर्शयति । यो हि शस्त्रादौ न तिष्ठति तं शस्त्रादयश्छिन्दन्ति । अयं तु शस्त्रादीनां सत्तास्फूर्तिप्रदत्वेन तत्प्रेरकस्तदन्तर्यामी । अतः कथमेनं शस्त्रादीनि स्वव्यापारविषयी कुर्युरित्यभिप्रायः । अत्र " येन सूर्यस्तपति तेजसेद्धः' इत्यादिश्रुतयोऽनुसंधेयाः । सप्तमाध्याये च प्रकटी करिष्यति श्रीभगवानिति दिक् ॥ २४ ॥

 श्री० टी०-तत्र हेतूनाहाच्छेद्य इति सार्धेन–---निरवयवत्वादच्छेद्योऽयमक्लेद्यश्च । अमूर्तत्वाददाह्यो द्रवत्वाभावादशोष्य इति भावः । इतश्च च्छेदादियोग्यो न भवति यतो


नित्यः, अविनाशी सर्वगतः सर्वत्र गतः स्थाणुः स्थिरस्वभावो रूपान्तरापत्तिशून्यः, अचलः पूर्वरूपापरित्यागी सनातनोऽनादिः ॥ २४ ॥

 म० टी०-छेद्यत्वादिग्राहकप्रमाणाभावादपि तदभाव इत्याह-अव्यक्तोऽयमित्याद्यर्धेन---

अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते ॥
तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि ॥ २५ ॥

 यो हीन्द्रियगोचरो भवति स प्रत्यक्षत्वाद्वयक्त इत्युच्यते । अयं तु रूपादिहीनत्वान्न तथा । अतो न प्रत्यक्षं तत्र च्छेद्यत्वादिग्राहकमित्यर्थः । प्रत्यक्षाभावेऽप्यनुमानं स्यादित्यत आह–अचिन्त्योऽयं चिन्त्योऽनुमेयस्तद्विलक्षणोऽयम् । क्वचित्प्रत्यक्षो हि वह्नयादिगृहीतव्याप्तिकस्य धूमादेर्दर्शनात्क्वचिदनुमेयो भवति । अप्रत्यक्षं तु व्याप्तिग्रहणासंभवान्नानुमेयत्वमिति भावः । अप्रत्यक्षस्यापीन्द्रियादेः सामान्यतोदृष्टानुमानविषयत्वं दृष्टमत आह--अविकार्योऽयं यद्विक्रियावच्चक्षुरादिकं तत्स्वकार्यान्यथानुपपत्त्या कल्प्यमानमर्थापत्तेः सामान्यतोदृष्टानुमानस्य च विषयो भवति । अयं तु न विकार्यो न विक्रियावानतो नार्थापत्तेः सामान्यतोदृष्टस्य वा विषय इत्यर्थः । लौकिकशब्दस्यापि प्रत्यक्षादिपूर्वकत्वात्तन्निषेधेनैव निषेधः । ननु वेदेनैव तत्र च्छेद्यत्वादि ग्रहीष्यत इत्यत आह-उच्यते वेदेन सोपकरणेनाच्छेद्याव्यक्तादिरूप एवायमुच्यते तात्पर्येण प्रतिपाद्यते । अतो न वेदस्य तत्प्रतिपादकस्यापि च्छेद्यत्वादिप्रतिपादकत्वमित्यर्थः । अत्र " नैनं छिन्दन्ति " इत्यत्र शस्त्रादीनां तन्नाशकसामर्थ्याभाव उक्तः । अच्छेद्योऽयमित्यादौ तस्य च्छेदादिकर्मत्वायोग्यत्वमुक्तम् । अव्यक्तोऽयमित्यत्र तच्छेदादिग्राहकमानाभाव उक्त इत्यपौनरुक्त्यं द्रष्टव्यम् । वेदाविनाशिनमित्यादीनां तु क्ष्लोकानामर्थतः शब्दतश्च[९८] पौनरुक्त्यं भाष्यकृद्भिः परिहृतम्- " दुर्बोधत्वादात्मवस्तुनः पुनः पुनः प्रसङ्गमा[९९]पाद्य शब्दान्तरेण तदेव वस्तु निरूपयति भगवान्वासुदेवः कथं नु नाम संसारिणां बुद्धिगोचरमापन्नं तत्त्वं संसारनिवृत्तये स्यात् " इति वदद्भिः । एवं पूर्वोक्तयुक्तिभिरात्मनो नित्यत्वे निर्विकारत्वे च सिद्धे तव शोको नोपपन्न इत्युपसंहरति--- तस्मादित्यर्धेन । एतादृशात्मस्वरूपवेदनस्य शोककारणनिवर्तकत्वात्तस्मिन्सति शोको नोचितः कारणाभावे कार्यभावस्याऽऽवश्यकत्वात् । तेनाऽऽत्मानमविदित्वा यदन्वशोचस्तद्युक्तमेव । आत्मानं विदित्वा तु नानुशोचितुमर्हसीत्यभिप्रायः ॥ २५ ॥

 श्री० टी०-किं च अव्यक्तश्चक्षुराद्यविषयः । अचिन्त्यो मनसोऽप्यविषयः । अविकार्यः कर्मेन्द्रियाणामप्यगोचर इत्यर्थः । उच्यत इति नित्यत्वादावभियुक्तोक्तिं प्रमाणयति । उपसंहरति--तस्मादिति ॥ २५ ॥


  म० टी०--एवमात्मनो निर्विकारत्वेनाशोच्यत्वमुक्तमिदानीं विकारवत्वमभ्युपेत्यापि श्लोकद्वयेनाशाच्यत्वं प्रतिपादयति भगवान् । तत्राऽऽत्मा ज्ञानस्वरूपः प्रतिक्षणविनाशीति सौगताः । देह एवाऽऽत्मा स च स्थिरोऽप्यनुक्षणपरिणामी जायते नश्यति चेति प्रत्यक्षसिद्धमेवैतदिति लोकायतिकाः । देहातिरिक्तोऽपि देहेन सहैव जायते नश्यति चेत्यन्ये । सर्गाद्यकाल एवाऽऽकाशजायते देहभेदेऽप्यनुवर्तमान एवाऽऽकल्पस्थायी नश्यति प्रलय इत्यपरे । नित्य एवाऽऽत्मा जायते म्रियते चेति तार्किकाः । तथाहि-प्रेत्यभावो जन्म । स चापूर्वदेहेन्द्रियादिसंबन्धः । एवं मरणमपि पूर्वदेहेन्द्रियादिविच्छेदः । इदं चोभयं धर्माधर्मनिमित्तत्वात्तदाधारस्य नित्यस्यैव मुख्यम् । अनित्यस्य तु कृतहान्यकृताभ्यागमप्रसङ्गेन धर्माधर्मधारत्वानुपपत्तेर्न जन्ममरणे मुख्ये इति वदन्ति । नित्यस्याप्यात्मनः कर्णशष्कुलीजन्मनाऽऽकाशस्येव देहजन्मना जन्म तन्नाशाच्च मरणं तदुभयमौपाधिकममुख्यमेवेत्यन्ये । तत्रानित्यत्वपक्षेऽपि शोच्यत्वमात्मनो निषेधति--

अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् ॥
तथाऽपि त्वं महाबाहो नैवं शोचितुमर्हसि ॥ २६ ॥

 अथेति पक्षान्तरे । चोऽप्यर्थे । यदि दुर्बोधत्वादात्मवस्तुनोऽसकृच्छ्रवणेऽप्यवधारणासामर्थ्यान्मदुक्तपक्षानङ्गीकारेण पक्षान्तरमभ्युपैषि । तत्राप्यनित्यत्वपक्षमेवाऽऽश्रित्य यद्येनमात्मानं नित्यं जातं नित्यं मृतं वा मन्यसे । वाशब्दश्चार्थे । क्षणिकत्वपक्षे नित्यं प्रतिक्षण पक्षान्तर आवश्यकत्वान्नित्यं नियतं तोऽयं मृतोऽयमिति लौकिकप्रत्ययव‘शेन यदि कल्पयसि तथाऽपि हे महाबाहो ,रुषधौरेयेति सोपहासं कुमताभ्युपगमात्, त्वय्येतादृशी कुदृष्टिर्न संभवतीति सानुक वा । एवम्-" अहो बत महत्पापं कर्तुं व्यवसिता वयम् ' इत्यादि यथा शोचसि एवंप्रकारमनुशोकं कर्तुं स्वयमपि त्वं तादृश एवं सन्नार्हसि योग्यो न भवसि । क्षणिकत्वपक्षे देहात्मवादपक्षे देहेन सह जन्मविनाशपक्षे च जन्मान्तराभावेन पापभयासंभवत्पापभयेनैव खलु त्वमनुशोचसि । तच्चैतादृशे दर्शने न संभवतीत्यर्थः । क्षणिकत्वपक्षे च दृष्टमपि दुःखं न संभवति बन्धुविनाशदर्शित्वाभावादित्यधिकम् । पक्षान्तरे दृष्टदुःखनिमित्तं शोकमभ्यनुज्ञातुमेवंकारः । दृष्टदुःखनिमित्तशोकसंभवेऽप्यदृष्टदुःखनिमित्तः शोकः सर्वथा नोचित इत्यर्थः प्रथमश्लोकस्य ॥ २६ ॥

 श्री० टी०---तदेवमात्मनो जन्मविनाशाभावान्न शोकः कार्य इत्युक्तम् । इदानी देहेन सहाऽऽत्मनो जन्म तद्विनाशेन च विनाशमङ्गीकृत्यापि शोको न कार्य इत्याह-


  • श्रीधरकृतटीकायाः खे. झ. अ. संज्ञितादर्शपुस्तकेषु मूले नैनमिति पाठः ।

अथ चेति । अथ च यद्यप्येनमात्मानं नित्यं सर्वदा तत्तद्देहे जाते जातं मन्यसे । तथा तत्तदेहे मृते च मृतं मन्यसे, पुण्यपापोस्तत्फलभूतयोश्च जन्ममरणयारात्मगार्मित्वात् । तथाऽपि त्वं शोचितु नार्हसि ॥ २६ ॥

 म० टी०-नन्वात्मने अभूतसंप्लवस्थायित्वपक्षे नित्यत्वपक्षे च दृष्टादृष्टदुःखसंभवात्तद्भयेन शोचामीत्यत आह द्वितीय-लोकेन--

जातस्य हि ध्रुवो मृत्युर्भुवं जन्म मृतस्य च ॥
तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि ॥ २७ ॥

 हि यस्माज्जातस्य स्वकृतधर्माधर्मादिवशाल्लब्धशरीरन्द्रियादिसंबन्धस्य स्थिरस्याऽऽत्मनो ध्रुव आवश्यको मृत्युस्तच्छरीरादिविच्छेदस्तदारम्भककर्मक्षयनिमित्तः संयोगस्य वियोगावसानत्वात् । तथा ध्रुवं जन्म मृतस्य च प्राग्देहकृतकर्मफलोपभोगार्थ सानुशयस्यैव प्रस्तुतत्वान्न जीवन्मुक्ते व्यभिचारः । तस्मादेवमपरिहायें परिहर्तुमशक्येऽस्मिञ्जन्ममरणलक्षणेऽर्थे विषये त्वमेवं विद्वान्न शोचितुमर्हसि । तथा च वक्ष्यति---“ऋतेऽपि त्वां न भविष्यन्ति सर्वे ?" इति । यदि हि त्वया युद्धेऽनाहन्यमानाः एते जीवेयुरेव तदा युद्धाय शोकस्तवोचितः स्यात् । एते तु कर्मक्षयात्स्वयमेव म्रियन्त इति तत्परिहारासमर्थस्य तव दृष्टदुःखनिमित्तः शोको नोचित इति भावः । एवमदृष्टदुःखनिमितेऽपि शोके " तस्मादपरिहार्थेऽर्थे " इत्येवोत्तरम् । युद्धाख्यं हि कर्म क्षत्रियस्य नियतमग्निहोत्रादिवत् । तच्च " युध संप्रहारे । इत्यस्माद्धातोर्निष्पन्नं शत्रुप्राणवियोगानुकूलशस्त्रप्रहाररूपं विहितत्वादग्नीषोमयादिहिंसावन्न प्रत्यवायजनकम् । तथा च गौतमः स्मरति---" न दोषो हिंसायामाहवेऽन्यत्र व्यश्वासारथ्यनायुधकृताञ्जलिप्रकीर्णकेशपराङ्मुखोपविष्टस्थलवृक्षारूढदूतगोब्राह्मणवादिभ्यः" इति । ---

चात्रायोब्राह्मणविषयं गवादिप्रा"-
येत्यत्र स्पष्टी करप्यते । तथ
परिहर्तुमशक्ये तदकरणे प्रत्यवाय
यदि तु युद्धाख्यं कर्म काम्यमेव,

"य आहवेषु युध्यन्ते भूभ्यर्थम्पराङ्मुखाः ।
अकूटैरायुधैर्यान्ति ते स्वर्ग योगिनो यथा" ॥

 इति याज्ञवल्क्यवचनात् , “ हतो वा प्राप्स्यसि स्वर्ग जित्वा वा भोक्ष्यसे महीम् । इति भगवद्वचनाच्च, तदाऽपि प्रारब्धस्य काम्यस्यापि अवश्यपरिसमापनीयत्वेन नित्यतुल्यत्वात्वया च युद्धस्य प्रारब्धत्वादपरिहार्यत्वं तुल्यमेव । अथवाऽऽत्मनित्यत्वपक्ष एव श्लोकद्वयमर्जुनस्य परमास्तिकस्य वेदबाह्यमताभ्युपगमासंभवात् । अक्षरयोजना तु नित्यश्चासौ देहन्द्रियादिसंबंन्धवंशाजातश्चेति नित्यजातस्तमेनमात्मानं नित्यमपि सन्तं जातं चेन्मन्यसे तथा नित्यमपि सन्तं मृतं चेन्मन्यते तथाऽपि त्वं नानुशोचितुमर्हसीति प्रतिज्ञाय हेतुमाह-जातस्य हीत्यादिना । नित्यस्य जातत्वं मृतत्वं च प्राग्व्याख्यातं, स्पष्टमन्यत् । भाष्यमप्यास्मिन्पक्षे योजनीयम् ॥ २७ ॥

 श्री० टी०-कुत इत्यत आह---जातस्येति । हि यस्माज्जातस्य स्वारम्भककर्मक्षये मृत्युर्धुवो निश्चितः, मृतस्य च [१००]तदेहकृतेन कर्मणा जन्मापि घ्रुवमेव । तस्मादेवमपरिहार्येऽर्थेऽवश्यंभाविनि जन्ममरणलक्षणेऽर्थे त्वं विद्वाञ्शोचितुं नार्हसि योग्यो न भव[१०१]सि ॥ २७ ॥

 म०टी०–तदेवं सर्वप्रकारेणाऽऽत्मनोऽशोच्यत्वमुपपादितमथेदानीमात्मनोऽशोच्यत्वेऽपि भूतसंघातात्मकानि शरीराण्युद्दिश्य शोचामीत्यर्जुनाशङ्कामपनुदति भगवान्

अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत ॥
अव्यक्तनिधनान्येव तत्र का परिदेवना ॥ २८ ॥

 आदौ जन्मनः प्रागव्यक्तानि अनुपलब्धानि भूतानि पृथिव्यादिभूतमयानि शरीराणि मध्ये जन्मानन्तरं मरणात्प्राग्व्यक्तानि उपलब्धानि सन्ति । निधने पुनरव्यक्तान्येव भवन्ति । यथा स्वप्मेन्द्रजालादौ प्रतिभासमात्रजीवनानि शुक्तिरूप्यादिवत्र तु ज्ञानात्प्रागूर्ध्वं वा स्थितानि दृष्टिसृष्टयभ्युपगमात् । तथा " चाऽऽदावन्ते च यन्नास्ति वर्तमानेऽपि तत्तथा " इति न्यायेन मध्येऽपि न सन्त्येवैतानि । “नासतो विद्यते भावः" इति प्रागुक्तेश्च । एवं सति तत्र तेषु मिथ्याभूतेष्वत्यन्ततुच्छेषु भूतेषु का परिदेवना को वा दुःखप्रलापो न कोऽप्युचित इत्यर्थः । न हि स्वप्ने विविधान्बन्धूनुपलभ्य प्रतिबुद्धस्तद्विच्छेदेन शोचति पृथग्जनोऽपि । एतदेवोक्तं पुराणे-“अदर्शनादापतितः पुनश्चादर्शनं गतः " । भूतसंङ्घ इति शेषः । तथाच शरीराण्यप्युद्दिश्य शोको नोचित इति भावः । आकाशादिमहाभूताभिप्रायेण वा श्लोको योज्यः । अव्यक्तमव्याकृतमविंद्योपहितचैतन्यमादिः प्रागवस्था येषां तानि तथा व्यक्तं नामरूपाभ्यामेवाऽऽविद्यकाम्यां प्रकटीभूतं न तु स्वेन परमार्थसदात्मना मध्ये स्थित्यवस्था येषां तादृशानि भूतानि आकाशादीनि अव्यक्तनिधनान्येवाव्यक्ते स्वकारणे मृदीव घटादीनां निधनं प्रलयो येषां तेषु भूतेषु का परिदेवनेति पूर्ववत् । तथा च श्रुतिः "तद्धेदं तह्त्यव्याकृतमासीत्तन्नामरूपाभ्यामेव व्याक्रियत "इत्यादिव्यक्तोपादानतां सर्वस्य प्रपञ्चस्य दर्शयति । लयस्थानत्वं तु तस्यार्थसिद्धं कारण एवं कार्यलयस्य दर्शनात् । ग्रन्थान्तरे तु विस्तरः । तथाचाज्ञानकल्पितत्वेन तुच्छान्याकाशादिभूतान्यप्युद्दिश्य, शोको नोचितश्चेत्तत्कार्याण्युद्दिश्य नोचित इति किमु वक्तव्यमिति भावः । अथवा सर्वदा तेषामव्यक्तरूपेण विद्य-


मानत्वाद्विच्छेदाभावेन तन्निमित्तः प्रलापो नाचित इत्यर्थः । भारतेत्यनेन संबोधयञ्शुद्धवंशोद्भवत्वेन शास्त्रीयमर्थं प्रतिपत्तुमर्होऽसि किमिति न प्रतिपद्यस इति सूचयति॥ २८ ॥

 श्री० टी०-किं च देहानां च स्वभावं पर्यालोच्य तदुपाधिक आत्मनो[१०२] जन्ममरणे शोको न कार्य इत्याह-अव्यक्तादीनीति । अव्यक्तं प्रधानं तदेवाऽऽदिरुत्पत्तेः पूर्वरूपं येषां तान्यव्यक्तादीनि भूतानि शरीराणि कारणात्मना स्थितानामेवोत्पत्तेः । तथा व्यक्तमभिव्यक्तं मध्यं जन्ममरणान्तरालस्थितिलक्षणं येषाम् । अव्यक्ते निधनं लयो येषां तानीमान्येवंभूतान्येव तत्र[१०३] तेषु का परिदेवना कः शोकनिमित्तो विलापः । प्रतिबुद्धस्य स्वप्नदृष्ट[१०४]बन्धुष्विव शोको न युज्यत इत्यर्थः ॥ २८ ॥

 म० टी०'–ननु विद्वांसोऽपि बहवः शोचन्ति तत्किं मामेव पुनः पुनरेवमुपालभसे। अन्यच्च " वक्तुरेव हि तज्जाड्यं श्रोता यत्र न बुध्यते " इति न्यायात्वद्वचनार्थप्रतिपत्तिरपि मम न दोषः, तत्रान्येषामपि तवेवाऽऽत्मापरिज्ञानादेव शोक आत्मप्रतिपादकशास्त्रार्थाप्रतिपत्तिश्च तवाप्यन्येषामिव स्वाशयदोषादिति नोक्तदोषद्वयमित्यभिप्रेत्याऽऽत्मनो दुर्विज्ञेयतामाह-

आश्चर्यवत्पश्यति कश्चिदेन-
 माश्चर्यवद्ददति तथैव चान्यः ॥
आश्चर्यवच्चैनमन्यः शृणोति
 श्रुत्वाऽप्येनं वेद न चैव कश्चित् ॥ २९ ॥

 एवं प्रकृतं देहिनमाश्चर्येणाडुतेन तुल्यतया वर्तमानमाविद्यकनानाविधविरुद्धधर्मवत्तया सन्तमप्यसन्तमिव स्वप्रकाशचैतन्यरूपमपि जडमिवाऽऽनन्दुघनमपि दुःखितमिव निर्विकारमपि सविकारमिव नित्यमप्यनित्यमिव प्रकाशमानमध्यप्रकाशमानमिव ब्रह्माभिन्नमपि तद्भिन्नमिव मुक्तमपि बद्धमिवाद्वितीयमपि सद्वितीय[१०५]मिव संभावितविचित्रानेकाकारप्रतीतिविषयं पश्यति शास्त्राचार्योपदेशाभ्यामाविद्यकसर्वद्वैतनिषेधेन परमात्मस्वरूपमात्राकारायां वेदान्तमहावाक्यजन्यायां सर्वसुकृतफलभूतायामन्तःकरणवृत्तौ प्रतिफलितं समाधिपरिपाकेन(ण) साक्षात्करोति कश्चिच्छमदमादिसाधनसंपन्नचरमशरीरः कश्चिदेव न तु सर्वः । तथा कश्चिदेनं यत्पश्यति तदाश्चर्यवदिति क्रियाविशेषणम् । आत्मदर्शनमप्याश्चर्यवदेव यत्स्वरूपतो मिथ्याभूतमपि सत्यस्य व्यञ्जकमाविद्यकमप्यविद्याया विघातकमविद्यामुपन्नत्तत्कार्यतया स्वात्मानमप्युपहन्तीति । तथा यः कश्चिदेनं पश्यति स आश्चर्यवदिति कर्तविशेषणम् । यतोऽसौ निवृ-


त्ताविद्यातत्कार्योऽपि प्रारब्धकर्मप्राबल्यात्तद्वानिव व्यहरति सर्वदा समाधिनिष्ठोऽपि

व्युत्तिष्ठति व्युत्थितोऽपि पुनः समाधिमनुभवतीति प्रारब्धकर्मवैचित्र्याद्विचित्रचरित्रः प्राप्तदुष्प्रापज्ञानत्वात्सकललोकस्पृहणीयोऽत आश्चर्यवदेव भवति । तदेतत्रयमप्याश्चर्यमात्मा तज्ज्ञानं तज्ज्ञाता चेति परमदुर्विज्ञेयमात्मानं त्वं कथमनायासेन जानीया इत्यभिप्रायः । एवमुपदेष्टुरभावादप्यात्मा दुर्विज्ञेयः, यो ह्यात्मानं जानाति स एव तमन्यस्मै ध्रुवं ब्रूयात् , अज्ञस्योपदेष्टत्वासंभवात् , जानंस्तु समाहितचित्तः प्रायेण कथं ब्रवीतु । व्युत्थितचित्तोऽपि परेण ज्ञातुमशक्यः । यथा कथंचिज्ज्ञातोऽपि लाभपूजाख्यात्यादिप्रयोजनानपेक्षत्वान्न ब्रवीत्येव । कथंचित्कारुण्यमात्रेण ब्रुवंस्तु परमेश्वरवदत्यन्तदुर्लभ एवेत्याह-आश्चर्यवद्वदति तथैव चान्य [१०६]इति । यथा जानाति तथैव वदति ! एनमित्यनुकर्षणार्थश्चकारः । स चान्यः सर्वाज्ञजनविलक्षणः । न तु यः पश्यति ततोऽन्य इति व्याघातात् । [१०७]अत्रापि कर्मणि क्रियायां कर्तरि चाऽऽश्चर्यवदिति योज्यम् । तत्र कर्मणः कर्तुश्च प्रागाश्च[१०८]र्यवत्त्वं व्याख्यातं क्रियायास्तु व्याख्यायते । सर्वशब्दावाच्यस्य शुद्ध[१०९] स्याऽऽत्मनो यद्वचनं तदाश्चर्यवत् । तथा च श्रुतिः--" यतो वाचो निवर्तन्ते, अप्राप्य मनसा सह" इति । केनापि शब्देनावाच्यस्य शुद्धस्याऽऽत्मनो विशिष्ट शक्तेन पदेन जहदजहत्स्वार्थलक्षणया कल्पितसंबन्धेन लक्ष्यतावच्छेदकमन्तरेणैव प्रतिपादनं तदपि निर्विकल्पकसाक्षात्काररूपमत्याश्चर्यमित्यर्थः । अथवा विना शक्तिं विना लक्षणां विना संबन्धान्तरं सुषुप्तोत्थापकवाक्यवत्तत्त्वमस्यादिवाक्येन यदात्मतत्त्वप्रतिपादनं तदाश्चर्यवत् , शब्दशक्तेरचिन्त्यत्वात् । नच विना संबन्धं बोधनेऽतिप्रसङ्गः, लक्षणापक्षेऽपि तुल्यत्वात् , शक्यसंबन्धस्यानेकसाधारणत्वात् । तात्पर्यविशेषान्नियम इति चेत् , न, तस्यापि सर्वान्प्रत्यविशेषात् । कश्चिदेव तात्पर्यविशेषमवधारयति न सर्व इति चेत्, हन्त तर्हि पुरुषगत एव कश्चिद्विशेषो निर्दोषत्वरूपो नियामकः । स चास्मिन्पक्षेऽपि न दण्डवारितः । तथा च यादृशस्य शुद्धान्तःकरणस्य तात्पर्यानुसंधानपुरःसरं लक्षणया वाक्यार्थबोधो भवद्भिरङ्गी क्रियते तादृशस्यैव केवलः शब्दविशेषोऽखण्डसाक्षात्कारं विनाऽपि संबन्धेन जनयतीति किमनुपपन्नम् । एतस्मिन्पक्षे शब्दवृत्त्यविषयत्वाद्यतो वाचो निवर्तन्त इति सुतरामुपपन्नम् । अयं च भगवदभिप्रायो वार्तिककारैः प्रपञ्चितः---

"दुर्बलत्वादविद्याया आत्मत्वाद्बोधरूपिणः ।
शब्दशक्तेरचिन्त्यत्वाद्विद्मस्तं मोहहानतः ॥
अगृहीत्वैव संबन्धमभिधानाभिधेययोः ।


हित्वा निद्रा प्रबुध्यन्ते सुषुप्तेर्बोधिताः परैः ॥
जाग्रद्वन्न यतः शब्दं सुषुप्ते वेत्ति कश्चन ।
ध्वस्तेऽतो ज्ञानतोऽज्ञाने ब्रह्मास्मीति भवेत्फलम् ॥
अविद्याघातिनः शब्दाद्याऽहं ब्रह्मेति धीर्भवेत् ।
नश्यत्यविद्यया सार्धं हत्वा रोगभिवौषधम्' इत्यादिना ग्रन्थेन ॥

 तदेवं वचनविषयस्य वक्तुर्वचनक्रियायाश्चात्याश्चर्यरूपत्वादात्मनो दुर्विज्ञानत्वमुक्त्वा श्रोतुर्दुर्मिलत्वादपि तहाह-आश्चर्यवच्चैनमन्यः शृणोति श्रुत्वाऽप्येनं वेदेति । अन्यो द्रष्टुर्वक्तुश्च मुक्ताद्विलक्षणो मुमुक्षुर्वक्तारं ब्रह्मविदं विधिवदुपसृत्यैनं शृणोति श्रवणाख्यविचारविषयी करोति वेदान्तवाक्यतात्पर्यनिश्चयेनावधारयतीति यावत् । श्रुत्वा चैनं मनननिदिध्यासनपरिपाकाद्वैवापि साक्षात्करोत्यपि आश्चर्यवत् । तथा चाऽऽश्चर्यवत्पश्यति कश्चिदेनमिति व्याख्यातम् । अत्रापि कर्तुराश्चर्यरूपत्वमनेकजन्मानुष्ठितसुकृतक्षालितमनोमलतयाऽतिदुर्लभत्वात् । तथा च वक्ष्यति--

"मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये ।
यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः” इति ॥
"श्रवणायापि बहुभिर्यों न लभ्यः शृण्वन्तोऽपि बहवो यं न विद्युः ।
आश्चर्यों वक्ता कुशलोऽस्य लब्धा आश्चर्यो ज्ञाता कुशलानुशिष्टः "

 इति श्रुतेश्च ॥

 एवं श्रवणश्रोतव्ययोराश्चर्यत्वं प्राग्वद्वयाख्येयम् । ननु यः श्रवणमननादिकं करोति स आत्मानं वेदेति किमाश्चर्यमत आह-न चैव कश्चिदिति । चकारः क्रियाकर्मपदयोरनुषङ्गार्थः । कश्चिदेनं नैव वेद श्रवणादिकं कुर्वन्नपि । तद् कुर्वस्तु न वेदेति किमु वक्तव्यम् । * ऐहिकमप्रस्तुतप्रतिबन्थे तदर्शनात् इति न्यायात् । उक्तं च वार्तिककारैः--

"कुतस्तज्ज्ञानमिति चेत्तद्धि बन्धपरिक्षयात् ।
असावपि च भूतो वा भावी वा वर्ततेऽथवा " इति ॥

 श्रवणादि कुर्वतामपि प्रतिबन्धपरिक्षयादेव ज्ञानं जायते । अन्यथा तु न । स च प्रतिबन्धपरिक्षयः कस्यचिदूत एव । यथा हिरण्यगर्भस्य । कस्यचिद्भावी । यथा वामदेवस्य । कस्यचिद्वर्तते । यथा श्वेतकेतोः । तथा च प्रतिबन्धक्षयस्यातिदुर्लभत्वात् "ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणः !” इति स्मृतेश्च दुर्विज्ञेयोऽयमात्मेति निर्गलितोऽर्थः । यदि तु श्रुत्वाऽप्येनं वेद न चैव कश्चिदित्येव व्याख्यायेत तदा


" आश्चर्यों ज्ञाता कुशलानुशिष्टः " इति श्रुत्यैकवाक्यता न स्यात् , "यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्वतः । इति भगवद्गचनविरोधश्चेति विद्वद्भिरविनयः क्षन्तव्यः । अथवा न चैव कश्चिदित्यस्य सर्वत्र संबन्धः कश्चिदेनं न पश्यति न वदति न शृणोति श्रुत्वाऽपि न वेदेति पञ्च प्रकारा उक्ताः कश्चित्पश्यत्येव न वदति काश्चित्पश्यति च वदति च कश्चित्तद्वचनं शृणोति च तदर्थं जानाति च कश्चिच्छ्रूत्वाऽपि न जानाति च कश्चित्तु सर्वबहिर्भूत इति । अविद्वत्पक्षे तु असंभावनाविपरीतभावनाभिभूतत्वादाश्चर्यतुल्यत्वं दर्शनवंदनश्रवणेष्विति निगदव्याख्यातः श्लोकः । चतुर्थपादे तु दृष्ट्वोक्त्वा श्रुत्वाऽपीति योजना ॥ २९ ॥

 श्री० टी०-कुतस्तर्हि विद्वांसोऽपि लोके शोचन्ति आत्मज्ञानादेवेत्याशयेनाऽऽत्मनो दुर्विज्ञेयतामाह-आश्चर्यवदिति । कश्चिदेनमात्मानं शास्त्राचार्योपदेशाभ्यां पश्यन्नाश्चर्यवत्पश्यति सर्वगतस्य नित्यज्ञानानन्दस्वभावस्याऽऽत्मनोऽलौकिकत्वादैन्द्रजालिकवदघटमानं पश्यन्निव विस्मयेन पश्यति असंभावनाभिभूतत्वात् । तथाऽऽश्चर्यवदेवान्यो वदति च शृणोति चान्यः । कश्चित्पुनर्विपरीतभावनाभिभूतः श्रुत्वाऽपि नैव वेद । चशब्दादुक्त्वाऽपि दृष्ट्वाऽपि न सम्यग्वेदेति द्रष्टव्यम् ॥ २९ ॥

 म० टी०-इदानीं सर्वप्राणिसाधारणभ्रमनिवृत्तिसाधनमुक्तमुपसंहरति--

देही नित्यमवध्योऽयं देहे सर्वस्य भारत ॥
तस्मात्सर्वाणि भूतानि न त्वं शोचितुमर्हसि ॥ ३० ॥

 सर्वस्य प्राणिजातस्य देहे वध्यमानेऽप्ययं देही लिङ्गदेहोपाधिरात्मा वध्यो न भवतीति नित्यं नियतं यस्मात्तस्मात्सर्वाणि भूतानि स्थूलानि सूक्ष्माणि च भीष्मादिभावापन्नान्युद्दिश्य त्वं न शोचितुमर्हसि । स्थूलदेहस्याशोच्यत्वमपरिहार्यत्वात् , लिङ्गदेहस्याशोच्यत्वमात्मवदेवावध्यत्वादिति न स्थूलदेहस्य लिङ्गदेहस्याऽऽत्मनो वा शोच्यत्वं युक्तमिति भावः ॥ ३० ॥ श्री० टी०-तदेवं दुर्योधमात्मतत्त्वं संक्षेपेणोपदिशन्नशोच्यत्वमुपसंहरति--- देहीति ॥ ३० ॥

 म० टी०---तदेवं स्थूलसूक्ष्मशरीरद्वयतत्कारणाविद्याख्योपाधित्रयाविवेकेन मिथ्याभूतस्यापि संसारस्य सत्यत्वात्मधर्मत्वादिप्रतिभासरूपं सर्वप्राणिसाधारणमर्जुनस्य भ्रमं निराकर्तुमुपाधित्रयविवेकेनाऽऽत्मस्वरूपमभिहितवान् । संप्रति युद्धाख्ये स्वधर्मे हिंसादिबाहुल्येनाधर्मत्वप्रतिभासरूपमर्जुनस्यैव करुणादिदोषनिबन्धनमसाधारणं भ्रमं निराकर्तुं हिंसादिमत्त्वेऽपि युद्धस्य स्वधर्मत्वेनाधर्मत्वाभावं बोधयति भगवान्--

स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि ॥
धर्म्याद्वि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते ॥३१॥

 न केवलं परमार्थतत्त्वमेवावेक्ष्य किं तु स्वधर्ममपि क्षत्रियधर्ममपि युद्धापराङ्मुखत्वरूपमवेक्ष्य शास्त्रतः पर्यालोच्य विकम्पितुं विचलितुं धर्मादधर्मत्वभ्रान्त्या निवर्ततुं नार्हसि । तत्रैवं सति यद्यप्येते न पश्यन्ति " इत्यादिना " नरके नियतं वासो भवति " इत्यन्तेन युद्धस्य पापहेतुत्वं त्वया यदुक्तं कथं भीष्ममह संख्ये' इत्यादिना च गुरुवचनह्यवधाद्यकरणं यदभिहितं तत्सर्वं धर्मशास्त्रापर्यालोचनादेवोक्तम् । कस्मात् , हि यस्माद्धर्म्यादपराङ्मुखत्वधर्मादनपेतायुद्धादन्यत्क्षत्रियस्य श्रेयः श्रेयःसाधनं न विद्यते । युद्धमेव हि पृथिवीजयद्वारेण प्रजारक्षणब्राह्मणशुश्रूषादिक्षात्रधर्मनिर्वाहकमिति तदेव क्षत्रियस्य प्रशस्ततरमित्यभिप्रायः । तथा चोक्तं पराशरेण--

"क्षत्रियो हि प्रजा रक्षञ्शस्त्रपाणिः प्रदण्डवान् ।
निर्जित्य परसैन्यानि क्षितिं धर्मेण पालयेत् " इति ॥

मनुनाऽपि ---
 "समोत्तमाधमै राजा चाऽऽहूतः पालयन्प्रजाः ।
 न निवर्तेत सङ्ग्रामात्क्षात्रं धर्ममनुस्मरन् ॥
 सङ्ग्रामेष्वनिवर्तित्वं प्रजानां चैव पालनम् ।
 शुश्रूषा ब्राह्मणानां च राज्ञः श्रेयस्करं परम् " इत्यादिना ॥

 राजशब्दश्च क्षत्रियजातिमात्रवाचीति स्थितमेवेश्यधिकरणे । तेन भूमिपालस्यैवायं धर्म इति न भ्रमितव्यम् । उदादृतवचनेऽपि क्षत्रियो हीति क्षात्रं धर्ममिति च स्पष्टं लिङ्गम् । तस्मात्क्षत्रियस्य युद्धं प्रशस्तो धर्म इति साधु भगवताऽभिहितम् । “ अपशवोऽन्ये गोअश्वेभ्यः पशवो गोअश्वाः " इतिवत्प्रशंसालक्षण या युद्धादन्यच्छ्रेयःसाधनं न विद्यत इत्युक्तमिति न दोषः । एतेन युद्धात्प्रशस्ततरं किंचिदनुधातुं ततो निवृत्तिरुचितेति निरस्तम् । " न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे ? इत्येतदपि ॥ ३१ ॥

 श्री०टी०-यञ्चोक्तमर्जुनेन वेपथुश्च शरीरे मे रोमहर्षश्च जायते' इति तदप्ययुक्तमित्याह–स्वधर्ममिति । आत्मनो नाशाभावादेवैतेषां हननेऽपि विकम्पितुं नार्हसि । किं च स्वधर्ममापि अवेक्ष्य विकम्पितुं नार्हसीति संबन्धः । यच्चोक्तं न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे " इत्यादि तत्राऽऽह--धर्म्यादिति । धर्मादनपेतान्याच्याद्युद्वादन्यत् ॥ ३१ ॥  म० टी०-ननु युद्धस्य कर्तव्यत्वेऽपि न भीष्मद्रोणादिभिर्गुरुभिः सह तत्कर्तुमुचितमतिगहितत्वादित्याशङ्कयाऽऽहं---

यदृच्छया चोपपन्नं स्वर्गद्दारमपावृतम् ॥
सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम् ॥ ३२॥

 यदृच्छया स्वप्रयत्नव्यतिरेकेण, चोऽवधारणे, अप्रार्थनयैवोपस्थितमीदृशं भीष्मद्रोणादिवीरपुरुषप्रतियोगिकं कीर्तिराज्यलाभदृष्टफलसाधनं युद्धं ये क्षत्रियाः प्रतियोगित्वेन लभन्ते ते सुखिनः सुखभाज एव । जये सत्यनायासेनैव यशसो राज्यस्य च लाभात् । पराजये चातिशीघ्रमेव स्वर्गस्य लाभादित्याह–स्वर्गद्वारमपावृतमिति । अप्रतिवद्धं वर्गसाधनं युद्धमव्यवधानेनैव स्वर्गजनकं ज्योतिष्टोमादिकं तु चिरतरेण देहपातस्य प्रतिबन्धाभावस्य चापेक्षणादित्यर्थः । स्वर्गद्वारमित्यनेन श्येनादिवत्प्रत्यवायशङ्का परिह्रता । श्येनादयो हि विहिता अपि फलदोषेण दुष्टाः, तत्फलस्य शत्रुवधस्य न हिंस्यात्सर्वा भूतानि ” " ब्राह्मणं न हन्यात् " इत्यादिशास्त्रनिषिद्धस्य प्रत्यवायजनकत्वात्फले विध्यभावाच्च । न “विधिस्पृष्टे निषेधानवकाशः" इति न्यायावतारः । युद्धस्य हि फलं स्वर्गः स च न निषिद्धः । तथा च मनुः--

"आहवेषु मिथोऽन्योन्यं जिघांसन्तो महीक्षितः ।
युध्यमानाः परं शक्त्या स्वर्गं यान्त्यपराङ्मुखाः " इति ॥

 युद्धं तु अग्नीषोमीयाद्यालम्भवाद्विहितत्वान्न निषेधेन स्प्रष्टुं शक्यते षोडशिग्रहणादिवत् । ग्रहणाग्रहणयोस्तुल्यबलतया विकल्पवत्सामान्यशास्त्रस्य विशेषशास्त्रेण संकोचसंभवात् । तथा च “विधिस्पृष्टे निषेधानवकाशः" इति न्यायाद्युद्धं न प्रत्यवायजनकं नापि भीष्मद्रोणादिगुरुब्राह्मणादिवधनिमित्तो दोषः, तेषामाततायित्वात् । तदुक्तं मनुना---

"गुरु वा बालवृद्धौ वा ब्राह्मणं वा बहुश्रुतम् ।
आततायिनमायान्तं हन्यादेवाविचारयन् ॥
आततायिनमायान्तमपि वेदान्तपारगम् ।
जिघांसन्तं जिघांसीयान्न तेन ब्रह्महा भवेत्[११०]
नाऽऽततायिवधे दोषो हन्तुर्भवति कश्चन " इत्यादि ।

ननु  "स्मृत्योर्विरोधे न्यायस्तु बलवान्व्यवहारतः ।
  अर्थशास्त्रात्तु बलवद्धर्मशास्त्रमिति स्थितिः "

 इति याज्ञवल्क्यवचनादाततायिव्राह्मणवधेऽपि प्रत्यवायोऽस्त्येव । " ब्राह्मणं न हन्यात् " इति हि दृष्टप्रयोजनानपेक्षत्वाद्धर्मशास्त्रं, " जिघांसन्तं जिघांसीयान्न तेन


ब्रह्महा मवेत् " इति च स्वजीवनार्थत्वादर्थशास्त्रम् । अत्रोच्यते--" ब्रह्मणे ब्राह्मणमालभेत?' इतिवद्युद्धविधायकमपि धर्मशास्त्रमेव “सुखदुःखे समे कृत्वा" इत्यत्र दृष्टप्रयोजनानपेक्षत्वस्य वक्ष्यमाणत्वात् । याज्ञवल्क्यवचनं तु दृष्टप्रयोजनोद्देश्यककू[१११]टयुद्धादिकृतवधविषयमित्यदोषः। मिताक्षराकारस्तु धर्मार्थसंनिपातेऽर्थग्राहिण एतदेवेति द्वादशवार्षिकप्रायश्चित्तस्यैतच्छब्दपरामृष्टस्याऽऽपस्तम्बेन विधानान्मित्रलब्ध्याद्यर्थशास्त्रानुसारेण

चतुष्पाद्वयहारे शत्रोरपि जये धर्मशास्त्रातिक्रमो न कर्तव्य इत्येतत्परं वचनमेतदित्याह । भवत्वेवं न नो हानिः । तदेवं युद्धकरणे सुखोक्तेः " स्वजनं हि कथं हत्वा सुखिनः स्याम माधव " इत्यर्जुनोक्तमपाकृतम् ॥ ३२ ॥

 श्री० टी०-किं च महति श्रेयसि स्वयमेवोपगते सति कुतो विकम्पस इत्याहयदृच्छयेति । यदृच्छयाऽप्रार्थितमेवोपपन्नं प्राप्तमीदृशं युद्धं सुखिनः सभाग्या एवं लभन्ते । यतो निरावरणं स्वर्गद्वारमैवैतत् । यद्वा य एवंविधं युद्धं लभन्ते त एवं सुखिन इत्यर्थः । एतेन ‘‘स्वजनं हि कथं हत्वा सुखिनः स्याम" इति यदुक्तं तन्निरस्तं भवति ॥ ३२ ॥

 म० टी०--ननु नाहं युद्धफलकामः " न काङ्क्षे विजयं कृष्ण " "अपि त्रैलोक्यराज्यस्य " इत्युक्तत्वात्तत्कथं मया कर्तव्यमित्याशङ्कयाकरणे दोषमाह-

अथ चेत्त्वमिमं धर्म्यं सङ्ग्रामं न करिष्यसि ॥
ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि ॥३३॥

 अथेति पक्षान्तरे । इमं भीष्मद्रोणादिवीरपुरुषप्रतियोगिकं धर्म्यं हिंसादिदोषेणादृष्टं सतां धर्मादनपेतमिति वा । स च मनुना दर्शितः--

"न कुटैरायुधैहन्यायुध्यमानो रणे रिपून् ।
न कर्णिभिर्नापिं दिग्वैर्नाग्निज्वलिततेजनैः ॥
न च हन्यात्स्थलारूढं न क्लीबं न कृताञ्जलिम् ।
न मुक्तकेशं नाऽऽसीनं न तवास्मीतिवादिनम् ॥
न सुप्तं न विसन्नाहं न नग्नं न निरायुधम् ।
नायुध्यमानं पश्यन्तं न परेण समागतम् ॥
नाऽऽयुधव्यसनप्राप्तं नाऽऽतं नातिपरिक्षतम् ।
न भीतं न परावृत्तं सतां धर्ममनुस्मरन्" इति ॥

 सतां धर्ममुल्लङ्ग्य युध्यमानो हि पापीयान्स्यात् , त्वं तु परैराहूतोऽपि सद्धर्मोपेतमपि सङ्ग्रामं युद्धं न कारष्यसि धर्मतो लोकतो वा भीतः परावृत्तो भविष्यसि चेत्ततो


 "निर्जित्य पर सैन्यानि क्षिति धर्मेण पालयेत् ' इत्यादिशास्त्रविहितस्य युद्धस्याकरणात्स्वधर्मं हित्वाऽननुष्ठाय कीर्तिं च महादेवादेसमागमनिमित्तां हित्वा “ न निवर्तेत सङ्ग्रामात् " इत्यादिशास्त्रनिषिद्धसङ्ग्रामनिवृत्त्या च रणजन्यं पापमेव केवलमवाप्स्यसि न तु धर्म कीर्तिं चेत्यभिप्रायः । अथवाऽनेकजन्मार्जितं धर्मं त्यक्त्वा राजकृतं पापमेवावाप्स्यीत्यर्थः । यस्मात्त्वां परावृत्तमेते दुष्टा अवश्यं हनिष्यन्ति अतः परावृत्तहतः संश्चिरोपार्जितनिजसुकृतपरित्यागेन परोपार्जितदुष्कृतमात्रभाङय भूरित्यभिप्रायः ।

 तथा च मनुः----

"यस्तु भीतः परावृत्तः सङ्ग्रामे हन्यते परैः ।
भर्तुर्यदुष्कृतं किंचित्तत्सर्वं प्रतिपद्यते ॥
यच्चास्य सुकृतं किंचिदमुत्रार्थमुपार्जितम् ।
भर्ता तत्सर्वमादत्ते परावृत्तहतस्य तु " इति ॥

 याज्ञवल्क्योऽपि " राजा सुकृतमादत्ते हतानां विपलायिनाम्” इति ।

तेन यदुक्तं---
 "पापमेवाऽऽश्रयेदस्मान्हत्वैतानाततायिनः ।
 एतान्न हन्तुमिच्छामि घ्तोऽपि मधुसूदन "

 इति तन्निराकृतं भवति ॥ ३३ ॥

 श्री० टी०- विपक्षे दोषमाह-अथ चैत्वमिति ॥ ३३ ॥

 म० टी०–एवं कीर्तिधर्मयोरिष्टयोरप्राप्तिरनिष्टस्य च पापस्य प्राप्तिर्युद्धपरित्यागे दर्शिता । तत्र पापाख्यमनिष्टं व्यवधानेन दुःखफलदमामुत्रिकत्वात्, शिष्टगर्हालक्षणं त्वनिष्टमासन्नफलदमत्यसह्यमित्याह-

अकीर्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययाम् ॥
संभावितस्य चाकीर्तिमरणादतिरिच्यते ॥ ३४ ॥

 भूतानि देवर्षिमनुष्यादीनि ते तवाव्ययां दीर्घकालामकीर्तिं न धर्मात्माऽयं न शूरोऽयमित्येवंरूपां कथयिष्यन्त्यन्योन्यं कथाप्रसङ्गे । कीर्तिधर्मनाशसमुच्चयार्थौ निपातौ । न केवलं कीर्तिधर्मौ हित्वा पापं प्राप्स्यसि अपि तु अकीर्तिं च प्राप्स्याप्ति । न केवलं त्वमेव तां प्राप्स्यसि अपि तु भूतान्यपि कथयिष्यन्तीति वा निपातयोरर्थः । ननु युद्धे स्वमरणसंदेहात्तत्परिहारार्थमकीर्तिरपि सोढव्या, आत्मरक्षणस्यात्यन्तापेक्षितत्वात् । तथा चोक्तं शान्तिपर्वणि---

"साम्ना दानेन भेदेन समस्तैरुत वा पृथक् ।
विजेतुं प्रयतेतारीन्न युध्येत कदाचन ॥

अनित्या विजयो यस्मादृश्यते युध्यमानयोः ।
पराजयश्च सङ्ग्रामे तस्माद्युद्धं विवर्जयेत् ॥
त्रयाणामप्युपायानां पूर्वोक्तानामसंभवे
तथा युध्येत संयत्तो विजयेत रिपून्यथा " इति ॥

 एवमेव मनुनाऽप्युक्तम् । तथा च मरणभीतस्य किम कीर्ति दुःखमिति शङ्कामपनुदति--संभावितस्य धर्मात्मा शूर इत्येवमादिभिरनन्यलभ्यैगुणैर्बहुमतस्य जनस्याकीर्तिर्मरणादप्यतिरिच्यतेऽधिका भवति । चो हेतौ । एवं यस्मादतोऽकीर्तर्मरणमेव वरं न्यूनत्वात् । त्वमप्यतिसंभावितोऽसि महादेवादिसमागमेन । अतो नाकीर्तिदुःखं सोढुं शक्ष्यसीत्यभिप्रायः । उदाहृतवचनं त्वर्थशास्त्रत्वात् " न निवर्तेत सङ्ग्रामात् " इत्यादिधर्मशास्त्राद्दुर्बलमिति भावः ॥ ३४ ॥

 श्री० टी०--किं च----अकीर्तिमिति । अव्ययां शाश्वतीम् । संभावितस्य बहुमानितस्याकीर्तिमरणादतिरिच्यतेऽधिकतरा भवति ॥ ३४ ॥

 म० टी०–ननूदासीना जना मा निन्दन्तु नाम भीष्मद्रोणादयस्तु महारथाः कारुणिकत्वेन स्तोष्यन्ति मामित्यत आह --

भयाद्रणादुपरतं मंस्यन्ते त्वां महारथाः ॥
येषां च त्वं बहमतो भूत्वा यास्यसि लाघवम् ॥३५॥

 कर्णादिभ्यो भयाद्युद्धान्निवृत्तं न कृपयेति त्वां मस्यन्ते भीष्मद्रोणदुर्योधनादयो महारथाः । ननु ते मां बहु मन्यमानाः कथं भीतं मंस्यन्त इत्यत आह-येषामेव भीष्मादीनां त्वं बहुमतो बहुभिर्गुणैर्युक्तोऽयमर्जुन इत्येवं मतस्त एवं त्वां महारथा भयादुपस्ते मंस्यन्त इत्यन्वयः । अतो भूत्वा युद्धादुपरत इति शेषः । लाघवमनादरविषयत्वं यास्यसिप्राप्स्यसि । सर्वेषामिति शेषः । येषामेव त्वं प्राग्बहुमतोऽभूस्तेषामेव तादृशो भूत्वा लाधवं यास्यसीति वा ॥ ३५ ॥

 श्री० टी०-किं च---भयादिति । येषां बहुगुणत्वेन त्वं पूर्व संमतोऽभूस्त एव भयेन सङ्ग्रामात्वां निवृतं मन्येरन् । ततश्च पूर्व बहुमतो भूत्वा लाघवं यास्यसि ॥ ३५ ॥

 म० टी०-ननु भीष्मादयो महारथा न बहु मन्यन्तां दुर्योधनादयस्तु शत्रवो बहु मंस्यन्ते मा युद्धनिवृत्त्या तदुपकारित्वादित्यत आह---

अवाच्यवादांश्च बहून्वदिष्यन्ति तवाहिताः ॥
निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम् ॥ ३६॥

 तवासाधारणं यत्सामर्थ्यं लोकप्रसिद्धं तन्निन्दन्तस्तव शत्रवो दुर्योधनादयोऽ.

वाच्यान्वादान्वचनानर्हान्षण्ढ[११२]तिलादिरूपानेव शब्दान्बहूननेकप्रकारान्वदिष्यन्ति न तु बहु मंस्यन्त इत्यभिप्रायः । अथवा स्तवसामर्थ्यं स्तुतियोग्यत्वं तव निन्दन्तोऽहिता अवाच्यवादान्वदिष्यन्तीत्यन्वयः । ननु भीष्मद्रोणादिवधप्रयुक्तं कष्टतरं दुःखमसहमानो युद्धान्निवृत्तः शत्रुकृतसामर्थ्यनिन्दनादिदुःखं सोढुं शक्ष्यामीत्यत आह-ततस्तस्मान्निन्दाप्राप्तिदुःखार्त्किं नु दुःखतरं ततोऽधिकं किमपि दुःखं नास्तीत्यर्थः ॥ ३६ ॥

 श्री० टी०- किं च---अवाच्यति । अवाच्यान्वादान्वचनानर्हाञ्शब्दांस्तवाहितास्त्वच्छत्रवो वदिष्यन्ति ॥ ३६ ॥

 म० टी०---ननु तर्हि युद्धे गुर्वादिवधवशान्मध्यस्थकृता निन्दा ततो निवृत्तौ तु शत्रुकृता निन्देत्युभयतःपाशा रज्जुरित्याशङ्कय जये पराजये च लाभध्रौव्याधुद्धार्थमेवोत्थानमावश्यकमित्याह-

हतो वा प्राप्स्यसि स्वर्ग जित्वा वा भोक्ष्यसे महीम् ॥
तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः ॥ ३७॥

 स्पष्टं पूर्वार्धम् । यस्मादुभयथाऽपि ते लाभस्तस्माज्जेष्यामि शत्रून्मरिष्यामि वेति कृतनिश्चयः सन्युद्धायोत्तिष्ठ, अन्यतरफलसंदेहेऽपि युद्धकर्तव्यताया निश्चितत्वात् । एतेन " न चैतद्विद्मः कतरन्नो गरीयः । इत्यादि परिदृतम् ॥ ३७ ॥

 श्री० टी०---यच्चोक्तं न चैतद्विद्मः कतरन्नो गरीयो यद्वा जयेम यदि वा नो जयेयुः” इति तत्राऽऽह-हतो वेति । पक्षद्वयेऽपि तव लाभ एवेत्यर्थः ॥ ३७ ॥

 म० टी०-नन्वेवं स्वर्गमुद्दिश्य युद्धकरणे तस्य नित्यत्वव्याघातः, राज्यमुद्दिश्य युद्धकरणे त्वर्थशास्त्रत्वाद्धर्मशास्त्रापेक्षया दौर्बल्यं स्यात्, ततश्च काम्यस्याकरणे कुतः पापं दृष्टार्थस्य गुरुबाह्मणादिवधस्य कुतो धर्मत्वं, तथा चाथ चेदितिश्लोकार्थो व्याहत इति चेत्तत्राऽऽह--

सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ ॥
ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि ॥ ३८ ॥

 समताकरणं रागद्वेषराहित्यम्। सुखे तत्कारणे लाभे तत्कारणे जये च रागमकृत्वा, एवं दुःखे तद्धेतावलाभे तद्धेतावजये च द्वेषमकृत्वा ततो युद्धाय युज्यस्व संनद्धो भव । एवं सुखकामनां दुःखनिवृत्तिकामनां वा विहाय स्वधर्मबुद्ध्या युध्यमानो गुरुब्राह्मणादिवधनिमित्तं नित्यकर्माकरणनिमित्तं च पापं न प्राप्स्यसि । यस्तु फलकामनया करोति स गुरुब्राह्मणादिवधनिमित्तं पापं प्राप्नोति यो वा न करोति स नित्यकर्माकर-


णनिमित्तम् । अतः फलकामनामन्तरेण कुर्वन्नुभयविधमपि पापं न प्राप्नोतीति प्रागेव व्याख्यातोऽभिप्रायः । " हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम् " इति त्वानुषङ्गिकफलकथनमिति न दोषः । तथा चाऽऽपस्तम्बः स्मरति-" तद्यथाऽऽम्रे फलार्थे निमिते छायागन्धावनुत्पद्यते एवं धर्मं चर्यमाणमर्था अनुत्पद्यन्ते नो चेदनूत्पद्यन्ते न धर्महानिर्भवति " इति । अतः युद्धशास्त्रस्यार्थशास्त्रत्वाभावात् “पापमेवाऽऽश्रयेस्मान्” इत्यादि निराकृतं भवति ॥ ३८ ॥

 श्री० टी०-यद्प्युक्तं “पापमेवाऽऽश्रयेदस्मान् ” इति तत्राऽऽह-सुखदुःखे इति । सुखदुःखे समे कृत्वा तथा तयोः कारणभूतौ लाभालाभावपि तयोरपि कारणभूतौ जयाजयावापे समौ कृत्वा । एतेषां समत्वे कारणं हर्षविषादराहित्यम् । युज्यस्व संनद्धो भव । सुखाद्यभिलाषं हित्वा स्वधर्मबुद्ध्या युध्यमानः पापं न प्राप्म्यसीत्यर्थः ॥ ३८ ॥

 मे० टी०---ननु भवतु स्वधर्मबुध्द्या युध्यमानस्य पापाभावः, तथाऽपि न मां प्रति युद्धकर्तव्यतोपदेशस्तवोचितः, “य एनं वेत्ति हन्तारम्” इत्यादिना कथं स पुरुषः पार्थ के घातयति हन्ति कम्” इत्यन्तेन विदुषः सर्वकर्मप्रतिक्षेपात् । नह्यकर्त्रभोक्तृशुद्धस्वरूपोऽहमस्मि युद्धं कृत्वा तत्फलं भोक्ष्य इति च ज्ञानं संभवति विरोधात् । क्षानकर्मणोः समुच्चयासंभवात्प्रकाशतमसोरिव । अयं चार्जुनाभिप्रायो ज्यायसी चेदि त्यत्र व्यक्तो भविष्यति । तस्मादेकमेव मां प्रति ज्ञानस्य कर्मणयोपदेशो नोपपद्यत इति चेत्, न, विद्वदविद्दवस्थाभेदेन ज्ञानकर्मोपदेशोपपत्तेरित्याह भगवान्---

एषा तेऽभिहिता सांख्ये बुद्धिर्योगे त्विमां शृणु ॥
बुद्धया युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि॥ ३९ ॥

 एषा न त्वेवाहमित्याद्येकविंशति-श्लोकैस्ते तुभ्यमभिहिता सांख्ये सम्यक्स्यायते सर्वोपाधिशून्यतया प्रतिपाद्यते परमात्मतत्त्वमनयेति संख्योपनिषत्तथैव तात्पर्यपरिसमाप्त्या प्रतिपाद्यते यः स सांख्य औपनिषदः पुरुष इत्यर्थः । तस्मिन्बुद्धिस्तन्मात्रविषयं ज्ञानं सर्वानर्थनिवृत्तिकारणं त्वां प्रति मयोक्तं नैतादृशज्ञानवतः क्वचिदपि कर्मोच्यते, तस्य कार्यं न विद्यत इति वक्ष्यमाणत्वात् । यदि पुनरेवं मयोक्तेऽपि तवैपा बुद्धिर्नोदेति चित्तदोषात् , तदा तदपनयेनाऽऽत्मतत्त्वसाक्षात्काराय कर्मयोग एवं त्वयाऽनुष्ठेयः । तस्मिन्योगे कर्मयोग तु करणीयामिमां “सुखदुःखे समे कृत्वा' इत्यत्रोक्तां फलाभिसंधियागलक्षणां वुद्धिं विस्तरेण मया वक्ष्यमाणां शृणु । तुशब्दः पूर्वबुद्धेर्यो'गविषयत्वव्यतिरेकसूचनार्थः । तथा च शुद्धान्तःकरणं प्रति ज्ञानोपदेशोऽशुद्धान्तः- करणं प्रति कर्मोपदेश इति कुतः समुच्चयशङ्कया विरोधावकाश इत्यभिप्रायः । योग

विषयां बुद्धिं फलकथनेन स्तौति-यया व्यवसायात्मिकतया बुद्या कर्मसु युक्तस्त्वं कर्मेनिमित्तं बन्धमाशयाशुद्धिलक्षणं ज्ञानपतिबन्धं प्रकर्षेण पुनः प्रतिबन्धानुत्पत्तिरूपेण हास्यसि त्यक्ष्यसि । अयं भावः---कर्मनिमित्तो ज्ञानप्रतिबन्धः कर्मणैव धर्माख्येना(णा)पनेतुं शक्यते “धर्मेण पापमपनुदति" इति श्रुतेः । श्रवणादिलक्षणो विचारस्तु कर्मात्मकप्रतिबन्धरहितस्यासंभावनादिप्रतिबन्धं दृष्टद्वारेणापनयतीति न कर्मबन्धनिराकरणायोपदेष्टुं शक्यते । अतोऽत्यन्तमलिनान्तःकरणत्वाद्बहिरङ्गसाधनं कर्मैव त्वयाऽनुष्ठेयं, नाधुना श्रवणादियोग्यताऽपि तव जाता, दूरे तु ज्ञानयोग्यतेति । तथा च वक्ष्यति--- कर्मण्येवाधिकारस्ते !' इति । एतेन सांख्यबुद्धेरन्तरङ्गसाधनं श्रवणादि विहाय बहिरङ्गसाधनं कर्मैव भगवता किमित्यर्जुनायोपदिश्यत इति निरस्तम् । कर्मबन्धं संसारमीश्वरप्रसादनिमित्तज्ञानप्राप्त्या प्रहास्यसीति प्राचां व्याख्याने त्वध्याहारदोषः कर्मपदवैयर्थ्यं च परिहर्तव्यम् ॥ ३९ ॥

 श्री०टी–उपदिष्टं ज्ञानयोगमुपसंहरंस्तत्साधनं कर्मयोगं प्रस्तौति-एषा त इति । सम्यक्ख्यायते प्रकाश्यते वस्तुतत्वमनयेति संख्या सम्यग्ज्ञानं तस्मिन्प्रकाशमानमात्मतत्त्वं सौख्यं तस्मिन्करणीया बुद्धिरेषा तवाभिहिता । एवमभिहितायामपि सांख्यबुद्धौ तव चेदात्मतत्त्वमपरोक्षं न [११३]भवति तर्ह्यन्तःकरणशुद्धिद्वाराऽऽत्मतत्त्वापरोक्षार्थं कर्मयोगे त्विमां बुद्धिं शृणु । यया बुद्ध्या युक्तः परमेश्वरार्पितकर्मयोगेन(ण) शुद्धान्तःकरणः संस्तत्प्रसादप्राप्तापरोक्षज्ञानेन कर्मात्मकं बन्धं प्रकर्षेण हास्यसि त्यक्ष्यसि ॥ ३९ ॥

 म०टी०-ननु “तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन " इति श्रुत्या विविदिषां ज्ञानं चोद्दिश्य संयोगपृथक्त्वन्यायेन सर्वकर्मणां विनियोगात्तत्र चान्तःकरणशुद्धेर्द्वारत्वान्मां प्रति कर्मानुष्ठानं विधीयते । तत्र तद्यथेह क[११४]र्मजितो लोकः क्षीयत एवमेवामुत्र पुण्य[११५]जितो लोकः क्षीयते " इति श्रुतिबोधितस्य फलनाशस्य संभवाज्ज्ञानं विविदिषां चोद्दिश्य क्रियमाणस्य यज्ञादेः काम्यस्वात्सर्वाङ्गोपसंहारेणानुष्ठेयस्य यत्किंचिदङ्गासंपत्तावपि वै[११६]गुण्यापत्तेर्यक्षेनेत्यादिवाक्य- विहितानां च सर्वेषां कर्मणामेन पुरुषायुषपर्यवसानेऽपि कर्तुमशक्यत्वात्कुतः कर्मबन्धं प्रहास्यसीतिफलं प्रत्याशेत्यत आह भगवान्-

नेहाभिकमनाशोऽस्ति प्रत्यवायो न विद्यते ॥
स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् ॥ ४० ॥

 अभिक्रम्यते कर्मणा प्रारभ्यते यत्फलं सोऽभिक्रमस्तस्य नाशस्तद्यथेहेत्यादिना प्रति-


पादित इह निष्कामकर्मयोगे नास्ति, एतत्फलस्य शुद्धेः पापक्षयरूपत्वेन लोकशब्दवाच्यभोग्यत्वाभावेन च क्षयासंभवात् । वेदनपर्यन्ताया एव विविदिषायाः कर्मफलत्वाद्वेदनस्य चाव्यवधानेनाज्ञाननिवृत्तिफलजनकस्य फलमजनयित्वा नाशासंभवादिह फलनाशो नास्तीति साधूक्तम् । तदुक्तम्--

"तद्यथेहेति या निन्दा सा फले न तु कर्मणि ।
फलेच्छां तु परित्यज्य कृतं कर्म विशुद्धिकृत्' इति ॥

 तथा प्रत्यवायोऽङ्गवैगुण्यनिबन्धनं वैगुण्यमिह न विद्यते तमिति वाक्येन नित्यानामेवोपात्तदुरितक्षयद्वारेण विविदिषायां विनियोगात् । तत्र च सर्वाङ्गोपसंहारनियमाभावात् । काम्यानामपि संयोगपृथक्त्वन्यायेन विनियोग इति पक्षेऽपि फलाभिसंधिरहितत्वेन तेषां नित्यतुल्यत्वात् । नहि काम्यनित्याग्निहोत्रयोः स्वतः कश्चिद्विशेषोऽस्ति । फलाभिसंधितदभावाभ्यामेव तु काम्यत्वनित्यत्वव्यपदेशः । इदं च पक्षद्वयमुक्तं वार्तिके----

"वेदानुवचनादीनामैकात्म्यज्ञानजन्मने ।
तमेतमितिवाक्येन नित्यानां वक्ष्यते विधिः ॥
यद्वा विविदिषार्थत्वं काम्यानामपि कर्मणाम् ।
तमेतमिति वाक्येन संयोगस्य पृथक्त्वतः " इति ॥

 तथा च फलाभिसंधिना क्रियमाण एवं कर्मणि सर्वाङ्गोपसंहारनियमात्तद्विलक्षणे शुद्धयर्थे कर्मणि प्रतिनिध्यादिना समाप्तिसंभवान्नाङ्ग वैगुण्यनिमित्तः प्रत्यवायोऽस्तीत्यर्थः । तथाऽस्य शुद्धयर्थस्य धर्मस्य तमेतमित्यादिवाक्यविहितस्य मध्ये स्वल्पमपि संख्ययेतिकर्तव्यतया वा यथाशक्तिभगवदाराधनार्थं किंचिदप्यनुष्ठितं सन्महतः संसा- रभयात्त्रायते भगवत्प्रसादसंपादनेनानुष्ठातारं रक्षति ।

"सर्वपापप्रसक्तोऽपि ध्यायन्निमिषमच्युतम् ।
भूयस्तपस्वी भवति पङ्किपावनपावनः "

 इत्यादिस्मृतेः, तमेतमिति वाक्ये समुच्चयविधायकाभावाच्चाशुद्धितारतम्यादेवानुष्ठानतारतम्योपपत्तेर्युक्तमुक्तं कर्मवन्धं प्रहास्यसीति ॥ ४० ॥

 श्री० टी०-ननु कृष्यादिवत्कर्मणां कदाचिद्विन्नबाहुल्येन फले व्यभिचारान्मन्त्राद्यङ्गवैगुण्येन च प्रत्यवायसंभवात्कुतः कर्मयोगेन (ण) कर्मबन्धप्रहाणं तत्राऽऽहं--- नेहेति । इह निष्कामकर्मयोगेऽभिक्रमस्य प्रारम्भस्य नाशो निष्फलत्वं नास्ति । प्रत्यवायश्च न विद्यत ईश्वरोद्देशेनैव विघ्नवैगुण्याद्यसंभवात् । किं च---अस्य धर्मस्य स्वल्पमपि उपक्रममात्रमपि कृतं महतो भयात्संसारात्रायते रक्षति, न तु काम्यकर्मवत्किं  म० टी०-एतदुपपादनाय तमेतमितिवाक्यविहितानामैकार्थत्वमाह-

व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन ॥
बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम् ॥ ४१ ॥

 हे कुरुनन्दनेह श्रेयोमार्गे तमेतमितिवाक्ये वा व्यवसायात्मिकाऽऽत्मतत्त्वनिश्चयात्मिका बुद्धिरेकैव चतुर्णामाश्रमाणां साध्या विवक्षिता “वेदानुवचनेन' इत्यादौ तृतीयाविभक्त्या प्रत्येकं निरपेक्षसाधनत्वबोधनात् । भिन्नार्थत्वे हि समुच्चयः स्यात् । एकार्थत्वेऽपि दर्शपूर्णमासाभ्यामितिवद्वंद्वसमासेन यदग्नये च प्रजापतये चेतिवञ्चशब्देन [वा] न तथाऽत्र किंचित्प्रमाणमस्तीत्यर्थः । सांख्याविषया योगविषया च बुद्धिरेकफलत्वादेका व्यवसायात्मिका सर्वविपरीतबुद्धीनां बाधिका निर्दोषवेदवाक्यसमुत्थत्वादितरास्त्वव्यवसायिनां बुद्धयो बाध्या इत्यर्थ इति भाष्यकृतः । अन्ये तु परमेश्वराराधनेनैव संसारं तरिष्यामीति निश्चयात्मिकैकनिष्ठेव बुद्धिरिह कर्मयोगे भवतीत्यर्थमाहुः । सर्वथाऽपि तु ज्ञानकाण्डानुसारेण * स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात्" इत्युपपन्नम् । कर्मकाण्डे पुनर्बहुशाखा अनेकभेदाः कामानामनेकभेदत्वात् , अनन्ताश्च कर्मफलगुणफलादिप्रकारोपशाखाभेदात् , बुद्धयो भवन्त्यव्यवसायिनां तत्तत्फलकामानाम् । बुद्धीनामानन्त्यप्रसिद्धिद्योतनार्थो हिशब्दः । अतः काम्यकर्मापेक्षया महद्वैलक्षण्यं शुद्धयर्थकर्मणामित्यभिप्रायः ॥ ४१ ॥

 श्री० टी०–कुत इत्यपेक्षायामुभयोर्वैषम्यमाह-व्यवसायेति । इहेश्वराराधनलक्षणे कर्मयोगे व्यवसायात्मिका परमेश्वरभक्त्यैव ध्रुवं तरिष्यामीतिनिश्चयात्मिकैवैकनिष्ठेव बुद्धिर्भवति । अव्यवसायिनां तु बहिर्मुखानां(णां) कामिनां कामानामानन्त्यादनन्ताः । तत्रापि हि कर्मफलगुणफला[११७]दिप्रकारभेदाद्बहुशाखाश्च बुद्धयो भवन्ति । ईश्वराराधनार्थं हि नित्यनैमित्तिकं कर्म किंचिदङ्गवैगुण्येऽपि न नश्यति । यथा शक्नुयात्तथा कुर्यादिति हि तद्विधीयते । न च वैगुण्यम्, ईश्वरोद्देशेनैव वैगुण्योपरमात् । न तु तथा काम्यं कर्म[११८] । अतो महद्वैषम्यमिति भावः ॥ ४१ ॥

 म० टी०-अव्यवसायिनामपि व्यवसायात्मिका बुद्धिः कुतो न भवति प्रमाणस्य तुल्यत्वादित्याशङ्कय प्रतिबन्धकसद्भावान्न भवतीत्याह त्रिभिः-

यामिमां पुष्पितां वाचं प्रवदन्यविपश्चितः ॥
वेदवादरताः पार्थ नान्यदस्तीतिवादिनः ॥ ४२ ॥


कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम् ॥
क्रियाविशेषबहुलां भोगैश्वर्यगति प्रति ॥ ४३ ॥
भोगैश्वर्यप्रसक्तानां तयाऽपहृतचेतसाम् ॥
व्यवसायात्मिका बुद्धिः समाधौ न विधीयते ॥४४॥

 यामिमां वाचं प्रवदन्ति तया वाचाऽपह्रतचेतसामविपश्चितां व्यवसायात्मिका बुद्धिर्न भवतीत्यन्वयः । इमामध्ययनविध्युपात्तत्वेन प्रसिद्धां पुष्पितां पुष्पितपलाशवदापातरमणीयां साध्यसाधनसंबन्धप्रतिभानान्निरतिशयफलाभावाच्च कुतो निरतिशयफलत्वाभावस्तदाह जन्मकर्मफलप्रदां जन्म चापूर्वशरीरन्द्रियादिसंबन्धलक्षणं तदधीनं च कर्म तत्तद्वर्णाश्रमाभिमाननिमित्तं तदधीनं च फलं पुत्रपशुस्वर्गादिलक्षणं विनश्वरं तानि प्रकर्षेण घटीयन्त्रवदविच्छेदेन ददातीति तथा ताम् । कुत एवमत आह----भोगैश्वर्यगति प्रति क्रियाविशेषबहुलाममृतपानोर्वशीविहारपारिजातपरिमलादिनिबन्धनो यो भोगस्तत्कारणं च यदैश्वर्यं देवादिस्वामित्वं तयोर्गतिं प्राप्तिं प्रति साधनभूता ये क्रियाविशेषा अग्निहोत्रदर्शपूर्णमासज्योतिष्टोमादयस्तैर्बहुलां विस्तृतमतिबाहुल्येन भोगैश्वर्यसाधनक्रियाकलापप्रतिपादिकामिति यावत् । कर्मकाण्डस्य हि ज्ञानकाण्डापेक्षया सर्वत्रातिविस्तृतत्वं प्रसिद्धम् । एतादृशीं कर्मकाण्डलक्षणां वाचं प्रवदन्ति प्रकृष्टां परमार्थस्वर्गादिफलामभ्युपगच्छन्ति । के येऽविपश्चितो विचारजन्यतात्पर्यपरिज्ञानशून्याः । अत एवं वेदवादरता वेदे ये सन्ति वादा अर्थवादाः " अक्षय्यं ह वै चातुर्मास्याजिनः सुकृतं भवत" इत्येवमादयस्तेष्वेव रता वेदार्थसत्यत्वेनैववैतदिति मिथ्याविश्वासेन संतुष्टा हे। पार्थ । अत एव नान्यदस्तीतिवादिनः कर्मकाण्डापेक्षया नास्त्यन्यज्ज्ञानकाण्डं सर्वस्यापि वेदस्य कार्यपरत्वात् , कर्मफलापेक्षया च नास्त्यन्यनिरतिशयं ज्ञानफलमितिवदनशीला महता प्रबन्धेन ज्ञानकाण्डविरुद्धार्थभाषिण इत्यर्थः । कुतो मोक्षद्वेषिणस्ते । यतः कामात्मानः काम्यमानविषयशताकुलचित्तत्वेन काममयाः । एवं सति मोक्षमपि कुतो न कामयन्ते यतः स्वर्गपराः स्वर्ग एवोर्वश्याद्युपेतत्वेन पर उत्कृष्टो येषां ते तथा । स्वर्गतिरिक्तः पुरुषार्थो नास्तीति भ्राम्यन्तो विवेकवैराग्याभावान्मोक्षकथामपि सोढुमक्षमा इति यावत् । तेषां च पूर्वोक्तभोगैश्वर्ययोः प्रसक्तानां क्षयित्वादिदोषदर्शनेन निविष्टान्तःकरणानां तया क्रियाविशेषबहुलया वाचाऽपहृतमाच्छादितं चेतो विवेकज्ञानं येषां तथाभूतानामर्थवादाः स्तुत्यर्थास्तात्पर्यवि[११९]षये प्रमाणान्तराबाधिते वेदस्य प्रामाण्यमिति सुप्रसिद्धमपि ज्ञातुमशक्तानां समाधावन्तःकरणे व्यवसायात्मिका बुद्धिर्न विधीयते न भवतीत्यर्थः । समाधिविषया व्यवसायात्मिका बुद्धिस्तेषां न भवतीति वा ।


अधिकरणे विषये वा सप्तम्यास्तुल्यत्वात् । विधीयत इति कर्मकर्तरि लकारः । समाधीयतेऽस्मिन्सर्वमिति व्युत्पत्त्या समाधिरन्तःकरणं वा परमात्मा वेति नाप्रसिद्धार्थकल्पनम् । अहं ब्रह्मेत्यवस्थानं समाधिस्तन्निमित्तं व्यवसायात्मिका बुद्धिर्नोत्पद्यत इति व्याख्याने तु रूढिवाऽऽदृता । अयं भावः-यद्यपि काम्यान्यग्निहोत्रादीनि शुद्धयर्थेभ्यो न विशिष्यन्ते तथाऽपि फलाभिसंधिदोषान्नाऽऽशयशुद्धिं संपादयन्ति । भोगानुगुणा तु शुद्धिर्न ज्ञानोपयोगिनी । एतदेव दर्शयितुं भोगैश्वर्यप्रसक्तानामिति पुनरुपात्तम् । फलाभिसंधिमनुसारेण तु कृतानि ज्ञानोपयोगिनीं शुद्धिमादधतीति सिद्धं विपश्चिदविपश्चितोः फलवे पम् । विस्तरेण चैतदग्रे प्रतिपादयिष्यते ॥ ४२ ॥ ४३ ॥ ४४ ॥

 श्री० टी -ननु कामिनोऽपि कष्टान्कामा[१२०]न्विहाय व्यवसायात्मिकामेव बुद्धिं किं न कुर्वति तत्राऽऽह-यामिति । पुष्पितां पुष्पितविषलतावदापातरमणीयां प्रकृष्टां परमार्थफलपरामेव वदन्ति वाचं स्वर्गादिफलश्रुतिं ये तेषां तया वाचाऽपहृतचेतसां व्यवसाय:त्मिका बुद्धिः समाधौ न विधीयते इति तृतीयेनान्वयः । किमिति तथा वदन्ति यतोऽविपश्चित मूढाः । तत्र हेतुः-वेदे ये वादा अर्थवादाः ‘अक्षय्यं ह वै चातुर्मास्ययाजिनः सुकृतं भवति" “अपाम सोमममृता अभूम' इत्याद्यास्तेष्वेव रताः प्रीताः । अत एवातः परमन्यदीश्वरतत्त्वं प्राप्यं नास्तीति[१२१]वदनशीलाः ॥ ४२ ॥

 अत एव-कामात्मान इति । कामात्मानः कामाकुलचित्ताः । अतः स्वर्ग एवं परः पुरुषार्थो येषां ते, जन्म च तत्र कर्माणि च तत्फलानि च प्रददातीति तथा ताम्, भोगैश्वर्ययोगतिं प्राप्तिं प्रति साधनभूता ये क्रियाविशेषास्ते बहुला यस्यां तां प्रवदन्तीत्यनुषङ्गः ॥ ४३ ॥

 ततश्च-भोगैश्वर्यप्रसक्तानामिति । भोगैश्वर्ययोः प्रसक्तानामाभिनिविष्टानां तया पुष्पितया वाचाऽपहृतमाकृष्टं चेतो येषां तेषां समाधिश्चित्तैकाग्र्यं परमेश्वरैकाग्र्याभिमुखत्वं तस्मिन्निश्चयात्मिका बुद्धिर्न विधीयते । कर्मकर्तरि प्रयोगः, नोत्पद्यत इत्यर्थः ॥ ४४ ॥

  म० टी०---ननु सकामानां मा भूदाशयदोषाध्यवसायात्मिका बुद्धिः, निष्कामानां(णां) तु व्यवसायात्मकबुद्धया कर्म कुर्वतां कर्मस्वाभाव्यात्स्वर्गादिफलप्राप्तौ ज्ञानप्रतिबन्धः समान इत्याशङ्कयाऽऽहं---

त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन ॥
निर्द्वंद्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् ॥४५॥

प्रयाणां गुणानां कर्म नैगुण्यं काममूलः संसारः । स एव प्रकाश्यत्वेन विषयो


येषां तादृशा वेदाः कर्मकाण्डात्मका यो यत्फलकामस्तस्यैव तत्फलं बोधयन्तीत्यर्थः । न हि सर्वेभ्यः कामेभ्यो दर्शपूर्णमासाविति विनियोगेऽपि सकृदनुष्ठानात्सर्वफलप्राप्तिर्भवति तत्तत्कामनाविरहात् । यत्फलकामनयाऽनुतिष्ठति तदेव फलं तस्मिन्प्रयोग इति स्थितं योगसिद्ध्यधिकरणे । यस्मादेवं कामनाविरहे फलविरहस्तस्मात्त्वं निस्त्रैगुण्यो निष्कामो भव हेऽर्जुन । एतेन कर्मस्वाभाव्यात्संसारो निरस्तः । ननु शीतोष्णादिद्वंद्वप्रतीकाराय वस्त्राद्यपेक्षणात्कुतो निष्कामत्वमत आह-निर्द्वद्वः सर्वत्र भवेति संबध्यते । मात्रास्पर्शास्त्वित्युक्तन्यायेन शीतोष्णादिद्वंद्वसहिष्णुर्भव । असह्य दुःखं कथं वा सोढव्यमित्यपेक्षायामाह-नित्यसत्त्वस्थो नित्यमचञ्चलं यत्सत्वं धैर्यापरपर्यायं तस्मिस्तिष्ठतीति तथा । रजस्तमोभ्यामभिभूतसत्त्वो हि शीतोष्णादिपीडया मरिष्यामीति मन्वानो धमाद्विमुखो भवति । त्वं तु रजस्तमसी अभिभूय सत्वमात्रालम्बनो भव । ननु शीतोष्णादिसहनेऽपि क्षुत्पिपासादिप्रतीकारार्थं किंचिदनुपात्त मुपादेयमुपात्तं च रक्षणीयमिति तदर्थं यत्ने क्रियमाणे कुतः सत्त्वस्थत्वमित्यत आहनिर्योगक्षेमः, अलब्धलाभो योगः, लब्धपरिरक्षणं क्षेमस्तद्रहितो भव चित्तविक्षेपकारिपरिग्रहरहितो भवेत्यर्थः । न चैवं चिन्ता कर्तव्या कथमेवं सति जीविष्यामीति । यतः सर्वान्तर्यामी परमेश्वर एव तव योगक्षेमादि निर्वाहयिष्यतीत्याह-आत्मवान् , आत्मा परमात्मा ध्येयत्वेन योगक्षेमादिनिर्वाहकत्वेन च वर्तते यस्य स आत्मवान् । सर्वकामनापरित्यागेन परमेश्वरमाराधयतो मम स एव देहयात्रामात्रमपेक्षितं संपादयिष्यतीति निश्चित्य निश्चिन्तो भवेत्यर्थः । आत्मवानप्रमत्तो भवेति वा ॥ ४९ ॥

 श्री टी---ननु च यदि स्वर्गादिकं परमं फलं न भवति तर्हि किमिति वेदैस्तत्साधनतया कर्माणि विधीयन्ते तत्राऽऽह-त्रैगुण्यविषया इति । त्रिगुणात्मका: सकामा येऽधिकारिणस्तद्विषयास्तेषां कर्मफलसंबन्धप्रतिपादका वेदाः । त्वं तु निस्त्रैगुण्यो निष्काम भव । तत्रोपायमाह-निर्द्वद्वः सुखदुःखशीतोष्णादियुगुलानि द्वंद्वानि तद्रहितो भव, तानि सहस्वेत्यर्थः । कथमित्यत्राऽऽह-नित्यसत्त्वस्थः सन्धैर्यमवलम्ब्येत्यर्थः । तथा निर्योगक्षेमः, अप्राप्तस्वीकारो योगः, प्राप्तपरिपालनं क्षेमस्तद्रहितः । आत्मवानप्रमत्तः । नहि द्वंद्वाकुलस्य योगक्षेमव्यापृतस्य च प्रमादिनस्त्रैगुण्यतिक्रमः संभवतीति ॥ ४५ ॥

 म० टी०-न चैवं शङ्कनीयं सर्वकामनापरित्यागेन कर्म कुर्वन्नहं तैस्तैः कर्मजनितैरानन्दैर्वञ्चितः स्यामिति । य्स्मात्---

यस्मात्यावानर्थं उदपाने सर्वतःसंप्लुतोदके ॥
तावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ॥ ४६॥

 उद्पाने क्षुद्रजलाशये, जातावेकवचनं, यावानर्थो यावत्स्नानपानादि प्रयोजनं

भवति सर्वतःसंप्लुतोदके महति जलाशये तावानर्थो भवत्येव । यथा हि पर्वतनिझराः सर्वतः स्रवन्तः क्वचिदुपत्यकायामेकत्र मिलन्ति तत्र प्रत्येकं जायमानमुदकप्रयोजनं समुदिते सुतरां भवति सर्वेषां निर्झराणामेकत्रैव कासारेऽन्तर्भवात् । एवं सर्वेषु वेदेषु वेदोक्तेषु काम्यकर्मसु यावानर्थो हैरण्यगर्भानन्दपर्यन्तस्तावान्विजानतो ब्रह्मतत्त्वं साक्षात्कृतवतो ब्राह्मणस्य ब्रह्म बुभूषोर्भवत्येव । क्षुद्रानन्दानां ब्रह्मानन्दांशत्वात्तत्र क्षुद्रानन्दानामन्तर्भवात् । " एतस्यैवाऽऽनन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति । इति श्रुतेः । एकस्याप्यानन्दस्याविद्याकल्पिततत्तदुपाधिपरिच्छेदमादायांशांशिवद्व्यपदेश आकाशस्येव घटाद्यवच्छेदकल्पनया । तथा च निष्कामकर्मभिः शुद्धान्तःकरणस्य तवाऽऽत्मज्ञानोदये परब्रह्मानन्दप्राप्तिः स्यात्तथैव च सर्वानन्दप्राप्तौ न शूद्रानन्दाप्राप्तिनिबन्धनवैयग्र्यावकाशः । अतः परमानन्दप्रापकाय तत्त्वज्ञानाय निष्कामकर्माणि कुर्वित्यभिप्रायः । अत्र यथा तथा भवतीतिपदत्रयाध्याहारो यावांस्तावानितिपदद्वयानुषङ्गश्च दार्ष्टान्तिके द्रष्टव्यः ॥ ४६ ॥

 श्री० टी०-ननु वेदोक्तनानाफलपरित्यागेन निष्कामतयेश्वराराधनविषया व्यवसायाात्मका बुद्धिस्तु कुबुद्धिरेवेत्याशङ्ख्याऽऽह-यावानिति । उदकं पीयतेऽस्मिन्नित्युदपानं वापी[१२२]कूपतड़ागादि तस्मिन्स्वल्पोदक एकत्र कृत्स्नस्यार्थस्यासंभवात्तत्र तत्र परिभ्रमणेन विभागशो यावान्स्नानपानादिरर्थः प्रयोजनं भवति तावान्सर्वोऽप्यर्थः सर्वतःसंप्लुतोदके महाहद एकत्रैव यथा भवति एवं यावान्सर्वेषु वेदेषु तत्तत्कर्मफलरूपोऽर्थस्तावान्सर्वोऽपि विजानतो व्यवसायात्मकबुद्धियुक्तस्य ब्राह्मणस्य ब्रह्मनिष्ठस्य भवत्येव ब्रह्मानन्दे क्षुद्रानन्दानामन्तर्भूतत्वात् , " एतस्यैवाऽऽनन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति !' इति श्रुतेः । तस्मादियमेव बुद्धिः सुबुद्धिरित्यर्थः ॥ ४६ ॥

 म० टी०---ननु निष्कामकर्मभिरात्मज्ञानं संपाद्य परमानन्दप्राप्तिः क्रियते चेदाऽऽत्मज्ञानमेव तर्हि संपाद्यं किं बह्वायासैः कर्मभिर्बहिरङ्गसाधनभूतैरित्याशङ्कयाऽऽह-

कर्मण्येवाधिकारस्ते मा फलेषु कदाचन ॥
मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि ॥ ४७ ॥

 ते तवाशुद्धान्तःकरणस्य तात्त्विकज्ञानोत्पत्ययोग्यस्य कर्मण्येवान्तःकरणशोधकेऽधिकारो मयेदं कर्तव्यमिति बोधोऽस्तु न ज्ञाननिष्ठारूपे वेदान्तवाक्यविचारादौ । कर्म च कुर्वतस्तव तत्फलेषु स्वर्गादिषु कदाचन कस्यांचिदम्यवस्थायां कर्मानुष्ठानात्प्रागूर्ध्वं तत्काले वाऽधिकारो मयेदं भोक्तव्यमिति बोधो माऽस्तु । ननु मयेदं भोक्तव्यमितिबु-


इयभावेऽपि कर्म स्वसामर्थ्यादेव फलं जनायिष्यतीति चेन्नेत्याह-मा कर्मफलहेतुर्भू:, फलकामनया हि कर्म कुर्वन्फलस्य हेतुरुत्पादको भवति । त्वं तु निष्कामः सन्कर्मफलहेतुर्मा भूः । न हि निष्कामेन (ण) भगवदर्पणबुद्धया कृतं कर्म फलाय कल्पत इत्युक्तम् । फलाभावे किं कर्मणेत्यत आह-मा ते सङ्गोऽस्त्वकर्मणि, यदि फलं नेष्यते किं कर्मणा दुःखरूपेणेति अकरणे तव प्रीतिर्मा भूत् ॥ ४७॥

 श्री० टी०---तर्हि सर्वकर्मफलानि परमेश्वराराधनादेव भविष्यन्तीत्यभिसंधाय प्रवर्तेत्याशङ्कय तद्वारयन्नाह-कर्मण्येवेति । ते तव तत्त्वज्ञानार्थिनः कर्मण्येवाधिकारः । तत्फलेषु बन्धहेतुष्वधिकारः कामो माऽस्तु । ननु, कर्मणि कृते तत्फलं स्यादेव भोजने कृते तृप्तिवदित्याशङ्कयाऽऽह-मा कर्मफलहेतुर्भूः । कर्मफले प्रवृत्तिहेतुर्यस्य तथाभूतो मा भूः । कामितस्यैव स्वर्गादिनियोज्यविशेषणत्वेन फलत्वादकामितं फलं न स्यादिति भावः । अत एव फलं बन्धकं भविष्यतीति भयादकर्मणि कर्माकरणेऽपि तव सङ्गो निष्ठा माऽस्तु ॥ ४७ ॥

 म० टी०-पूर्वोक्तमेव विवृणोति-

योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनंजय ॥
सिद्धयसिद्धयोः समो भूत्वा समत्वं योग उच्यते ॥४८॥

 हे धनंजय त्वं योगस्थः सन्सङ्गं फलाभिलाषं कर्तृत्वाभिनिवेशं च त्यक्त्वा कर्माणि कुरु । अत्र बहुवचनात्कर्मण्येवाधिकारस्त इत्यत्र जातानेकवचनम् । सङ्गत्यागोपायमाह---सिध्द्यसिध्ध्योः समो भूत्वा फलसिद्धौ हर्षं फलासिद्धौ च विषादं त्यक्त्वा केवलमीश्वराराधनबुद्धया कर्माणि कुर्वित्यर्थः । ननु योगशब्देन प्राक्कर्मोक्तम् । अत्र तु योगस्थः कर्मणि कुर्वित्युच्यते । अतः कथमेतद्वोढुं शक्यमित्यत आह-समत्वं योग उच्यते । यदेतत्सिदध्ध्यसिध्ध्योः समत्वमिदमेव योगस्थ इत्यत्र योगशब्देनोच्यते न तु कर्मेति न कोऽपि विरोध इत्यर्थः । अत्र पूर्वार्धस्योत्तरार्धेन व्याख्यानं क्रियत इत्यपौनरुक्त्यमिति भाष्यकारीयः पन्थाः । “सुखदुःखे समे कृत्वा" इत्यत्र जयाजयसाम्येन युद्धमात्रकर्तव्यता प्रकृतत्वादुक्ता । इह तु दृष्टादृष्टसर्वफलपरित्यागेन सर्वकर्मकर्तव्यतेति विशेषः ॥ ४८॥

 श्री० टी०किं तर्हि-योगस्थ इति । योगः परमेश्वरैकपरता तत्र स्थितः कर्माणि कुरु । तथा[१२३]पि सङ्गे कर्तृत्वाभिनिवेशं त्यक्त्वा केवलमीश्वराश्रयेणैव कुरु । तत्फलस्य ज्ञानस्यापि सिध्ध्यसिध्ध्योः सम भूत्वा केवलमीश्वरा[१२४]र्पणेनैव कुरु । यत एवंभूतं समत्वमेव योग उच्यते सद्भिः, चित्तसमाधानरूपत्वात् ॥ ४८ ॥


 म० टी०-ननु किं कर्मानुष्ठानमेव पुरुषार्थों येन निष्फलमेव सदा कर्तव्यमित्युच्यते " प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते " इति न्यायात्, तद्वरं फलकामनयैव कर्मानुष्ठानमिति चेन्नेत्याह-

दूरेण ह्यवरं कर्म बुद्धियोगाद्धनंजय ॥
बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः ॥ ४९ ॥

 बुद्धियोगादात्मबुद्धिसाधनभूतान्निष्कामकर्मयोगाह्ररेणातिविप्रकणावरमधर्म · कर्म फलाभिसंधिना क्रियमाणं जन्ममरणहेतुभूतम् । अथवा परमात्मबुद्धियोगाद्दुरेणावरं सर्वमपि कर्म हि यस्माद्धे धनंजय तस्माद्बुद्धौ परमात्मबुद्धौ सर्वानर्थनिवर्तिकायां शरणं प्रतिबन्धकपापक्षयेण रक्षकं निष्कामकर्मयोगमन्विच्छ कर्तुमिच्छ । ये तु फलहेतवः फलकामा अवरं कर्म कुर्वन्ति ते कृपणाः सर्वदा जन्ममरणादिघटीयन्त्रभ्रमणेन परवशी अत्यन्तदीना इत्यर्थः । " यो वा एतदक्षरं गार्ग्यविदित्वाऽस्माल्लोकात्प्रेति स कृपणः " इति श्रुतेः । तथा च त्वमपि कृपणो मा भूः किंतु सर्वार्थनिवर्तकात्मज्ञानोत्पादकं निष्काम कर्मयोगमेवानुतिष्ठेत्यभिप्रायः । यथा हि कृपणा जना अतिदुःखेन धनमर्जयन्तो यत्किंचिदृृष्टसुखमात्रलोभेन दानादिजनितं महत्सुखमनुभवितुं न शक्नुवन्तीत्यात्मानमेव वञ्चयन्ति तथा महता दुःखेन कर्माणि कुर्वाणाः क्षुद्रफलमात्रलोभेन परमानन्दानुभवेन वञ्चिता इत्यहो दौभाग्यं मौढ्यं च तेषामिति कृपणपदेन ध्वनितम् ॥ ४९ ॥

 श्री० टी०-काम्यं तु कर्मातिनिकृष्टमित्याह-दूरेणेति । बुद्धया व्यवसायात्मिकया कृतः कर्मयोगो बुद्धियोगः, बुद्धिसाधनभूतो वा, तस्मात्सकाशादन्यत्काभ्यं कर्म दूरेणावरमत्यन्तमपकृष्टम् । हि यस्मादेवं तस्माद्बुद्धौ ज्ञाने शरणमाश्रयं कर्मयोगमन्विच्छानुतिष्ठ । यद्वा बुद्धौ शरणं त्रातारमीश्वरमाश्रयेत्यर्थः । फलहेतवस्तु सकामा नराः कृपणा दीनाः । "यो वा एतदक्षरमविदित्वा गार्ग्यस्माल्लोकात्प्रैति स कृपणः इति श्रुतेः ॥ ४९ ॥

 म० टी०एवं बुद्धियोगाभावे दोषमुक्त्वा तद्भावे गुणमाह-

बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते ॥
तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम् ॥५०॥

 इह कर्मसु बुद्धियुक्तः समत्वबुध्ध्या युक्तो जहाति परित्यजति उभे सुकृतदुष्कृते पुण्यपापे सत्त्वशुद्धिज्ञानप्राप्तिद्वारेण । यस्मादेवं तस्मात्समत्वबुद्धियोगाय त्वं युज्यस्व घटस्वोद्युक्तो भव । यस्मादीदृशः समत्वबुद्धियोग ईश्वरार्पितचेतसः कर्मसु प्रवर्तमानस्य कौशलं कुशलभावो यद्बन्धहेतूनामपि कर्मणां तदभावो मोक्षपर्यवसायित्वं च तन्मह त्कौशलं समत्वबुद्धियुक्तः कर्मयोगः कर्मात्माऽपि सन्दृष्टकर्मक्षयं करोतीति महाकुशलत्त्वं तु न कुशलो यतश्चेतनोऽपि सन्सजातीयदुष्टक्षयं न करोषीति व्यतिरेकोऽत्र ध्वनितः । अथवा-इह समत्वबुद्धियुक्ते कर्मणि कृते सति सत्त्वशुद्धिद्वारेण बुद्धियुक्तः परमात्मसाक्षात्कारवान्सञ्जात्युभे सुकृतदुष्कृते । तस्मात्समत्वबुद्धियुक्ताय कर्मयोगाय युज्यस्व । यस्मात्कर्मसु मध्ये समत्वबुद्धियुक्तः कर्मयोगः कौशलं कुशलो दुष्टकर्मनिवारणचतुर इत्यर्थः ॥ ५० ॥

 श्री० टी०-बुद्धियोगयुक्तस्तु श्रेष्ठ इत्याह-बुद्धीति । सुकृतं स्वर्गादिप्रापकं दुष्कृतं निरयादिप्रापकं ते उभे इहैव जन्मनि परमेश्वरप्रसादेन जहाति त्यजति । तस्माद्योगाय तदर्थाय कर्मयोगाय युज्यस्व घटस्व । यतः कर्मसु यत्कौशलं बन्धकानामपि तेषामीश्वराराधनेन मोक्षपरत्वसंपादनचातुर्यं स एव योगः ॥ ५० ॥

 म० टी०-ननु दुष्कृतहानमपेक्षितं न तु सुकृतहानं पुरुषार्थभ्रंशापत्तेरित्याशङ्कय तुच्छफलत्यागेन परमपुरुषार्थप्राप्तिं फलमाह-

कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः ॥
जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम् ॥ ५१ ॥

 समत्वबुद्धियुक्ता हि यस्मात्कर्मजं फलं त्यक्त्वा केवलमीश्वराराधनार्थं कर्माणि कुर्वाणाः सत्त्वशुद्धिद्वारेण मनीषिणस्तत्त्वमस्यादिवाक्यजन्यात्ममनीषावन्तो भवन्ति । तादृशाश्च सन्तो जन्मात्मकेन बन्धेन विनिर्मुक्ता विशेषेणाऽऽत्यन्तिकत्वलक्षणेन निरवशेषं मुक्ताः पदं पदनीयमात्मतत्त्वमानन्दरूपं ब्रह्मानामयमविद्यातत्कार्यात्मकरोगरहितमभयं मोक्षाख्यं पुरुषार्थं गच्छन्त्यभेदेन प्राप्नुवन्तीत्यर्थः । यस्मादेवं फलकामनां त्यक्त्वा समत्वबुद्धया कर्माण्यनुतिष्ठन्तस्तैः कृतान्तःकरणशुद्धयस्तत्त्वमस्यादिप्रमाणोत्पन्नात्मतत्त्वज्ञानविनष्टाज्ञानतत्कार्याः सन्तः सकलानर्थनिवृत्ति परमानन्दप्राप्तिरूपं मोक्षाख्यं विष्णोः परमं पदं गच्छन्ति तस्मात्त्वमपि यच्छ्रेयः स्यानिश्चितं ब्रूहि तन्म इत्युक्तेः श्रेयो जिज्ञासुरेवंविधं कर्मयोगमनुतिष्ठेति भगवतोऽभिप्रायः ॥ ५१ ॥

 श्री० टी०-कर्मणां मेक्षिसाधनत्वप्रकारमाह-कर्मेति । कर्मजं फलं त्यक्त्वा केवलमीश्वराराधनार्थं कर्माणि कुर्वाणा मनीषिणो ज्ञानिनो भूत्वा जन्मरूपेण बन्धेन विनिर्मुक्ताः सन्तोऽनामयं सर्वोपद्रवरहितं विष्णोः पदं मोक्षाख्यं गच्छन्ति ॥ ५१ ॥

 म० टी०एवं कर्मण्यनुतिष्ठतः कदा मे सत्त्वशुद्धिः स्यादित्यत आह-

यदा ते मोहकलिलं बुद्धियतितरिष्यति ॥
तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ॥ ५२ ॥

३ ख. ग. घ. ङ. च. छ. ज. झ. ञ. ’रयप्रा’ ।

 न ह्येतावता कालेन सत्त्वशुद्धिर्भवतीति कालनियमोऽस्ति । किंतु यदा यस्मिन्काले ते तव बुद्धिरन्तःकरणं मोहकलिलं व्यतिरिष्यति अविवेकात्मकं कालुष्यमहमिदं ममेदमित्याद्यज्ञानविलसितमतिगहनं व्यतिक्रमिष्यति रजस्तमोमलमपहाय शुद्धभावमाप त्स्यत इति यावत् । तदा तस्मिन्काले श्रोतव्यस्य श्रुतस्य च कर्मफलस्य निर्वेदं वैतृष्ण्यं गन्तासि प्राप्तासि । “ परीक्ष्य लोकान्कर्मचितान्ब्राह्मणो निर्वेदमायात् " इति श्रुतेः । निवेदेन फलेनान्तःकरणशुद्धिं ज्ञास्यसीत्यभिप्रायः ॥ ५२ ॥

 श्री० टी०-कदा तत्पदमहं प्राप्स्यामीत्यपेक्षायामाह यदेति द्वाभ्याम्---मोहो देहादिष्वात्मबुद्धिस्तदेव कलिलं गहन कलिलं गहने विदुरित्यभिधानकोशस्मृतेः । ततश्चायमर्थः-एवं परमेश्वराराधने क्रियमाणे यदा तत्प्रसादेन तव बुद्धिदेहाभिमानलक्षणं मोहमयं गहनं दुर्ग विशेषणातितरिष्यति तदा श्रोतव्यस्य श्रुतस्य चार्थस्य निर्वेद वैराग्यं गन्तासि प्राप्स्यसि । तयोरनुपादेयत्वेन जिज्ञासां न करिष्यसीत्यर्थः ॥ ५२ ॥

 म० टी०–अन्तःकरणशुद्धयैवं जातनिर्वेदस्य कदा ज्ञानप्राप्तिरित्यपेक्षाया- माह-

श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला ॥
समाधावचला बुद्धिस्तदा योगमवाप्स्यसि ॥ ५३ ॥

 ते तव बुद्धिः श्रुतिभिर्नानाविधफलश्रवणैरविचरिततात्पर्यैर्विप्रतिपन्नाऽनेकविध संशयविपर्यासवत्वेन विक्षिप्ता प्राक्, यदा यस्मिन्काले शुद्धिजविवेकजनितेन दोषदर्शनेन तं विक्षेपं परित्यज्य समाधौ परमात्मनि निश्चला जाग्रत्स्वप्नदर्शनलक्षणविक्षेपरहिताऽचला सुषुप्तिमूर्च्छास्तब्धीभावादिरूपलवलक्षण चलनरहिता सती स्थास्यति लयविक्षेपलक्षणौ दोषौ परित्यज्य समाहिता भविष्यतीति यावत् । अथवा निश्चलाऽसंभावनाविपरीतभावनारहिताऽचला दीर्घकालादरनैरन्तर्यसत्कार सेवनैर्विजातीयप्रत्ययादूषिता सती निर्वातप्रदीपवदात्मनि स्थास्यतीति योजना । तदा तस्मिन्काले योगं जीवपरमात्मैक्यलक्षणं तत्त्वमस्यादिवाक्यजन्यमखण्डसाक्षात्कारं सर्वयोगफलमवाप्स्यसि । तदा पुनः साध्यान्तराभावात्कृतकृत्यः स्थितप्रज्ञो भविष्यसीत्यभिप्रायः ॥ ५३ ॥

 श्री० टी०-ततश्च -श्रुतीति । श्रुतिभिर्नानावैदिकलौकिकार्थश्रवणैर्विप्रतिपन्नेतः पूर्वं विक्षिप्ता सती ते तव बुद्धिर्यदा समाधौ स्थास्यति समाधीयते चित्तमस्मिन्निति समाधिः परमेश्वरस्तस्मिन्निश्चला विषयान्तरैरनाकृष्टाऽत एवाचलाऽभ्यासपटुत्वेन तत्रैव स्थिरा च सती तदा योगं योगफलं तत्त्वज्ञानमवाप्स्यसि ॥ ५३ ॥

 म० टी०एवं लब्धावसरः स्थितप्रज्ञलक्षणं ज्ञातुमर्जुन उवाच । यान्येव हि जीवन्मुक्तानां लक्षणानि तान्येव मुमुक्षुणां मोक्षोपायभूतानीति मन्वानः- तथा सुखेषु सत्त्वपरिणामरूपप्रत्यात्मकचित्तवृत्तिविशेषेषु त्रिविधेषु प्रारब्धपुण्यकर्मप्राप्तेितेषु विगतस्पृह आगामितज्जातीयसुखस्पृहारहितः । स्पृहा हि नाम सुखानुभवकाले तज्जातीयसुखस्य कारणं धर्ममननुष्ठाय वृथैव तदाकाङ्क्षारूपा तामसी चित्तवृत्तिर्भ्रान्तिरेव । सा चाविवेकिन एव जायते । न हि कारणाभावे कार्य भवितुमर्हति । अतो यथा सति कारणे कार्यं मा भूदिति वृथाकाङ्क्षारूप उद्वेगो विवेकिनो न संभवति तथैवासति कारणे कार्यं भूयादिति वृथाकाङ्क्षारूपा तृष्णात्मिका स्पृहाऽपि नोपपद्यते प्रारब्धकर्मणः सुखमात्रप्रापकत्वात् । हर्षात्मिका वा चित्तवृत्तिः स्पृहाशब्देनोक्ता । साऽपि भ्रान्तिदेव-अहो धन्योऽहं यस्य ममेदृशं सुखमुपस्थितं को वा मया तुल्यस्त्रिभुवने केन वोपायेन ममेदृशं सुखं न विच्छिद्यतेत्येवमात्मिकोत्फुल्लतारूपा तामसी चित्तवृत्तिः । अत एवोक्तं भाष्ये---* नाग्निरिवेन्धनाद्याधाने यः सुखान्यनुविवर्धते स विगतस्पृहः' इति । वक्ष्यति च----" न प्रहृप्ये- त्प्रियं प्राप्य नोद्विजेत्प्राप्य चाप्रियम्" इति । साऽपि न विवेकिनः संभवति भ्रान्तित्वात् । तथा वीतरागभयक्रोधः । रागः शोभनाध्यासनिबन्धनो विषयेषु रञ्जनात्मकश्चित्तवृत्तिविशेषोऽत्यन्ताभिनिवेशरूपः । रागविषयस्य नाशके समुपस्थिते तन्निवारणासामर्थ्यमात्मनो मन्यमानस्य दैन्यात्मकश्चित्तवृत्तिविशेषो भयम् । एवं रागविषयविनाशके समुपस्थिते तन्निवारणसामर्थ्येमात्मनो मन्यमानस्याभिज्वलनात्मकश्चित्तवृत्तिविशेषः क्रोधः । ते सर्वे विपर्ययरूपत्वाद्विगता यस्मात्स तथा । एतादृशो मुनिर्मननशीलः संन्यासी स्थितप्रज्ञ उच्यते । एवंलक्षणः स्थितधीः स्वानुभवप्रकटनेन शिष्यशिक्षार्थमनुद्वेगनिस्पृहत्वादिवाचः प्रभाषत इत्यन्वय उक्तः । एवं चान्योऽपि मुमुक्षुर्दुःखे नोद्विजेत्सुखे न प्रहृष्येत् , रागभ- यक्रोधरहितश्च भवेदित्यभिप्रायः ॥ ५६ ॥

 श्री० टी०–किं च-दुःखेष्विति । दुःखेषु प्राप्तेष्वपि अनुद्विग्नमक्षुभितं मनो यस्य सः । सुखेषु विगता स्पृहा यस्य सः । तत्र हेतुः---वीता अपगती रागभयक्रोधा यस्मात् । तत्र रागः प्रीतिः । स मुनिः स्थितधीः स्थितप्रज्ञ इत्युच्यते ॥ ५६ ॥

 म० टी०-किं च---

यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम् ॥
नाभिनन्दति न दृष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥ ५७ ॥

 सर्वदेहेषु जीवनादिष्वपि यो मुनिरनभिस्नेहः, यस्मिन्सत्यन्यदीये हानिवृद्धी स्वस्मिन्नारोप्येते स तादृशोऽन्यविषयः प्रेमापरपर्यायस्तामसो वृत्तिविशेषः स्नेहः सर्वप्रकारेण तद्रहितोऽनभिस्नेहः । भगवति परमात्मनि तु सर्वथाऽभिस्नेहवान्भवेदेव, अनात्मस्नेहा मावस्य तदर्थत्वादिति द्रष्टव्यम् । तत्तत्प्रारब्धकर्मपरिप्रापितं शुभं सुखहेतु विषय प्राप्य नाभिनन्दति हर्षविशेषपुरःसरं न प्रशंसति । अशुभं दुःखहेतुं विषयं प्राप्य न द्वेष्टि अन्तरसूयापूर्वकं न निन्दति । अज्ञस्य हि सुखहेतुर्यः स्वकलत्रादिः से शुभो विषयस्तद्गुणकथनादिप्रवर्तिका धीवृत्तिर्भ्रान्तिरूपाऽभिनन्दः । स च तामसः, तद्गुणकथनादेः परप्ररोचनार्थत्वाभावेन व्यर्थत्वात् । एवमसूयोत्पादनेन दुःखहेतुः । परकीयविद्याप्रकर्षादिरेनं प्रत्यशुभो विषयस्तन्निन्दादिप्रवर्तिका भ्रान्तिरूपा धीवृत्तिद्वेषः । सोऽपि तामसः, तन्निन्दाया निवारणार्थत्वाभावेन व्यर्थत्वात् । तावभिनन्दद्वेषौ भ्रान्तिरूपौ तामसौ कथमभ्रान्ते शुद्धसत्वे स्थितप्रज्ञे संभवतां तस्माद्विचालकाभावात्तस्यानभिस्नेहस्य हर्षविषादरहितस्य मुनेः प्रज्ञा परमात्मतत्त्वविषया प्रतिष्ठिता फलपर्यवसायिनी स स्थितप्रज्ञ इत्यर्थः । एवमन्योऽपि मुमुक्षुः सर्वत्रानभिस्नेहो भवेत् । शुभं प्राप्य न प्रशंसेत्, अशुभं प्राप्य न निन्देदित्यभिप्रायः । अत्र च निन्दाप्रशंसादिरूपा वाचो न प्रभाषेतेति व्यतिरेक उक्तः ॥ ५७ ॥

 श्री० टी०-कथं प्रभाषेतेत्यस्येत्तरमाह-य इति । यः सर्वत्र पुत्रमित्रादिष्वपि अनाभलेहः स्नेहशून्यः । अत एव बाधितानुवृत्त्या तत्तच्छुभमनुकूलं प्राप्य नाभिनन्दति न प्रशंसति । अशुभं प्रतिकूल प्राप्य न द्वेष्टि न निन्दति । किं तु केवलमुदासीन एव भाषते, तस्य प्रज्ञा प्रतिष्ठितेत्यर्थः ॥ ५७ ॥

 म० टी०-इदानीं किमासीतेति प्रश्नस्योत्तरं वक्तुमारभते भगवान्षड्भिः श्लोकैः । तत्र प्राब्धकर्मवशाद्व्युत्थानेन विक्षिप्तानीन्द्रियाणि पुनरुपसंहृत्य समाध्यर्थमेव स्थित प्रज्ञस्योपवेशनमिति दर्शयितुमाह---

यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः ॥
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥५८ ॥

 अयं व्युत्त्थितः सर्वशः सर्वाणीन्द्रियाणीन्द्रियार्थेभ्यः शब्दादिभ्यः सर्वेभ्यः । चः पुनरर्थे । यदा संहरते पुनरुपसंहरति संकोचयति । तत्र दृष्टान्तः कूर्मोङ्गानीव । तदा तस्य प्रज्ञा प्रतिष्ठितेति स्पष्टम् । पूर्वलोकाभ्यां व्युत्थानदशायामपि सकलता- मसवृत्त्यभाव उक्तः । अधुना ते पुनः समाध्यवस्थायां सकलवृत्त्यभाव इति विशेषः ॥ ५८ ॥

 श्री० टी०----किं च---यदेति '। यदा चायं योगीन्द्रियार्थेभ्यः शब्दादिभ्यः सकाशादिन्द्रियाणि संहरते प्रत्याहरति । अनायासेन संहारे दृष्टान्तः----अङ्गानि करचरणादीनि कूर्मों यथा स्वभावेनैवाऽऽकर्षति तद्वत् ॥ ५८ ॥

 म० टी०---ननु मूढस्यापि रोगादिवशाद्विषयेभ्य इन्द्रियाणामुपसंहरणं भवति तत्कथं तस्य प्रज्ञा प्रतिष्ठितेत्युक्तमत आह--

विषया विनिवर्तन्ते निराहारस्य देहिनः ॥
रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते ॥ ५९ ॥

 निराहारस्येन्द्रियैर्विषयाननाहरतो देहिना देहाभिमानवतो मूढस्यापि रोगिणः काष्ठतपस्विनो वा विषयाः शब्दादयो विनिवर्तन्ते किं तु रसवर्जं रसस्तृष्णा तं वर्जयित्वा । अज्ञस्य विषया निवर्तन्ते तद्विषयो रागस्तु न निवर्तत इत्यर्थः । अस्य तु । स्थितप्रज्ञस्य परं पुरुषार्थं दृष्ट्वा तदेवाहमस्मीति साक्षात्कृत्य स्थितस्य रसोऽपि क्षुद्रसुखरागोऽपि निर्वतते । अपिशब्दाद्विषयाश्च । तथाच यावानर्थ इत्यादौ व्याख्यातम् । एवं च सरागविषयनिवृत्तिः स्थितप्रज्ञलक्षणमिति न मूढे व्यभिचार इत्यर्थः । यस्मान्नासति परमात्मसम्यग्दर्शने सरागविषयोच्छेदस्तस्मात्सरागविषयोच्छेदिकायाः सम्यग्दर्शनात्मिकायाः प्रज्ञायाः स्थैर्य महता यत्नेन संपादयेदित्यभिप्रायः ॥ ५९ ॥

 श्री०टीं-ननु नेन्द्रियाणां विषयेष्वप्रवृत्तिः स्थितप्रज्ञस्य लक्षणं भवितुमर्हति जडानामातुराणामुपवासपराणां च विषयेष्वप्रवृत्तेर विशेषात्तत्राऽऽह-विषया इति । इन्द्रियैर्विषयाणामाहरणं ग्रहणमाहारः । निराहारस्येन्द्रियैर्विषयग्रहणमकुर्वतो देहिनो देहाभिमानिनोऽज्ञस्य विषया विनिवर्तन्ते तदनुभवो निवर्तत इत्यर्थः। किं तु रसो रागोऽभिलाषस्तद्वर्जम् । अभिलाषस्तु न निवर्तते इत्यर्थः । रसोऽपि रागोऽपि परं परमात्मानं दृष्ट्वाऽस्य स्थितप्रज्ञस्य सतो निवर्तते नश्यतीत्यर्थः । यद्वा निराहारस्योपवासपरस्य विषयाः प्रायशो विनिवर्तन्ते क्षुधासंतप्तस्य शब्दस्पर्शाद्यपेक्षाभावात् । परंतु रसवर्जम् । रसापेक्षा तु न निवर्तत इत्यर्थः । शेषं समानम् ॥ ५९ ॥

 म० टी०---तत्र प्रज्ञास्थैर्ये बाह्येन्द्रियनिग्रहो मनोनिग्रहश्चासाधारणं कारणं तदुभयाभावे प्रज्ञानाशदर्शनादिति वक्तुं बाह्यन्द्रियनिग्रहाभावे प्रथमं दोषमाह-

यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः ॥
इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ॥ ६० ॥

 हे कौन्तेय यततो भूयो भूयो विषयदोषदर्शनात्मकं यत्नं कुर्वतोऽपि, चक्षिङो ङित्त्वकरणादनुदात्तेतोऽनावश्यकमात्मनेपदमिति ज्ञापनात्परस्मैपदमविरुद्धम् । विपश्चितोऽत्यन्तविवेकिनोऽपि पुरुषस्य मनः क्षणमात्रं निर्विकारं कृतमपीन्द्रियाणि हरन्ति विकारं प्रापयन्ति । ननु विरोधिनि विवेके सति कुतो विकारप्राप्तिस्तत्राऽऽह---प्रमाथीनि प्रमथनशीलानि अतिबलीयत्वाद्विवेकोपमर्दनक्षमाणि । अतः प्रसभं प्रमह्य बलात्कारेण पश्यत्येव विपश्चिति स्वामिनि विवेके च रक्षके सति सर्वप्रमाथित्वादेवेन्द्रियाणि विवेकजप्रज्ञायां प्रविष्टं मनस्ततः प्रच्याव्य स्वविषयाविष्टत्वेन हरन्तीत्यर्थः । हिशब्दः प्रसिद्धिं द्योतयति । प्रसिद्धो ह्ययमर्थो लोके यथा प्रमाथिनो दस्यवः प्रसभमेव धनिनं धनरक्षकं चाभिभूय तयोः पश्यतोरेव धनं हरन्ति तथेन्द्रियाण्यपि विषयसंनिधाने मनो हरन्तीति ॥ ६ ० ॥

 श्री० टी०-इन्द्रियसंयम विना तु स्थितप्रज्ञता न संभवति अतः साधकावस्थायां तत्र महान्प्रयत्नः कर्तव्य इत्याह यततो ह्यपीतिद्वाभ्याम्-यततो मोक्षे प्रयतमानस्यापि विपश्चितो विवेकिनोऽपि मन इन्द्रियाणि प्रसभं बलाद्धरन्ति । यतः प्रमाथीनि प्रमथनशीलानि प्रक्षोभकाणि ॥ ६० ॥

 म० टी०–एवं तहिं तत्र कः प्रतीकार इत्यत आह-

तानि सर्वाणि संयम्य युक्त आसीत मत्परः ॥
वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ॥६१॥

 तानीन्द्रियाणि सर्वाणि ज्ञानकर्मसाधनभूतानि संयम्य वशीकृत्य युक्तः समाहितो निगृहीतमनाः सन्नासीत निर्व्यापारस्तिष्ठेत् । प्रमाथिनां कथं स्ववशीकरणमिति चेत्तत्राऽऽह-मत्पर इति । अहं सर्वात्मा वासुदेव एव पर उत्कृष्ट उपादेयो यस्य स मत्पर एकान्तमद्भक्त इत्यर्थः । तथा चोक्तम्-- न वासुदेवभक्तानामशुभं विद्यते क्वचित् " इति । यथा हि लोके बलवन्तं राजानमाश्रित्य दस्यवो निगृह्यन्ते राजाश्रितोऽयमिति ज्ञात्वा च स्वयमेव तद्वश्या भवन्ति तथैव भगवन्तं सर्वान्तर्यामिणमाश्रित्य तत्प्रभावेणैव दुष्टानीन्द्रियाणि निग्राह्याणि पुनश्च भगवदाश्रितोऽयमिति मत्वा तानि तद्वश्यान्येव भवन्तीति भावः । यथा च भगवद्भक्तेर्महाप्रभावत्वं तथा विस्तरेणाग्रे व्याख्यास्यामः । इन्द्रियवशीकारे फलमाह-वशे हीति । स्पष्टम् । तदेतद्वशी- कृतेन्द्रियः सन्नासीतेति प्रश्नस्योत्तरमुक्तं भवति ॥ ६ १ ॥

 श्री० टी०—-यस्मादेवं तस्मात्-तानीति । युक्तो योगी तानीन्द्रियाणि संयम्य मत्परः सन्नासीत | यस्य वशे वशवर्तीनि । एतेन कथमासीतेति प्रश्नस्य वशीकृतेन्द्रियः सन्नासीतेत्युत्तरमुक्तं भवति ॥ ६१ ॥

 म० टी०-ननु मनसो बाह्येन्द्रियप्रवृत्तिद्वाराऽनर्थहेतुत्वं निगृहीतबाह्यैन्द्रियस्य तूत्खातदंष्ट्रोरगवन्मनस्यनिगृहीतेऽपि न काऽपि क्षतिर्बाह्योद्योगाभावेनैव कृतकृत्यत्वादतो युक्त आसीतेति व्यर्थमुक्तमित्याशङ्कय निगृहीतबाह्यान्द्रियस्यापि युक्तत्वाभावे सर्वानर्थप्राप्तिमाह द्वाभ्याम्-

ध्यायतो विषयान्पुंसः सङ्गस्तेषूपजायते ॥
सङ्गात्संजायते कामः कामाक्रोधोऽभिजायते ॥१२॥

क्रोधाद्भवति संमोहः संमोहात्स्मृतिविभ्रमः ॥
स्मृतिभ्रंशाद्बुद्धिनाशो बुध्धिनाशात्प्रणश्यति ॥ ६३ ॥

 निगृहीतबाह्येन्द्रियस्यापि शब्दादीन्विषयान्ध्यायतो मनसा पुनः पुनश्चिन्तयतः पुंसस्तेषु विषयेषु सङ्ग आसङ्गो ममात्यन्तं सुखहेतव एत इत्येवंशोभनाध्यासलक्षणः प्रीतिविशेष उपजायते सङ्गात्सुखहेतुत्वज्ञानलक्षणात्संजायते कामो ममैते भवन्त्विति तृष्णाविशेषः । तस्मात्कामात्कृतश्चित्प्रतिहन्यमानात्तत्प्रतिघातकविषयः क्रोधोऽभिज्वल- नात्माऽभिजायते । क्रोधाद्भवति संमोहः कार्याकार्यविवेकामावरूपः । संमोहत्स्मृतिविभ्रमः स्मृतेः शास्त्राचार्योपदिष्टार्थानुसंधानस्य विभ्रमो विचलनं विभ्रंशः । तस्माच्च स्मृतिभ्रंशाबुद्धेरैकात्म्याकारमनोवृत्तेर्नाशो विपरीतभावनोपचयदोषेण प्रतिबन्धादनुत्पत्तिरुत्पन्नायाश्च फलायोग्यत्वेन विलयः । बुद्धिनाशात्प्रणश्यति तस्याश्च फलभूताया बुद्धेर्विलोपात्प्रणश्यति सर्वपुरुषार्थायोग्य भवति । यो हि पुरुषार्थीयोग्य जातः स मृत एवेति लोके व्यवह्रियते । अतः प्रणश्यतीत्युक्तम् । यस्मादेवं मनसो निग्रहाभावे निगृहीतबाह्येन्द्रियस्यापि परमानर्थप्राप्तिस्तस्मान्महता प्रयत्नेन मनो निगृह्णीयादित्यभिप्रायः । अतो युक्तमुक्तं तानि सर्वाणि संयम्य युक्त आसीतेति ॥ ६२ ॥ ६३ ॥

 श्री० टी०--बाह्येन्द्रियसंयमाभावे दोषमुक्त्वा मनःसंयमाभावे दोषमाह ध्यायत इति द्वाभ्याम्-गुणबुध्ध्या विषयान्ध्यायतः पुरुषस्य तेषु सङ्ग आसक्तिर्भवति । आसक्त्या च तेष्वधिकः कामो भवति । कामाच्च केनचित्प्रतिहतात्क्रोधो भवति ॥ ६२॥

 श्री० टी०--किं च-क्रोधादिति । क्रोधात्संमोहः कायाँकार्यविवेकाभावः । ततः शास्त्राचार्योपदिष्टार्थस्मृतेर्विभ्रमो विचलनं विभ्रंशः । ततो बुद्धेश्चेतनाया विनाशो वृक्षादिष्विवाभिभवः । ततः प्रणश्यति मृततुल्यो भवति ॥ ६३ ॥

 म० टी०–मनसि निगृहीते तु बाह्यन्द्रियनिग्रहाभावेऽपि न दोष इति वदन्किं व्रजेतेयस्योत्तरमाहाष्टभिः--

रागद्वेषवियुक्तैस्तु विषयानिन्द्रियैश्चरन् ।
आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति ॥ ६४ ॥

 योऽसमाहितचेताः स बाह्येन्द्रियाणि निगृह्यापि रागद्वेषदुष्टेन मनसा विषयांश्चिन्तयन्पुरुषार्थाद्रुष्टों भवति । विधेयात्मा तु तुशब्दः पूर्वस्माव्द्यतिरेकार्थः । वशीकृतान्तःकरणस्तु आत्मवश्यैर्मनोधीनैः स्वाधीनैरिति वा रागद्वेषाभ्यां वियुक्तैर्विरहितैरिन्द्रियैः श्रोत्रादिभिर्विषयाञ्शब्दादीननिषिद्धांश्चरनुपलभमानः प्रसादं प्रसन्नतां चित्तस्य स्वच्छता परमात्मसाक्षात्कारयोग्यतामधिगच्छति । रागद्वेषप्रयुक्तानीन्द्रियाणि दोषहेतुतां प्रतिपद्यन्ते । मनसि स्ववशे तु न रागद्वेषौ । तयोरभावे च न तदधीने न्द्रियप्रवृत्तिः । अवर्जनीयतया तु विषयोपलम्भो न दोषमावहतीति न शुद्धिव्याघात इति भावः । एतेन विषयाणां स्मरणमपि चेदनर्थकारणं सुतरां तर्हि भोगस्तेन जीवनार्थ विषयान्भुञ्जानः कथमनर्थं न प्रतिपद्येतेति शङ्का निरस्ता । स्वाधीनैरिन्द्रियैर्विषयान्प्राप्नोतीति च किं व्रजेतेति प्रश्नस्योत्तरमुक्तं भवति ॥ ६४ ॥

 श्री० टी०---नन्विन्द्रियाणां विषयप्रवणस्वभावानां निरोद्भुमशक्यत्वादयं दोषो दुष्परिहर इति स्थितप्रज्ञत्वं कथं स्यादित्याशङ्कयाऽऽह रागेतिद्वाभ्याम्राद्वेषरहितैर्र्विगतदर्पैरिन्द्रियैर्विषयांश्चरन्नुपभुञ्जानोऽपि प्रसाद शान्तिं प्राप्नोति । रागद्वेषराहित्यमे वाऽऽह-आत्मनो मनसो वश्यैर्विधेयो वशवर्त्यात्मा मनो यस्येति । अनेनैव कथं व्रजेत भुञ्जीतेत्यस्य चतुर्थप्रश्नस्य स्वाधीनैरिन्द्रियैर्विषयानधिगच्छतीत्युत्तरमुक्तं भवति ॥ ६४॥

 म० टि०-प्रसादमधिगच्छतीत्युक्तं तत्र प्रसादे सति किं स्यादित्युच्यते-

प्रसादे सर्वदुःखानां हानिरस्योपजायते ॥
प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते ॥६५॥

 चित्तस्य प्रसादे स्वच्छत्वरूपे सति सर्वदुःखानामाध्यात्मिकादीनामज्ञानविलसितानां हानिर्विनाशोऽस्य यतेरुपजायते । हि यस्मात्प्रसन्नचेतसो यतेराशु शीघ्रमेव बुद्धिर्बह्मात्मैक्याकारा पर्यवतिष्ठते परि समन्तादवतिष्ठते स्थिरा। भवति विपरीतभावनादिप्रतिबन्धाभावात् । ततश्च प्रसादे सति वुद्धिपर्यवस्थानं ततस्तद्विरोध्यज्ञाननिवृत्तिः । ततस्तत्कार्यसकलदुःखहानिरिति क्रमेऽपि प्रसादे यत्नाधिक्याय सर्वदुः- खहानिकरत्वकथनमिति न विरोधः ॥ ६५ ॥

 श्री० टी०–प्रसादे सति किं स्यादित्यत्राऽऽह–प्रसाद इति । प्रसादे सति सर्वदुःखनाशः । ततश्च प्रसन्नचेतसो बुद्धिः प्रतिष्ठिता भवतीत्यर्थः ॥ ६५ ॥

 म० टी०-इममेवार्थ व्यतिरेकमुखेन(ण) दृढयति-

नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना ॥
न चाभावयतः शान्तिरशान्तस्य कुतः सुखम् ॥६६॥

 अयुक्तस्याजितचित्तस्य बुद्धिरात्मविषया श्रवणमननाख्यवेदान्तविचारजन्या नास्ति नोत्पद्यते । तद्बुद्ध्यभावे न चायुक्तस्य भावना निदिध्यासनात्मिका विजातीयप्रत्ययानन्तरितसजातीयप्रत्ययप्रवाहरूपा । सर्वत्र नञोऽस्तीत्यनेनान्वयः । न चाभावयत आत्मानं शान्तिः सकायविद्यानिवृत्तिरूपा वेदान्तवाक्यजन्या ब्रह्मात्मैक्यसाक्षात्कृतिः । अशान्तस्याऽऽत्मसाक्षात्कारशून्यस्य कुतः सुखं मोक्षानन्द इत्यर्थः ॥ ६६ ॥

 श्री० टी०-इन्द्रियनिग्रहस्य स्थितप्रज्ञतासाधनत्वं व्यतिरेकमुखेनो(णो)पपायति- नास्तीति । अयुक्तस्यावशीकृतेन्द्रियस्य नास्ति बुद्धिः शास्त्राचार्योपदेशा भ्यामात्मविषया बुद्धिः । प्रज्ञैव नोत्पद्यते कुतस्तस्याः प्रतिष्ठावार्ता । कुत इत्यत आह-न चायुक्तस्य भावना ध्यानम् । भावनया हि बुद्धेरात्मनि प्रतिष्ठा भवति । सा चायुक्तस्य यतो नास्ति । न चाभावयत आत्मध्यानमकुर्वतः शान्तिरात्मनि चित्तोपरतिः । अशान्तस्य[१२५] कुतः सुखं मोक्षानन्द इत्यर्थः ॥ ६६ ॥

 म० टी०-अयुक्तस्य कुतो नास्ति बुद्धिरित्यत आह-

इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते ॥
तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि ॥ ६७ ॥

 चरतां स्वविषयेषु प्रवर्तमानानामवशीकृतानामिन्द्रियाणां मध्ये यदेकमपीन्द्रियमनुलक्षीकृत्य मनो विधीयते प्रेयते प्रवर्तत इति यावत् । कर्मकर्तरि लकारः । तदिन्द्रियमेकमपि मनसाऽनुसृतमस्य साधकस्य मनसो वा प्रज्ञामात्मविषयां शास्त्रीयां हरति अपनयति मनसस्तद्विषयाविष्टत्वात् । यदैकमपीन्द्रियं प्रज्ञां हरति तदा सर्वाणि हरन्तीति किमु वक्तव्यमित्यर्थः । दृष्टान्तस्तु स्पष्टः । अम्भस्येव वायोर्नौकाहरणसामर्थ्यं न भुवीति सूचयितुमम्भसीत्युक्तम् । एवं दार्ष्टन्तिकेऽप्यम्भःस्थानीये मनश्वाञ्चल्ये सत्येव प्रज्ञाहरणसामर्थ्यमिन्द्रियस्य न तु भूस्थानीये मनःस्थैर्य इति सूचितम् ॥ ६७ ॥

 श्री० टी०-नास्ति बुद्धिरयुक्तस्येत्यत्र हेतुमाह-इन्द्रियाणामिति । इन्द्रियाणामवशीकृतानां स्वैरं विषयेषु चरतां मध्ये यदेवैकमिन्द्रयं मनोऽनुविधीयतेऽवशीकृतं सदिन्द्रियेण सह गच्छति तदेवैकमिन्द्रियमस्य मनसः पुरुषस्य वा प्रज्ञां बुद्धिं हरति विषयविक्षिप्तां करोति किमुत वक्तव्यं बहूनि प्रज्ञां हरन्तीति । यथा प्रमत्तस्य कर्णधारस्य नावं वायुः समुद्रे सर्वतः प[१२६]रिभ्रमयति तद्वत् ॥ ६७ ॥

 म० टी०-हि यस्मादेवम् ----

तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः ॥
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥ ६८ ॥

 सर्वशः सर्वाणि समनस्कानि । हे महाबाहो, इति संवोधयन्सर्वशत्रुनिवारणक्षमत्वादिन्द्रियशत्रुनिवारणेऽपि त्वं क्षमोऽसीति सूचयति । स्पष्टमन्यत् । तस्येति सिद्धस्य साधकस्य च परामर्शः । इन्द्रियसंयमस्य स्थितप्रज्ञं प्रति लक्षणत्वस्य मुमुक्षुं प्रति प्रज्ञासाधनत्वस्य चोपसंहरणीयत्वात् ॥ ६८ ॥

 श्री० टी०-इन्द्रियसंयमस्य स्थितप्रज्ञत्वे साधनत्वं लक्षणत्वं चोक्तमुपसंहरति-



तस्मादिति । प्रतिष्ठिता भवतीत्यर्थः । लक्षणत्वोपसंहारे तस्य प्रज्ञा प्रतिष्ठिता ज्ञातव्येत्यर्थः । महाबाहो, इति संबोधयन्वैरिनिग्रहे समर्थस्य तवात्रापि सामर्थ्यं भवेदिति सूचयति ॥ ६८ ॥

 म० टी०-तदेवं युमुक्षुणा प्रज्ञास्थैर्याय प्रयत्नपूर्वकमिन्द्रियसंयमः कर्तव्य इत्युक्तं स्थितप्रज्ञस्य तु स्वतः सिद्ध एव सर्वेन्द्रियसंयम इत्याह-

या निशा सर्वभूतानां तस्यां जागर्ति संयमी ॥
यस्थां जाग्रति भूतानि सा निशा पश्यतो मुनेः॥६९॥

 या वेदान्तवाक्यजनितसाक्षात्काररूपाऽहं ब्रह्मास्मीति प्रज्ञा सर्वभूतानामज्ञानां निशेव निशा तान्प्रत्यप्रकाशरूपत्वात् । तस्यां ब्रह्मविद्यालक्षणायां सर्वभूतनिशायां जागर्ति अज्ञाननिद्रायाः प्रबृद्धः सन्सावधानो वर्तते संयमीन्द्रियसंयमवान्स्थितप्रज्ञ इत्यर्थः । यस्यां तु द्वैतदर्शनलक्षणायामविद्यानिद्रायां प्रसुप्तान्येव भूतानि जाग्रति स्वप्नवद्वयवहरन्ति सा निशा न प्रकाशत आत्मतत्त्वं पश्यतोऽपरोक्षतया मुनेः स्थितप्रज्ञस्य । यावद्धि न प्रबुध्यते तावदेव स्वप्नदर्शनं बोधपर्यन्तत्वाद्भ्रमस्य । तत्त्वज्ञानकाले तु न भ्रमनिमित्तः कश्चिद्व्यवहारः । तदुक्तं वार्तिककारैः--

"कारकव्यवहारे हि शुद्धं वस्तु न वीक्ष्यते ।
शुद्धे वस्तुनि सिद्धे च कारकव्यापृतिस्तथा ॥
काकोलूकनिशेवायं संसारोऽज्ञात्मवेदिनोः ।
या निशा सर्वभूतानामित्यवोचत्स्वयं हरिः " इति ॥

 तथा च यस्य विपरीतदर्शनं तस्य न वस्तुदर्शनं विपरीतदर्शनस्य वस्त्वदर्शनजन्यत्वात् । यस्य च वस्तुदर्शनं तस्य न विपरीतदर्शनं विपरीतदर्शनकारणस्य वस्त्वदर्शनस्य वस्तुदर्शनेन बाधितत्वात् । तथा च श्रुतिः " यत्र वा अन्यदिव स्यात्तत्रान्योऽन्यत्पश्येत् । यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्' इति विद्याविद्ययोर्व्यवस्थामाह । यथा काकस्य रात्र्यन्धस्य दिनमुलूकस्य दिवान्धस्य निशा रात्रौ पश्यतश्चोलूकस्य यद्दिनं रात्रिरेव सा काकस्येति महदाश्चर्यमेतत् । अतस्तत्त्वदर्शिनः कथमाविद्यकक्रियाकारकादिव्यवहारः स्यादिति स्वतः सिद्ध एव तस्येन्द्रियसंयम इत्यर्थः ॥ ६९ ॥

 श्री० टी०--ननु च कश्चिदपि प्रसुप्त इव दर्शनादिव्यापारशून्यः सर्वात्मना निगृहीतेन्द्रियो लोके न दृश्यते । अतोऽसंभावितमिदं लक्षणमित्याशङ्कयाऽऽह-या निशेति । सर्वेषां भूतानां या निशा निशेव निशाऽऽत्मनिष्ठा, आत्मज्ञानध्वान्तावृतमतीनां तस्यां दर्शनादिव्यवहाराभावात् । तस्यामात्मनिष्ठायां संयमी निगृहीतेन्द्रियो

जागर्ति प्रबुध्यते । यस्यां तु विषयनिष्ठायां भूतानि जाग्रति प्रबुध्यन्ते साऽऽत्मतत्त्वं पश्यतो मुनर्निशा । तस्यां दर्शनादिव्यापारस्तस्य नास्तीत्यर्थः । एतदुक्तं भवति--- यथा दिवान्धानामुलूकादीनां रात्रावेव दर्शनं न तु दिवसे, एवं ब्रह्मज्ञस्योन्मीलिताक्षस्यापि ब्रह्मण्येव दृष्टिर्न तु विषयेषु । अतो नासंभावितमिदं लक्षणमिति ॥ ६९ ॥

 म० टी०एतादृशस्य स्थितप्रज्ञस्य सर्वविक्षेपशान्तिरप्यर्थसिद्धेति सदृष्टान्तमाह-

आपूर्यमाणमचलप्रतिष्ठं ।
 समुद्रमापः प्रविशन्ति यत् ॥
तद्वत्कामा यं प्रविशन्ति सर्वे
 स शान्तिमाप्नोति न कामकामी ॥ ७० ॥

 सर्वाभिर्नदीभिरापूर्यमाणं सन्तं वृष्ट्यादिप्रमवा अपि सर्वा आपः समुद्रं प्रविशन्ति । कीदृशमचलप्रतिष्ठमनतिक्रान्तमर्यादम् । अचलानां मैनाकादीनां प्रतिष्ठा यस्मिन्निति वा गाम्भीर्यातिशय उक्तः । यद्वद्येन प्रकारेण निर्विकारत्वेन तद्वत्तेनैव निर्विकारत्वप्रकारेण यं स्थितप्रज्ञं निर्विकारमेव सन्तं कामा अक्षैर्लोकैः काम्यमानाः शब्दाद्याः सर्वे विषया अवर्जनीयतया प्रारब्धकर्मवशात्प्रविशन्ति न तु विकर्तुं शक्नुवन्ति । स महासमुद्रस्थानीयः स्थितप्रज्ञः शान्ति सर्वलौकिकालौकिककमविक्षेपानिवृत्तिं बाधितानु[१२७]वृत्ता[१२८]विद्याकार्यनिवृत्तिं चाऽऽप्नोति ज्ञानबलेन । न कामकामी कामान्विषयान्कामयितुं शीलं यस्य स कामकाम्यज्ञः शान्तिं व्याख्यातां नाऽऽप्नोति । अपि तु सर्वदा लौकिकालौकिककर्मविक्षेपेण महति क्लेशार्णवे मग्नो भवतीति वाक्यार्थः । एतेन ज्ञानिन एव फलभूतो विद्वत्संन्यासस्तस्यैव च सर्वविक्षेपनिवृत्तिरूपा जीवन्मुक्तिर्दैवाधीनविषयभोगेऽपि निर्विकारतेत्यादिकमुक्तं वेदितव्यम् ॥ ७० ॥

 श्री० टी०--ननु विषयेषु दृष्ट्यभावे कथमसौ तान्भुङ्क इत्यपेक्षायामाह---आपूर्यमाणमिति । नानानदीभिरापूर्यमाणमपि अचलप्रतिष्ठमनतिक्रान्तमर्यादमेव समुद्र पुनरम्यन्या आपो यथा प्रविशन्ति तथा कामा विषया यं मुनिमन्तर्दृष्टिं भोगैरविक्रियमाणमेव प्रारब्धकर्मभिराक्षिप्ताः सन्तः प्रविशन्ति स शान्तिं कैवल्यं प्राप्नोति न तु कामकामी भोगकामनाशीलः ॥ ७० ॥

 म० टी०--यस्मादेवं तस्मात्प्राप्तानपि---

विहाय कामान्यः सर्वान्पुमांश्चरति निस्पृहः ॥
निर्ममो निरहंकारः स शान्तिमधिगच्छति ॥ ७१ ॥


 सर्वान्बाह्यान्गृहक्षेत्रादीनान्तरान्मनोराज्यरूपान्वासनामात्ररूपांश्च पथि गच्छतस्तृणस्पर्शरूपान्कामांस्त्रिविधान्विहायोपेक्ष्य शरीरजीवनमात्रेऽपि निस्पृहः सन् । यतो

निरहंकारः शरीरेन्द्रियादाक्यमहमित्यभिमानशून्यः, विद्यावत्वादिनिमित्तात्मसंभावनारहित इति वा । अतो निर्ममः शरीरयात्रामात्रार्थेऽपि प्रारब्धकर्माक्षिप्ते कौपीनाच्छादनादौ ममेदमित्यभिमानवर्जितः सन्यः पुमांश्चरति प्रारब्धकर्मवशेन भोगान्भुङ्के यादृच्छिकतया यत्र क्वापि गच्छतीति वा । स एवंभूतः स्थितप्रज्ञः शान्ति सर्वसंसारदुःखोपरमलक्षणामविद्यातत्कार्यनिवृत्तिमधिगच्छति ज्ञानबलेन प्राप्नोति । तदेतदीदृशं व्रजनं स्थितप्रज्ञस्येति चतुर्थप्रश्नस्योत्तरं परिसमाप्तम् ॥ ७१ ॥

 श्री० टी०-यस्मादेवं तस्मात्-विहायेति । प्राप्तान्कामान्विहाय त्यक्त्वोपेक्ष्याप्राप्तेषु च निःस्पृहः । यतो निरहंकारः । अत एव तद्भोगसाधनेषु निर्ममः सन्नन्तर्दृष्टिभूत्वा यश्चरति प्रारब्धवशेन भोगान्भुङ्क्ते यत्र क्वापि गच्छ[१२९]ति वा स शान्तिं प्राप्नोति ॥ ७१ ॥

 म० टी०-तदेवं चतुर्णां प्रश्नानामुत्तरव्याजेन सर्वाणि स्थितप्रज्ञलक्षणानि मुमुक्षुकर्तव्यतया कथितानि । संप्रति कर्मयोगफलभूतां सांख्यनिष्ठां फलेन स्तुवन्नुपसंहति----

एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति ।
स्थित्वाऽस्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति ॥७२॥

इति श्रीमहाभारते शतसाहस्र्यां संहितायां वैयासि-

क्यां भीष्मपर्वणि श्रीमद्भगवद्गीतासूपनिषत्सु

ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसं-

वादे सांख्ययोगो नाम द्विती-

योऽध्यायः ॥ २ ॥

 एषा स्थितप्रज्ञलक्षणव्याजेन कथिता, एषा तेऽभिहिता सांख्ये बुद्धिरिति च प्रागुक्ता स्थितिर्निष्ठा सर्वकर्मसंन्यासपूर्वकपरमात्मज्ञानलक्षणा ब्राह्मी ब्रह्मविषया हे पार्थैनां स्थिति प्राप्य यः कश्चिदपि पुनर्न विमुह्यति । न हि ज्ञानबाधितस्याज्ञानस्य पुनः संभवोऽस्ति अनादित्वेनोत्पत्त्यसंभवात् । अस्यां स्थितावन्तकालेऽपि अन्त्येऽपि वयसि स्थित्वा ब्रह्मनिर्वाणं ब्रह्मणि निर्वाणं निवृतिं ब्रह्मरूपं निर्वाणमिति वा, ऋच्छति


गच्छत्यभेदेन । किमु वक्तव्यं यो ब्रह्मचर्यदेव संन्यस्य यावज्जीवमस्यां ब्राह्मयां स्थिताववतिष्ठते स ब्रह्मनिर्वाणमृच्छतीत्यपिशब्दार्थः ॥ ७२ ॥

ज्ञानं तत्साधनं कर्म सत्त्वशुद्धिश्च तत्फलम् ॥
तत्फलं ज्ञाननिष्ठेवेत्यध्यायेऽस्मिन्प्रकीर्तितम् ॥ १ ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीविश्वेश्वरसरखतीश्रीपादशिष्यश्रीमधुसूदनसरस्वतीविरचितायां श्रीमद्भगवद्गीतागूढार्थदीपिकायां सर्वगीतार्थसूत्रणं नाम द्वितीयोऽध्यायः ॥ २ ॥

 श्री० टी०-उक्तां ज्ञाननिष्ठां स्तुवन्नुपसंहरति-एषेति । ब्राह्मी स्थितिर्ब्रह्म- ज्ञानानिष्ठैषैवंविधा । एनां परमेश्वराराधनेन विशुद्धान्तःकरणः पुमान्प्राप्य न विमुह्यति पुनः संसारमोहं न प्राप्नोति । यतोऽन्तकाले मृत्युसमयेऽपि अस्यां क्षणमात्रमपि स्थित्वा ब्रह्म[१३०][१३१][१३२]णि निर्वाणं लयमृच्छति प्राप्नोति किं पुनर्वक्तव्यं बाल्यमारभ्य स्थित्वा प्राप्नोतीति ॥ ७२ ॥

इति श्रीसुबोधिन्यां टीकायां श्रीधरस्वामिविरचितायां

द्वितीयोऽध्यायः ॥ २ ॥

 अथ तृतीयोऽध्यायः ।

 म० टी०–एवं तावत्प्रथमेनाध्यायेनोपोद्घातितो द्वितीयेनाध्यायेन कृत्स्नः शास्त्रार्थः सूत्रितः । तथा हि---आदौ निष्कामकर्मनिष्ठा । ततोऽन्तःकरणशुद्धिः । ततः शमदमादिसाधनपुरःसरः सर्वकर्मसंन्यासः । ततो वेदान्तवाक्यविचारसहिता भगवद्भक्तिनिष्ठा । ततस्तत्त्वज्ञाननिष्ठा तस्याः फलं च त्रिगुणात्मकाविद्यानिवृत्त्या जीवन्मुक्तिः प्रारब्धकर्मफलभोगपर्यन्तं तदन्ते च विदेहमुक्तिः । जीवन्मुक्तिदशायां च परमपुरुषार्थालम्बनेन परवैराग्यप्राप्तिर्दैवसंपदाख्या च शुभवासना तदुपकारण्यादेया । आसुरसंपदाख्या त्वशुभवासना तद्विरोधिनी हेया । दैवसंपदोऽसाधारणं कारणं सात्त्विकी श्रद्धा । आसुरसंपदस्तु राजसी तामसी चेति हेयोपादेयविभागेन कृत्स्नशास्त्रार्थपरिसमाप्तिः । तत्र " योगस्थः कुरु कर्माणि " इत्यादिना सुत्रिता सत्त्वशुद्धिसाधनभूता निष्कामकर्मनिष्ठा सामान्यविशेषरूपेण तृतीयचतुर्थाभ्यां प्रपञ्चयते । ततः शुद्धान्तःकरणस्य शमदमादिसाधनसंपत्तिपुरःसरा “ विहाय कामान्यः सर्वान् । इत्यादिना सूत्रिता सर्व कर्मसंन्यासनिष्ठा संक्षेपविस्तररूपेण पञ्चमषष्ठाभ्याम् । एतावता


च त्वंपदार्थोऽपि निरूपितः । ततो वेदान्तवाक्यविचारसहिता “युक्त आसीत मत्परः इत्यादिना सूचिताऽनेकप्रकारा भगवद्भक्तिनिष्ठाऽध्यायषट्केन प्रतिपाद्यते । तावता च तत्पदार्थोऽपि निरूपितः । प्रत्यध्यायं चावान्तरसंगतिमवान्तरप्रयोजनभेदं च तत्र तत्र प्रदर्शयिष्यामः । ततस्तत्त्वंपदार्थेक्यज्ञानरूपा " वेदाविनाशिनं नित्यम् ' इत्यादिना सूत्रिता तत्त्वज्ञाननिष्ठा त्रयोदशे प्रकृति पुरुषविवेकद्वारा प्रपञ्चिता । ज्ञाननिष्ठायाश्च फलं " त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन " इत्यादिना सूत्रिता त्रैगुण्यनिवृत्तिश्चतुर्दशे सैव जीवन्मुक्तिरिति गुणातीतलक्षणकथनेन प्रपञ्चिता । “तदा गन्तासि निर्वेदम्” इत्यादिना सूत्रता परवैराग्यनिष्ठा संसारवृक्षच्छेदद्वारेण पञ्चदशे । “दुःखेष्वनुद्विग्नमनाः ! इत्यादिना स्थितप्रज्ञलक्षणेन सूत्रिता परवैराग्योपकारिणी दैवी संपदादेया यामिमां पुष्पितां वाचम् ” इत्यादिना सूत्रिता तद्विरोधिन्यासुरी संपञ्च हेया षोडशे । दैवसंपदोऽसाधारणं कारणं च सात्त्विकी श्रद्धा " निर्द्वद्वो नित्यसत्त्वस्थः " इत्यादिना सूत्रता तद्विरोधिपरिहारेण सप्तदशे । एवं सफला ज्ञाननिष्ठाऽध्यायपञ्चकेन प्रतिपादिता । अष्टादशेन च पूर्वोक्तसर्वोपसंहार इति कृत्स्नगीतार्थसंगतिः । तत्र पूर्वाध्याये सांख्यबुद्धिमाश्रित्य ज्ञाननिष्ठा भगवतोक्ता----" एषा तेऽभिहिता सांख्ये बुद्धिः ' इति । तथा योगबुद्धिमाश्रित्य कर्मनिष्ठोक्ता " योगे त्विमां शृणु " इत्यारभ्य " कर्मण्येवाधिकारस्ते मा ते सङ्गोऽस्त्वकर्मणि " इत्यन्तेन । न चानयोर्निष्ठयोरधिकारिभेदः स्पष्टमुपदिष्टो भगवता । न चैकाधिकारिकत्वमेवाभयोः समुच्चयस्य विवक्षितत्वादिति वाच्यम् । “ दूरेण ह्यवरं कर्म बुद्धियोगाद्धनंजय " इति कर्मनिष्ठाया बुद्धिनि- ष्ठापेक्षया निकृष्टत्वाभिधानात् ।“यावानर्थ उदपाने" इत्यत्र च ज्ञानफले सर्वकर्मफलान्तर्भावस्य दर्शितत्वात् । स्थितप्रज्ञलक्षणमुक्त्वा च–“एषा ब्राह्मी स्थितिः पार्थ' इतिसप्रशंसं ज्ञानफलोपसंहारात् । “या निशा सर्वभूतानाम्' इत्यादौ ज्ञानिनो द्वैतदर्शनाभावेन कर्मानुष्ठानासंभवस्य चोक्तत्वात् । अविद्यानिवृत्तिलक्षणे मोक्षफले ज्ञानमात्रस्यैव लोकानुसारेण साधनत्वकल्पनात् । " तमेव विदित्वाऽति मृत्युमेति नान्यः पन्था विद्यतेऽययनाय " इति श्रुतेश्च । ननु तर्हि तेजस्तिमिरयोरिव विरोधिनोर्ज्ञानकर्मणोः समुच्चयासंभवाद्भिन्नाधिकारिकत्वमेवास्तु । सत्यमेवं संभवति एकमर्जुनं प्रति तूभयोपदेशो न युक्तः । नहि कर्माधिकारिणं प्रति ज्ञाननिष्ठोपदेष्टुमुचिता न वा ज्ञानाधिकारिणं प्रति कर्मनिष्ठा । एकमेव प्रति विकल्पेनोभयोपदेश इति चेत् । न, उत्कृष्टनिकृष्टयोर्विकल्पानुपपत्तेः । अविद्यानिवृत्त्युपलक्षितात्मस्वरूपे मोक्षे तारतम्यासंभवाच्च । तस्माज्ज्ञानकर्मनिष्ठयोभिन्नाधिकारिकत्व एक प्रत्युपदेशायोगादेकाधिकारिकत्वे च विरुद्ध[१३३]योः समुच्चयासंभवात्कर्मापेक्षया ज्ञानप्राशस्त्यानुपपत्तेश्च विकल्पाभ्युपगमे चोत्कृष्ट मनायाससाध्यं ज्ञानं विहाय निकृष्टमनेकायासबहुलं कर्मानुष्ठातुमयोग्यमिति मत्वा पर्याकुलीभूतबुद्धिः--


अर्जुन उवाच--
 ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन ॥
 तत्किं कर्मणे धोरे मा नियोजयसि केशव ॥१॥

 हे जनार्दन सर्वजनैरर्द्यते याच्यते स्वाभिलषितसिद्धय इति त्वं तथाभूतो मयाऽपि श्रेयोनिश्वयार्थं याच्यस इति नैवानुचितमिति संबोधनाभिप्रायः । कम॑णो निष्कामादपि बुद्धिरात्मतत्त्वविषया ज्यायसी प्रशस्ततरा चेद्यदि ते तव मता तत्तदा किं कर्मणि घेरि हिंसाद्यनेकायासबहुले मामतिभक्तं नियोजयसि कर्मण्येवाधिकारस्त इत्यादिना विशेषेण प्रेरयति हे केशव सर्वेश्वर । सर्वेश्वस्य सर्वेष्टदायिनस्तव मां भक्तं शिष्यस्तेऽहं शाधि मामित्यादिना त्वदेकशरणतयोपसन्नं प्रति प्रतारणा नोचितेत्यभिप्रायः ॥ १ ॥

 श्री टी०-शोकपङ्कनिमग्नं यः सांख्ययोगोपदेशतः ॥

  उज्जहारार्जुनं भक्तं स कृष्णः शरणं मम ॥ १ ॥

 एवं तावदशोच्यानन्वशोचस्त्वमित्यादिना प्रथमं मोक्षप्ताधनत्वेन देहात्मविवेकबुद्धिरक्ता । तदनन्तरमेषा तेऽभिहिता सांख्ये -बुद्धिर्योगे त्विमां शृण्वित्यादिना कर्म चोक्तम्‌ । न च तयोर्गुणप्रधानभावः स्पष्टं दर्शितः । तत्र बुद्धियुक्तस्य स्थितप्रज्ञस्य निष्कामत्वनियतेन्द्रियत्वनिरहंकारत्वा्द्यभिधानादेषा ब्राह्मी स्थितिः पार्थेति सप्रशंपमुपसंहाराच्च बुद्धिकर्मणोर्म्॑ध्ये बुद्धेः श्रैष्ठ्यं भगवतोऽभिमतं मन्वानः [ अर्जुनउवाच }-- ज्यायसीं चेदिति । कर्मणः सकाशान्मोक्षान्तरङ्गत्वेन बुद्धिज्यार्यस्यधिक[१३४]तरा श्रेष्ठा चेत्तव संमता तर्हि किमर्थं तस्साद्युध्यस्वेति तस्मादुत्तिष्ठेति च वारं वारं वदन्धोरे हिंसात्मके कर्मणि मां नियोजयसि प्रवर्तयति ॥ १॥

 म० टी०--ननु नाहं कंचिदपि प्रतारयामि किं पुनस्त्वामतिप्रियं, त्वं तु किं मे प्रतारणाचिह्नं पश्यसीति चेत्तराऽऽह--

व्यामिश्रेणेव वाक्येन बुध्धिं मोहयसीव मे॥
तदेकं वद्‌ निश्चित्य येन श्रेयोऽहमाप्तुयाम्‌ ॥ २॥

 तव वचनं व्यामिश्रं न भवत्येव मम त्वेकाधिकारिकत्वभिन्नाधिकारिकत्वसंदेहाव्द्यामिश्रं संकीर्णार्थमिव ते यद्वाक्यं मां प्रति ज्ञानकर्मनिष्ठाद्वयप्रतिपादकं तेन वाक्येन चं मे मम मन्दबुद्धेर्वाक्यतात्तर्यापरिज्ञानाद्‌बुद्धिमन्तःकरणं मोहयसीव भ्रान्त्या योजयसीव। परमकारुणिकत्वात्त्वं न मोहयस्येव मम तु स्वाशयदोषान्मोहो भवतीतीवशब्दार्थः । एकाधिकारित्वे विरुद्धयोः समुञ्चयानुपपत्तेरेकार्थत्वाभावेन च विकल्पानुपपत्तेः प्रागुक्ते- र्थद्यधिकाकारिभेदं मन्यते तदैकं मां प्रति विरुद्धयोर्निष्टयोरुपदेशायोगात्तज्ज्ञानं वा कर्म


वैकमेवाधिकार मे निश्चित्य वद । येनाधिकारनिश्चयपुरःसरमुक्तेन त्वया मया चानुष्टितेन ज्ञानेन कर्मणा वैकेन श्रेयो मोक्षमहमाप्नुयां प्राप्तुं योग्यः स्याम् । एवं ज्ञानकर्मनिष्ठयोरेकाधिकारित्वे विकल्पसमुच्चययोरसंभवादधिकारिभेदज्ञानायार्जुनस्य प्रश्न इति स्थितम् । इहेतरेषां कुमतं समस्तं श्रुतिस्मृतिन्यायबलानिरस्तं पुनः पुनर्भाष्यकृताऽतियत्नादतो न तत्कर्तुमहं प्रवृत्तः ।

भाष्यकारमतसारदर्शिना ग्रन्थमात्रमिह योज्यते मया ।
आशयो भगवतः प्रकाश्यते केवलं स्ववचसो विशुद्धये ॥ २ ॥

 श्री० टी०-ननु " धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते " इत्यादिना कर्मणोऽपि श्रेष्ठत्वमुक्तमेवेत्याशङ्कयाऽऽह-व्यामिश्रेणेति । क्वचित्कर्मप्रशंसा क्वचिज्ज्ञानप्रशंसेत्येवं व्यामिश्रं संदेहोत्पादकमिव यद्वाक्यं तेन मे बुद्धिं मतिमुभयत्र दोलायितां कुर्वन्मोहयसीव । परमकारुणिकस्य तव मोहकत्वं नास्त्येव तथाऽपि भ्रान्त्या ममैवं भातीतीवशब्देनोक्तम् । अत उभयोर्मध्ये यद्भद्रं तदेकं निश्चित्य वदेति । यद्वा---इदमेव श्रेयःसाधनमिति निश्चित्य येनानुष्ठितेन श्रेयो मोक्षमहमाप्नुयां प्राप्स्यामि तदेवैकं वदेत्यर्थः ॥ २ ॥

 म० टी०–एवमधिकारिभेदेऽनेन पृष्टे तदनुरूपं प्रतिवचम्---

श्रीभगवानुवाच-
 लोकेऽस्मिन्द्विविधा निष्ठा पुरा प्रोक्ता मयाऽनघ ।
 ज्ञानयोगेन सांख्यानां कर्मयोगेन(ण) योगिनाम् ॥३॥

 अस्मिन्नधिकारित्वाभिमते लोके शुद्धाशुद्धान्तःकरणभेदेन द्विविधे जने द्विविधा द्विप्रकारा निष्ठा स्थितिर्ज्ञानपरता कर्मपरता च पुरा पूर्वाध्याये मया तवात्यन्तहितकारिणा प्रोक्ता प्रकर्षेण स्पष्टत्वलक्षणेनोक्ता । तथा चाधिकार्थैक्यशङ्कया मा ग्लासीरिति भावः । हेऽनघापापेति संबोधयन्नुपदेशयोग्यतामर्जुनस्य सूचयति । एकैव निष्ठा साध्यसाधनावस्थाभेदेन द्विप्रकारा न तु द्वे एव स्वतन्त्रे निष्ठे इति कथयितुं निष्ठेत्येकवचनम् । तथा च वक्ष्यति-" एकं सांख्यं च योगं च यः पश्यति स पश्यति " इति । तामेव निष्ठां वैविध्येन दर्शयति-संख्या सम्यगात्मबुद्धिस्तां प्राप्तवतां ब्रह्मचर्यादेव कृतसंन्यासानां वेदान्तविज्ञानसुनिश्चितार्थानां ज्ञानभूमिमारूढानां शुद्धान्तःकरणानां सांख्यानां ज्ञानयोगेन ज्ञानमेव युज्यते ब्रह्मणाऽनेनेति व्युत्पत्त्या योगस्तेन निष्ठोक्ता " तानि सर्वाणि संयम्य युक्त आसीत मत्परः " इत्यादिना । अशुद्धान्तःकरणानां तु ज्ञानभूमिमनारूढानां योगिनां कर्माधिकारयोगिनां कर्मयोगेन(ण) कर्मैव युज्यतेऽन्तः- करणशुद्धयाऽनेनेति व्युत्पत्त्या योगस्तेन निष्ठोक्ताऽन्तःकरणशुद्धिद्वारा ज्ञानभूमि कारोहणार्थं "धर्म्याद्धि युद्धाच्छ्ेयोऽन्यत्क्षत्रियस्य न विद्यते" इत्यादिना । अत एव न ज्ञानकर्मणोः समुच्चयो विकल्पो वा । किं तु निष्कामकर्मणा शुद्धान्तःकरणानां सर्वकर्मसंन्यासेनैव ज्ञानमिति चित्तशुध्ध्यशुद्धिरूपावस्थाभेदेनैकमेव त्वां प्रति द्विविधा निष्ठोक्ता- एषा तेऽभिहिता सांख्ये बुद्धिर्योगे त्विमां शृणु ” इति । अतो भूमिकाभेदेनैकमेव प्रत्युभयोपयोगातन्नाधिकारभेदेऽप्युपदेशवैयर्थ्यमित्यभिप्रायः । एतदेव दर्शयितुमशुद्धचित्तस्य चित्तशुद्धिपर्यन्तं कर्मानुष्ठानं न कर्मणामनारम्भादित्यादिभिर्मोघं पार्थ स जीवतीत्यन्तैस्त्रयोदशभिर्दर्शयति । शुद्धचित्तस्य तु ज्ञानिनो न किंचिदपि कर्मापेक्षितमिति दर्शयति यस्त्वात्मरतिरिति द्वाभ्याम् । तस्मादसक्त इत्यारभ्य तु बन्धहेतोरपि कर्मणो मोक्षहेतुत्वं सत्त्वशुद्धिज्ञानोत्पत्तिद्वारेण संभवति फलाभिसंधिराहित्यरूपकौशलेनेति दर्शयिष्यति । ततः परं त्वथ केनेति प्रश्नमुथाप्य कामदोषेणैव काम्यकर्मणः शुद्धिहेतुत्वं नास्ति । अतः कामराहित्येनैव कर्माणि कुर्वन्नन्तःकरणशुध्ध्या

 श्री० टी०---अत्रोत्तरम्-लोकेस्मिन्निति । अयमर्थः--यदि मया परस्परनिरपेक्ष मोक्षसाधनत्वेन कर्मज्ञानयोगरूपं निष्ठाद्वयमुक्तं स्यात्तर्हि द्वयोर्मध्ये यद्भद्रं तदेकं वदेति त्वदीयप्रश्नः संगच्छेत, न तु मया तथोक्तं, किं तु द्वाम्यामेकैव ब्रह्मनिष्ठोक्ता, गुणप्रधानभूतयोस्तयोः स्वातन्त्र्यानुपपत्तेः । एकस्या एव तु प्रकारभेदमात्रमाधिकारभेदेनोक्तमिति । अस्मिशुद्धाशुद्धान्तःकरणतया द्विविधे लोकेऽधिकारिजने द्वे विधे प्रकारौ यस्याः सा द्विविधा निष्ठा मोक्षपरता पुरा पूर्वाध्याये मया सर्वज्ञेन प्रोक्तो स्पष्टमेवोक्ता । प्रकारद्वयमेव निर्दिशति-ज्ञानयोगेनेति । सांख्यानां शुद्धान्तःकरणानां ज्ञानभूमिकामारूढानां ज्ञानपरिपाकार्थं ज्ञानयोगेन ध्यानादिना निष्ठा ब्रह्मपरतोक्ता " तानि सर्वाणि संयम्य युक्त आसीत मत्परः' इत्यादिना । सांख्यभूमिकामारुरुक्षुणां तु अन्तःकरणशुद्धिद्वारा तदारोहार्थं तदुपायभूतकर्मयोगाधिकारिणां योगिनां कर्मयोगेन(ण) निष्ठोक्ता धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते " इत्यादिना । अत एवं चित्तशुद्धशुद्धिरूपावस्थाभेदेनैव द्विविधाऽपि निष्ठोक्ता-“एषा तेऽभिाहता सांख्ये बुद्धिर्योगे त्विमां शृणु[१३५]" इति ३ ॥

 म० टी०-तत्र कारणाभावे कार्यानुपपत्तेः-

न कर्मणामनारम्भानैष्कर्म्यं पुरुषोऽश्रुते ॥
न च संन्यसनादेव सिद्धिं समधिगच्छति ॥ ४ ॥

 कर्मणां " तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन . तप-


साऽनाशकेन " इति श्रुत्याऽऽत्मज्ञाने विनियुक्तानामनारम्भादननुष्ठानाच्चित्तशुद्ध्यभावेन ज्ञानायोग्यो बहिर्मुखः पुरुषो नैष्कर्म्यं सर्वकर्मशून्यत्वं ज्ञानयोगेन निष्ठामिति यावत् , नाश्नुते न प्राप्नोति । ननु एतमेव प्रव्राजिनो लोकमिच्छन्तः प्रव्रजन्ति" इति श्रुतेः सर्वकर्मसंन्यासादेव ज्ञाननिष्ठोपपत्तेः कृतं कर्मभिरित्यत आह-न च संन्यसनादेव चित्तशुद्धिं विना कृतात्सिध्धिं ज्ञाननिष्ठालक्षणां सम्यक्फलपर्यवसायित्वे[१३६]नाधिगच्छति नैव प्राप्नोतीत्यर्थः । कर्मजन्यां चित्तशुद्धिमन्तरेण सन्यास एव न संभवति । यथाकथंचिदौत्सुक्यमात्रेण कृतोऽपि न फलपर्यवसायीति भावः ॥ ४ ॥

 श्री० टी०--अतः सम्यक्चित्त[१३७]शुध्द्या ज्ञानोत्पत्तिपर्यन्तं वर्णाश्रमोचितानि कर्माणि कर्तव्यानि । अन्यथा चित्तशुध्द्यभावेन ज्ञानानुत्पत्तेरित्याह-न कर्मणामिति । कर्मणामनारम्भादननुष्ठानानैष्कर्म्यं ज्ञानं नाश्नुते न प्राप्नोति । ननु च एतमेव प्रव्राजिनो लोकमीसन्तः प्रव्रजन्ति " इति संन्यासस्य मोक्षाङ्गत्वश्रुतेः संन्यासादेव मोक्षो भवि[१३८]ष्यतीति किं कर्मभिरित्याशङ्कयोक्तम्-न चे ति । न च चित्तशुद्धिं विना कृतात्संन्यसनादेव ज्ञानशून्यात्सिद्धिं मोक्षं समधिगच्छति प्राप्नोति ॥ ४ ॥

 म० टी०–तत्र कर्मजन्यशुद्धयभावे बहिर्मुखः-

न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत्
कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः ॥ ५ ॥

 हि यस्मात्क्षणमपि कालं जातु कदाचित्कश्चिदप्यजितेन्द्रियोऽकर्मकृत्सन्न तिष्ठति । अपि तु लौकिकवैदिककर्मानुष्ठानव्यग्र एव तिष्ठति । तस्मादशुद्धचित्तस्य संन्यासो न संभवतीत्यर्थः । कस्मात्पुनरविद्वान्कर्मण्यकुर्वाणो न तिष्ठति । हि यस्मात्सर्वः प्राणी चित्तशुद्धिरहितोऽवशोऽस्वतन्त्र एवं सन्प्रकृतिजैः प्रकृतितो जातैरभिव्यक्तैः कार्याकारेण सत्त्वरजस्तमोभिः स्वभावप्रभवैर्वा रागद्वेषादिभिर्गुणैः कर्म लौकिकं वैदिकं वा कार्यते । अतः कर्माण्यकुर्वाणो न कश्चिदपि तिष्ठतीत्यर्थः । यतः स्वाभाविका गुणाश्चालका अतः परवशतया सर्वदा कर्माणि कुर्वतोऽशुद्धबुद्धेः सर्वकर्मसंन्यासो न संभवतीति न संन्यासनिबन्धना ज्ञाननिष्ठा संभवतीत्यर्थः ॥ ५ ॥

 श्री० टी०---कर्मणां च संन्यासस्तेष्वनासक्तिमात्रं न तु स्वरूपेणाशक्यत्वादित्याह-न हीति । जातु कस्यांचिदवस्थायां क्षणमात्रमाप कश्चिदपि ज्ञानी वाऽज्ञो वाऽकर्मकृत्कर्मण्यकुर्वाणो न तिष्ठति । तत्र हेतुः प्रकृतिजैः स्वभावप्रभवै रागद्वेषादिभिगुणैः सर्वोऽपि जनः कर्म कार्यते कर्मणि प्रवर्त्यतेऽवशोऽस्वतन्त्रः सन् ॥ ५ ॥


 म० टी०-यथाकथंचिदौत्सुक्यमात्रेण कृतसंन्यासस्त्वशुद्धचित्तस्तत्फलभाड्न भवति यतः--

कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् । इन्द्रियान्विमूढात्मा मिथ्याचारः स उच्यते ॥ ६॥

 यो विमूढात्मा रागद्वेषादिदूषितान्तःकरण औत्सुक्यमात्रेण कर्मेन्द्रियाणि वाक्पाण्यादीनि संयम्य निगृह्य बहिरिन्द्रियैः कर्मण्यकुर्वन्निति यावत् । मनसा रागादिप्रेरितेनेन्द्रियार्थाशब्दादीन्न त्वात्मतत्त्वं स्मरन्नास्ते कृतसंन्यासोऽहमित्यभिमानेन कर्मशून्यस्तिष्ठति स मिथ्याचारः सत्त्वशुद्धयभावेन फलायोग्यत्वात्पापाचार उच्यते,

"त्वंपदार्थविवेकाय संन्यासः सर्वकर्मणाम् ।
श्रुत्येह विहितो यस्मात्तत्यागी पतितो भवेत् "

इत्यादिधर्मशास्त्रेण । अत उपपन्नं न च संन्यसनादेवाशुद्धान्तःकरणः सिद्धिं सम- धिगच्छतीति ॥ ६ ॥

 श्री० टी०-अतोऽज्ञं कर्मत्यागिनं निन्दति-कमेंद्रियाणीति । वाक्पाण्यादीनि कर्मेन्द्रियाण्यपि संयम्य निगृह्य यो मनसा भगवद्ध्यानच्छलेनेन्द्रियान्विषयान्स्मरन्नास्तेऽविशुद्धतया मनस आत्मनि स्थैर्याभावात्स मिथ्याचारः कपटाचारो दाम्भिक उच्यत इत्यर्थः ॥ ६ ॥

 म० टी०-औत्सुक्यमात्रेण सर्वकर्माण्यसंन्यस्य चित्तशुद्धये निष्कामकमण्येक यथाशास्त्रं कुर्यात् । यस्मात्--

यस्त्विन्द्रियाणि मनसा नियम्याऽऽरभतेऽर्जुन ॥
कर्मेन्द्रियैः कर्मयोगमसक्तः स विशिष्यते ॥ ७ ॥

 तुशब्दोऽशुद्धान्तःकरणसंन्यासिव्यतिरेकार्थः । इन्द्रियाणि ज्ञानेन्द्रियाणि श्रोत्रादीनि मनसा सह नियम्य पापहेतुशब्दादिविषयासक्तेर्निवर्त्य मनसा विवेकयुक्तेन नियम्येति वा, कर्मेन्द्रियैर्वाक्पाण्यादिभिः कर्मयोगं शुद्धिहेतुतया विहितं कर्मऽऽरभते करोत्यसक्तः फलाभिलाषशून्यः सन्यो विवेकी स इतरस्मान्मिथ्याचाराद्विशिष्यते । परिश्रमसाम्येऽपि फलातिशयभाक्त्वेन श्रेष्ठो भवति । हेऽर्जुनाऽऽश्चर्यमिदं पश्य यदेकः कर्मेन्द्रियाणि निगृह्णज्ञानेन्द्रियाणि व्यापारयन्पुरुषार्थशून्योऽपरस्तु ज्ञानेन्द्रियाणि निगृह्य कर्मेन्द्रियाणि व्यापारयन्परमपुरुषार्थभाग्भवतीति[१३९] ॥ ७ ॥

 श्री० टी०--एतद्विपरीतः कर्मकर्ता श्रेष्ठ इत्याह-यस्त्विति । यस्तु ज्ञानेन्द्रियाणि मनसा नियम्येश्वरप्रवणानि कृत्वा कर्मेन्द्रियैः कर्मरूपं योगमुपायमारभतेऽनुति-


ष्ठति असक्तः फलाभिलाषरहितः सन्स विशिष्यते विशिष्टो भवति चित्तशुध्द्या ज्ञान- वान्भवतीत्यर्थः ॥ ७ ॥

 म० टी०-यस्मादेवं तस्मान्मनसा ज्ञानेन्द्रियाणि निगृह्य कर्मेन्द्रियैः-

नियत कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः ॥
शरीरयात्राऽपि च ते न प्रसिध्येदकर्मणः ॥ ८ ॥

 त्वं प्रागननुष्ठितशुद्धिहेतुकर्मा नियतं विध्युद्देशे फलसंबन्धशून्यतया नियतनिमित्तेन विहितं कर्म श्रौतं स्मार्तं च नित्यमिति प्रसिद्धं कुरु । कुर्विति मध्यम पुरुषप्रयोगेणैव त्वमिति लब्धे त्वमिति पदमर्थान्तरे संक्रमितम् । कस्मादशुद्धान्तःकरणेन कर्मैंव कर्तव्यं हि यस्मादकर्मणोऽकरणात्कर्मैव ज्यायः प्रशस्यतरम् । न केवलं कर्माभावे तवान्तःकरणशुद्धिरेव न सिध्येत् ।।किं तु अकर्मणो युद्धादिकर्मरहितस्य ते तव शरीरयात्रा शरीरस्थितिरपि न प्रकर्षेण क्षात्रवृत्तिकृतत्वलक्षणेन सिध्येत् । तथा च प्रागुक्तम् । अपि चेत्यन्तःकरणशुद्धिसमुच्चयार्थः ॥ ८ ॥

 श्री० टी०–यस्मादेवं तस्मात्-नियतमिति । नियतं नित्यं संध्योपासनादि कर्म कुरु । हि यस्मादकर्मणः कर्माकरणान्सकाशात्कर्म ज्यायोऽधिकतरम् । अन्यथाऽकर्मणः सर्वकर्मशून्यस्य तव शरीरनिर्वाहोऽपि न प्रसिध्येन्न भवेत् ॥ ८ ॥

 म० टी०-- कर्मणा बध्यते जन्तुः " इति स्मृतेः सर्वं कर्म बन्धात्मकत्वान्मुसु- क्षुणा न कर्तव्यमिति मत्वा तस्योत्तरमाह-

यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः ॥
तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर ॥ ९ ॥

 यज्ञः परमेश्वरः " यज्ञो वै विष्णुः ॥ इति श्रुतेः । तदाराधनार्थं यत्क्रियते कमें तद्यज्ञार्थं तस्मात्कर्मणोऽन्यत्र कर्मणि प्रवृत्तोऽयं लोकः कर्माधिकारी कर्मबन्धनः कर्मणा बध्यते न त्वीश्वराराधनार्थेन । अतस्तदर्थं यज्ञार्थं कर्म हे कौन्तेय त्वं कर्मण्यधिकृतो मुक्तसङ्गः सन्समाचर सम्यक्श्रद्धादिपुरःसरमाचर ॥ ९ ॥

 श्री० टी०-सांख्यास्तु सर्वमपि कर्म बन्धकत्वान्न कार्यमित्याहस्तन्निराकुर्वन्नाह-यज्ञार्थादिति । यज्ञोऽत्र विष्णुः । “यज्ञो वै विष्णुः” इति श्रुतेः । तदाराधनार्थात्कर्मणोऽन्यत्र तदेकं विनाऽयं लोकः कर्मबन्धनः कर्मभिर्बध्यते न त्वीश्वराराधनार्थेन कर्मणा । अतस्तदर्थं विष्णुप्रीत्यर्थं मुक्तसङ्गो निष्कामः सन्कर्म सम्यगाचर ॥ ९ ॥

 म० टी०-प्रजापतिवचनाप्यधिकृतेन कर्म कर्तव्यमित्याह सहयज्ञा इत्यादिचतुर्भिः-

सहयज्ञाः प्रजाः दृष्ट्वा पुरोवाच प्रजापतिः ॥
अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक् ॥ १० ॥

 सह यज्ञेन विहितकर्मकलापेन वर्तन्त इति सहयज्ञाः कर्माधिकृता इति यावत् । "वोपसर्जनस्य ' इति पक्षे सादेशाभावः । प्रजास्त्रीन्वर्णान्पुरा कल्पादौ सृष्टोवाच प्रजानां पतिः स्रष्टा । किमुवाचेत्याह–अनेन यज्ञेन स्वाश्रमोचितधर्मेण प्रसविष्यध्वं प्रसूयध्वम् । प्रसवो वृद्धिः । उत्तरोत्तरामभिवृद्धिं लभध्वमित्यर्थः । कथमनेन वृद्धिः स्यादत आह-एष यज्ञाख्यो धर्मों व युष्माकमिष्टकामधुक् , इष्टानभिमतान्कामान्काम्यानि फलानि दोग्धि प्रापयतीति तथा । अभीष्टभोगप्रदोऽस्त्वित्यर्थः । अत्र यद्यपि यज्ञग्रहणमावश्यककर्मोपलक्षणार्थमकरणे प्रत्यवायस्याग्रे कथनात् । काम्यकर्मणां च प्रकृते प्रस्तावो नास्त्येव ‘मा कर्मफलहेतुर्भूः' इत्यनेन निराकृतत्वात् । तथाऽपि नित्यकर्मणामप्यानुषङ्गिकफलसद्भावात् “एष वोऽस्त्विष्टकामधुक्' इत्युपपद्यते । तथाचाऽऽपस्तम्बः स्मरति-" तद्यथाऽऽम्रे फलार्थे निमिते छायागन्धावनूत्पद्येते एवं धर्मं चर्यमाणमर्था अनुत्पद्यन्ते नो चेदनूत्पद्यन्ते ने धर्महानिर्भवति !' इति । फलसद्भावेऽपि तदभिसंध्यनभिसंधिभ्यां काम्यनित्ययोर्विशेषः । अनभिसंहितस्यापि वस्तुस्वभावादुत्पत्तौ न विशेषः । विस्तरेण चाग्रे प्रतिपादयिष्यते ॥ १० ॥

 श्री० टी०--प्रजापतिवचनादपि कर्मकर्तैव श्रे[१४०]ष्ठ इत्याह सहयज्ञा इति चतुर्भिः---- यज्ञेन सह वर्तन्त इति सहयज्ञा यज्ञाधिकृता ब्राह्मणाद्याः प्रजाः पुरा सर्गादौ सृष्ट्वा ब्रह्मेदमुवाच । अनेन यज्ञेन प्रसविष्यध्वं प्रसूयध्वम् । प्रसवो हि वृद्धिः । उत्तरोत्तरा[१४१]भिवृद्धिं लभध्वमित्यर्थः । तत्र हेतुः--एष यज्ञो वो युष्माकमिष्टकामधुगिष्टान्कामान्दोग्धीति तथा । अभीष्ट भोगप्रदोऽस्त्वित्यर्थः । अत्र च यज्ञग्रहणमावश्यककर्मोपलक्षणार्थम् । काम्यकर्मप्रशंसा तु प्रकरणेऽसङ्गताऽपि सामान्यतोऽकर्मणः कर्म श्रेष्ठमित्येतदर्थेत्यदोषः ॥ १० ॥

 म० टी०-कथमिष्टकामदोग्धृत्वं यज्ञस्येति तदाह-

देवान्भावयतानेन ते देवा भावयन्तु वः ॥
परस्परं भावयन्तः श्रेयः परमवाप्स्यथ ॥ ११ ॥

 अनेन यज्ञेन यूयं यजमाना देवानिन्द्रादीन्भावयत हविर्भागैः संवर्धयत तर्पयतेत्यर्थः । ते देवा युष्माभिभविताः सन्तो वो युष्मान्भावयन्तु वृष्ट्यादिनाऽन्नोत्पत्तिद्वारेण संवर्धयन्तु । एवमन्योन्यं संवर्धयन्तो देवाश्च यूयं च परं श्रेयोऽभिमतमर्थं प्राप्स्यथ देवास्तृप्तिं प्राप्स्यन्ति यूयं च स्वर्गाख्यं परं श्रेयः प्राप्स्यथेत्यर्थः ॥ ११ ॥


श्री० टी०-कथमिष्टकामदोग्धा यज्ञो भवेदित्यत्राऽऽह-देवानिति । अनेन

यज्ञेन यूयं देवान्भावयत हविर्भागैः संवर्धयत । ते च देवा वो युष्मान्संवर्धयन्तु वृष्ट्यादिनाऽन्नोत्पत्तिद्वारेण । एवमन्योन्यं संवर्धयन्तो देवाश्च यूयं च परस्परं श्रेयोऽभीष्टमर्थं प्राप्स्यथ ॥ ११ ॥

 म० टी०-न केवलं पारत्रिकमेव फलं यज्ञात् , किं त्वैहिकमपीत्याह--

इष्टान्भोगान्हि वो देवा दास्यन्ते यज्ञभाविताः ॥
तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः ॥ १२ ॥

 अभिलषितान्भोगान्पश्वन्नहिरण्यादीन्वो युष्मभ्यं देवा दास्यन्ते वितरिष्यन्ति । हि यस्माद्यज्ञैर्भवितास्तोषितास्ते । यस्मात्तैऋणवद्भवद्भयो दत्ता भोगास्तस्मातैर्देवैर्दत्तान्भगानेभ्यो देवेभ्योऽप्रदाय यज्ञेषु देवोदेशेनाऽऽहुतीरसंपाद्य यो भुङ्के देहेन्द्रियाण्येव तर्पयति स्तेन एव तस्कर एव स देवस्वापहारी देवर्णानपाकरणात् ॥ १२ ॥

 श्री० टी०-एतदेव स्पष्टी कुर्वन्कर्माकरणे दोषमाह–इष्टानिति । यज्ञैर्भाविताः सन्तो देवा वृष्ट्यादिद्वारेण वो युष्मभ्यं भोगान्दास्यन्ति हि । अतो देवैर्दत्तानन्नादीनेभ्यो देवेभ्यः पञ्चयज्ञादिभिरदत्त्वा यो भुङ्के स तु स्तेनश्चोर एव ज्ञेयः ॥ १२ ॥

 म० टी०-ये तु--

यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः ॥
भुञ्जते ते त्वधं पापा ये पचन्यात्मकारणात् ॥ १३ ॥

 वैश्वदेवादियज्ञावशिष्टममृतं येऽश्नन्ति ते सन्तः शिष्टा वेदोक्तकारित्वेन देवाघृणापाकरणात् । अतस्ते मुच्यन्ते सर्वैर्विहिताकरणनिमित्तैः पूर्वकृतैश्च पञ्चसूनानिमित्तैः किल्विषैः । भूतभाविपातकासंसर्गिणस्ते भवन्तीत्यर्थः । एवमन्वये भूतभाविपापाभावमुक्त्वा व्यतिरेके दोषमाह-भुञ्जते ते वैश्वदेवाद्यकारिणोऽघं पापमेव । तुशब्दोऽवधारणे । ये पापाः पञ्चसूनानिमित्तं प्रमादकृतहिंसानिमित्तं च कृतपापाः सन्त आत्मकारणादेव पचन्ति न तु वैश्वदेवाद्यर्थम् । तथा च पञ्चसूनादिकृतपापे विद्यमान एव वैश्वदेवादिनित्यकर्माकरणनिमित्तमपरं पापमाप्नुवन्तीति भुञ्जते ते त्वघं पापा इत्युक्तम् । तथा च स्मृतिः----

"कण्डनी पेषणी चुली उदकुम्भी च मार्जनी ।
पञ्च सूना गृहस्थस्य ताभिः स्वर्ग न विन्दति " इति ॥

 "पञ्चसूनाकृतं पापं पञ्चयज्ञैर्व्यपोहति ॥ इति च । श्रुतिश्च इदमेवास्य तत्साधारणमन्नं यदिदमद्यते स य एतदुपास्ते न स पाप्मनो व्यावर्तते मिश्रं ह्येतत् " इति । मन्त्रवर्णोऽपि-

"मोघमन्नं विन्दते अप्रचेताः सत्यं ब्रवीमि वध इत्स तस्य ।
नार्यमणं पुष्यति नो सखायं केवलाघो भवति केवलादी " इति ॥

 इदं चोपलक्षणं पञ्चमहायज्ञानां स्मार्तानां श्रौतानां च नित्यकर्मणाम् । अधिकृतेन नित्यानि कर्माण्यवश्यमनुष्ठेयानीति प्रजापतिवचनार्थः ॥ १३ ॥

 श्री० टी०-अतश्च यजन्त एव श्रेष्ठा नेतर इत्याह-यज्ञशिष्टाशिन इति । वैश्वदेवादियज्ञावशिष्टं येऽश्नन्ति ते पञ्चसूनाकृतैः सर्वैः किल्बिषैर्मुच्यन्ते । पञ्च सूनाश्च स्मृतावुक्ताः--

"कण्डनी पेषणी चुल्ली उदकुम्भी च मार्जनीं ।
पञ्च सूना गृहस्थस्य ताभिः स्वर्गं न विन्दति " इति ॥

 ये त्वात्मनो भोजनार्थमेव[१४२] पचन्ति न तु वैश्वदेवद्य[१४३]र्थं ते पापा दुराचारी अघमेव मुञ्जते ॥ १३ ॥

 म० टी०-न केवलं प्रजापतिवचनादेव कर्म कर्तव्यमपि तु जगच्चक्रप्रवृत्तिहेतु- त्वादपीत्याह–अन्नादिति त्रिभिः--

अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसंभवः ॥
यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः ॥ १४ ॥

 अन्नाद्भुक्ताद्रेतोलोहितरूपेण परिणताद्भूतानि प्राणिशरीराणि भवन्ति जायन्ते । अन्नस्य संभवो जन्मान्नसंभवः पर्जन्याद्वृष्टेः । प्रत्यक्षसिद्धमेवैतत् । अत्र कर्मोपयोगमाह---यज्ञात्कारीर्योदेरग्निहोत्रादेश्चापूर्वाख्याद्धर्माद्भवति पर्जन्यः । यथा चाग्निहोत्राहुतेर्वेष्टिजनकत्वं तथा व्याख्यातमष्टाध्यायीकाण्डे जनकयाज्ञवल्क्यसंवादरूपायां षट्प्रख्याम् । मनुना चोक्तम्---

"अग्नौ प्रास्ताऽऽहुतिः सम्यगादित्यमुपातिष्ठते ।
आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः " इति ॥

 स च यज्ञो धर्माख्यः सूक्ष्मः कर्मसमुद्भव ऋत्विग्यजमानव्यापार साध्यः । यज्ञस्य हि अपूर्वस्य विहितं कर्म कारणम् ॥ १४ ॥

 श्री० टी०---जगच्चक्रप्रवृत्तिहेतुत्वादपि कर्म कर्तव्यमित्याह-अन्नादितित्रिभिः-- अन्नाच्छुक्रशोणितरूपेण परिणताद्भूतान्युत्पद्यन्ते । अन्नस्य च संभवः पर्जन्याद्वृष्टेः । स चेपर्जन्यो यज्ञाद्भवति । स च यज्ञः कर्मसमुद्भवः कर्मणा यजमानादिव्यापारेण सम्यनिष्पद्यत इत्यर्थः ।

"अग्नौ प्रास्ताऽऽहुतिः सम्यगादित्यमुपतिष्ठते ।
आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः" इति स्मृतेः ॥ १४ ॥


 म० टी० ---तच्चापूर्वोत्पादकम्--

कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम् ।
तस्मात्सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ॥ १५ ॥

 ब्रह्मोद्भवं ब्रह्म वेदः स एवोद्भवः प्रमाणं यस्य तत्तथा । वेदविहितमेव कर्मापूर्वसाधनं जानीहि न त्वन्यत्पाषण्डप्रतिपादितमित्यर्थः । ननु पाषण्डशास्त्रापेक्षया वेदस्य किं वैलक्षण्यं यते वेदप्रतिपादित एवं धर्मो नान्य इत्यत आह---ब्रह्म वेदाख्यमक्षरसमुद्भवमक्षरात्परमात्मनो निर्दोषात्पुरुषानिश्वासन्यायेनाबुद्धिपूर्वं समुद्भव आविर्भावो यस्य तदक्षरसमुद्भवम् । तथा चापौरुषेयत्वेन निरस्तसमस्तदोषाशङ्कं वेदवाक्यं प्रमितिजनकतया प्रमाणमतीन्द्रियेऽर्थे न तु भ्रमप्रमादकरणापाटवविप्रलिप्सादिदोषवत्प्रणीतं पाखण्डवाक्यं प्रमितिजनकमिति भावः । तथा च श्रुतिः-“अस्य महते भूतस्य निश्वसितमेतद्यदृग्वेदो यजुर्वेदः सामवेदोऽथवाङ्गिरस इतिहासः पुराणं विद्या उपनिषदः श्लोकाः सूत्राण्यनुव्याख्यानानि व्याख्यानान्यस्यैवैतानि निश्वसितानि[१४४] " इति । तस्मात्साक्षात्परमात्मसमुद्भवतया सर्वगतं सर्वप्रकाशकं नित्यमविनाशि च ब्रह्म वेदाख्यं यज्ञे धर्माख्येऽतीन्द्रिये प्रतिष्ठितं तात्पर्येण । अतः पाषण्डप्रतिपादितोपधर्मपरित्यागेन वेदबोधित एव धर्मोऽनुष्ठेय इत्यर्थः ॥ १५ ॥

 श्री० टी०--तथा-कर्म ब्रह्मोद्भवमिति । तच्च यजमानादिव्यापाररूपं कर्म ब्रह्मोद्भवं विद्धि ब्रह्म वेदस्तस्मात्प्रवृत्तं जानीहि । तच्च ब्रह्म वेदाख्यमक्षरात्परब्रह्मणः समुद्भूतं विद्धि। " अस्य महतो भूतस्य निःश्वसितमेतद्यदृग्वेदो यजुर्वेदः सामवेदः । इति श्रुतेः । यत एवमक्षरादेव यज्ञप्रवृत्तेरत्यन्तं तस्याभिप्रेतो यज्ञस्तस्मात्सर्वगतमप्यक्षरे ब्रह्म नित्यं सर्वदा यज्ञे प्रतिष्ठितं, यज्ञेनोपायभूतेन प्राप्यत इति यज्ञे प्रतिष्ठितमुच्यत उद्यमस्था सदा लक्ष्मीरितिवत् । यद्वा यस्माज्जगचक्रमूलं कर्म तस्मात्सर्वगतं मन्त्रार्थवादैः सर्वेषु[१४५] सिद्धार्थप्रतिपादकेषु [१४६]भूतान्वाख्यानादिषु गतं स्थितमपि वेदाख्यं ब्रह्म सर्वदा यज्ञे तात्पर्यरूपेण प्रतिष्ठितम् । अतो यज्ञादिकर्म कर्तव्यमित्यर्थः ॥ १५ ॥

 म० टी०-भवत्वेवं ततः किं फलितमित्याह-

एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः ॥
अघायुरिन्द्रियारामो मोघं पार्थ स जीवति ॥ १६ ॥


 आदौ परमेश्वरान्सर्वावभासकनित्यनिर्दोषवेदाविर्भावः । ततः कर्मपरिज्ञानं ततोऽ-


नुष्ठानाद्धर्मत्पादः । ततः पर्जन्यस्ततोऽन्नं ततो भूतानि पुनस्तथैव भूतानां कर्मप्रवृत्तिरित्येवं परमेश्वरेण प्रवर्तितं चक्रं सर्वजगन्निवार्हकं यो नानुवर्तयति नानुतिष्ठति सोऽघायुः पापजीवनो मोघं व्यर्थमेव जीवति हे पार्थ तस्य जीवनान्मरणमेव वरं जन्मान्तरे धर्मानुष्ठानसंभवादित्यर्थः । तथा च श्रुतिः---." अथो अयं वा आत्मा सर्वेषां भूतानां लोकः स यज्जुहोति यद्यजते तेन देवानां लोकोऽ थ यदनुब्रूते तेन ऋषीणामथ यत्पितृभ्यो निपृणाति यत्प्रजामिच्छ[१४७]ते तेन पितॄणामथ यन्मनुष्यान्वासयते यदेभ्योऽशनं ददाति तेन मनुष्याणामथ यत्पशूभ्यस्तृणोदकं विन्दति तेन पशूनां यदस्य गृहेषु श्वापदा वयांस्या पिपीलिकाभ्य उपजीवन्ति तेन तेषां लोकः' इति । ब्रह्मविद् व्यावर्तयति-इन्द्रियाराम इति। यत इन्द्रियैर्विषयेष्वारमति अतः कर्माधिकारी संस्तदकरणात्पापमेवाऽऽचिन्वन्व्यर्थमेव जीवतीत्याभप्रायः ॥ १६ ॥

 श्री० टी०-यस्मादेवं परमेश्वरेणैव भूतानां पुरुषार्थसिद्धये कर्मादिचक्र प्रवर्तितं तस्मात्तदकुर्वतो वृथैव जीवितमित्याह-एवमिति । परमेश्वरवाक्यभूताद्वेदाख्याड्रह्मणः पुरुषाणां कर्मणि प्रवृत्तिस्ततः कर्मनिष्पत्तिस्ततः पर्जन्यस्ततोऽन्नं ततः भूतानि भूतानां च पुनस्तथैव कर्मणि प्रवृत्तिरित्येवं प्रवर्तितं चक्रं यो नानुवर्तयति नानुतिष्ठति अघायुरघं पापरूपमायुर्यस्य सः, यत इन्द्रियैर्विषयेष्वेवाऽऽरमति न तु ईश्वराराधना कर्मणि अतो मोघं व्यर्थं स जीवति ॥ १६ ॥

 म० टी०---यस्त्विन्द्रियारामो न भवति परमार्थदर्शी स एवं जगचक्रप्रवृत्तिहेतु- भूतं कर्माननुतिष्ठन्नपि न प्रत्यवैति कृतकृत्यत्वादित्याह द्वाभ्याम्-

यस्त्वात्मरतिरेव स्यादात्मतृप्तश्चै मानवः ॥
आत्मन्येव च संतुष्टस्तस्य कार्य न विद्यते ॥ १७ ॥

 इन्द्रियारामो हि स्रक्चन्दनवनितादिषु रतिमनुभवति मनोज्ञानपानादिषु तृप्तिं पशुपुत्र हिरण्यादिलाभेन रोगाद्यभावेन च तुष्टिम् । उक्तविषयाभावे रागिणामरत्यतृप्त्यतुष्टिदर्शनाद्रतितृप्तितुष्टयो मनोवृत्तिविशेषाः साक्षिसिद्धाः । लब्धपरमात्मानन्दस्तु द्वैतदर्शनाभावादतिफल्गुत्वाच्च विषयसुखं न कामयत इत्युक्तं “यावानर्थ उदपाने" इत्यत्र । अतोऽनात्मविषयकरतितृप्तितुष्टयभावादात्मानं परमानन्दमद्वयं साक्षात्कुर्वन्नुपचारादेवमुच्यते--आत्मरतिरात्मतृप्त आत्मसंतुष्ट इति । तथा च श्रुतिः-" आत्मक्रीड आत्मरतिः क्रियावानेष ब्रह्मविदां वरिष्ठः " इति । आत्मतृप्तश्चेति चकार एवकारानुकर्षणार्थः । मानव इति यः कश्चिदपि मनुष्य एवंभूतः स एव कृतकृत्यो न तु ब्राह्मणत्वादिप्रकर्षेणेति कथयितुम् । आत्मन्येव च संतुष्ट इत्यत्र चकारः समुच्च-


यार्थः । य एवंभूतस्तस्याधिकारहेत्वभावात्किमपि कार्यं वैदिकं लौकिकं वा न विद्यते ॥ १७ ॥

 श्री० टी०-तदेवं न कर्मणामनारम्भान्नैष्कम्यम्' इत्यादिनाऽज्ञस्यान्तःकरणशुद्ध्यर्थं कर्मयोगमुक्त्वा ज्ञानिनः कर्मानुपयोगमाह यस्त्विति द्वाभ्याम्-आत्मन्येव रतिः प्रीतिर्यस्य । ततश्चाऽऽत्मन्येव तृप्तः स्वानन्दानुभवेन निर्वृतः । अत एवाऽऽत्मन्येव संतुष्टो भोगापेक्षारहितो यस्तस्य कर्तव्यं नास्ति ॥ १७ ॥

 म० टी०--नन्वात्मविदोऽपि अभ्युदयार्थं निःश्रेयसार्थं प्रत्यवायपरिहारार्थं वा कर्म स्यादित्यत आह-

नैव तस्य कृतेना नाकृतेनेह कश्चन ॥
न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः ॥ १८ ॥

 तस्याऽऽत्मरतेः कृतेन कर्मणाऽभ्युदयलक्षणो निःश्रेयसलक्षणो वाऽर्थः प्रयोजन नैवास्ति तस्य स्वर्गाद्यभ्युदयानार्थित्वात् , निश्रेयसस्य च कर्मासाध्यत्वात् । तथा च श्रुतिः-" परीक्ष्य लोकान्कर्मचितान्ब्राह्मणो निर्वेदमायान्नास्त्यकृतः कृतेन इति । अकृतो नित्यो मोक्षः कृतेन कर्मणा नास्तीत्यर्थः । ज्ञानसाध्यस्यापि व्यावृत्तिरेवकारेण सूचिता । आत्मरूपस्य हि निःश्रेयसस्य नित्यप्राप्तस्याज्ञानमात्रमप्राप्तिः । तच्च तत्त्वज्ञान- मात्रापनोद्यम् । तस्मिंस्तत्त्वज्ञानेनापनुन्ने तस्याऽऽत्मविदो न किंचित्कर्मसाध्यं ज्ञानसाध्यं वा प्रयोजनमस्तीत्यर्थः । एवंभूतेनापि प्रत्यवायपरिहारार्थं कर्मण्यनुष्ठेयान्येवेत्यत आह-नाकृतेनेति । भावे निष्ठा । नित्यकर्माकरणेनेह लोके गर्हितत्वरूपः प्रत्यवायप्राप्तिरूपो वा कश्चनार्थो नास्ति । सर्वत्रोपपत्तिमाहोत्तरार्धेन । चो हेतौ । यस्मादस्याऽऽत्मविदः सर्वभूतेषु ब्रह्मादिस्थावरान्तेषु कोऽपि अर्थव्यपाश्रयः प्रयोजनसंबन्धो नास्ति । कंचिद्रूतविशेषमाश्रित्य कोऽपि क्रियासाध्योऽर्थो नास्तीति वाक्यार्थः । अतोऽस्य कृताकृते निष्प्रयोजने " नैनं कृताकृते तपतः " इति श्रुतेः । " तस्य ह न देवाश्चनाभूत्या ईशत आत्मा ह्येषां स भवति " इति श्रुतेर्देवा अपि तस्य मोक्षाभ- वनाय न समर्था इत्युक्तेर्न विघ्नाभावार्थमपि देवाराधनरूपकर्मानुष्ठानमित्यभिप्रायः । एतादृशो ब्रह्मविद्भूमिकासप्तकभेदेन निरूपितो वसिष्ठेन---

ज्ञानभूमिः शुभेच्छाख्या प्रथमा परिकीर्तिता ।
विचारणा द्वितीया स्यात्तृतीया तनुमानसा ॥
सत्त्वापत्तिश्चतुर्थी स्यात्ततोऽसंसक्तिनामिका ।
पदार्थाभावनी षष्ठी सप्तमी तुर्यगा स्मृता " इति ।

 तत्र नित्यानित्यवस्तुविवेकादिपुरःसरा फलपर्यवसायिनी मोक्षेच्या प्रथमा । ततेा गुरुमुपसृत्य वेदान्तवाक्यविचारः श्रवणमननात्मको द्वितीया । ततो निदिध्यासनाभ्यासेन मनस एकाग्रतया सूक्ष्मवस्तुग्रहणयोग्यत्वं तृतीया । एतद्भूमिकात्रयं साधनरूपं जाग्रवस्थोच्यते योगिभिः, भेदेन जगतो भानात् । तदुक्तम्-

भूमिकात्रितयं त्वेतद्राम जाग्रदिति स्थितम् ।
यथावद्भेदबुद्धयेदं जगज्जाग्रति दृश्यते " इति ॥

 ततो वेदान्तवाक्यान्निर्विकल्पको ब्रह्मात्मैक्यसाक्षात्कारश्चतुर्थी भूमिका फलरूपा सत्त्वापत्तिः स्वप्नावस्थोच्यते । सर्वस्यापि जगतो मिथ्यात्वेन स्फुरणात् । तदुक्तम्-

अद्वैते स्थैर्यमायाते द्वैते प्रशममागते ।
पश्यन्ति स्वप्नवल्लोकं चतुर्थीं भूमिकामिताः " इति॥

 सोऽयं चतुर्थभूमिं प्राप्तो योगी ब्रह्मविदित्युच्यते । पञ्चमीषष्ठीसप्तम्यस्तु भूमिका जीवन्मुक्तेरेवावान्तरभेदाः । तत्र सविकल्पकसमाध्यम्यासेन निरुद्धे मनसि या निर्विकल्पकसमाध्यवस्था साऽसंसक्तिरिति सुषुप्तिरिति चोच्यते । ततः स्वयमेव व्युत्थानात् । सोऽयं योगी ब्रह्मविद्वरः । ततस्तदभ्यासपरिपाकेण चिरकालावस्थायिनी सा पदार्थाभावनीति गाढसुषुप्तिरिति चोच्यते । ततः स्वयमनुत्थितस्य योगिनः परप्रयत्नेनैव व्युत्थानात् । सोऽयं ब्रह्मविद्वरीयान् । उक्तं हि---

"पञ्चमीं भूमिकामेत्य सुषुप्तिपदनामिकाम् ।
षष्ठीं गाढसुषुप्त्याख्या क्रमात्पतति भूमिकाम् ' इति ॥

 यस्यास्तु समाध्यवस्थाया न स्वतो न वा परतो व्युत्थितो भवति सर्वथा भेददर्शनाभावात् । किं तु सर्वदा तन्मय एव स्वप्रयत्नमन्तरेणैव परमेश्वरप्रेरितप्राणवायुवशादन्यैर्निवाह्यमाणदैहिकव्यवहारः परिपूर्णपरमानन्दघन एव सर्वतस्तिष्ठति । सा सप्तमी तुरीयावस्था । तां प्राप्तो ब्रह्मविद्वरिष्ठ इत्युच्यते । उक्तं हिं---

"षष्ठयां भूम्यामसौ स्थित्वा सप्तम भूमिमाप्नुयात् ।
किंचिदेवैष संपन्नस्त्वथवैष न किंचन ॥
विदेहमुक्तता तूक्तो सप्तमी योगभूमिका ।
अगम्या वचसां शान्ता सा सीमा योगभूमिषु " इति ॥

 यामधिकृत्यं श्रीमद्भागवते स्मर्यते--

"देहं च नश्वरमवस्थितमुत्थितं वा
 सिद्धो न पश्यति यतोऽध्यगमत्स्वरूपम् ।
दैवदुषेतमथ दैववशादपेतं
 वासो यथा परिकृतं मदिरामदान्धः ॥

देहोऽपि दैववशगः खलु कर्म याव-
 त्स्वारम्भकं प्रतिसमीक्षत एव सासुः ।
तं सप्रपञ्चमाधिरूढसमाधियोगः
 स्वानं पुनर्न भजते प्रतिबुद्धवस्तुः " इति ॥

 श्रुतिश्च---" तद्यथाऽहिनिर्वयनी वल्मीके मृता प्रत्यस्ता शयीतैवमेवेदं शरीरं शेतेऽथायमशरीरोऽमृतः प्राणो ब्रह्मैव तेन एव " इति । तत्रायं संग्रहः---

" चतुर्थी भूमिका ज्ञानं तिस्रः स्युः साधनं पुरा ।
जीवन्मुक्तेरवस्थास्तु परास्तिस्रः प्रकीर्तिताः " ॥

 अत्र प्रथमभूमित्रयमारूढोऽज्ञोऽपि न कर्माधिकारी किं पुनस्तत्वज्ञानी तद्विशिष्टो जीवन्मुक्तो वेत्यभिप्रायः ॥ १८ ॥

 श्री० टी०-तत्र हेतुमाह-नैव तस्येति । कृतेन कर्मणा तस्यार्थः पुण्यं नैवास्ति । न चाकृतेन कश्चन कोऽपि प्रत्यवायोऽस्ति निरहंकारत्वेन विधिनिषेधातीतत्वात् । तथाऽपि " तस्मात्तदेषां[१४८] देवानां न प्रियं यदेतन्मनुष्या विद्युः” इति श्रुतेर्मोक्षे देवकृतविघ्नसंभवात्तत्परिहारार्थं कर्मभिर्देवाः सेव्या इत्याशङ्कयोक्तं सर्वभूतेषु ब्रह्मादिस्थावरान्तेषु कश्चिदपि अर्थव्यपाश्रय आश्रय एवं व्यपाश्रयः, अर्थे मोक्ष आश्रयणीयोऽस्य नास्तीत्यर्थः । विघ्नाभावस्य श्रुत्यैवोक्तत्वात् । तथाच श्रुतिः-" तस्य ह न देवाश्चनाभूत्या ईशत आत्मा ह्येषां स भवति ।” इति ।[१४९] चनेत्यव्ययमप्यर्थे । देवा अपि तस्याऽऽत्मतत्त्वज्ञस्याभूत्यै ब्रह्मताप्रतिबन्धनाय नेशते न शक्नुवन्तीति श्रुतेरर्थः । देवकृतास्तु विघ्नाः सम्यग्ज्ञानोत्पत्तेः प्रागेव । यदेतद्ब्रह्म मनुष्या विद्युस्तदेषां देवानां न प्रियमिति ब्रह्मज्ञानस्यैवाप्रियत्वोक्त्या तत्रैव विघ्नकर्तृत्वस्य सूचितत्वात् ॥ १८ ॥

 म० टी०-यस्मान्न त्वमेवंभूतो ज्ञान किं तु कर्माधिकृत एव मुमुक्षुः-

तस्मादृसक्तः सततं कार्यं कर्म समाचर ॥
असक्तो ह्याचरन्कर्म परमाप्नोति पूरुषः ॥ १९ ॥

 असक्तः फलकामनारहितः सततं सर्वदा न तु कदाचित्कार्यमवश्यकर्तव्यं यावज्जीवादिश्रुतिचोदितं " तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन " इति श्रुत्या ज्ञाने विनियुक्तं कर्म नित्यनैमित्तिकलक्षणं सम्यगाचर यथाशास्त्रं निर्वर्तय । असक्तो हि यस्मादाचरन्नीश्वरार्थं कर्म कुर्वन्सत्त्वशुद्धिज्ञानप्राप्तिद्वारेण परं मोक्षप्राप्नोति पूरुषः पुरुषः स एव सत्पुरुषो नान्य इत्यभिप्रायः ॥ १९ ॥


 श्री० टी०-यस्मादेवंभूतस्य ज्ञानिन एव कर्मानुपयोगो नान्यस्य तस्मात्त्वं कर्म कुर्वित्याह--तस्मादिति । असक्तः फलसङ्गरहितः सन्कार्यमवश्यकर्तव्यतया विहितं नित्यनैमित्तिकं कर्म सम्यगाचर । हि यस्मादसक्तः कर्माऽऽचरन्पुरुषः परं मोक्षं चित्तशुद्धिज्ञानद्वारा प्राप्नोति ॥ १९ ॥

 म० टी०--ननु विविदिषोरपि ज्ञाननिष्ठाप्राप्त्यर्थं श्रवणमनननिदिध्यासनानुष्ठानाय सर्वकर्मत्यागलक्षणः संन्यासो विहितः । तथा च न केवलं ज्ञानिन एव कर्मानधिकारः किं तु ज्ञानार्थिनोऽपि विरक्तस्य । तथा च मयाऽपि विरक्तेन ज्ञानार्थिना कर्माणि हेयान्येवेत्यर्जुनाशङ्कां क्षत्रियस्य संन्यासानधिकारप्रतिपादनेनापनुदति भगवान्-

कर्मणैव हि संसिद्धिमास्थिता जनकादयः ॥
लोकसंग्रहमेवापि संपश्यन्कर्तुमर्हसि ॥ २० ॥

 जनकादयो जनकाजातशत्रुप्रभृतयः श्रुतिस्मृति[१५०]प्रसिद्धाः क्षत्रिया विद्वांसोऽपि कर्मजैव सह न तु कर्मत्यागेन सह संसिद्धिं श्रवणादिसाध्यां ज्ञाननिष्ठामास्थिताः प्राप्ताः । हि यस्मादेवं तस्मात्त्वमपि क्षत्रियो विविदिषुर्विद्वान्वा कर्म कर्तुमर्हसीत्यनुषङ्गः । "ब्राह्मणाः पुत्रैषणायाश्च वित्तैषणायाश्च लोकेषणायाश्च व्युत्थायाथ भिक्षाचर्यं चरन्ति' इति संन्यासविधायके वाक्ये ब्राह्मणत्वस्य विवक्षितत्वात् । " स्वाराज्यकामो राजा राजसूयेन यजेत " इत्यत्र क्षत्रियत्ववत् । “ चत्वार आश्रमा ब्राह्मणस्य त्रयो राजन्यस्य द्वौ वैश्यस्य " इति च स्मृतेः । पुराणेऽपि

"मुखजानामयं धर्मों यद्विष्णोर्लिङ्गधारणम् ॥
बाहुजातोरुजातानां नायं धर्मः प्रशस्यते "

 इति क्षत्रियवैश्ययोः संन्यासाभाव उक्तः । तस्माद्युक्तमेवोक्तं भगवता-“कर्मणैव हि संसिद्धिमास्थिता जनकादयः " इति । “सर्वे राजाश्रिता धर्मा राजा धर्मस्य धारकः इत्यादिस्मृतेर्वर्णाश्रमधर्मप्रवर्तकत्वेनापि क्षत्रियोऽवश्यं कर्म कुर्यादित्याह-लोकेति । लोकानां स्वे स्वे धर्मे प्रवर्तनमुन्मार्गन्निवर्तनं च लोकसंग्रहस्तं पश्यन्नपिशब्दाज्जनकादिशिष्टाचारमपि पश्यन्कर्म कर्तुमर्हस्येवेत्यन्वयः । क्षत्रियजन्मप्रापकेण कर्मणाऽऽरब्धशरीरस्त्वं विद्वानपि जनकादिवत्प्रारब्धकर्मबलेन लोकसंग्रहार्थं कर्म कर्तुं योग्यो भवसि न तु त्यक्तुं ब्राह्मणजन्मालाभादित्यभिप्रायः । एतादृशभगवदभिप्रायविदा भगवता भाष्यकृता ब्राह्मणस्यैव संन्यासो नान्यस्येति निर्णीतम् । वार्तिककृता तु प्रौढिवादमात्रेण क्षत्रियवैश्ययोरपि संन्यासोऽस्तीत्युक्तमिति द्रष्टव्यम् ॥ २० ॥


 श्री० टी०–अत्र सदाचार प्रमाणयति-कर्मणैवेति । कर्मणैव शुद्धसत्त्वाः

सन्तः संसिद्धिं सम्यग्ज्ञानं प्राप्ता इत्यर्थः । यद्यपि त्वं सम्यग्ज्ञानिनमेवाऽऽत्मानं मन्यसे तथाऽपि कर्माचरणं भद्रमेवेत्याह-लोकसंग्रहमिति । लोकस्य संग्रहः स्वधर्मे प्रवर्तनम् । मया कर्मणि कृते जनः सर्वोऽपि करिष्यति अन्यथा ज्ञानिदृष्टान्तेनाज्ञः कर्म त्यजन्पतेदित्येवं लोकरक्षणमपि तावत्प्रयोजनं संपश्यन्कर्म कर्तुमेवाहसि न तु त्यक्तुमित्यर्थः ॥ २० ॥

 म० टी०–ननु मया कर्मणि क्रियमाणेऽपि लोकः किमिति तत्संगृह्णीयादित्याशङ्कय श्रेष्ठाचारानुविधायित्वादित्याह---

यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः ॥
स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥ २१ ॥

 श्रेष्ठः प्रधानभूतो राजादिर्यद्यत्कर्माऽऽचरति शुभमशुभं वा तत्तदेवाऽऽचरतीतरः प्राकृतस्तदनुगतो जनः, न त्वन्यत्स्वान्त्र्येणेत्यर्थः । ननु शास्त्रमवलोक्याशास्त्रीयं श्रेष्ठाचारं परित्यज्य शास्त्रीयमेव कुतो नाऽऽचरति लोक इत्याशङ्कयाऽऽचारवत्प्रतिपत्तावपि श्रेष्ठानुसारितामितरस्य दर्शयति-स यदिति । स श्रेष्ठो यल्लौकिकं वैदिकं वा प्रमाणं कुरुते प्रमाणत्वेन मन्यते तदेव लोकोऽप्यनुवर्तते प्रमाणं कुरुते न तु स्वातन्त्र्येण किंचिदित्यर्थः । तथा च प्रधानभूतेन त्वया राज्ञा लोकसंरक्षणार्थं कर्म कर्तव्यमेव प्रधानानुयायिनो जनव्यवहारा भवन्तीति न्यायादित्यभिप्रायः ॥ २१ ॥

 श्री० टी०-कर्मकरणे लोकसंग्रहो यथा स्यात्तथाऽऽह-यदिति । इतरः प्राकृतो जनाऽपि तत्तदेवाऽऽचरति । स श्रेष्ठो जनः कर्मशास्त्रं निवृत्तिशास्त्रं वा यत्प्र- माणं मन्यते तदेव लोकोऽप्यनुवर्ततेऽनुसरति ॥ २१ ॥

 म० टी०----अत्र चाहमेव दृष्टान्त इत्याह त्रिभिः-

न मे पार्थस्ति कर्तव्यं त्रिषु लोकेषु किंचन ॥
नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि ॥ २२ ॥

 हे पार्थ मे मम त्रिष्वपि लोकेषु किमपि कर्तव्यं नास्ति । यतोऽनवाप्तं फलं किंचिन्ममावाप्तव्यं नास्ति । तथाऽपि वर्त एवं कर्मण्यहं कर्म करोम्येवेत्यर्थः । पार्थेति संबोधयन्विशुद्धक्षत्रियवंशोद्भवस्त्वं शूरापत्यापत्यत्वेन चात्यन्तं मत्समोऽहमिव वर्तितुमर्हसीति दर्शयति ॥ २२ ॥

 श्री० टी०-अत्र चाहमेव दृष्टान्त इत्याह त्रिभिः—न मे पार्थेति । हे पार्थ मे कर्तव्यं नास्ति । यतस्त्रिष्वपि लोकेष्वनवाप्तमप्राप्तं सदवाप्तव्यं प्राप्यं नास्ति । तथाऽपि कर्मण्यहं वर्त एवं कर्म करोम्यवेत्यर्थः ॥ २२ ॥

 म० टी०-लोकसंग्रहोऽपि न ते कर्तव्यो विफलत्वादित्याशङ्कयाऽऽह---

यदि ह्यहं न वर्तेयं(य) जातु कर्मण्यतन्द्रितः ॥
मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥ २३ ॥

 यदि पुनरहमतन्द्रितोऽनलसः सन्कर्मणि जातु कदाचिन्न व[१५१]र्ते य नानुतिष्ठेयं कर्माणितदा मम श्रेष्ठस्य सतो वर्त्म मार्ग हे पार्थ मनुष्याः कर्माधिकारिणः सन्तोऽनुवर्तन्तेऽनुवर्तेरन्सर्वशः सर्वप्रकारैः ॥ २३ ॥

 श्री० टी०---अकरणे लोकस्य नाशं दर्शयति-यदीति । जातु कदाचिदतन्द्रितोऽनलसः सन्यदि कर्मणि न वर्तेयं कर्म नानुतिष्ठेयं तर्हि ममैव वर्त्म मार्ग मनुष्या अनुवर्तन्तेऽनुवर्तनित्यर्थः ॥ २३ ॥

 म० टी०-श्रेष्ठस्य तव मार्गानुवर्तित्वं मनुष्याणामुचितमेव[१५२], अनुवर्तित्वे को दोष इत्यत आह--

उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम् ॥
संकरस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः ॥ २४ ॥

 अहमीश्वरश्चेद्यदि कर्म न कुर्यां तदा मदनुवर्तिनां मन्वादीनामपि कर्मानुपपत्तेर्लोकस्थितिहेतोः कर्मणो लोपेनेमे सर्वे लोका उत्सादेयुर्विनश्येयुः । ततश्च वर्णसंकरस्य च कर्ताऽहमेव स्याम् । तेन चेमाः सर्वाः प्रजा अहमेवोपहन्यां धर्मलापेन विनाशयेयम् । कथं च प्रजानामनुग्रहार्थं प्रवृत्त ईश्वरोऽहं ताः सर्वा विनाशयेयमित्यभिप्रायः । यद्यदाचरतीत्यादेरपरा योजना-न केवलं लोकसंग्रहं संपश्यन्कर्तुमर्हसि अपि तु श्रेष्ठाचारत्वादपीत्याह-यद्यदिति । तथा च मम श्रेष्ठस्य यादृश आचारस्तादृश एव मदनुवर्तिना त्वयाऽनुष्ठेयो न स्वातन्त्र्येणान्य इत्यर्थः । कीदृशस्तवाऽऽचारो यो मयाऽनुवर्तनीय इत्याकाङ्क्षायां न मे पार्थेत्यादिभिस्त्रिभिः श्लोकैस्तत्प्रदर्शनमिति ॥ २४ ॥

 श्री० टी०-ततः किमत आह-उत्सीदेयुरिति । उत्सीदेयुः कर्मलोपेन नश्येयुः । ततश्च यो वर्णसंकरो भवेत्तस्याप्यहमेव कर्ता स्यां भवेयम् । एवमहमेव प्रजा उपहन्यां मलिनी कुर्याम् ॥ २४ ॥

 म० टी०---ननु तवेश्वरस्य लोकसंग्रहार्थं कर्मणि कुर्वाणस्यापि कर्तृत्वाभिमानाभावान्न काऽपि क्षतिः । मम तु जीवस्य लोकसंग्रहार्थं कर्माणि कुर्वाणस्य कर्तृत्वाभिमानेन ज्ञानाभिभवः स्यादित्यत आह-

सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत ।
कुर्याद्दिद्वांस्तथाऽसक्तश्चिकीर्षुर्लोकसंग्रहम् ॥ २५ ॥


 सक्ताः कर्तृत्वाभिमानेन फलाभिसंधिना च कर्मण्यभिनिविष्टा अविद्वांसोऽज्ञा यथा कुर्वन्ति कर्म लोकसंग्रहं कर्तुमिच्छर्विद्वानात्मविदपि तथैव कुर्यात् । किंतु असक्तः सन्कर्तृत्वाभिमानं फलाभिसंधिं चाकुर्वन्नित्यर्थः । भारतेति भरतवंशोद्भवत्वेन भा ज्ञानं तस्यां रतत्वेन वा त्वं यथोक्तशास्त्रार्थबोधयोग्योऽसीति दर्शयति ॥ २५ ॥

 श्री० टी० --तस्मादात्मविदाऽपि लोकसंग्रहार्थं तत्कृपया कर्म कार्य[१५३]मित्युपसंहरति-सक्ता इति । कर्मणि सक्ता अभिनिविष्टाः सन्तोऽज्ञा यथा कर्म कुर्वन्ति असक्तः सन्विद्वानपि तथैव कुर्याल्लोकसंग्रहं कर्तुमिच्छुः ॥ २५ ॥

 म० टी०-ननु कर्मानुष्ठानेनैव लोकसंग्रहः कर्तव्यो न तु तत्त्वज्ञानोपदेशेनेति को हेतुरत आह-

न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम् ॥
जोषयेत्सर्वकर्माणि विद्वान्युक्तः समाचरन् ॥ २६ ॥

 अज्ञानामविवेकिनां कर्तृत्वाभिमानेन फलाभिसंधिना च कर्मसङ्गिनां कर्मण्यभिनिविष्टानां या बुद्धिरहमेतत्कर्म करिष्य एतत्फलं च भोक्ष्य इति तस्या भेदं विचालनमकर्त्रात्मोपदेशेन न कुर्यात् । किंतु युक्तोऽवहितः सन्विद्वाल्लोकसंग्रहं चिकीर्षुरविद्वदधिकारिकाणि सर्वकर्माणि समाचरस्तेषां श्रद्धामुत्पाद्य जोषयेत्प्रीत्या सेवयेत् । अनधिकारिणामुपदेशेन बुद्धिविचालने कृते कर्म[१५४]सु श्रद्धानिवृत्तेर्ज्ञानस्य चानुत्पत्तेरुभयभ्रष्टत्वं स्यात् । तथा चोक्तम्-

"अज्ञस्यार्धप्रबुद्धस्य सर्व ब्रह्मेति यो वदेत् ।
महानिरयजालेषु स तेन विनियोजितः " इति ॥ २६ ॥

 श्री०टी०ननु कृपया तत्त्वज्ञानमेवोपदेष्टुं युक्तं नेत्याह-नेति । अज्ञानामत एव कर्मसङ्गिनां कर्मासक्तानामकर्त्रात्मोपदेशेन बुद्धर्भेदमन्यथात्वं न जनयेत्कर्मणः सकाशाद्बुद्धिचालनं न कुर्यात् , अपि तु जोषयेत्सेवयेत्। “जुषी" प्रीतिसेवनयोः । अज्ञाकर्माणि कारयेदित्यर्थः । कथं, युक्तोऽवहितो भूत्वा स्वयमाचरन्सन् । बुद्धिचालने कृते सति कर्मसु श्रद्धानिवृत्तेर्ज्ञानस्य चानुत्पत्तेस्तेषामुभयभ्रंशः स्यादिति भावः ॥२६॥

 म० टी०-विद्वदविदुषोः कर्मानुष्ठानसाम्येऽपि कर्तृत्वाभिमानतदभावाभ्यां विशेषं दर्शयन्सक्ताः कर्मणीतिश्लोकार्थं विवृणोति द्वाभ्याम्-

प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः ॥
अहंकारविमूढात्मा कर्ताऽहमिति मन्यते ॥ २७ ॥


 प्रकृतिर्माया सत्त्वरजस्तमोगुणमयी मिथ्याज्ञानात्मिका पारमेश्वरी शक्तिः " मायां तु प्रकृति विद्यान्मायिनं तु महेश्वरम् " इति श्रुतेः । तस्याः प्रकृतेर्गुणैर्विकारैः कार्यकारणरूपैः क्रियमाणानि लौकिकानि वैदिकानि च कर्माणि सर्वशः सर्वप्रकारैरहंकारेण कार्यकारणसंघातात्मप्रत्ययेन विमूढः स्वरूपविवेकासमर्थ आत्माऽन्तःकरणं यस्य सोऽहंकारविमूढात्माऽनात्मन्यात्माभिमानी तानि कर्माणि कर्ताऽहमिति करोम्यहमिति मन्यते कर्तृत्वाध्यासेन । कर्ताऽहमिति तृन्प्रत्ययः । तेन " न लोकाव्ययनिष्ठाखलर्थतृनाम् " इति षष्ठीप्रतिषेधः ॥ २७ ॥

 श्री०टी०-ननु विदुषाऽपि चेत्कर्म कर्तव्यं तर्हि विद्वदविदूषोः को विशेष इत्याशङ्कयोभयोर्विशेषं दर्शयति प्रकृतेरिति द्वाभ्याम्-प्रकृतेर्गुणैः प्रकृतिकार्यैरिन्द्रियैः सर्वप्रकारेण क्रियमाणानि यानि कर्माणि तान्यहमेव कर्ता[१५५] करोमीति मन्यते । [१५६]तत्र हेतुः--अहंकारेणेन्द्रियादिष्वात्माध्यासेन विमूढ आत्मा बुद्धिर्यस्य सः ॥ २७ ॥

 म०टी०-विद्वांस्तु तथा न मन्यत इत्याह

तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः ॥
गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते ॥ २८ ॥

 तत्त्वं याथात्म्यं वेत्तीति तत्त्ववित् । तुशब्देन तस्याज्ञाद्वैशिष्ट्यमाह । कस्य तत्त्वमित्यत आह गुणकर्मविभागयोः, गुणा देहेन्द्रियान्तःकरणान्यहंकारास्पदानि कर्माणि च तेषां व्यापारभूतानि ममकारास्पदानीति गुणकर्मेति द्वंद्वैकवद्भावः । विभज्यते सर्वेषां जडानां विकारिणां भासकत्वेन पृथग्भवतीति विभागः स्वप्रकाशज्ञानरूपोऽसङ्ग आत्मा । गुणकर्म च विभागश्चेति द्वंद्वः । तयोर्गुणकर्मविभागयोर्भास्यभासकयोर्जडचैतन्ययोर्विकारिनिर्विकारयोस्तत्त्वं याथात्म्यं यो वेत्ति स गुणाः करणात्मका गुणेषु विषयेषु प्रवर्तन्ते विकारित्वान्न तु निर्विकार आत्मेति मत्वा न सज्जते सक्तिं कर्तृत्वाभिनिवेशमतत्त्वविदिव न करोति । हे महाबाहो, इति संबोधयन्सामुद्रिकोक्तसत्पुरुषलक्षणयोगित्वान्न पृथग्जनसाधारण्येन त्वमविवेकी भवितुमर्हसीति सूचयति । गुणविभागस्य कर्मविभागस्य च तत्त्वविदिति वा । अस्मिन्पक्षे गुणकर्मणोरित्येतावतैव निर्वाहे विभागपदस्य प्रयोजनं चिन्त्यम् ॥ २८ ॥

 श्री०टी०-विद्वांस्तु तथा न मन्यत इत्याह-तत्ववित्त्विति । नाहं गुणात्मक इति गुणेभ्य आत्मनो विभागः । न मे कर्माणीति कर्मभ्योऽप्यात्मनो विभागस्तयोर्गुण- कर्मविभागयोर्यस्तत्त्वं वेत्ति स तु न सज्जते कर्तृत्वाभिनिवेशं न करोति । तत्र हेतुः- गुणा इन्द्रियाणि गुणेषु विषयेषु वर्तन्ते नाहमिति मत्वा ॥ २८ ॥


 म० टी०-तदेवं विद्वदविदुषोः कर्मानुष्ठानसाम्येन विद्वानविदुषो बुद्धिभेदं न कुर्यादित्युक्तमुपसंहरति-

प्रकृतेर्गुणसंमूढाः सजन्ते गुणकर्मसु ॥
तानकृत्स्नविदो मन्दान्कृत्स्नविन विचालयेत् ॥ २९॥

 प्रकृतेः पूर्वोक्ताया मायाया गुणैः कार्यतया धर्मैदेहादिभिर्विकारैः सम्यङ्मूढाः स्वरूपास्फुरणेन तानेवाऽऽत्मत्वेन मन्यमानास्तेषामेव गुणानां देहेन्द्रियान्तःकरणानां कर्मसु व्यापारेषु सज्जन्ते सक्तिं वयं कर्म कुर्मस्तत्फलायेति दृढतरामात्मीयवृद्धिं कुर्वन्ति ये तान्कर्मसङ्गिनोऽकृत्स्नविदोऽनात्माभिमानिनो मन्दानशुद्धचित्तत्वेन ज्ञानाधिकारमप्राप्तान्कृत्स्नवित्परिपूर्णात्मवित्स्वयं न विचालयेत्कर्मश्रद्धातो न प्रच्यावयेदित्यर्थः। ये त्वमन्दाः शुद्धान्तःकरणास्ते स्वयमेव विवेकोदयेन विचलन्ति ज्ञानाधिकारं प्राप्ता इत्यभिप्रायः । कृत्स्नाकृत्स्नशब्दावात्मानात्मपरतया श्रुत्यानुसारेण वार्तिककृद्भि- र्व्याख्यातौ-

" सदेवेत्यादिवाक्येभ्यः कृत्स्नं वस्तु यतोऽद्वयम् ।
संभवस्तद्विरुद्धस्य कुतोऽकृत्स्नस्य वस्तुनः ॥
यस्मिन्दृष्टेऽप्यदृष्टोऽर्थः स तदन्यश्च शिष्यते ।
तथाऽदृष्टेऽपि दृष्टः स्यादकृत्स्नस्तादृगुच्यते " इति ॥

 अनात्मनः सावयवत्वादनेकधर्मवत्वाच्च केनचिद्धर्मेण केनचिदवयवेन वा विशिष्टे तस्मिन्नेकस्मिन्घटादौ ज्ञातेऽपि धर्मान्तरेणावयवान्तरेण वा विशिष्टः स एवाज्ञातोऽवशिष्यते । तदन्यश्च पटादिरज्ञातोऽवशिष्यत एव । तथा तस्मिन्घटादावज्ञातेऽपि पटादिर्ज्ञातः स्यादिति तज्ज्ञानेऽपि तस्यान्यस्य चाज्ञानात्तदज्ञानेऽप्यन्यज्ञानाच्च सोऽ कृत्स्न उच्यते । कृत्स्नस्त्वंद्वय आत्मैव तज्ज्ञाने कस्यचिदवशेषस्याभावादिति श्लोकद्वयार्थः ॥ २९॥

 श्री०टी०-न बुद्धिभेदं जनयेदित्युक्तमुपसंहरति-प्रकृतेरिति । ये प्रकृतेगुणैः सत्त्वादिभिः संमूढाः सन्तो गुणेष्विन्द्रियेषु तत्कर्मसु च सज्जन्ते[१५७] वयं कुर्म इति तानकृत्स्नविदो मन्दमतीकृत्स्नवित्सर्वज्ञो न विचालयेत् ॥ २९ ॥

 म. टी०-एवं कर्मानुष्ठानसाम्येऽप्यज्ञविज्ञयोः कर्तृत्वाभिनिवेशतदभावाभ्यां विशेष उक्तः । इदानीमज्ञस्यापि मुमुक्षोरमुमुक्ष्वपेक्षया भगवदर्पणं फलाभिसंध्यभावं च विशेषं वदन्नज्ञतयाऽर्जुनस्य कर्माधिकारं द्रढयति-

मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा ॥
निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः ॥३०॥


 मयि भगवति वासुदेवे परमेश्वरे सर्वज्ञे सर्वनियन्तरि सर्वात्मनि सर्वाणि कर्माणि लौकिकानि वैदिकानि च सर्वप्रकाराणि अध्यात्म चेतसाऽहं कर्ताऽन्तर्याम्यधीनस्तस्मा एवेश्वराय राज्ञ इव भृत्यः कर्माणि करोमीत्यनया बुद्ध्या संन्यस्य समर्प्य निराशीर्निकामो निर्ममो देहपुत्रभ्रात्रादिषु स्वीयेषु ममताशून्यो विगतज्वरः। संतापहेतुत्वाच्छोक एव ज्वरशब्देनोक्तः । ऐहिकपारत्रिकदुर्यशोनरकपातादिनिमित्तशोकरहितश्च भूत्वा त्वं मुमुक्षुर्युध्यस्व विहितानि कर्माणि कुर्वित्यभिप्रायः । अत्र भगवदर्पणं निष्कामत्वं च सर्वकर्मसाधारणं मुमुक्षोः । निर्ममत्वं त्यक्तशोकत्वं च युद्धमात्रे प्रकृत इति द्रष्टव्यमन्यत्र ममताशोकयोरप्रसक्तत्वात् ॥ ३० ॥

 श्री० टी०-तदेवं तत्त्वविदाऽपि कर्म कर्तव्यं त्वं तु नाद्यापि तत्त्ववित् । अतः कर्मैव कुर्वित्याह-मयीति । सर्वाणि कर्माणि मयि संन्यस्य समाध्यात्मचेत- साऽन्तर्याम्यधीनोऽहं करोमीतिदृष्टया निराशीनिष्कामोऽत एव मत्फलसाधनं मदर्थमिदं कर्मेत्येवममताशून्यश्च भूत्वा विगतज्वरस्त्यक्तशोकश्च भूत्वा युध्यस्व ॥ ३० ॥

 म० टी०-फलाभिसंधिराहित्येन भगवदर्पणबुद्ध्या विहितकर्मानुष्ठानं सत्त्वशु- द्धिज्ञानप्राप्तिद्वारेण मुक्तिफलमित्याह-

ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः ॥
श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः ॥३१॥

इदं फलाभिसंधिराहित्येन विहितकर्माचरणरूपं मम मतं नित्यं नित्यवेदबोधितत्वेनानादिपरम्परागतमावश्यकमिति वा सर्वदेति वा । मानवा मनुष्या ये केचिन्मनुष्याधिकारित्वात्कर्मणां श्रद्धावन्तः शास्त्राचार्योपदिष्टेऽर्थेऽननुभूतेऽप्येवमेवैतदिति विश्वासः श्रद्धा तद्वन्तः । अनसूयन्तः, गुणेषु दोषाविष्करणमसूया । सा च दुःखात्मके कर्मणि मां प्रवर्तयन्नकारुणिकोऽयमित्येवरूपा प्रकृते प्रसक्ता तामसूयां मयि गुरौ वासुदेवे सर्वसुत्द्वद्यकुर्वन्तो येऽनुतिष्ठन्ति तेऽपि सत्त्वशुद्धिज्ञानप्राप्तिद्वारेण सम्यग्ज्ञानिवन्मुच्यन्ते कर्मभिर्धर्माधर्माख्यैः ॥ ३१ ॥

 श्री०टी०-एवं कर्मानुष्ठाने गुणमाह-ये मे मतमित्ति । मद्वाक्ये श्रद्धावन्तः, अनसूयन्तो दुःखात्मके कर्मणि प्रवर्तयतीति दोषदृष्टिमकुर्वन्तश्च ये मे मदीयमिदं मतमनुतिष्ठन्ति तेऽपि शनैः[१५८] सम्यग्ज्ञानिवत्कर्मभिर्मुच्यन्ते ॥ ३१ ॥

 म०टी०-एवमन्वये गुणमुक्त्वा व्यतिरेके दोषमाह-

ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् ॥
सर्वज्ञानविमूढांस्तान्विद्धि नष्टानचेतसः ॥ ३२॥


 तुशब्दः श्रद्धावद्वैधर्म्यमश्रद्धां सूचयति । तेन ये नास्तिक्यादश्रद्दधाना अभ्यसूयस्तो दोषमुद्भावयन्त एतन्मम मतं नानुवर्तन्ते तानचेतसो दुष्टचित्तानत एव सर्वज्ञानविमूढान्सर्वत्र कर्मणि ब्रह्मणि सगुणे निर्गुणे च यज्ज्ञानं तत्र विविधं प्रमाणतः प्रमेयतः प्रयोजनतश्च मूढान्सर्वप्रकारेणायोग्यान्नष्टान्सर्वपुरुषार्थभ्रष्टान्विद्धि जानीहि ॥ ३२ ॥

 श्री०टी०-विपक्षे दोषमाह-ये त्विति । ये तु मे मतमीश्वरार्थं कर्म कर्तव्यमित्यनुशासनमभ्यसूयन्तो द्विषन्तो नानुतिष्ठन्ति तानचेतसो विवेकशून्यानत एव सर्वस्मिन्कर्मणि ब्रह्मविषये[१५९] यज्ज्ञानं तत्र विमूढान्नष्टान्विद्धि ॥ ३२ ॥

 म०टी०-ननु राज्ञ इव तव शासनातिक्रमे भयं पश्यन्तः कथमसूयन्तस्तव मतं नानुवर्तन्ते कथं वा सर्वपुरुषार्थसाधने प्रतिकूला भवन्तीत्यत आह-

सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि ॥
प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति ॥३३॥

 प्रकृतिर्नाम प्राग्जन्मकृतधर्माधर्मज्ञानेच्छादिसंस्कारो वर्तमानजन्मन्यभिव्यक्तः सर्वतो बलवान् " तं विद्याकर्मणी समन्वारभेते पूर्वप्रज्ञा च " इतिश्रुतिप्रमाणकः । तस्याः स्वकीयायाः प्रकृतेः सदृशमनुरूपमेव सर्वो जन्तुर्ज्ञानवान्ब्रह्मविदपि " पश्चादिभिश्चाविशेषात् ” इतिन्यायात् , गुणदोषज्ञानवान्वा चेष्टते किं पुनर्मूर्खः । तस्माद्भूतानि सर्वे प्राणिनः प्रकृतिं यान्त्यनुवर्तन्ते पुरुषार्थभ्रंशहेतुभूतामपि । तत्र मम वा राज्ञो वा निग्रहः किं करिष्यति रागौत्कट्येन दुरितान्निवर्तयितुं न शक्नोतीत्यर्थः । महानरकसाधनत्वं ज्ञात्वाऽपि दुर्वासनाप्राबल्यात्पापेषु प्रवर्तमाना न मच्छासनातिक्रमदोषाद्विभ्यतीति भावः ॥ ३३ ॥

 श्री०टी०-ननु तर्हि महाफलत्वादिन्द्रियाणि निगृह्य निष्कामाः सन्तः सर्वेऽपि स्वधर्ममेव किं नानुतिष्ठन्ति तत्राऽऽह-सदृशमिति । प्रकृतिः प्राचीनकर्मसंस्काराधीनः स्वभावः । स्वस्याः स्वकीयायाः प्रकृतेः स्वभावस्य सदृशमनुरूपमेव गुणदोषज्ञानवानपि चेष्टते किं पुनर्वक्तव्यमज्ञश्चेष्टत [१६०]इति । तस्माद्भूतानि सर्वेऽपि प्राणिनः प्रकृतिं यान्ति अनुवर्तन्ते । एवं [१६१] सतीन्द्रियनिग्रहः किं करिष्यति प्रकृतेर्बलिष्ठत्वादित्यर्थः ॥ ३३ ॥

 म० टी०-ननु सर्वस्य प्राणिवर्गस्य प्रकृतिवशवर्तित्वे लौकिकवैदिकपुरुषकारविषयाभावाद्विधिनिषेधानर्थक्यं प्राप्तं, न च प्रकृतिशून्यः कश्चिदस्ति यं प्रति तदर्थवत्त्वं स्यादित्यत आह-


इन्द्रियस्येन्द्रियस्यार्थे रागदेषौ व्यवस्थितौ ॥
तयोर्न वशमागच्छेत्तौ ह्यस्य परिपन्थिनौ ॥ ३४॥

 इन्द्रियस्येन्द्रियस्येति वीप्सया सर्वेषामिन्द्रियाणामर्थे विषये शब्दे स्पर्शे रूपे रसे गन्धे च । एवं कर्मेन्द्रियविषयेऽपि वचनादावनुकूले शास्त्रनिषिद्धेऽपि रागः प्रतिकूले शास्त्रविहितेऽपि द्वेष इत्येवं प्रतीन्द्रियार्थ रागद्वेषौ व्यवस्थितावानुकूल्यप्रातिकूल्यव्यवस्थया स्थितौ न त्वनियमेन सर्वत्र तौ भवतः । तत्र पुरुषकारस्य शास्त्रस्य चायं विषयो यत्तयोर्वशं नाऽऽगच्छेदिति । कथं या हि पुरुषस्य प्रकृतिः सा बलवदनिष्टानुबन्धित्वज्ञानाभावप्सहकृतेष्टसाधनत्वज्ञाननिबन्धनं रागं पुरस्कृत्यैव शास्त्रनिषिद्धे कलञ्जभक्षणादौ प्रवर्तयति । तथा बलवदिष्ट साधनत्वज्ञानाभावसहकृतानिष्टसाधनत्वज्ञाननिबन्धनं द्वेषं पुरस्कृत्यैव शास्त्रविहितादपि संध्यावन्दनादेर्निवर्तयति । तत्र शास्त्रेण प्रतिषिद्धस्य बलवदनिष्टानुबन्धित्वे ज्ञापिते सहकार्यभावात्केवलं दृष्टेष्टसाधनताज्ञानं मधुविषसंपृक्तान्नभोजन इव तत्र न रागं जनयितुं शक्नोति । एवं विहितस्य शास्त्रेण बलवदिष्टानुबन्धित्वे बोधिते सहकार्यभावात्केवलमनिष्टसाधनत्वज्ञानं भोजनादाविव तत्र न द्वेषं जनयितुं शक्नोति । ततश्चाप्रतिबद्धं शास्त्रं विहिते पुरुष प्रवर्तयति निषिद्धाच्च निवर्तयतीति शास्त्रीयविवेकविज्ञानप्राबल्येन स्वाभाविकरागद्वेषयोः कारणोपमर्देनोपमर्दान्न प्रकृतिर्विपरीतमार्गे पुरुषं शास्त्रदृष्टिं प्रवर्तयितुं शक्नोतीति न शास्त्रस्य पुरुषकारस्य च वैयर्थ्यप्रसङ्गः । तयो रागद्वेषयोर्वशं नाऽऽगच्छेत्तदधीनो न प्रवर्तेत निवर्तेत वा किंतु शास्त्रीयतद्विपक्षज्ञानेन तत्कारणविघटनद्वारा तौ नाशयेत् । हि यस्मात्तौ रागद्वेषौ स्वाभाविकदोषप्रयुक्तावस्य पुरुषस्य श्रेयोर्थिनः परिपन्थिनौ शत्रू श्रेयोमार्गस्य विघ्नकर्तारौ दस्यू इव पथिकस्य । इदं च द्वया ह प्राजापत्या देवाश्चासुराश्च ततः कानीयसा एव देवा ज्यायसा असुरास्त एषु लोकेष्वस्पर्धन्त " इत्यादिश्रुतौ स्वाभाविकरागद्वेषनिमित्तशास्त्रविपरीतप्रवृत्तिमसुरत्वेन शास्त्रीयप्रवृत्तिं च देवत्वेन निरूप्य व्याख्यातमतिविस्तरेणेत्युपरम्यते ॥ ३४ ॥

 श्री० टी०-नन्वेवं प्रकृत्यधीनैव चेत्पुरुषस्य प्रवृत्तिस्तर्हि विधिनिषेधवैयर्थ्यं प्राप्तमित्याशङ्कयाऽऽह-इन्द्रियस्येति । इन्द्रियस्येन्द्रियस्येति वीप्सया प्रत्येकं सर्वेषामिन्द्रियाणामित्युक्तम् । अर्थे स्वस्वविषयेऽनुकूले रागः प्रतिकूले द्वेषश्चेत्येवं रागद्वेषौ व्यवस्थितावश्यंभाविनौ । ततश्च तदनुरूपा प्रवृत्तिरिति भूतानां प्रकृतिः । तथाऽपि तयोर्वशवर्ती न भवेदिति शास्त्रेण नियम्यते । हि यस्मादस्य मुमुक्षोस्तौ परिपन्थिनौ प्रतिपक्षौ । अयं भावः-विषयस्मरणादिना रागद्वेषावुत्पाद्यानवहितं पुरुषमनर्थे गम्भीरस्रोतःपात इव प्रकृतिर्बलात्प्रवर्तयति । शास्त्रं तु ततः प्रागेव विषयेषु

रागद्वेषप्रतिबन्धके परमेश्वरमजनादौ प्रवर्तयति गम्भीरस्रोतःपातात्पूर्वमेव नावमाश्रित इव नानर्थं प्राप्नोतीति ॥ ३४ ॥

 म. टी-ननु स्वाभाविकरागद्वेषप्रयुक्तपश्वादिसाधारणप्रवृत्तिप्रहाणेन शास्त्रीयमेव कर्म कर्तव्यं चेत्तर्हि यत्सुकरं भिक्षाशनादि तदेव क्रियतां किमतिदुःखावहेन युद्धेनेत्यत आह-

श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् ॥
स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ॥ ३५ ॥

 श्रेयात्प्रशस्यतरः स्वधर्मो यं वर्णमाश्रमं वा प्रति यो विहितः स तस्य स्वधर्मों विगुणोऽपि सर्वाङ्गोपसंहारमन्तरेण कृतोऽपि परधर्मात्स्वं प्रत्यविहितात्स्वनुष्ठितात्सर्वाङ्गोपसंहारेण संपादितादपि । न हि वेदातिरिक्तमानगम्यो धर्मः । येन परधर्मोऽप्यनुष्ठेयो धर्मत्वात्स्वधर्मवदित्यनुमानं तत्र मानं स्यात् , “ चोदनालक्षणोऽर्थो धर्मः" इति न्यायात् । अतः स्वधर्मे किंचिदङ्गहीनेऽपि स्थितस्य निधनं मरणमपि श्रेयः प्रशस्यतरं परधर्मस्थस्य जीवितादपि । स्वधर्मस्थस्य निधनं हीह लोके कीर्त्यावहं परलोके च स्वर्गादिप्रापकम् । परधर्मस्तु इहाकीर्तिकरत्वेन परत्र नरकप्रदत्वेन च भयावहो यतोऽतो रागद्वेषादिप्रयुक्तस्वाभाविकप्रवृत्तिवत्परधर्मोऽपि हेय एवेत्यर्थः । एवं तावद्भगवन्मताङ्गीकारिणां श्रेयःप्राप्तिस्तदनङ्गीकारिणां च श्रेयोमार्गभ्रष्टत्वमुक्तम् । श्रेयोमार्गभ्रंशेन फलाभिसंधिपूर्वककाम्यकर्माचरणे च केवलपापमात्राचरणे च बहूनि कारणानि कथितानि ये त्वेतदम्यसूयन्त इत्यादिना । तत्रायं संग्रहक्ष्लोकः

श्रद्धाहानिस्तथाऽसूया दुष्टचित्तत्वमूढते ।
प्रकृतेर्वशवर्तित्वं रागद्वेषौ च पुष्कलौ ।
परधर्मरुचित्वं चेत्युक्ता दुर्मार्गवाहकाः ॥ ३५ ॥

 श्री०टी०-तदेवं स्वाभाविकी पश्वादिसहशी प्रकृतिं त्यक्त्वा वधर्मे प्रवर्तितव्यमित्युक्तं, तर्हि स्वधर्मस्य युद्धादेर्दुखरूपस्य यथावत्कर्तुमशक्यत्वात्परधर्मस्य चाहिंसादेः सुकरत्वाद्धर्मत्वाविशेषाच तत्र प्रवर्तितुमिच्छन्तं प्रत्याह-श्रेयानिति । किंचिदङ्गहीनोऽपि स्वधर्मः श्रेयान्प्रशस्यतरः स्वनुष्ठितात्सर्वाङ्गसंपूर्त्या कृतादपि परधर्मात्सकाशात् । तत्र हेतुः स्वधर्मे युद्धादौ प्रवर्तमानस्य निधनं मरणमपि श्रेष्ठं स्वर्गादिप्रापकत्वात् । परधर्मस्तु स्व[१६२]स्य भयावहो निषिद्धत्वेन नरकप्रापकत्वात् ॥ ३५ ॥

 म०टी०-तत्र काम्यप्रतिषिद्धकर्मप्रवृत्तिकारणमपनुद्य भगवन्मतमनुवर्तितुं तत्का- रणावधारणाय-


अर्जुन उवाच-
 अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः ॥
 अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः ॥ ३६ ॥

 "ध्यायतो विषयान्पुंसः" इत्यादिना पूर्वमनर्थमूलमुक्तम् । सांप्रतं च "प्रकृतेगुणसंमूढाः" इत्यादिना बहुविस्तरं कथितम् । तत्र किं सर्वाण्यपि समप्राधान्येन कारणानि । अथवैकमेव मुख्य कारणमितराणि तु तत्सहकारीणि केवलम् । तत्राऽऽद्ये सर्वेषां पृथक्पृथनिवारणे महान्प्रयासः स्यात् । अन्त्ये त्वेकस्मिन्नेव निराकृते कृतकृत्यता स्यादित्यतो ब्रूहि मे केन हेतुना प्रयुक्तः प्रेरितोऽयं त्वन्मताननुवर्ती सर्वज्ञानविमूढः पुरुषः पापमनर्थानुबन्धि सर्व फलाभिसंधिपुरःसरं काम्यं चित्रादि शत्रुवधसाधनं च श्येनादि प्रतिषिद्धं च कलञ्जभक्षणादि बहुविधं कर्माऽऽचरति स्वयं कर्तुमनिच्छन्नपि न तु निवृत्तिलक्षणं परमपुरुषार्थानुबन्धि त्वदुपदिष्टं कर्मेच्छन्नपि करोति । न च पारतन्त्र्यं विनेत्थं संभवति । अतो येन बलादिव नियोजितो राज्ञेव भृत्यस्त्वन्मतविरुद्धं सर्वानर्थानुबन्धित्वं जानन्नपि तादृशं कर्माऽऽचरति तमनर्थमार्गप्रवर्तकं मां प्रति ब्रूहि ज्ञात्वा समुच्छेदायेत्यर्थः । हे वार्ष्णेय वृष्णिवंशे मन्मातामहकुले कृपयाऽवतीर्णेतिसंबोधनेन वार्ष्णेयीसुतोऽहं त्वया नोपेक्षणीय इति सूचयति ॥ ३६ ॥

 श्री०टी०-तयोर्न वशमागच्छेदित्युक्तं तदेतदशक्यं मन्वानः--अर्जुन उवाचअथ केनेति । वृष्णिवंशेऽवतीर्णो वार्ष्णेयः । हे वार्ष्णेय, अनर्थरूपं पापं कर्तुमनिच्छन्नपि केन प्रयुक्तः प्रेरितोऽयं पुरुषः पापं चरति । कामक्रोधौ विवेकबलेन निरुन्धतोऽपि पुरुषस्य पुनः पापे प्रवृत्तिदर्शनादन्योऽपि तयोर्मूलभूतः कश्चित्प्रवर्तको भवेदिति संभावनया प्रश्नः ॥ ३६ ॥

 म० टी--एवमर्जुनेन पृष्टे " अथो खल्वाहुः काममय एवायं पुरुष इति " आत्मैवेदमग्र आसीदेक एव सोऽकामयत जाया मे स्यादथ प्रजायेयाथ वित्तं मे स्यादथ कर्म कुर्वीय " इत्यादिश्रुतिसिद्धमुत्तरम् -

श्रीभगवानुवाच-
 काम एष क्रोध एष रजोगुणसमुद्भवः ॥
 महाशनो महापाप्मा विद्वयेनमिह वैरिणम् ॥ ३७ ॥

 यस्त्वया पृष्टो हेतुर्बलादनर्थमार्गे प्रवर्तकः स एष काम एव महाञ्शत्रुः । यन्निमित्ता सर्वानर्थप्राप्तिः प्राणिनाम् । ननु क्रोधोऽप्यभिचारादौ प्रवर्तको दृष्ट इत्यत आह-- क्रोध एषः। काम एव केनचिद्धेतुना प्रतिहतः क्रोधत्वेन परिणमतेऽतः क्रोधोऽप्येष काम एव । एतस्मिन्नेव महावैरिणि निवारिते सर्वपुरुषार्थप्राप्तिरित्यर्थः। तन्निवारणोपायज्ञानाय तत्कारणमाह-रजोगुणसमुद्भवः । दुःखप्रवृत्तिबलात्मको रजोगुण एव समुद्भवः कारणं यस्य, अतः कारणानुविधायित्वात्कार्यस्य सोऽपि तथा । यद्यपि तमोगुणोऽपि तस्य कारणं तथाऽपि दुःखे प्रवृत्तौ च रजस एव प्राधान्यात्तस्यैव निर्देशः । एतेन सात्त्विक्या वृत्त्या रजप्ति क्षीणे सोऽपि क्षीयत इत्युक्तम् । अथवा तस्य कथमनर्थमार्ग प्रवर्तकत्वमित्यत आह-रजोगुणस्य प्रवृत्त्यादिलक्षणस्य समुद्भवो यस्मात् । कामो हि विषयाभिलाषात्मकः स्वयमुद्भूतो रजः प्रवर्तयन्पुरुषं दुःखात्मके कर्मणि प्रवर्तयति । तेनायमवश्यं हन्तव्य इत्यभिप्रायः । ननु सामदानभेददण्डाश्चत्वार उपायास्तत्र प्रथमत्रिकस्यासंभवे चतुर्थो दण्डः प्रयोक्तव्यो न तु हठादेवेत्याशङ्कय त्रयाणामसंभवं वक्तुं विशिनष्टि-महाशनो महापाप्मेति । महदशनमस्येति महाशनः ।

" यत्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः ।
नालमेकस्य तत्सर्वमिति मत्वा शमं ब्रजेत् " इति स्मृतेः ॥

 अतो न दानेन संधातुं शक्यः । नापि सामभेदाम्यां यतो महापाप्माऽत्युग्रः । तेन हि बलात्प्रेरितोऽनिष्ट फलमपि जानन्पापं करोति । अतो विद्धि जानीहि एनं काममिह संसारे वैरिणम् । तदेतत्सर्वं विवृतं वार्तिककारैः “ आत्मैवेदमग्र आसीत् " इतिश्रुतिव्याख्याने-

" प्रवृत्तौ च निवृत्तौ च यथोक्तस्याधिकारिणः ।
स्वातन्त्र्ये सति संसारसृतौ कस्मात्प्रवर्तते ॥
नतु निःशेषविध्वस्तसंसारानर्थवर्त्मनि ।
निवृत्तिलक्षणे वाच्यं केनायं प्रेर्यतेऽवशः ॥
अनर्थपरिपाकत्वमपि जानन्प्रवर्तते ।
पारतन्त्र्यभृते दृष्टा प्रवृत्तिर्नेदृशी क्वचित् ॥
तस्माच्छ्रेयोर्थिनः पुंसः प्रेरकोऽनिष्टकर्मणि ।
वक्तव्यस्तन्निरासार्थमित्यर्था स्यात्परा श्रुतिः ॥
अनाप्तपुरुषार्थोऽयं निःशेषानर्थसंकुलः ।
इत्यकामयतानातान्पुमर्थान्साधनैर्जडः ॥
जिहासति तथाऽनर्थानविद्वानात्मनि श्रितान् ।
अविद्योद्भूतकामः सन्नथो खल्विति च श्रुतिः ॥
अकामतः क्रियाः काश्चिदृश्यन्ते नेह कस्यचित् ।
यद्यद्भि कुरुते जन्तुस्तत्तत्कामस्य चेष्टितम् ॥

काम एष क्रोध एष इत्यादिवचनं स्मृतेः ।
प्रवर्तको नापरोऽतः कामादन्यः प्रतीयते " इति ॥

 अकामत इति मनुवचनम् ! अन्यत्स्पष्टम् ॥ ३७ ॥

 श्री० टी०- अत्रोत्तरम्-श्रीभगवानुवाच-काम एष इति । यस्त्वया पृष्टो हेतुरेष काम एव । ननु क्रोधोऽपि पूर्व त्वयोक्त इन्द्रियस्येन्द्रियस्येत्यत्र, सत्यं, नासौ ततः पृथक्, किंतु क्रोधोऽप्येष एव, काम एव हि केनचित्प्रतिहतः क्रोधात्मना परिणमते । अतः पूर्वं पृथक्त्वेनोक्तोऽपि क्रोधः कामजय एवं क्रोधजय इत्यभिप्रायेण कामनैकीकृत्योच्यते । रजोगुणात्समुद्भवतीति तथा । अनेन सत्त्ववृद्ध्या रजति क्षयं नीते सति कामोऽपि क्षीयत इति सूचितम् । एनं काममिह मोक्षमार्गे वैरिणं विद्धि । अयं च वक्ष्यमाणक्रमेण हन्तव्य एव यतो नासौ दानेन संधातुं शक्य इत्याह- महाशनो महदशनं यस्य दुष्पूर इत्यर्थः । न च साम्ना संधातुं शक्यः, यतो महापाप्माऽत्युग्रः ॥ ३७॥

 म०टी०-तस्य महापाप्मत्वेन वैरित्वमेव दृष्टान्तैः स्पष्टयति-

धूमेनाऽऽवियते वहिर्यथाऽऽदर्शो मलेन च ॥
यथोल्बेनाऽऽवृतो गर्भस्तथा तेनेदमावृतम् ॥ ३८ ॥

 तत्र शरीरारम्भात्प्रागन्तःकरणस्यालब्धवृत्तिकत्वात्सूक्ष्मः कामः शरीरारम्भकेण कर्मणा स्थूलशरीरावच्छिन्ने लब्धवृत्तिकेऽन्तःकरणे कृताभिव्यक्तिः सन्स्थूलो भवति । स एव विषयस्य चिन्त्यमानतावस्थायां पुनः पुनरुद्रिच्यमानः स्थूलतरो भवति । स एव पुनर्विषयस्य भुज्यमानतावस्थायामत्यन्तोद्रेकं प्राप्तः स्थूलतमो भवति । तत्र प्रथमावस्थायां दृष्टान्तः-यथा धूमेन सहजेनाप्रकाशात्मकेन प्रकाशात्मको वह्निराव्रीयते । द्वितीयावस्थायां दृष्टान्तः-यथाऽऽदर्शों मलेनासह जेनाऽऽदर्शोत्पत्त्यनन्तरमुद्रिक्तेन । चकारोऽवान्तरवैधर्म्यसूचनार्थ आव्रीयत इतिक्रियानुकर्षणार्थश्च । तृतीयावस्थायां दृष्टान्तः-यथोल्बेन जरायुणा गर्भवेष्टनचर्मणाऽतिस्थूलेन सर्वतो निरुध्याऽऽवृतस्तथा प्रकारत्रयेणापि तेन कामेनेदमावृतम् । अत्र धूमेनाऽऽवृतोऽपि वह्निर्दाहादिलक्षणं स्वकार्य करोति । मलेनाऽऽवृतस्त्वादर्शः प्रतिबिम्वग्रहणलक्षणं स्वकार्य न करोति । स्वच्छताधर्ममात्रतिरोधानात्स्वरूपतस्तूपलभ्यत एव । उल्बेनाऽऽवृतस्तु गर्भो न हस्तपादादिप्रसारणरूपं स्वकार्य करोति न वा स्वरूपत उपलभ्यत इति विशेषः ॥ ३८ ॥

 श्री०टी०-कामस्य वैरित्वं दर्शयति-धूमेनेति । यथा धूमेन सहजेन वह्निराव्रियत आच्छाद्यते । यथा चाऽऽदर्शो मलेनाऽऽगन्तुकेन । यथा चोल्बेन गर्भवेष्टनचर्मणा गर्भः सर्वतो निरुध्याऽऽवृतस्तथा प्रकारत्रयेणापि तेन कामेनाऽऽवृतमिदम् ॥३८॥

 म०टी०-तथा तेनेदमावृतमिति संग्रहवाक्यं विवृणोति

आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा ॥
कामरूपेण कौन्तेय दुष्पूरेणानलेन च ॥ ३९ ॥

 ज्ञायतेऽनेनेति ज्ञानमन्तःकरणं विवेक[१६३][१६४]विज्ञानं वेदंशब्दनिर्दिष्टमेतेन कामेनाऽऽवृतम् । तथाऽप्यापाततः सुखहेतुत्वादुपादेयः स्यादित्यत आह-ज्ञानिनो नित्यवैरिणा । अज्ञो हि विषयभोगकाले काम मित्रमिव पश्यंस्तत्कार्ये दुःखे प्राप्ते वैरित्वं जानाति कामेनाहं दुःखित्वमापादित इति । ज्ञानी तु भोगकालेऽपि जानात्यनेनाहमनर्थे प्रवेशित इति । अतो विवेकी दुःखी भवति भोगकाले च तत्परिणामे चानेनेति ज्ञानिनोऽसौ नित्यवैरीति सर्वथा तेन हन्तव्य एवेत्यर्थः । तर्हि किंस्वरूपोऽसावित्यत आहकामरूपेण काम इच्छा तृष्णा सैव रूपं यस्य तेन । हे कौन्तेयेति संबन्धाविष्कारेण प्रेमाणं सूचयति । ननु विवेकिनो हन्तव्योऽप्यविवेकिन उपादेयः स्यादित्यत आहदुप्पूरेणानलेन च । चकार उपमार्थः । न विद्यतेऽलं पर्याप्तिर्यस्येत्यनलो वह्निः । स यथा हविषा पूरयितुमशक्यस्तथाऽयमपि भोगेनेत्यर्थः । अतो निरन्तरं संतापहेतुत्वाद्विवेकिन इवाविवेकिनोऽपि हेय एवासौ । तथा च स्मृतिः--

न जातु कामः कामानामुपभोगेन शाम्यति ।
हविषा कृष्णवर्मेव भूय एवाभिवर्धते " इति ॥

 अथवेच्छाया विषयसिद्धिनिवर्त्यत्वादिच्छारूप: कामो विषयभोगेन(ण) खयमेव निवर्तिष्यते किं तत्रातिनिर्वन्धेनेत्यत उक्तं----दुष्प्रेणानलेन चेति । विषयसिध्ध्या तत्कालमिच्छातिरोधानेऽपि पुनः प्रादुर्भावान्न विषयसिद्धिरिच्छानिवर्तिका । किंतु विषयदोषदृष्टिरेव तथेति भावः ॥ ३९ ॥

 श्री०टी०-इदंशब्दनिर्दिष्टं दर्शयन्वैरित्वं स्फुटयति-आवृतमिति । इद[१६५] विवेकज्ञानमेतेनाऽऽवृतम् । अज्ञस्य खलु भोगसमये कामः सुखहेतुरेव । परिणामे तु वैरितां प्रपद्यते । ज्ञानिनः पुनस्तत्कालमप्यनर्थानुसंधानादुःखहेतुरेवेति नित्यवैरिणेत्युक्तम् । किं च विषयैः पूर्यमाणोऽपि दुष्पूरः । आ[१६६]पूर्यमाणस्तु शोकसंतापहेतुत्वादनल. तुल्यः । अनेन सर्वान्प्रति नित्यवैरित्वमुक्तम् ॥ ३९ ॥

 म०टी०-ज्ञाते हि शत्रोरधिष्ठाने सुखेन स जेतुं शक्यत इति तदधिष्ठानमाह-

इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते ॥
एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम् ॥ ४०॥


 इन्द्रियाणि शब्दस्पर्शरूपरसगन्धग्राहकाणि श्रोत्रादीनि वचनादानगमनविसर्गानन्दजनकानि वागादीनि च । मनः संकल्पात्मकं बुद्धिरध्यवसायात्मिका च । अस्य कामस्याधिष्ठानमाश्रय उच्यते । यत एतैरिन्द्रियादिमिः स्वस्वव्यापारवद्भिराश्रयर्विमोहयति विविधं मोहयति एष कामो ज्ञानं विवेकज्ञानमावृत्याऽऽच्छाद्य देहिनं देहाभिमानिनम् ॥ ४०॥

 श्री०टी०-इदानीं तस्याधिष्ठानं कथयञ्जयोपायमाह-इन्द्रियाणीतिद्वाभ्याम्विषयदर्शनश्रवणादिभिः संकल्पेनाध्यवसायेन च कामस्याऽऽविर्भावादिन्द्रियाणि च मनश्च बुद्धिश्वास्याधिष्ठानमुच्यते । एतैरिन्द्रियादिभिर्दर्शनादिव्यापारवद्भिराश्रयभूतैर्विवेकज्ञानमावृत्य देहिनं विमोहयति ॥ ४० ॥

म०टी०-यस्मादेवम् -
 तस्मात्त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ ।
 पाप्मानं प्रजहि ह्येनं ज्ञानविज्ञाननाशनम् ॥ ४१ ॥

 यस्मादिन्द्रियाधिष्ठानः कामो देहिनं मोहयति तस्मात्त्वमादौ मोहनात्पूर्व कामनिरोधात्पूर्वमिति वा । इन्द्रियाणि श्रोत्रादीनि नियम्य वशीकृत्य, तेषु हि वशीकृतेषु मनोबुद्ध्योरपि वशीकरणं सिध्यति संकल्पाध्यवसाययो र्बाह्येन्द्रियप्रवृत्तिद्वारैवानर्थहेतुत्वात् । अत इन्द्रियाणि मनो बुद्धिरिति पूर्व पृथनिर्दिश्यापीहेन्द्रियाणीत्येतावदुक्तम् । इन्द्रियत्वेन तयोरपि संग्रहो वा । हे भरतर्षभ महावंशप्रसूतत्वेन समर्थोऽसि । पाप्मानं सर्वपापमूलभूतमेनं कामं वैरिणं प्रजहिहि परित्यज । हि स्फुटं प्रजहि प्रकर्षेण मारयेति वा । जहि शत्रुमित्युपसंहाराच्च । ज्ञानं शास्त्राचार्योपदेश परोक्षं विज्ञानमपरोक्षं तत्फलं तयोर्ज्ञानविज्ञानयोः श्रेयःप्राप्तिहेत्वोनाशनम् ॥ ४१ ॥

 श्री०टी०-यस्मादेवम्-तस्मात्त्वमिति । आदौ विमोहात्पूर्वमेवेन्द्रियाणि मनो बुद्धिं च नियम्य पापरूपमेनं कामं हि स्फुटं प्रजहि घातय । यद्वा प्रजहिहि परित्यज । ज्ञानमात्मविषयं विज्ञानं शास्त्रीयं तयोर्ना[१६७]शनम् । यद्वा ज्ञानं शास्त्राचार्योपदेशजं, विज्ञानं निदिध्यास[१६८]नजं, "तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत" इति श्रुतेः॥४१॥

 म० टी०-ननु यथाकथंचिद्वाह्येन्द्रियनियमसंभवेऽप्यान्तरतृष्णात्यागोऽतिदुष्कर इति चेत् । न, "रसोऽप्यस्य परं दृष्ट्वा निवर्तते” इत्यत्र परदर्शनस्य रसाभिधा[१६९]नीयकतृष्णात्यागसाधनस्य प्रागुक्तेः । तर्हि कोऽसौ परो यद्दर्शनात्तृष्णानिवृत्तिरित्याशय शुद्धमात्मानं परशब्दवाच्यं देहादिभ्यो विविच्य दर्शयति-


इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः ॥
मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः ॥ ४२ ॥

 श्रोत्रादीनि ज्ञानेन्द्रियाणि पञ्च स्थूलं जडं परिच्छिन्नं बाह्यं च देहमपेक्ष्य पराणि सूक्ष्मत्वात्प्रकाशकत्वाद्वयापकत्वादन्तःस्थत्वाच्च प्रकृष्टान्याहुः पण्डिताः श्रुतयो वा । तथेन्द्रियेभ्यः परं मनः संकल्पविकल्पात्मकं तत्प्रवर्तकत्वात् । तथा मनसस्तु परा बुद्धिरध्यवसायात्मिका । अध्यवसायो हि निश्चयस्तत्पूर्वक एव संकल्पादिर्मनोधर्मः। यस्तु बुद्धेः परतस्तद्भासकत्वेनावस्थितो यं देहिनमिन्द्रियादिभिराश्रयैर्युक्तः कामो ज्ञानावरणद्वारेण मोहयतीत्युक्तं स बुद्धेर्द्रष्टा पर आत्मा । “स एष इह प्रविष्टः" इतिवद्ध्यवहितस्यापि देहिनस्तदा परामर्शः । अत्रार्थे श्रुतिः-

" इन्द्रियेभ्यः परा यर्था अर्थेभ्यश्च परं मनः ।
मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान्परः ॥
महतः परमव्यक्तमव्यक्तात्पुरुषः परः ।
पुरुषान्न परं किंचित्सा काष्ठा सा परा गतिः" इति ॥

 अत्राऽऽत्मनः परत्वस्यैव वाक्यतात्पर्यविषयत्वादिन्द्रियादिपरत्वस्याविवक्षितत्वादिन्द्रियेभ्यः परा अ(ह्य)र्था इति स्थानेऽर्थेभ्यः पराणीन्द्रियाणीति विवक्षाभेदेन भगवदुक्तं न विरुध्यते । बुद्धेरस्मदादिव्यष्टिबुद्धेः सकाशान्महानात्मा समष्टिबुद्धिरूपः परः "मनो महान्मतिर्ब्रह्मा पूर्बुद्धिः ख्यातिरीश्वरः ” इति वायुपुराणवचनात् । महतो हैरण्यगर्भ्या बुद्धेः परमव्यक्तमव्याकृतं सर्वजगबीजं मायाख्यं " मायां तु प्रकृतिं विद्यात् " इति श्रुतेः, " तद्धेदं तर्ह्यव्याकृतमासीत् " इति च । अव्यक्तात्सकाशात्सकलजडवर्गप्रकाशकः पुरुषः पूर्ण आत्मा परः । तस्मादपि कश्चिदन्यः परः स्यादित्यत आह-- पुरुषान्न परं किंचिदिति । कुत एवं यस्मात्सा काष्ठा समाप्तिः सर्वाधिष्ठानत्वात् । सा परा गतिः " सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम् ” इत्यादिश्रुतिप्रसिद्धा परा गतिरपि सैवेत्यर्थः । तदेतत्सर्व "यो बुद्धेः परतस्तु सः" इत्यनेनोक्तम् ॥ ४२ ॥

 श्री० टी०-यत्र चित्तप्रणिधानेनेन्द्रियाणि नियन्तुं शक्यन्ते तदात्मस्वरूपं देहादिभ्यो विविच्य दर्शयति-इन्द्रियाणीति । इन्द्रियाणि देहादिभ्यो ग्राह्येभ्यः पराणि श्रेष्ठान्याहुः सूक्ष्मत्वात्प्रकाशकत्वाच्च । अत एव तद्व्यतिरिक्तत्वमप्यर्थादुक्तं भवति । इन्द्रियेभ्यश्च संकल्पात्मकं मनः परं तत्प्रवर्तकत्वात् । मनसस्तु बुद्धिनिश्चयात्मिका परा निश्चयपूर्वकत्वात्संकल्पस्य । यस्तु बुद्धेः परतस्तत्साक्षित्वेनावस्थितः सर्वान्तरः स आत्मा विमोहयति देहिनमितिदेहिशब्दोक्त आत्मा स इति परामृश्यते ॥ ४२ ॥

 म०टी०-फलितमाह-

एवं बुद्धेः परं बुद्ध्वा संस्तभ्याऽऽत्मानमात्मना ।
जहि शत्रु महाबाहो कामरूपं दुरासदम् ॥ ४३ ॥

इति श्रीमहाभारते शतसाहस्यां संहितायां वैयासि-
क्यां भीष्मपर्वणि श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसं-
वादे कर्मयोगो नाम तृती-
योऽध्यायः॥ ३॥

 " रसोऽप्यस्य परं दृष्ट्वा निवर्तते " इत्यत्र यः परशब्देनोक्तस्तमेवंभूतं पूर्णमात्मानं बुद्धेः परं बुद्ध्वा साक्षात्कृत्य संस्तम्य स्थिरीकृत्याऽऽत्मानं मन आत्मनैतादृशनिश्चयात्मिकया बुद्धया जहि मारय शत्रु सर्वपुरुषार्थशातनं हे महाबाहो। महाबाहोर्हि शत्रुमारणं सुकरमिति योग्यं संबोधनम् । कामरूपं तृष्णारूपं दुरासदं दुःखेनाऽऽसादनीयं दुर्विज्ञेयानेकविशेषमिति यत्नाधिक्याय विशेषणम् ॥ ४३ ॥

उपायः कर्मनिष्ठाऽत्र प्राधान्येनोपसंहता।
उपेया ज्ञाननिष्ठा तु तद्गुणत्वेन कीर्तिता ॥ १ ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीविश्वेश्वरसरल्वतीश्रीपादशिष्यश्रीमधुसूदनसरस्वतीविरचितायां श्रीमद्भगवद्गीतागूढार्थदीपिकायां कर्मयोगो नाम तृतीयोऽध्यायः ॥ ३॥

 श्री०टी०-उपसंहरति-~-एवमिति । बुद्धेरेव विषयेन्द्रियादिजन्याः कामादिविक्रिया आत्मा तु निर्विकारस्तत्साक्षीत्येवं बुद्धेः परमात्मानं बुद्ध्वाऽऽत्मनैवंभूतनिश्चयात्मिकया बुद्धयाऽऽत्मानं मनः संस्तभ्य निश्चलं कृत्वा कामरूपं शत्रु जहि मारय दुरासदं दुःखेनाऽऽसादनीयं दुर्विज्ञेयगतिमित्यर्थः ॥ ४३ ॥

स्वधर्मेण यमाराध्य भक्त्या मुक्तिमिता बुधाः ।
तं कृष्णं परमानन्दं तोषयेत्सर्वकर्मभिः ॥ १ ॥

इति श्रीसुबोधिन्यां टीकायां श्रीधरस्वामिविरचितायां तृतीयोऽध्यायः ॥ ३ ॥

अथ चतुर्थोऽध्यायः।

 म० टी०-यद्यपि पूर्वमुपेयत्वेन ज्ञानयोगस्तदुपायत्वेन च कर्मयोग इति द्वौ योगौ कथितौ तथाऽपि " एक सांख्यं च योगं च यः पश्यति स पश्यति " इत्यनया दिशा साध्यसाधनयोः फलैक्यादैक्यमुपचर्य साधनभूतं कर्मयोगं साध्यभूतं च ज्ञानयोगमनेकविधगुणविधानाय स्तौति वंशकथनेन भगवान्-

श्रीभगवानुवाच-
 इमं विवस्वते योगं प्रोक्तवानहमव्ययम् ॥
 विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत् ॥ १॥

 इममध्यायद्वयेनोक्तं योगं ज्ञाननिष्ठालक्षणं कर्मनिष्ठोपायलम्यं विवस्वते सर्वक्षत्रियवंशबीजभूतायाऽऽदित्याय प्रोक्तवान्प्रकर्षेण सर्वसंदेहोच्छेदादिरूपेणोक्तवानहं भगवान्वासुदेवः सर्वजगत्परिपालकः सर्गादिकाले राज्ञां बलाधानेन तदधीनं सर्वं जगत्पालयितुम् । कथमनेन बलाधानमिति विशेषणेन दर्शयति-अव्ययमव्ययवेदमूलत्वादव्ययमोक्षफलत्वाच न व्येति स्वफलादित्यव्ययमव्यभिचारिफलम् । तथाचैतादृशेन बलाधानं शक्यमिति भावः । स च मम शिष्यो विवस्वान्मनवे वैवस्वताय स्वपुत्राय प्राह । स च मनुरिक्ष्वाकवे स्वपुत्रायाऽऽदिराजायाब्रवीत् । यद्यपि प्रतिमन्वन्तरं स्वायंभुवमन्वादिसाधारणोऽयं भगवदुपदेशस्तथाऽपि सांप्रतिकवैवस्वतमन्वन्तराभिप्रायेणाऽऽदित्यमारभ्य संप्रदायो गणितः ॥ १ ॥

 श्री०टी०-*आविर्भावतिरोभावावाविष्कतुं स्वयं हरिः ।    एएतत्त्वंपदविवेकार्थं कर्मयोगं प्रशंसति ॥ १ ॥

 एवं तावद्ध्यायद्वयेन कर्मयोगोपायो ज्ञानयोगो[१७०] मोक्षसाधनत्वेनोक्तः । तमेव ब्रह्मार्पणादिगुणविधानेन तत्त्वंपदार्थविवेकादिना च प्रपञ्चयिष्यन्प्रथमं तावत्परम्पराप्राप्तत्वेन स्तुवञ्श्रीभगवानुवाच-इममिति त्रिभिः। अव्ययफलत्वादव्ययमिमं योगं पुराऽहं विवस्वत आदित्याय कथितवान् । स च स्वपुत्राय मनवे श्राद्धदेवाय प्राह । स च मनुः स्वपुत्रायेक्ष्वाकवेऽब्रवीत् ॥ १॥

एवं परम्पराप्राप्तमिमं राजर्षयो विदुः ॥
स कालेनेह महता योगो नष्टः परंतप ॥२॥

"अयं श्लोकः क. पुस्तक एव दृश्यते ।


 म. टी.-एवमादित्यमारभ्य गुरुशिष्यपरम्परया प्राप्तमिमं योगं राजानश्च त ऋषयश्चेति राजर्षयः प्रभुत्वे सति सूक्ष्मार्थनिरीक्षणक्षमा निमिप्रमुखाः स्वपित्रादिप्रोक्तं विदुः । तस्मादनादिवेदमूलत्वेनानन्तफलत्वेनानादिगुरुशिष्यपरम्पराप्राप्तत्वेन च कृत्रिमत्वशङ्कानास्पदत्वान्महाप्रभावोऽयं योग इति श्रद्धातिशयाय स्तूयते । स एवं महाप्रयोजनोऽपि योगः कालेन महता दीर्घेण धर्महासकरणहेदानीमावयोर्व्यवहारकाले द्वापरान्ते दुर्बलानजितेन्द्रियाननधिकारिणः प्राप्य कामक्रोधादिभिरभिभूयमानो नष्टो विच्छिन्नसंप्रदायो जातः । तं विना पुरुषार्थाप्राप्तेरहो दौर्भाग्यं लोकस्येति शोचति भगवान् । हे परंतप परं कामक्रोधादिरूपं शत्रुगणं शौर्येण बलवता विवेकेन तपसा च भानुरिव तापयतीति परंतपः शत्रुतापनो जितेन्द्रिय इत्यर्थः । उर्वश्युपेक्षणाद्यद्भुतकर्मदर्शनात् । तस्मात्त्वं जितेन्द्रियत्वादत्राधिकारीति सूचयति ॥ २ ॥

 श्री० टी०-एवमिति । राजानश्च त ऋषयश्चान्येऽपि राजर्षयो निमिप्रमुखाः स्वपित्रादिभिरिक्ष्वाकुप्रमुखैः प्रोक्तमिमं योगं विदुर्जानन्ति । अद्यतनानामज्ञाने कारणमाह-हे परंतप शत्रुतापन स योगः कालवशादिह लोके नष्टो विच्छिन्नः ॥ २ ॥

स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः ॥
भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम् ॥ ३ ॥

 म०टी०-य एवं पूर्वमुपदिष्टोऽप्यधिकार्यभावाद्विच्छिन्नसंप्रदायोऽभूत् । यं विना च पुरुषार्थो न लभ्यते । स एवायं पुरातनोऽनादिगुरुपरम्परागतो योगोऽद्य संप्रदायविच्छेदकाले मयाऽतिस्निग्धेन ते तुभ्यं प्रकर्षणोक्तः । न त्वन्यस्मै कस्मैचित् । कस्मात् , भक्तोऽसि मे सरवा चेति, इति शब्दो हेतौ । यस्मात्त्वं मम भक्तः शरणागतत्वे सत्यत्यन्तप्रीतिमान्सखा च समानवयाः स्निग्धसहायोऽसि सर्वदा भवसि अतस्तुभ्यमुक्त इत्यर्थः । अन्यस्मै कुतो नोच्यते तत्राऽऽह-हि यस्मादेतज्ज्ञानमुत्तमं रहस्यमतिगोप्यम् ॥३॥

 श्री०टी०-स एवायमिति । स एवायं योगोऽद्य विच्छिन्ने संप्रदाये सति पुनश्च मया ते तुभ्यमुक्तो यतस्त्वं मम भक्तोऽसि सखा चेति । अन्यस्मै मया नोच्यते हि यस्मादिदमुत्तमं रहस्यम् ॥ ३ ॥

{{gap}}म०टी०-या भगवति वासुदेवे मनुष्यत्वेनासर्वज्ञत्वानित्यत्वाशङ्का मूर्खाणां तामपनेतुमनुवदन्नर्जुन आशङ्कते-

अर्जुन उवाच-
 अपरं भवतो जन्म परं जन्म विवस्वतः ॥
 कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति ॥४॥


 अपरमल्पकालीनमिदानीतनं वसुदेवगृहे भवतो जन्म शरीरग्रहणं विहीनं च मनुष्यत्वात् । परं बहुकालीनं सर्गादिभवमुत्कृष्टं च देवत्वात् , विवस्वतो जन्म । अत्राऽऽत्मनो जन्माभावस्य प्राग्व्युत्पादितत्वाद्देहाभिप्रायेणैवार्जुनस्य प्रश्नः । अतः कथमेतद्विजानीयामविरुद्धार्थतया । एतच्छब्दार्थमेव विवृणोति-त्वमादौ प्रोक्तवानिति । स्वमिदानीतनो मनुष्योऽसर्वज्ञः सर्गादौ पूर्वतनाय सर्वज्ञायाऽऽदित्याय प्रोक्तवानिति विरुद्धार्थमेतदिति भावः । अत्रायं निर्गलितोऽर्थः- एतद्देहानवच्छिन्नस्य तव देहान्तरावच्छेदेन वाऽऽदित्यं प्रत्युपदेष्ट्रत्वमेतद्देहेन वा । नाऽऽद्यः । जन्मान्तरानुभूतस्यासर्वज्ञेन स्मर्तुमशक्यत्वात् । अन्यथा ममापि जन्मान्तरानुभूतस्मरणप्रसङ्गः, तव मम च मनुष्यत्वेनासर्वज्ञत्वाविशेषात् । तदुक्तमभियुक्तैः--" जन्मान्तरानुभूतं च न स्मर्यते " इति । नापि द्वितीयः सर्गादाविदानींतनस्य देहस्यासद्भावात् । तदेवं देहान्तरेण सर्गादौ सद्धावसंभवेऽपीदानीं तत्स्मरणानुपपत्तिः । अनेन देहेन स्मरणोपपत्तावपि सर्गादौ सद्भावानुपपत्तिरित्वसर्वज्ञत्वानित्यत्वाभ्यां द्वावर्जुनस्य पूर्वपक्षौ ॥ ४ ॥

 श्री०टी०-भगवतो विवस्वन्तं प्रति योगोपदेशासंभवं पश्यन्---अर्जुन उवाच-अपरमिति । अपरमर्वाचीनं तव जन्म, परं प्राक्कालीनं विवस्वतो जन्म । तस्मात्तवाऽऽधुनिकत्वाच्चिरंतनाय विवस्वते त्वमादौ योगं प्रोक्तवानित्येतत्कथमहं विजानीयां ज्ञातुं शक्नु[१७१]याम् ॥ ४ ॥

 म०टी०-तत्र सर्वज्ञत्वेन प्रथमस्य परिहारम् --

श्रीभगवानुवाच-
 बहूनि मे व्यतीतानि जन्मानि तव चार्जुन ॥
 तान्यहं वेद सर्वाणि न त्वं वेत्थ परंतप ॥५॥

 जन्मानि लीलादेहग्रहणानि लोकदृष्ट्यभिप्रायेणाऽऽदित्यस्योदयवन्मे मम बहूनि व्यतीतानि तव चाज्ञानिनः कर्मार्जितानि देहग्रहणानि । तव चेत्युपलक्षणमितरेषामपि जीवाना, जीवैक्याभिप्रायेण वा । हेऽर्जुन श्लेषेणार्जुनवृक्षनाना संबोधयन्नावृतज्ञानत्वं सूचयति । तानि जन्मान्यहं सर्वज्ञः सर्वशक्तिरीश्वरो वेद जानामि सर्वाणि मदीयानि त्वदीयान्यन्यदीयानि च । न त्वमज्ञो जीवस्तिरोभूतज्ञानशक्तिवेत्थ न जानासि स्वीयान्यपि किं पुनः परकीयाणि । हे परंतप परं शत्रु भेददृष्टया परिकल्प्य हन्तुं प्रवृतोऽसीति विपरीतदर्शित्वाद्भ्रान्तोऽसीति सूचयति । तदनेन संबोधनद्वयेनाऽऽवरणविक्षेपौ द्वावप्यज्ञानधर्मौ दर्शितौ ॥ ५ ॥

 श्री. टी-इति पृष्टवन्तमर्जुनं रूपान्तरेणोपदिष्टवानित्यभिप्रायेणोत्तरम्-


श्रीभगवानुवाच-बहूनीति । मम बहूनि जन्मानि तव च व्यतीतानि तानि सर्वाण्यहं वेद जानामि अलुप्तविद्याशक्तित्वात् । त्वं तु न वेत्थ न जानासि अवि- धावृतत्वात् ॥ ५॥

 म०टी०-नन्वतीतानेकजन्मवत्त्वमात्मनः स्मरासि चेत्तर्हि जातिस्मरो जीवस्त्वं परजन्मज्ञानमा योगिनः सार्वात्म्याभिमानेन "शास्त्रदृष्ट्या तूपदेशो वामदेववत्" इति न्यायेन संभवति । तथाचाऽऽह वामदेवो जीवोऽपि “अहं मनुरभवं सूर्यश्वाहं कक्षीवानृषिरस्मि विप्रः” इत्यादिदाशय्याम् । अत एव न मुख्यः सर्वज्ञस्त्वम् । तथाच कथमादित्यं सर्वज्ञमुपदिष्टवानस्यनीश्वरः सन् । न हि जीवस्य मुख्यं सार्वज्ञ्यं संभवति व्यष्टयुपाधेः परिच्छिन्नत्वेन सर्वसंबन्धित्वाभावात् । समष्टयुपाधेरपि विराजः स्थूलभूतोपाधित्वेन सूक्ष्मभूतपरिणामविषयं मायापरिणामविषयं च ज्ञानं न संभवति । एवं सूक्ष्मभूतोपाधेरपि हिरण्यगर्भस्य तत्कारणमायापरिणामाकाशादिसर्गक्रमादिविषयज्ञानाभावः सिद्ध एव । तस्मादीश्वर एव कारणोपाधित्वादतीतानागतवर्तमानसर्वार्थविषयज्ञानवान्मुख्यः सर्वज्ञः । अतीतानागतवर्तमानविषयं मायावृत्तित्रयमेकैव वा सर्वविषया मायावृत्तिरित्यन्यत् । तस्य च नित्येश्वरस्य सर्वज्ञस्य धर्माधर्माद्यभावेन जन्मैवानुपपन्नमतीतानेकजन्मवत्त्वं तु दूरोत्सारितमेव । तथाच जीवत्वे सार्वश्यानुपपत्तिरीश्वरत्वे च देहग्रहणानुपपत्तिरिति शङ्काद्वयं परिहरन्ननित्यत्वपक्षस्यापि परिहारमाह-

अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन् ॥
प्रकृति स्वामधिष्ठाय संभवाम्यात्ममायया ॥६॥

 अपूर्वदेहेन्द्रियादिग्रहणं जन्म । पूर्वगृहीतदेहेन्द्रियादिवियोगो व्ययः । यदुभयं तार्किकैः प्रेत्यभाव इत्युच्यते । तदुक्तम् -- “ जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च" इति । तदुभयं च धर्माधर्मवशाद्भवति । धर्माधर्मवशत्वं चाज्ञस्य जीवस्य देहाभिमानिनः कर्माधिकारित्वाद्भवति । तत्र यदुच्यते सर्वज्ञस्येश्वरस्य सर्वकारणस्येदृग्देहग्रहणं नोपपद्यत इति तत्तथैव । कथं, यदि तस्य शरीरं स्थूलभूतकार्यं स्यात्तदा व्यष्टिरूपत्वे जाग्रदवस्थाऽस्मदादितुल्यत्वं, समष्टिरूपत्वे च विराड्जीवत्वं तस्य तदुपाधित्वात् । अथ सूक्ष्मभूतकार्यं तदा व्यष्टिरूपत्वे स्वप्नावस्थाऽस्मदादितुल्यत्वं, समष्टिरूपत्वे च हिरण्यगर्भजीवत्वं तस्य तदुपाधित्वात् । तथाच भौतिकं शरीरं जीवानाविष्टं परमेश्वरस्य न संभवत्येवेति सिद्धम् । नच जीवाविष्ट एव तादृशे शरीरे तस्य भूतावेशवत्प्रवेश इति वाच्यम् । तच्छरीरावच्छेदेन तज्जीवस्य भोगाभ्युपगमेऽन्तर्यामिरूपेण सर्वशरीरप्रवेशस्य विद्यमानत्वेन शरीरविशेषाभ्युपगमवैयर्थ्यात् । भोगाभावे च जीवशरीरत्वानुपपत्तेः । अतो न भौतिकं शरीरमीश्वरस्येति पूर्वार्धेनाङ्गी करोति-अजोऽपि सन्नव्य.

यात्मा भूतानामीश्वरोऽपि सन्निति । अजोऽपि सन्नित्यपूर्वदेहग्रहणमव्ययात्माऽपि सन्निति पूर्वदेहविच्छेदं भूतानां भवनधर्मणां सर्वेषां ब्रह्मादिस्तम्बपर्यन्तानामश्विरोऽपि सन्निति धर्माधर्मवशत्वं निवारयति । कथं तर्हि देहग्रहणमित्युत्तरार्धेनाऽऽह-प्रकृतिं स्वामधिष्ठाय संभवामि प्रकृतिं मायाख्यां विचित्रानेकशक्तिमघटमानघटनापटीयसीं स्वां स्वोपाधिभूतामधिष्ठाय चिदाभासेन वशीकृत्य संभवामि तत्परिणामविशेषैरेव देहवानिव जात इव च भवामि । अनादिमायैव मदुपाधिभूता यावत्कालस्थायित्वेन च नित्या जगत्कारणत्वसंपादिका मदिच्छयैव प्रवर्तमाना विशुद्धसत्त्वमयत्वेन मम मूर्तिस्तद्विशिष्टस्य चाजत्वमव्ययत्वमीश्वरत्वं चोपपन्नम् । अतोऽनेन नित्येनैव देहेन विवस्वन्तं च त्वां चप्रतीमं योगमुपदिष्टवानहमित्युपपन्नम् । तथाच श्रुति:-"आकाशशरीरं ब्रह्म" इति आकाशोऽत्राव्याकृतम् । आकाश एव तदोतं च प्रोतं च " इत्यादौ तथा दर्श- नात्, “ आकाशस्तल्लिङ्गात् ," इति न्यायाञ्च । तर्हि भौतिकविग्रहाभावात्तद्धर्ममनुप्यत्वादिप्रतीतिः कथमिति चेत्तत्राऽऽह-आत्ममाययेति । मन्माययैव मयि मनुष्यत्वादिप्रतीतिलोकानुग्रहाय न तु वस्तुवृत्त्येति भावः । तथा चोक्तं मोक्षधर्मे-

माया ह्येषा मया सृष्टा यन्मां पश्यसि नारद ।
सर्वभूतगुणैर्युक्तं न तु मां द्रष्टुमर्हसि " इति ॥

 सर्वभूतगुणैर्युक्तं कारणोपाधिं मां चर्मचक्षुषा द्रष्टुं नार्हसीत्यर्थः । उक्तं च भगवता भाष्यकारेण-"स च भगवाञ्ज्ञानेश्वर्यशक्तिबलवीर्यतेजोभिः सदा संपन्नस्त्रिगुणात्मिकां वैष्णवीं स्वां मायां प्रकृतिं वशीकृत्याजोऽव्ययो भूतानामीश्वरो नित्यशुद्धबुद्धमुक्तस्वभावोऽपि सन्स्वमायया देहवानिव जात इव च लोकानुग्रहं कुर्वल्लक्ष्यते स्वप्रयोजनामावेऽपि भूतानुजिघृक्षया" इति । व्याख्यातृभिश्चोक्तं स्वेच्छाविनिर्मितेन मायामयेन दिव्येन रूपेण संबभूवेति ।

नित्यो यः कारणोपाधिर्मायाख्योऽनेकशक्तिमान् ।
स एव भगवद्देह इति भाष्यकृतां मतम् ॥

 अन्ये तु परमेश्वरे देहदेहिभावं न मन्यन्ते । किं तु यश्च नित्यो विभुः सच्चिदानन्दघनो भगवान्वासुदेवः परिपूर्णो निर्गुणः परमात्मा स एव तद्विग्रहो नान्यः कश्चिद्भौतिको मायिको वेति । अस्मिन्पक्षे योजना-" आकाशवत्सर्वगतश्च नित्यः " " अविनाशी वा अरेऽयमात्माऽनुच्छित्तिधर्मा " इत्यादिश्रुतेः "असंभवस्तु सतोऽनुपपत्तेः" "नाऽऽत्माऽश्रुतेर्नित्यत्वाच्च ताभ्यः" इत्यादिन्यायाच्च वस्तुगत्या जन्मविनाशरहितः सर्वभासकः सर्वकारणमायाधिष्ठानत्वेन सर्वभूतेश्वरोऽपि सन्नहं प्रकृतिं स्वभावं सच्चिदानन्दघनैकरसम् । मायां व्यावर्तयति-स्वामिति । निजस्वरूपमित्यर्थः । “ स भगवः कस्मिन्प्रतिष्ठितः स्वे महिम्नि " इति श्रुतेः । स्वस्वरूपमधिष्ठाय स्वरूपावस्थित एव सन्संभवामि देहदेहिभावमन्तरेणैव देहिवद्वयवहरामि । कथं तर्ह्य देहे सच्चिदानन्दघने देहत्वप्रतीतिरत आह-आत्ममाययेति । निर्गुणे शुद्धे सच्चिदानन्दरसघने मयि भगवति वासुदेवे देहदेहिभावशून्ये तद्रूपेण प्रतीतिर्मायामात्रमित्यर्थः । तदुक्तम्-

" कृष्णमेनमवेहि त्वमात्मानमखिलात्मनाम् ।
जगद्धिताय सोऽप्यन्त्र देहीवाऽऽभाति मायया " इति ॥
"अहो भाग्यमहो भाग्यं नन्दगोपव्रजौकसाम् ।
यन्मित्रं परमानन्दं पूर्णं ब्रह्म सनातनम् " इति च ॥

 केचित्तु नित्यस्य निरवयवस्य निर्विकारस्यापि परमानन्दस्यावयवावयविभावं वास्तवमेवेच्छन्ति ते " निर्युक्तिकं ब्रुवाणस्तु नास्माभिर्विनिवार्यते " इति न्यायेन नापवाद्याः । यदि संभवेत्तथैवास्तु किमतिपल्लवितेनेत्युपरम्यते ॥ ६ ॥

 श्री० टी०-नन्वनादेस्तव कृतो जन्म, अविनाशिनश्च कथं पुनः पुनर्जन्म येन बहूनि मे व्यतीतानीत्युच्यते। ईश्वरस्य च तव पुण्यपापविहीनस्य कथं जीववजन्मेत्यतआह-- अजोऽपीति । सत्यमेवं तथाऽपि अजोऽपि सन्नहं तथाऽव्ययात्माऽपि अनश्वरस्वभावोऽपि संस्तथेश्वरोऽपि कर्मपारतन्त्र्यरहितोऽपि सन्स्वमायया संभवामि सम्यगप्रच्युतज्ञानबलवीर्यादिशक्त्यैव भवामि । ननु तथाऽपि षोडशकलात्मकलिङ्गदेहशन्यस्य तव कुतो जन्मेत्यत उक्तं स्वां शुद्धसत्त्वात्मिकां प्रकृतिमधिष्ठाय स्वीकृत्य विशुद्धोर्जितसत्त्वमूर्त्या स्वेच्छयाऽवतरामीत्यर्थः ॥ ६ ॥

 म. टी-एवं सच्चिदानन्दघनस्य तव कदा किमर्थं वा देहिवद्वयवहार इति तत्रोच्यते-

यदा यदा हि धर्मस्य ग्लानिर्भवति भारत ॥
अभ्युत्थानमधर्मस्य तदाऽऽत्मानं सृजाम्यहम् ॥ ७ ॥

 धर्मस्य वेदविहितस्य प्राणिनामभ्युदयनिःश्रेयससाधनस्य प्रवृत्तिनिवृत्तिलक्षणस्य वर्णाश्रमतदाचारव्यङ्ग्यस्य यदा यदा ग्लानिर्हानिर्भवति हे भारत भरतवंशोद्भवत्वेन मा ज्ञानं तत्र रतत्वेन वा स्वं न धर्महानिं सोढुं शक्नोषीति संबोधनार्थः । एवं यदा यदाऽभ्युत्थानमुद्भवोऽधर्मस्य वेदनिषिद्धस्य नानाविधदुःखसाधनस्य धर्मविरोधिनस्तदा तदाऽऽत्मानं देहं सृजा[१७२]मि नित्यसिद्धमेव सृष्टमिव दर्शयामि मायया ॥ ७ ॥

 श्री० टी०-कदा संभवसोत्यपेक्षायामाह-यदा यदेति। धर्मस्य ग्लानिर्हानिः। अधर्मस्याभ्युत्थानमाधिक्यम् ॥ ७ ॥

 म०टी०-तत्किं धर्मस्य हानिरधर्मस्य च वृद्धिस्तव परितोषकारणं येन तस्मिन्नेव काल आविर्भवतीति तथा चानर्थावह एव तवावतारः स्यादिति नेत्याह-


परित्राणाय साधूनां विनाशाय च दुष्कृताम् ॥
धर्मसंस्थापनार्थाय संभवामि युगे युगे ॥ ८॥

 धर्महान्या हीयमानानां साधूनां पुण्यकारिणां वेदमार्गस्थानां परित्राणाय परितः सर्वतो रक्षणाय । तथाऽधर्मवृद्ध्या वर्धमानानां दुष्कृतां पापकारिणां वेदमार्गविरोधिनां विनाशाय च । तदुभयं कथं स्यादिति तदाह--धर्मसंस्थापनार्थाय धर्मस्य सम्यगधर्मनिवारणेन स्थापनं वेदमार्गपरिरक्षणं धर्मसंस्थापनं तदर्थं संभवामि पूर्ववत्, युगे युगे प्रतियुगम् ॥ ८॥

 श्री० टी०-किमर्थमित्यपेक्षायामाह-परित्राणायेति । साधूनां स्वधर्मवर्तिनां रक्षणाय दुष्टं कर्म कुर्वन्तीति दुष्कृतस्तेषां वधाय च । एवं धर्मस्य संस्थापनार्थाय साधुरक्षणेन दुष्टवधेन च धर्म स्थिरीकर्तुं युगे युगे तत्तदवसरे संभवामीत्यर्थः । न चैवं दुष्टनिग्रहं कुर्वतोऽपि नैधृण्यं शङ्कनीयम् । यथा चाऽऽहुः-

" लालने ताडने मातुर्नाकारुण्यं यथाऽर्भके ॥
तद्वदेव महेशस्य नियन्तुर्गुणदोषयोः" इति ॥ ८ ॥

जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः ॥
त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन ॥ ९ ॥

 म०टी०जन्म नित्यसिद्धस्यैव मम सच्चिदानन्दघनस्य लीलया तथाऽनुकरणम् । कर्म च धर्मसंस्थापनेन जगत्परिपालनं मे मम नित्यसिद्धेश्वरस्य दिव्यमप्राकृतमन्यैः कर्तुमशक्यमीश्वरस्यैवासाधारणम् । एवमजोऽपि सन्नित्यादिना प्रतिपादितं यो वेत्ति तत्त्वतो भ्रमनिवर्तनेन । मूढैर्हि मनुष्यत्वभ्रान्त्या भगवतोऽपि गर्भवासादिरूपमेव जन्म स्वभोगार्थमेव कर्मेत्यारोपितम् । परमार्थतः शुद्धसच्चिदानन्द[१७३]रूपत्वज्ञानेन तदपनुद्याजस्यापि मायया जन्मानुकरणमकर्तुरपि परानुग्रहाय कर्मानुकरणमित्येवं यो वेत्ति स आत्मनोऽपि तत्त्वस्फुरणात्त्यक्त्वा देहमिमं पुनर्जन्म नैति । किंतु मां भगवन्तं वासुदेवमेव सच्चिदानन्दघनमेति संसारान्मुच्यत इत्यर्थः । हेऽर्जुन ॥९॥

 श्री०टी-एवंविधानामीश्वरजन्मकर्मणां ज्ञाने फलमाह-जन्म कर्मेति । मे जन्म स्वेच्छाकृतं कर्म च धर्मपालनरूपं दिव्यमलौकिकं तत्त्वतः परानुग्रहार्थमेवेति यो वेत्ति स देहाभिमानं त्यक्त्वा पुनर्जन्म नैति न प्राप्नोति किं तु मामेव प्राप्नोति ॥९॥

 म०टी०-मामेति सोऽर्जुनेत्युक्तं तत्र स्वस्य सर्वमुक्तप्राप्यतया पुरुषार्थत्वमस्य मोक्षमार्गस्यानादिपरम्परागतत्वं च दर्शयति-


वीतरागभयक्रोधा मन्मया मामुपाश्रिताः ॥
बहवो ज्ञानतपसा पूता मद्भावमागताः ॥ १०॥

 रागस्तत्तत्फलतृष्णा । सर्वान्विषयान्परित्यज्य ज्ञानमार्गे कथं जीवितव्यमिति त्रासो भयम् । सर्वविषयोच्छेदकोऽयं ज्ञानमार्गः कथं हितः स्यादिति द्वेषः क्रोधः । त एते रागभयकोधा वीता विवेकेन विगता येभ्यस्ते वीतरागभयक्रोधाः शुद्धसत्त्वाः । मन्मया मां परमात्मानं तत्पदार्थत्वंपदार्थाभेदेन साक्षात्कृतवन्तो मदेकचित्ता वा । मामुपाश्रिता एकान्तप्रेमभक्त्या मामीश्वरं शरणं गताः । बहवोऽनेके ज्ञानतपसा ज्ञानमेव तपः सर्वकर्मक्षयहेतुत्वात् , "न हि ज्ञानेन सदृशं पवित्रमिह विद्यते" इति हि वक्ष्यति । तेन पूताः क्षीणसर्वपापाः सन्तो निरस्ताज्ञानतत्कार्यमलाः । मद्भावं मद्रूपत्वं विशुद्धसच्चिदानन्द- घनं मोक्षमागता अज्ञानमात्रापनयेन[१७४] प्राप्ताः । ज्ञानतपसा पूता जीवन्मुक्ताः सन्तो मद्भावं मद्विषयं भावं रत्याख्यं प्रेमाणमागता इति वा । "तेषां ज्ञानी नित्ययुक्त एकभक्तिविशिष्यते” इति हि वक्ष्यति ॥ १० ॥

 श्री०टी०-कथं जन्मकर्मज्ञानेन त्वत्प्राप्तिः स्यादित्यत्राऽऽह-वीतरागेति । अहं शुद्धसत्त्वावतारैर्धर्मपरिपालनं करोमीति मदीयं परमकारुणिकत्वं ज्ञात्वा वीता विगता रागभयक्रोधा येभ्यस्ते विक्षेपाभावात् । मन्मया मदेकचित्ता भूत्वा मामेवोपाश्रिताः सन्तो मत्प्रसादलभ्यं यदात्मज्ञानं च तपश्च तत्परिपाकहेतुः स्वधर्मस्तयोद्वैकवद्भावः । तेन ज्ञानतपसा पूताः शुद्धा निरस्ताज्ञानतत्कार्यमलाः सन्तो मद्भावं मत्सायुज्यं प्राप्ता बहवः । न त्वधुनैव प्रवृत्तोऽयं मद्भक्तिमार्ग इत्यर्थः । तदेवं "तान्यहं वेद सर्वाणि" इत्यादिना विद्याविद्योपाधिम्यां तत्त्वंपदार्थावीश्वरजीवौ प्रदर्श्येश्वर[१७५]स्य "चाविद्याभावेन नित्यशुद्धत्वाज्जीवस्य चेश्वरप्रसादलब्धज्ञानेनाज्ञाननिवृत्तेः शुद्धस्य सतश्चिदंशेन तदैक्यमुक्तमिति द्रष्टव्यम् ॥ १०॥

 म० टी०-~-ननु ये ज्ञानतपसा पूता निष्कामास्ते त्वद्भावं गच्छन्ति, ये त्वपूताः सकामास्ते न गच्छन्तीति फलदातुस्तव वैषम्यनैर्वृण्ये स्यातामिति नेत्याह-

ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् ॥
मम वानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥ ११॥

 य आर्ता अर्थाथिनो जिज्ञासवो ज्ञानिनश्च यथा येन प्रकारेण सकामतया निष्काम- तया च मामीश्वरं सर्वफलदातारं प्रपद्यन्ते भजन्ति तांस्तथैव तदपेक्षितफलदानेनैव भजान्यनुगृह्णाम्यहं न विपर्ययेण । तत्रामुमुक्षूनार्तानर्थार् थिनश्चाऽऽर्तिहरणेनार्थदानेन


चानुगृह्णामि । जिज्ञासून्विविदिषन्ति यज्ञेनेत्यादिश्रुतिविहितनिष्कामकर्मानुष्ठातृज्ञानदानेन ज्ञानिनश्च मुमुक्षन्मोक्षदानेन न त्वन्यकामायान्यद्ददामीत्यर्थः । ननु तथाऽपि स्वभक्तानामेव फलं ददासि न त्वन्यदेवभक्तानामिति वैषम्यं स्थितमेवेति नेत्याह-मम सर्वात्मनो वासुदेवस्य वर्त्म भजनमार्ग कर्मज्ञानलक्षणमनुवर्तन्ते हे पार्थ सर्वशः सर्वप्रकारैरिन्द्रादीनप्यनुवर्तमाना मनुष्या इति कर्माधिकारिणः । " इन्द्रं मित्रं वरुणमग्निमाहुः " इत्यादिमन्त्रवर्णात् फलमत उपपत्तेः” इति न्यायाञ्च सर्वरूपेणापि फलदाता भगवानेक एवेत्यर्थः । तथा च वक्ष्यति येऽप्यन्यदेवताभक्ता इत्यादि ॥ ११॥

 श्री०टी०--ननु तर्हि किं त्वय्याप वैषम्यमस्ति यस्मादेवं त्वदेकशरणानामेवाऽऽत्ममावं ददासि नान्येषां सकामानामित्यत आह-ये यथेति । यथा येन प्रकारेण सकामतया निष्कामतया वा ये मां भजन्ति तानहं तथैव तदपेक्षितफलदानेन भजामि अनुगृह्णामि न तु ये सकामा मां विहायेन्द्रादीनेव भजन्ते तानहमुपेक्ष इति मन्तव्यम् । यतः सर्वशः सर्वप्रकारैरिन्द्रादिसेवका अपि ममैव वर्त्म भजनमार्गमनुवर्तन्ते, इन्द्रादिरूपेणापि ममैव सेव्यत्वात् ॥ ११ ॥

 म०टी०-ननु त्वामेव भगवन्तं वासुदेवं किमिति सर्वे न प्रपद्यन्त इति तत्राऽऽह-

काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः ॥
क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा ॥ १२ ॥

 कर्मणां सिद्धिं फलनिष्पत्तिं काङ्क्षन्त इह लोके देवता देवानिन्द्राग्न्याद्यान्यजन्ते पूजयन्ति अज्ञानप्रतिहतत्वान्न तु निष्कामाः सन्तो मां भगवन्तं वासुदेवमिति शेषः । कस्मात् , हि यस्मादिन्द्रादिदेवतायाजिनां तत्फलकाक्षिणां कर्मजा सिद्धिः कर्मजन्यं फलं क्षिप्रं शीघ्रमेव भवति मानुषे लोके । ज्ञानफलं त्वन्तःकरणशुद्धिसापेक्षत्वान्न क्षिप्रं भवति । मानुषे लोके कर्मफलं शीघ्र भवतीति विशेषणादन्यलोकेऽपि वर्णाश्रमधर्मव्यतिरिक्तकर्मफलसिद्धिर्भगवता सूचिता । यतस्तत्तत्क्षुद्रफलसिद्धयर्थं सकामा मोक्षविमुखा अन्या देवता यजन्तेऽतो न मुमुक्षव इव मां वासुदेवं साक्षात्ते प्रपद्यन्त इत्यर्थः ॥ १२ ॥

 श्री०टी०-तर्हि मोक्षार्थमेव किमिति सर्वे[१७६] न भजन्तीत्यत आह-काङ्क्षन्त इति । कर्मणां सिद्धिं फलं काङ्क्षन्तः प्रायश इह मनुष्यलोक इन्द्रादिदेवता एवं यजन्ते न तु साक्षान्मामेव । हि यस्मात्कर्मना सिद्धिः कर्मजं फलं शीघ्रं भवति न तु ज्ञानफलं कैवल्यं दुष्प्रापत्वाज्ज्ञानस्य ॥ १२ ॥


 म०. टी०-शरीरारम्भकगुणवैषम्यादपि न सर्वे समानस्वभावा इत्याह-

चातुर्वर्ण्य मया सृष्टं गुणकर्मविभागशः ॥
तस्य कर्तारमपि मां विध्ध्यकर्तारमव्ययम् ॥ १३ ॥

 चत्वारो वर्णा एव चातुर्वर्ण्य स्वार्थे ष्यञ् । मयेश्वरेण सृष्टमुत्पादितं गुणकर्मविभागशो गुणविभागशः कर्मविभागशश्च । तथाहि सत्त्वप्रधाना ब्राह्मणास्तेषां च सात्त्विकानि शमदमादीनि कर्माणि । सत्त्वोपसर्जनरजःप्रधानाः क्षत्रियास्तेषां च तादृशानि शौर्यतेजःप्रभृतीनि कर्माणि । तमउपसर्जनरजःप्रधाना वैश्यास्तेषां च कृष्यादीनि तादृशानि कर्माणि । तमःप्रधानाः शूद्रास्तेषां च तामसानि त्रैवर्णिकशुश्रूषादीनि कर्माणीति मानुषे लोके व्यवस्थितानि । एवं तर्हि विषमस्वभावचातुर्वर्ण्यस्रष्टुत्वेन तव वैषम्यं दुर्वारमित्याशङ्कय नेत्याह-तस्य विषमस्वभावस्य चातुर्वर्ण्यस्य व्यवहारदृष्ट्या कर्तारमपि मां परमार्थदृष्ट्या विद्धयकर्तारमव्ययं निरहंकारत्वेनाक्षीणमहिमानम् ॥ १३ ॥

 श्री०टी०-ननु केचित्सकामतया प्रवर्तन्ते केचिनिष्कामतयेति कर्मवैचित्र्यं तत्कर्तृणां च ब्राह्मणादीनामुत्तममध्यमादिवैचित्र्यं कुर्वतस्तव कथं वैषम्यं नास्तीत्याशङ्कयाऽऽह-चातुर्वर्ण्य मिति । चत्वारो वर्णा एव चातुर्वर्ण्यम् । स्वार्थे ष्यङ्प्रत्ययः । अयमर्थः -सत्त्वप्रधाना ब्राह्मणास्तेषां च शमदमादीनि कर्माणि । सत्वरजःप्रधानाः क्षत्रियास्तेषां च शौर्ययुद्धादीनि कर्माणि । रजस्तमःप्रधाना वैश्यास्तेषां कृषिवाणिज्यादीनि कर्माणि । तमःप्रधानाः शूद्रास्तेषां च त्रैवर्णिकशुश्रूषादिकर्माणीत्येवं गुणानां कर्मणां च विभागैश्चातुर्वर्ण्यं मयैव सृष्टमिति सत्यं तथाऽप्येवं तस्य कर्तारमपि फलतोऽकर्तारमेव मां विद्धि । तत्र हेतुः-अव्ययम् , आसक्तिराहित्येन[१७७][१७८] नाशरहितम् ॥१३॥

न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा ॥
इति मां योऽभिजानाति कर्मभिर्न स बध्यते ॥१४॥

 म०. टी०-कर्माणि विश्वसर्गादीनि मां निरहंकारत्वेन कर्तृत्वाभिमानहीनं भगवन्तं न लिम्पन्ति देहारम्भकत्वेन न बन्धन्ति । एवं कर्तृत्वं निराकृत्य भोक्तृत्वं निराकरोति न मे ममाऽऽतकामस्य कर्मफले स्पृहा तृष्णा " आप्तकामस्य का स्पृहा" इति श्रुतेः । कर्तृत्वाभिमानफलस्पृहाभ्यां हि कर्माणि लिम्पन्ति तदभावान्न मां कर्माणि लिम्पन्तीति । एवं योऽन्योऽपि मामकर्तारमभोक्तारं चाऽऽत्मत्वेनाभिजानाति कर्मभिर्न स बध्यतेऽकर्त्रात्मज्ञानेन मुच्यत इत्यर्थः ॥ १४ ॥

 श्री०टी०-तदेव दर्शयन्नाह-न मामिति । कर्माणि विश्वसृष्ट्यादीन्यपि मां


न लिम्पन्ति आसक्तं न कुर्वन्ति निरहंकारत्वादाप्तकामत्वेन मम कर्मफले स्पृहाभावाच्च । मां न लिम्पन्तीति किं वक्तव्यं, यतः कर्मफले स्पृहाराहित्येन मां योऽभिजानाति सोऽपि कर्मभिर्न बध्यते मम निर्लेपत्वे कारणं निरहंकारत्वनिःस्पृहत्वादिकं जानतस्तस्याप्यहंकारादिशैथिल्यात् ॥ १४ ॥

 म०टी०-यतो नाहं कर्ता न मे कर्मफलस्पृहेति ज्ञानात्कर्मभिर्न बध्यतेऽतः-

एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः ॥
कुरु कर्मैव तस्मात्त्वं पूर्वेः पूर्वतरं कृतम् ॥ १५ ॥

 एवमात्मनोऽकर्तुः कर्मालेपं ज्ञात्वा कृतं कर्म पूर्वैरतिक्रान्तैरपि अस्मिन्युगे ययातियदुप्रभृतिभिर्मुमुक्षुभिः । तस्मात्त्वमपि कर्मैव कुरु न तूष्णीमासनं नापि संन्यासम् । यद्यतत्त्ववित्तदाऽऽत्मशुद्धयर्थं तत्त्वविचेल्लोकसंग्रहार्थम् । पूर्वैर्जनकादिभिः पूर्वतरमतिपूर्व युगान्तरेऽपि कृतम् । एतेनास्मिन्युगेऽन्ययुगे च पूर्वपूर्वतरैः कृतत्वादवश्यं त्वया कर्तव्यं कर्मेति दर्शयति ॥ १५ ॥

 श्री. टी.-ये यथा मां प्रपद्यन्त इत्यादिचतुर्भिः श्लोकैः प्रासङ्गिकमीश्वरस्य वैषम्यं परिहत्य पूर्वोक्तमेव कर्मयोगं प्रपञ्चयितुमनुस्मारयति-एवमिति । अहंकारादिराहित्येन कृतं कर्म बन्धकं न भवतीत्येवं ज्ञात्वा पूर्वैर्जनकादिभिरपि मुमुक्षुभिः सत्त्वशृध्द्यर्थं पूर्वतरं युगान्तरेष्वपि कृतम् । तस्मात्त्वमपि प्रथमं कर्मैव कुरु ॥ १५ ॥

 म. टी.-ननु कर्मविषये किं कश्चित्संशयोऽप्यस्ति येन पूर्वैः पूर्वतरं कृतमित्यविनिर्बध्नासि अस्त्येवेत्याह-

किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः ॥
तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेऽशुभात्॥१६॥

 नौस्थस्य निष्क्रियेष्वपि तटस्थवृक्षेषु गमनभ्रमदर्शनात्तथा दूराच्चक्षःसंनिकृष्टेषु गच्छत्स्वपि पुरुषेष्वगमनभ्रमदर्शनात्परमार्थतः किं कर्म किं वा परमार्थतोऽकर्मेति कवयो मेधाविनोऽप्यत्रास्मिन्विषये मोहिता मोहं निर्णयाप्तामर्थ्यं प्राप्ता अत्यन्तदुर्निरूपत्वादित्यर्थः । तत्तस्मात्ते तुभ्यमहं कर्म, अकारप्रश्लेषेण च्छेदादकर्म च प्रवक्ष्यामि प्रकर्षेण संदेहोच्छेदेन वक्ष्यामि । यत्कर्माकर्मस्वरूपं ज्ञात्वा मोक्ष्यसे मुक्तो भविष्यस्यशुभात्संसारात् ॥ १६ ॥

 श्री०टी०-तच्च तत्वविद्भिः सह विचार्य कर्तव्यं न लोकपरम्परामात्रेणे[१७९] त्याहकिं कर्मेति । किं कर्म कीदृशं क[१८०]र्मकरणं किमकर्म कीदृशं कर्माकरणमित्यस्मिन्नर्थे


विवेकिनोऽपि मोहिताः । अतो यज्ज्ञात्वाऽनुष्ठायाशुभासंसारान्मोक्ष्यसे मुक्तो भविष्यसि तत्कर्माकर्म च तुभ्यमहं प्रवक्ष्यामि शृणु ॥ १६ ॥

 म०टी०-ननु सर्वलोकप्रसिद्धत्वादहमेवैतज्जानामि देहेन्द्रियादिव्यापारः कर्म तूष्णीमासनमकर्मेति तत्र किं त्वया वक्तव्यमिति तत्राऽऽह-

कर्मणो ह्यपि बोधव्यं बोधव्यं च विकर्मणः ॥
अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः ॥ १७॥

 हि यस्मात्कर्मणः शास्त्रविहितस्यापि तत्त्वं बोद्धव्यमस्ति, विकर्मणश्च प्रतिषिद्धस्य, अकर्मणश्च तूष्णींभावस्य । अत्र वाक्यत्रयेऽपि तत्त्वमस्तीत्यध्याहारः । यस्माद्गहना दुर्ज्ञाना । कर्मण इत्युपलक्षणं कर्माकर्मविकर्मणाम् । गतिस्तत्त्वमित्यर्थः ॥ १७ ॥

 श्री० टी०-- ननु लोकप्रसिद्धमेव कर्म देहादिव्यापारात्मकमकर्म च तदव्यापारात्मकम् । अतः कथमुच्यते कवयोऽप्यत्र मोहं प्राप्ता इति तत्राऽऽह-कर्मण इति । कर्मणो विहितव्यापारस्यापि तत्त्वं बोद्धव्यमस्ति न तु लोकप्रसिद्धमात्रमेव । अकर्म[१८१]णोऽव्यापारस्यापि तत्त्वं बोद्धव्यमस्ति । विकर्मणोऽपि निषिद्धस्यापि तत्त्वं बोद्धव्यमस्ति । यतः कर्मणो गतिर्गहना । कर्मण इत्युपलक्षणार्थम् । कर्माकर्मविकर्मणां तत्त्वं दुर्विज्ञेयमित्यर्थः ॥ १७ ॥

 म.टी.-कीदृशं तर्हि कर्मादीनां तत्त्वमिति तदाह-

कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः ॥
स बुद्धिमान्मनुष्येषु स युक्तः कृत्सकर्मकृत् ॥ १८ ॥

 कर्मणि देहेन्द्रियादिव्यापारे विहिते प्रतिषिद्धे चाहं करोमीति[१८२] [१८३]धर्म्यध्यासेनाऽऽत्मन्यारोपिते नौस्थेनाचलत्सु तटस्थवृक्षादिषु समारोपिते चलन इवाकर्त्रात्मस्वरूपालोचनेन वस्तुतः कर्माभावं तटस्थवृक्षादिष्विव यः पश्येत्पश्यति । तथा देहेन्द्रियादिषु त्रिगुणमायापरिणामत्वेन सर्वदा सव्यापारेषु निर्व्यापारस्तूष्णीं सुखमास इत्य- भिमानेन समारोपितेऽकर्मणि व्यापारोपरमे दूरस्थचक्षुःसंनिकृष्टपुरुषेषु गच्छत्स्वप्यगमन इव सर्वदा सव्यापारदेहेन्द्रियादिस्वरूपपर्यालोचनेन वस्तुगत्या कर्म निवृत्याख्यप्रयत्नरूपं व्यापारं यः पश्येदुदाहृतपुरुषेषु गमनमिव । औदासीन्यावस्थायामप्युदासीनोऽहमास इत्यभिमान एव कर्म । एतादृशः परमार्थदर्शी स बृद्धिमानित्यादिना बुद्धिमत्त्वयोगयुक्तत्वसर्वकर्मकृत्त्वैस्त्रिभिधर्मेः स्तूयते । अत्र प्रथमपादेन कर्मविकर्मणोस्तत्त्वं कर्मशब्दस्य विहितप्रतिषिद्धपरत्वात् , द्वितीयपादेन चाकर्मणस्तत्त्वं


दर्शितमिति द्रष्टव्यम् । तत्र यत्त्वं मन्यसे कर्मणो बन्धहेतुत्वात्तूष्णीमेव मया सुखेन स्थातव्यमिति तन्मृषा । असति कर्तृत्वाभिमाने विहितस्य प्रतिषिद्धस्य वा कर्मणे बन्धहेतुत्वाभावात् । तथा च व्याख्यातं न मां कर्माणि लिम्पन्तीत्यादिना । सति च कर्तृत्वाभिमाने तूष्णीमहमास इत्यौदासीन्याभिमानात्मकं यत्कर्म तदपि बन्धहेतुरेव वस्तुतत्त्वापरिज्ञानात् । तस्मात्कर्मविकर्माकर्मणां तत्त्वमीदृशं ज्ञात्वा विकर्माकर्मणी परित्यज्य कर्तृत्वाभिमानफलाभिसंधिहानेन विहितं कर्मैव कुर्वित्यभिप्रायः। अपरा व्याख्या-कर्मणि ज्ञानकर्मणि दृश्ये जडे सद्रूपेण स्फुरणरूपेण चानुस्यूतं सर्वभ्रमाधिष्ठानमकर्मावेद्यं स्वप्रकाशचैतन्यं परमार्थदृष्टया यः पश्येत् । तथाऽकर्मणि च स्वप्रकाशे दृग्वस्तुनि कल्पितं कर्म दृश्यं मायामयं न परमार्थसत्, दृग्दृश्ययोः संबन्धानुपपत्तेः-

यस्तु सर्वाणि भूतानि आत्मन्येवानुपश्यति ।
सर्वभूतेषु चाऽऽत्मानं ततो न विजुगुप्सते " इति श्रुतेः ॥

एवं परस्पराध्यासेऽपि शुद्धं वस्तु यः पश्यति मनुष्येषु मध्ये स एव बुद्धिमानान्यः । अस्य परमार्थदर्शित्वादन्यस्य चापरमार्थदर्शित्वात् । स च बुद्धिसाधनयोगयुक्तोऽन्तःकरणशुद्धचैकाग्रचित्तः । अतः स एवान्तःकरणशुद्धिसाधनकृत्स्नकर्मकृदिति वास्तवधर्मैरेव स्तूयते । यस्मादेवं तस्मात्त्वमपि परमार्थदशी भव तावतैव कृत्स्नकर्मकारित्वोपपत्तेरित्यभिप्रायः । अतो यदुक्तं यज्ज्ञात्वा मोक्ष्यसेऽशुभादिति, यच्चोक्तं कर्मादीनां तत्त्वं बोद्धव्यमस्तीति, स बुद्धिमानित्यादिस्तुतिश्च, तत्सर्वं, परमार्थदर्शने संगच्छते । अन्यज्ञानादशुभात्संसारान्मोक्षानुपपत्तेः । अतत्त्वं चान्यन्न बोद्धव्यं न वा तज्ज्ञाने बुद्धिमत्त्वमिति युक्तैव परमार्थदर्शिनां व्याख्या । यत्तु व्याख्यानं कर्मणि नित्ये परमेश्वरार्थेऽनुष्ठीयमाने बन्धहेतुत्वाभावादकर्मेदमिति यः पश्येत् । तथाऽकर्मणि च नित्यकर्माकरणे प्रत्यवायहेतुत्वेन कर्मेदमिति यः पश्येत्स बुद्धिमानित्यादि तदसंगतमेव । नित्यकर्मण्यकर्मेदमिति ज्ञानस्याशुभमोक्षहेतुत्वाभावात् , मिथ्याज्ञानत्वेन तस्यैवाशुभत्वाच्च । न चैतादृशं मिथ्याज्ञानं बोद्धव्यं तत्त्वं नाप्येतादृशज्ञाने बुद्धिमत्त्वादिस्तुत्युपपत्तिर्भ्रान्तत्वात् । नित्यकर्मानुष्ठान हि स्वरूपतोऽन्तःकरणशुद्धिद्वारोपयुज्यते न तत्राकर्मबुद्धिः कुत्राप्युपयुज्यते शास्त्रेण नामादिषु ब्रह्मदृष्टिवदविहितत्वात् । नापीदमेव वाक्यं तद्विधायकमुपक्रमादिविरोधस्योक्तेः । एवं नित्यकर्माकरणमपि स्वरूपतो नित्यकर्मविरुद्धकर्मलक्षकतयोपयुज्यते न तु तत्र कर्मदृष्टिः क्वाप्युपयुज्यते । नापि नित्यकर्माकरणात्प्रत्यवायः, अभावाद्भावोत्पत्त्ययोगात् । अन्यथा तदविशेषेण सर्वदा कार्योत्पत्तिप्रसङ्गात् । भावार्थाः कर्मशब्दास्तेभ्यः क्रिया प्रतीयेतेष ह्यर्थो विधीयत इति न्यायेन भावार्थस्यैवापूर्वजनकत्वात् । “ अतिरात्रे षोडशिनं न गृह्णाति" इत्यादावपि संकल्पविशेषस्यैवापूर्वजनकत्वाभ्युपगमात् , “नेक्षेतोद्यन्तमादित्यम्" इत्यादिप्रजापतिव्रतवत् । अतो नित्यकर्मानुष्ठानार्हे काले तद्विरुद्धतया यदुपवेशनादि कर्म तदेव नित्यकर्माकरणोपलक्षितं प्रत्यवायहेतुरिति वैदिकानां सिद्धान्तः । अत एवाकुर्वन्विहितं कर्मेत्यत्र लक्षणार्थे शता व्याख्यातः । “लक्षणहेत्वोः क्रियायाः" इत्यविशेषस्मरणेऽप्यत्र हेतुत्वानुपपत्तेः । तस्मान्मिथ्यादर्शनापनोदे प्रस्तुते मिथ्यादर्शनव्याख्यानं न शोभतेतराम् । नापि नित्यानुष्ठानपरमेवैतद्वाक्यं, नित्यानि कुर्यादित्यर्थे कर्मण्यकर्म यः पश्येदित्यादि तदबोधकं वाक्यं प्रयुञ्जानस्य भगवतः प्रतारकत्वापत्तेरित्यादि भाष्य एव विस्तरेण व्याख्यातमित्युपरम्यते ॥ १८ ॥

 श्री० टी०-तदेवं कर्मादीनां दुर्विज्ञे[१८४]यं तत्त्वं दर्शयन्नाह-कर्मण्यकर्मेति । परमेश्वराराधनलक्षणे कर्मणि विषयेऽकर्म कर्मेदं न भवतीति यः पश्येत्तस्य ज्ञानहेतुत्वेन बन्धकत्वाभावात् , अकर्मणि च विहिताकरणे कर्म यः प [१८५]श्येत्प्रत्यवा[१८६]यापादकत्वेन बन्धहेतुत्वात् , मनुष्येषु कर्म कुर्वाणेषु स बुद्धिमान्व्यवसायात्मकबुद्धिमत्त्वाच्छ्रेष्ठः । तं स्तौति-स युक्तो योगी तेन कर्मणा ज्ञानयोगावाप्तेः । स एव कृत्स्नकर्मकर्ता च सर्वतःसंप्लुतोदकस्थानीये तस्मिन्कर्मणि सर्वकर्मफलानामन्तर्भूतत्वात् । तदेवमारुरुक्षोः कर्मयोगाधिकारावस्थायां न कर्मणामनारम्भादित्यादिनोक्त एवं कर्मयोगः स्फुटीकृतः । तत्प्रपञ्चरूपत्वाच्चास्य प्रकरणस्य न पौनरुक्त्यदोषः । अनेनैव योगारूढावस्थायां यस्त्वात्मरतिरेव स्यादित्यादिना यः कर्मानुपयोग उक्तस्तस्याप्य- र्थात्प्रपञ्चः कृतो वेदितव्यः । यदाऽऽरुरुक्षोरपि कर्म बन्धकं न भवति तदाऽऽ रूढस्य कुतो बन्धकं स्यादित्यत्रापि श्लोको योज्यते-कर्मणि देहेन्द्रियादिव्यापारे वर्तमानेऽप्यात्मनो देहादिव्यतिरेकानुभवेनाकर्म स्वाभाविकं नैष्कर्म्यमेव यः पश्येत् , तथाऽकर्मणि च ज्ञानरहिते दुःखबुद्ध्या कर्मणां त्यागे कर्म यः पश्येत्तस्य प्रतिबन्धकत्वेन मिथ्याचारत्वात् । तदुक्तं-" कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् " इति । य एवंभूतः स तु सर्वेषु मनुष्येषु बुद्धिमान्पण्डितः । तत्र हेतुः-यतः कृत्स्नानि सर्वाणि यदृच्छया प्राप्तान्याहारादीनि कर्माणि कुर्वन्नपि स युक्त एवाकात्मज्ञानेन समाधिस्थ एवेत्यर्थः । अनेनैव ज्ञानिनः स्वभावादापन्नं कलञ्जभक्षणादिकं न [१८७]दोषोऽज्ञस्य तु रागतः कृतं दो[१८८]ष इति विकर्मणोऽपि तत्त्वं निरूपितं द्रष्टव्यम् ॥ १८ ॥

 म. टी.तदेतत्परमार्थदर्शिनः कर्तृत्वाभिमानामावेन कर्मालिप्तत्वं प्रपञ्च्यते ब्रह्मकर्मसमाधिनेत्यन्तेन-


यस्य सर्वे समारम्भाः कामसंकल्पवर्जिताः ॥
ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः ॥ १९ ॥

 यस्य पूर्वोक्तपरमार्थदर्शिनः सर्वे यावन्तो वैदिका लौकिका वा समारम्भाः समारभ्यन्त इति व्युत्पत्त्या कर्माणि कामसंकल्पवर्जिताः कामः फलतृष्णा संकल्पोऽहं करोमीति कर्तृत्वाभिमानस्ताभ्यां वर्जिताः । लोकसंग्रहार्थं वा जीवनमात्रार्थ वा प्रारब्धकर्मवेगाद्वृथाचेष्टारूपा भवन्ति । तं कर्मादावकर्मादिदर्शनं ज्ञानं तदेवाग्निस्तेन दग्धानि शुभाशुभलक्षणानि कर्माणि यस्य " तदधिगम उत्तरपूर्वाधयोरश्लेषविनाशौ तद्व्यपदेशात् " इति न्यायात् , ज्ञानाग्निदग्धकर्माणं तं बुधा ब्रह्मविदः परमार्थतः पण्डितमाहुः । सम्यग्दर्शी हि पण्डित उच्यते न तु भ्रान्त इत्यर्थः ॥ १९ ॥

 श्री०टी०---कर्मण्यकर्म यः पश्येदितिश्रुत्यर्था[१८९]भ्यां यदुक्तमर्थद्वयं तदेव स्पष्टयति यस्येत्यादिपञ्चभिः--सम्यगारभ्यन्त इति समारम्भाः कर्माणि काम्यत इति कामः फलं तत्संकल्पेन वर्जिता यस्य भवन्ति तं पण्डितमाहुः । तत्र हेतुः-यतस्तैः समारम्भैः शुद्धे चित्ते सति जातेन ज्ञानाग्निना दग्धानि अकर्मतां नीतानि कर्माणि यस्य तम् । आरूढावस्थायां तु कामः फलविषयस्तदर्थमिदं कर्तव्यमिति कर्मविषयः संकल्पश्च ताभ्यां वर्जिताः । शेषं स्पष्टम् ॥ १९ ॥

 म. टी.-भवतु ज्ञानाग्निना प्राक्तनानामप्रारब्धकर्मणां दाह आगामिनां चानु- त्पत्तिः । ज्ञानोत्पत्तिकाले क्रियमाणं तु पूर्वोत्तरयोरनन्तर्भावात्फलाय भवेदिति भवेत्क- स्यचिदाशङ्का तामपनुदति-

त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः ॥
कर्मण्यभिप्रवृत्तोऽपि नैव किंचित्करोति सः॥२०॥

 कर्मणि फले चाऽऽसङ्गं कर्तृत्वाभिमानं भोगाभिलाषं च त्यक्त्वाऽकर्त्रभोक्त्रात्मसम्यग्दर्शनेन बाधित्वा नित्यतृप्तः परमानन्दस्वरूपलाभेन सर्वत्र निराकाङ्क्षः । निराश्रय आश्रयो देहेन्द्रियादिरद्वैतदर्शनेन निर्गतो यस्मात्स निराश्रयो देहेन्द्रियाद्यभिमानशून्यः। फलकामनायाः कर्तृत्वाभिमानस्य च निवृत्तौ हेतुगर्भ क्रमेण विशेषणद्वयम् । एवंभूतो जीवन्मुक्तो व्युत्त्थानदशायां कर्मणि वैदिके लौकिके वाऽभिप्रवृत्तोऽपि प्रारब्धकर्मवशाल्लोकदृष्टयाऽभितः साङ्गोपाङ्गानुष्ठानाय प्रवृत्तोऽपि स्वदृष्ट्या नैव किंचित्करोति स निष्क्रियात्मदर्शनेन बाधितत्वादित्यर्थः ॥ २० ॥

 श्री०टी०-किं च-त्यक्त्वेति । कर्मणि तत्फले चाऽऽसक्तिं त्यक्त्वा नित्येन निजानन्देन तृप्तः । अत एव योगक्षेमार्थमाश्रयणीयरहितः । एवंभूतो यः स स्वाभाविके


विहिते[१९०] वा कर्मणि अभितः प्रवृत्तोऽपि किंचिदपि नैव करोति तस्य कर्माकर्मतामापद्यत इत्यर्थः ॥ २० ॥

 म० टी०~यदाऽत्यन्तविक्षेपहेतोरपि ज्योतिष्टोमादेः सम्यग्ज्ञानव[१९१]शान्न तत्फलजनकत्वं तदा शरीरस्थितिमात्रहेतोरविक्षेपकस्य भिक्षाटनादेर्नास्त्येव बन्धहेतुत्वमिति कैमुत्यन्यायेनाऽऽह-

निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः ॥
शारीरं केवलं कर्म कुर्वन्नाऽऽप्नोति किल्बिषम् ॥२१॥

 निराशीर्गततृष्णो यतचित्तात्मा चित्तमन्तःकरणमात्मा बाह्येन्द्रियसहितो देहस्तौ संयती प्रत्याहारेण निगृहीती येन सः। यतो जितेन्द्रियोऽतो विगततृष्णत्वात्त्यक्तर्वपरिग्रहस्त्यक्ताः सर्वे परिग्रहा भोगोपकरणानि येन सः । एतादृशोऽपि प्रारब्धकर्मवशाच्छारीरं शरीरस्थितिमात्रप्रयोजनं कौपीनाच्छादनादिग्रहणभिक्षाटनादिरूपं यति प्रति शास्त्राभ्यनुज्ञातं कर्म कायिकं वाचिकं मानसं च, तदपि केवलं कर्तृत्वाभिमानशून्यं पराध्यारोपितकर्तृत्वेन कुर्वन्परमार्थतोऽकर्त्रात्मदर्शनान्नाऽऽप्नोति न प्राप्नोति किल्बिषं धर्माधर्मफलभूतमनिष्टं संसारं पापवत्पुण्यस्याप्यनिष्टफलत्वेन किल्विषत्वात् । ये तु शरीरनिर्वर्त्य शारीरमिति व्याचक्षते तन्मते केवलं कर्म कुर्वन्नित्यतोऽधिकार्थालाभादव्यावर्तकत्वेन शारीरपदस्य वैयर्थ्यम् । अथ वाचिकमानसिकव्यावर्तनार्थमिति ब्रूयात्तदा कर्मपदस्थ विहितमात्रपरत्वेन शारीरं विहितं कर्म कुर्वन्नाऽऽप्नोति किल्विषमित्यप्रसक्तप्रतिषेधोऽनर्थकः । वाचिकं मानसं च विहितं कर्म कुर्वन्प्राप्नोति किल्विषमिति च शास्त्रविरुद्धमुक्तं स्यात् । विहितप्रतिषिद्धसाधारणपरत्वेऽप्येवमेव व्याघात इति भाष्य एव विस्तरः ॥ २१ ॥

 श्री०टी०-किं च-निराशीरिति । निर्गता आशिषः कामना यस्मात् । यतं नियतं चित्तमात्मा च शरीरं यस्य । त्यक्ताः सर्वे परिग्रहा येन सः । शारीरं शरीरमात्रनिर्वर्त्यं कर्तत्वाभिनिवेशरहितं कर्म कुर्वन्नपि किल्विषं बन्धनं न प्राप्नोति । योगारूढपक्षे शरीरनिर्वाहमात्रोपयोगि स्वाभाविकं भिक्षाटनादिकर्म कुर्वन्नपि किल्विषं विहिताकरणनिमित्तं दोषं न प्राप्नोतीति ॥ २१ ॥

 म० टी०-त्यक्तसर्वपरिग्रहस्य यतेः शरीरस्थितिमात्रप्रयोजनं कर्माभ्यनुज्ञातं तत्रान्नाच्छादनादिव्यतिरेकेण शरीरस्थितेरसंभवाद्याच्ञादिनाऽपि स्वप्रयत्नेनान्नादिक संपाद्यमिति प्राप्ते नियमायाऽऽह-


यदृच्छालामसंतुष्टो द्वंद्वातीतो विमत्सरः ॥
समः सिद्धावसिद्धौ च कृत्वाऽपि न निबध्यते ॥२२॥

 शास्त्राननुमतप्रयत्नव्यतिरेको यदृच्छा तयैव यो लाभोऽन्नाच्छादनादेः शास्त्रानुमतस्य स यदृच्छालामस्तेन संतुष्टस्तदधिकतृष्णारहितः । तथा च शास्त्रं " भैक्षं चरेत् " इति प्रकृत्य " अयाचितमसंकृप्तमुपपन्नं यदृच्छया ” इति याच्यासंकल्पादिप्रयत्नं वारयति । मनुरपि-

"न चोत्पातनिमित्ताभ्यां न नक्षत्राङ्गाविद्यया ।
नानुशासनवादाभ्यां भिक्षां लिप्सेत कर्हिचित्" इति ॥

 यतयो भिक्षार्थं ग्रामं विशन्तीत्यादिशास्त्रानुमतस्तु प्रयत्नः कर्तव्य एव । एवं लब्धव्यमपि शास्त्रनियतमेव-

"कौपीनयुगलं वासः कन्थां शीतनिवारिणीम् ।
पादुके चापि गृह्णीयात्कुर्यान्नान्यस्य संग्रहम् " इत्यादि ॥

 एवमन्यदपि विधिनिषेधरूपं शास्त्रमूह्यम् । ननु स्वप्रयत्नमन्तरेणालाभे शीतोष्णादिपीडितः कथं जीवेदत आह-द्वंद्वातीतः, द्वंद्वानि क्षुत्पिपासाशीतोष्णवर्षादीनि अतीतोऽतिक्रान्तः समाधिदशायां तेषामस्फुरणात् । व्युत्त्थानदशायां स्फुरणेऽपि परमानन्दाद्वितीयाकर्त्रभोक्त्रात्मप्रत्ययेन बाधात्तैर्द्वद्वैरुपहन्यमानोऽप्यक्षुभितचित्तः । अत एव परस्य लाभे स्वस्यालाभे च विमत्सरः परोत्कर्षासहनपूर्विका स्वोत्कर्षवाञ्छा मत्सरस्तद्रहितोऽद्वितीयात्मदर्शनेन निर्वैरबुद्धिः । अत एव समस्तुल्यो यदृच्छालाभस्य सिद्धावसिद्धौ च सिद्धौ न हृष्टो नाप्यसिद्धौ विषण्णः स स्वानुभवेनाकर्तैव परैरारोपितकर्तृत्वः शरीरस्थितिमात्रप्रयोजनं भिक्षाटनादिरूपं कर्म कृत्वाऽपि न निबध्यते बन्धहेतोः सहेतुकस्य कर्मणो ज्ञानाग्निना दग्धत्वादिति पूर्वोक्तानुवादः ॥ २२ ॥

 श्री०टी०-किं च-यदृच्छति । अप्रार्थितोपस्थितो लाभो यदृच्छालामस्तेन संतुष्टः । द्वंद्वानि शीतोष्णादीन्यतीतोऽतिक्रान्तस्तत्सहनशील इत्यर्थः । विमत्सरो निर्वैरः । यदृच्छालाभस्यापि सिद्धावसिद्धौ च समो हर्षविषादरहितः । य एवंभूतः स पूर्वोत्तरभूमिकयोर्यथायथं विहितं स्वाभाविकं वा कर्म कृत्वाऽपि न बन्धं प्राप्नोति ॥ २२ ॥

 म०टी०-त्यक्तसर्वपरिग्रहस्य यदृच्छालामसंतुष्टस्य यतेर्यच्छरीरस्थितिमात्रप्रयोजनं भिक्षाटनादिरूपं कर्म तत्कृत्वा न निबध्यत इत्युक्ते गृहस्थस्य ब्रह्मविदो जनकादेर्यज्ञादिरूपं यत्कर्म तद्वन्धहेतुः स्यादिति भवेत्कस्यचिदाशङ्का तामपनेतुं त्यक्त्वा कर्मफलासङ्गमित्यादिनोक्तं विवृणोति

गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः ॥
यज्ञायाऽऽचरतः कर्म समग्रं प्रविलीयते ॥ २३ ॥

 गतसङ्गस्य फलासङ्गशून्यस्य मुक्तस्य कर्तृत्वभोक्तृत्वाद्यध्यासशून्यस्य ज्ञानावस्थितचेतसो निर्विकल्पकब्रह्मात्मैक्यबोध एव स्थितं चित्तं यस्य तस्य स्थितप्रज्ञस्येत्यर्थः । उत्तरोत्तरविशेषणस्य पूर्वपूर्वहेतुत्वेनान्वयो द्रष्टव्यः । गतसङ्गत्वं कुतो यतोऽध्यासहीनत्वं तत्कुतो यतः स्थितप्रज्ञत्वमिति । ईदृशस्यापि प्रारब्धकर्मवशाद्यज्ञाय यज्ञसंरक्षणार्थ ज्योतिष्टोमादियज्ञे श्रेष्ठाचारत्वेन लोकप्रवृत्त्यर्थं यज्ञाय विष्णवे तत्प्रीत्यर्थमिति वा । आचरतः कर्म यज्ञदानादिकं समग्रं सहाग्रेण फलेन विद्यत इति समग्रं प्रविलीयते प्रकर्षण कारणोच्छेदेन तत्त्वदर्शनाद्विलीयते विनश्यतीत्यर्थः ॥ २३ ॥

 श्री० टी०-किं च-गतसङ्गस्येति । गतसङ्गस्य निष्कामस्य रागादिभिर्मुक्तस्य ज्ञानेऽवस्थितं चेतो यस्य तस्य यज्ञाय परमेश्वरार्थ कर्माऽऽचरतः सतः समग्रं सवासनं कर्म प्रविलीयतेऽकर्मभावमापद्यते । आरूढयोगपक्षे यज्ञायेति यज्ञसंरक्षणार्थं लोकसंग्रहार्थमेव कर्म कुर्वत इत्यर्थः ॥ २३ ॥

 म०टी०-ननु क्रियमाणं कर्म फलमजनयित्वैव कुतो नश्यति ब्रह्मबोधे तत्कारणोच्छेदादित्याह-

ब्रह्मार्पणं ब्रह्म हविब्रह्माग्नौ ब्रह्मणा हुतम् ॥
ब्रह्मैव तेन गन्तव्यं ब्रह्म कर्मसमाधिना ॥ २४॥

 अनेककारकासाध्या हि यज्ञादिक्रिया भवति । देवतोद्देशेन हि द्रव्यत्यागो यागः । स एव त्यज्यमानद्रव्यस्याग्नौ प्रक्षेपाद्धोम इत्युच्यते । तत्रोद्देश्या देवता संप्रदानं, त्यज्यमानं द्रव्यं हविःशब्दवाच्यं साक्षाद्धात्वर्थकर्म, तत्फलं तु स्वर्गादि व्यवहितं भावनाकर्म । एवं धारकत्वेन हविषोऽग्नौ प्रक्षेपे साधकतमतया जुह्वादि करणं प्रकाशकतया मन्त्रादीति करणमपि कारकज्ञापकभेदेन द्विविधम् । एवं त्यागोऽग्नौ प्रक्षेपश्च द्वे क्रिये । तत्राऽऽद्यायां यजमानः कर्ता । प्रक्षेपे तु यजमानपरिक्रीतोऽध्वर्युः । प्रक्षेपाधिकरणं चाग्निः । एवं देशकालादिकमप्यधिकरणं सर्वक्रियासाधारणं दृष्टव्यम् । तदेवं सर्वेषां क्रियाकार[१९२]कादिव्यवहाराणां ब्रह्माज्ञानकल्पितानां रज्ज्वज्ञान कल्पितानां सर्पधारादण्डादीनां रज्जुतत्त्वज्ञानेनेव ब्रह्मतत्त्वज्ञानेन बाधे बाधितानुवृत्त्या क्रियाकारकादिव्यवहाराभासो दृश्यमानोऽपि दग्धपटन्यायेन न फलाय कल्पत इत्यनेन श्लोकेन प्रतिपाद्यते । ब्रह्मदृष्टिरेव च सर्वयज्ञात्मिकेति स्तूयते । तथाहि-अर्प्येतेऽनेनेति करण-



व्युत्पत्त्याऽर्पणं जुह्वादि मन्त्रादि च । एवमर्प्यतेऽस्मा इति व्युत्पत्त्याऽर्पणं देवतारूपं संप्रदानम् । एवमर्प्यतेऽस्मिन्निति व्युत्पत्त्याऽर्पणमधिकरणं देशकालादि । तत्सर्व ब्रह्मणि कल्पितत्वाद्ब्रह्मेव रज्जुकल्पितभुजंगवदधिष्ठानव्यतिरेकेणासदित्यर्थः । एवं हविस्त्यागप्रक्षेपक्रिययोः साक्षात्कर्म कारकं तदपि ब्रह्मैव । एवं यत्र प्रक्षिप्यतेऽग्नौ सोऽपि ब्रह्मैव । ब्रह्मान्नाविति समस्तं पदम् । तथा येन कर्त्रा यजमानेनाध्वर्युणा च त्यज्यते प्रक्षिप्यते च तदुभयमपि कर्तृकारकं कर्तरि विहितया तृतीययाऽनूद्य ब्रह्मेति विधीयते ब्रह्मणेति । एवं हुतमिति हवनं त्यागक्रिया प्रक्षेपक्रिया च तदपि ब्रह्मैव । तथा तेन हवनेन यद्गन्तव्यं स्वर्गादि व्यवहितं कर्म तदपि ब्रह्मैव । अत्रत्य एवकारः सर्वत्र संबध्यते । हुतमित्यत्रापीत एव ब्रह्मेत्यनुषज्यते । व्यवधानाभावात्साकाङ्क्षत्वाच्च "चित्पतिस्त्वा पुनातु" इत्यादावच्छिद्रेणेत्यादिपरवाक्यशेषवत् । अनेन रूपेण कर्मणि समाधिर्ब्रह्मज्ञानं यस्य स कर्मसमाधिस्तेन ब्रह्मविदा कर्मानुष्ठात्राऽपि ब्रह्म परमानन्दाद्वयं गन्तव्यमित्यनुपज्यते । साकाङ्क्षवाद[१९३]व्यवधानाच्च या ते अग्ने रजाशयेत्यादौ तनूर्वषिष्ठेत्यादिपूर्ववाक्यशेषवत् । अथवाऽप्यतेऽस्मै फलायेति व्युत्पत्त्याऽर्पणपदेनैव स्वर्गादिफलमपि ग्राह्यम् । तथा च "ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्म समाधिना" इत्युत्तरार्धं ज्ञानफलकथनायैवेति समञ्जसम् । अस्मिन्पक्षे ब्रह्मकर्मसमाधिनेत्येकं वा पदम् । पूर्व ब्रह्पदं हुतमित्यनेन संबध्यते चरमं गन्तव्यपदेनेति भिन्नं वा पदम् । एवं च नानुषङ्गद्वयक्लेश इति द्रष्टव्यम् । ब्रह्म गन्तव्यमित्यभेदेनैव तत्प्राप्तिरुपचारात् । अत एव न स्वर्गादि तुच्छफलं तेन गन्तव्यं विद्ययाऽऽविद्यककारकव्यवहारोच्छेदात् । तदुक्तं वार्तिककृद्भिः-

कारकव्यवहारे हि शुद्धं वस्तु न वीक्ष्यते ।
शुद्धे वस्तुनि सिद्धे च कारकव्यापृतिः कुतः" इति ॥

 अर्पणादिकारकस्वरूपानुपमर्दैनैव तत्र नामादाविव ब्रह्मदृष्टिः क्षिप्यते संपन्मात्रेण फलविशेषायेति केषांचियाख्यानं भाष्यकृद्भिरेव निराकृतमुपक्रमादिविरोधाद्रह्मविद्याप्र- करणे संपन्मात्रस्याप्रसक्तत्वादित्यादियुक्तिभिः ॥ २४ ॥

 श्री०टी०–तदेवं परमेश्वराराधनलक्षणं कर्म ज्ञानहेतुत्वेन बन्धकत्वाभावादकर्मैव । आरूढावस्थायां त्वकर्तात्मज्ञानेन बाधितत्वात्स्वाभाविकमपि कर्माकमैवेति कर्मण्यकर्म यः पश्येदित्यनेनोक्तः कर्मप्रविलयः प्रपञ्चितः । इदानीं कर्मणि तदनेषु च ब्रह्मैवानुस्यूतं पश्यतः कर्मप्रविलयमाह-ब्रह्मार्पणमिति । अर्प्यतेऽनेनेत्यर्पणं [१९४]स्नुवादि तदपि ब्रह्मैव । अर्घ्यमाणं हविरपि घृतादिकं ब्रह्मैव । ब्रह्मैवाग्निस्तस्मिन्ब्रह्मणा कर्त्रा


हुतं होमः । अग्निश्च कर्ता च क्रिया च ब्रह्मैवेत्यर्थः । एवं ब्रह्मण्येव कर्मात्मके समाधिश्चित्तैकाग्र्यं यस्य तेन ब्रह्मैव गन्तव्यं प्राप्यं न तु फलान्तरमित्यर्थः ॥ २४ ॥

 म०टी०-अधुना सम्यग्दर्शनस्य यज्ञरूपत्वेन स्तावकतया ब्रह्मार्पणमन्त्रे स्थिते पुनरपि तस्य स्तुत्यर्थमितरान्यज्ञानुपन्यस्यति-

दैवमेवापरे यज्ञं योगिनः पर्युपासते ॥
ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति ॥ २५ ॥

 देवा इन्द्राग्न्यादय इज्यन्ते येन स दैवस्तमेव यज्ञं दर्शपूर्णमासज्योतिष्टोमादिरूपमपरे योगिनः कर्मिणः पर्युपासते सर्वदा कुर्वन्ति न ज्ञानयज्ञम् । एवं कर्मयज्ञमुक्त्वान्तःकरणशुद्धिद्वारेण तत्फलभूतं ज्ञानयज्ञमाह-ब्रह्माग्नौ सत्यज्ञानानन्तानन्दरूपं निरस्तसमस्तविशेषं ब्रह्म तत्पदार्थस्तस्मिन्नग्नौ यज्ञं प्रत्यगात्मानं त्वंपदार्थं यज्ञेनैव, यज्ञशब्द आत्मनामसु यास्केन पठितः । इत्थंभूतलक्षणे तृतीया । एवकारो भेदाभेदव्यावृत्त्यर्थः । त्वंपदार्थाभेदेनैवोपजुह्वति तत्स्वरूपतया पश्यन्तीत्यर्थः । अपरे पूर्वविलक्षणास्तत्त्वदर्शननिष्ठाः संन्यासिन इत्यर्थः । जीवब्रह्माभेददर्शनं यज्ञत्वेन संपाद्य तत्साधनयज्ञमध्ये पठ्यते श्रेयान्द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञ इत्यादिना स्तोतुम् ॥ २५ ॥

 श्री०टी०-एतदेव यज्ञत्वेन संपादितं सर्वत्र ब्रह्मदर्शनलक्षणं ज्ञानं सर्वयज्ञोपायप्राप्यत्वात्सर्वयज्ञेभ्यः श्रेष्ठमित्येवं स्तोतुमधिकारिभेदेन ज्ञानोपायभूतान्बहून्यज्ञानाह दैव[१९५]मि[१९६]त्या [१९७]दिभिः श्लोकैः-देवा इन्द्रवरुणादय इज्यन्ते यस्मिन् । एवकारेणेन्द्रादिषु ब्रह्मबुद्धिराहित्यं दर्शितम् । तं दैवमेव यज्ञमपरे कर्मयोगिनः(गः) पर्युपासते श्रद्धयाऽनुतिष्ठन्ति । अपरे तु ज्ञानयोगिनो ब्रह्मरूपेऽग्नौ यज्ञेनैवो [१९८] पायभूतेन ब्रह्मार्पणमित्युक्तप्रकारेण यज्ञमुपजुह्वति यज्ञादिसर्वकर्माणि प्रविलापयन्तीत्यर्थः । सोऽयं ज्ञानयज्ञः ॥ २५ ॥

 म० टी०-तदनेन मुख्यगौणौ द्वौ यज्ञौ दर्शितौ । यावद्धि किंचिद्वैदिकं श्रेयःसा- धनं तत्सर्वं यज्ञत्वेन संपाद्यते । तत्र

श्रोत्रादीनीन्द्रियाण्यन्ये संयमामिषु जुह्वति ॥
शब्दादीन्विषयानन्य इन्द्रियाग्निषु जुह्वति ॥ २६ ॥

 श्रोत्रादीनि ज्ञानेन्द्रियाणि तानि शब्दादिविषयेभ्यः प्रत्याहृत्यान्ये प्रत्याहारपराः संयमाग्निषु, धारणा ध्यानं समाधिरिति त्रयमेकविषयं संयमशब्देनोच्यते । तथा चाऽऽह भगवान्पतञ्जलिः--" त्रयमेकत्र संयमः” इति । तत्र हृत्पुण्डरीकादौ मनस-


श्चिरकालस्थापनं धारणा । एवमेकत्र धृतस्य चित्तस्य भगवदाकारवृत्तिप्रवाहोऽन्तराऽन्तराऽन्याकारप्रत्ययव्यवहितो ध्यानम् । सर्वथा विजातीयप्रत्ययानन्तरितः सजातीयप्रत्ययप्रवाहः समाधिः । स तु चित्तभूमिभेदेन द्विविधः संप्रज्ञातोऽसंप्रज्ञातश्च । चित्तस्य

हि पञ्च भूमयो भवन्ति क्षिप्तं मूढं विक्षिप्तमेकाग्रं निरुद्धमिति । तत्र रागद्वेषादिवशाद्विषयेष्वभिनिविष्टं क्षिप्तं, तन्द्रादिप्रस्तं मूढं, सर्वदा विषयासक्तमपि कदाचिद्ध्याननिष्ठं क्षिप्ताद्विशिष्टतया विक्षिप्तं, तत्र क्षिप्तमूढयोः समाधिशङ्कैव नास्ति । विक्षिप्ते तु चेतसि कादाचित्कः समाधिर्विक्षेपप्राधान्याद्योगपक्षे न वर्तते । किं तु तीव्रपवनविक्षिप्तप्रदीपवत्स्वयमेव नश्यति । एकाग्रं तु एकविषयकधारावाहिकवृत्तिप्तमर्थं सत्त्वोद्रेकेण तमोगुणकृततन्द्रादिरूपलयाभावादात्माकारा वृत्तिः । सा च रजोगुणकृतचाञ्चल्यरूपविक्षेपामावादेकविषयैवेति शुद्धे सत्त्वे भवति चित्तमेकाग्रम् । अस्यां भूमौ संप्रज्ञातः समाधिः । तत्र ध्येयाकारा वृत्तिरपि भासते । तस्या अपि निरोधे निरुद्धं चित्तमसंप्रज्ञातसमाधिभूमिः । तदुक्तम् "तस्या अपि निरोधे सर्ववृत्तिनिरोधान्निर्बीजः समाधिः" इति । अयमेव सर्वतो विरक्तस्य समाधिफलमपि सुखमनपेक्षमाणस्य योगिनो दृढभूमिः सन्धर्ममेव इत्युच्यते । तदुक्तम्-"प्रसंख्यानेऽप्यकुसीदस्य सर्वथाविवेकख्यातेधर्ममेघः समाधिः, ततः क्लेशकर्मनिवृत्तिः" इति । अनेकरूपेण संयमानां भेदादग्निष्विति बहुवचनम् । तेषु इन्द्रियाणि जुह्वति धारणाध्यानसमाधिसिद्ध्यर्थं सर्वाणीन्द्रियाणि स्वस्वविषयेभ्यः प्रत्याहरन्तीत्यर्थः । तदुक्तम्-" स्वस्वविषयासंप्रयोगे चित्तरूपानुकार एवेन्द्रियाणां प्रत्याहारः” इति । विषयेभ्यो निगृहीतानीन्द्रियाणि चित्तरूपाण्येव भवन्ति । ततश्च विक्षेपाभावाच्चि[१९९]त्तं धारणादिकं निर्वहतीत्यर्थः । तदनेन प्रत्याहारधारणाध्यानसमाधिरूपं योगाङ्गचतुष्टयमुक्तम् । तदेवं समाध्यवस्थायां सर्वेन्द्रियवृत्तिनिरोधो यज्ञत्वेनोक्तः । इदानी व्युत्थानावस्थायां रागद्वेषराहित्येन विषयभोगो यः सोऽप्यपरो यज्ञ इत्याह-शब्दादीन्विषयानन्य इन्द्रियाग्निषु जुह्वति अन्ये व्युत्थितावस्थाः श्रोत्रादिभिरविरुद्धविषयग्रहणं स्पृहाशून्यत्वे[२००]नान्यसाधारणं कुर्वन्ति । स एव तेषां होमः ॥ २६ ॥

 श्री०टी०-श्रोत्रादीनीति । अन्ये नैष्ठिकब्रह्मचारिणस्तत्तदिन्द्रियसंयमरूपेष्वग्निषु श्रोत्रादीनि जुह्वति प्रविलापयन्ति । इन्द्रियाणि निरुध्य संयमप्रधानास्तिष्ठन्तीत्यर्थः । इन्द्रियाण्येवाग्नयस्तेषु शब्दादीनन्ये गृहस्था जुह्वति । विषयभोगसमयेऽप्यनासक्ताः सन्तोऽग्नित्वेन भावितेष्विन्द्रियेषु हविष्ट्वेन भाविताशब्दादीन्प्रक्षिपन्ती- त्यर्थः ॥ २६ ॥

 म०टी०-तदेवं पातञ्जलमतानुसारेण लयपूर्वकं समाधिं ततो व्युत्थानं च यज्ञ-


द्वयमुक्त्वा ब्रह्मवादिमतानुसारेण बाधपूर्वकं समाधिं कारणोच्छेदेन व्युत्थानशून्यं फलभूतं यज्ञान्तरमाह-

सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे ॥
आत्मसंयमयोगानौ जुह्वति ज्ञानदीपिते ॥२७॥

 द्विविधो हि समाधिर्भवति लयपूर्वको बाधपूर्वकश्च । तत्र " तदनन्यत्वमारम्भ ब्दादिभ्यः" इति न्यायेन कारणव्यतिरेकेण कार्यस्यासत्त्वात्पञ्चीकृतपञ्चभूतकार्य व्य रूपं समष्टिरूपविराट्कार्यत्वात्तव्यतिरेकेण नास्ति । तथा समष्टिरूपमपि पञ्चीकृतपञ्च भूतात्मकं कार्यमपञ्चीकृतपञ्चमहाभूतकार्यत्वात्तव्यतिरेकेण नास्ति । तत्रापि पृथि शब्दस्पर्शरूपरसगन्धाख्यपञ्चगुणा गन्धेतरचतुर्गुणापकार्यत्वात्तद्व्यतिरेकेण नास्ति । तार तुर्गुणा आपो गन्धरसेतरत्रिगुणात्मकतेजःकार्यत्वात्तव्यतिरेकेण न सन्ति । तद त्रिगुणात्मकं तेजो गन्धरसरूपेतरद्विगुणवायुकार्यत्वात्तव्द्यतिरेकेण नास्ति । सोऽ। द्विगुणात्मको वायुः शब्दमात्रगुणाकाशकार्यत्वात्तव्यतिरेकेण नास्ति । स च शब्दगुण आकाशो बहु स्यामितिपरमेश्वरसंकल्पात्मकाहंकारकार्यत्वात्तद्व्यतिरेकेण नास्ति । सोड संकल्पात्मकोऽहंकारो मायेक्षणरूपमहत्तत्त्वकार्यत्वात्तद्व्यतिरेकेण नास्ति । तदपीक्षण रूपं महत्तत्वं मायापरिणामत्वात्तद्व्यतिरेकेण नास्ति । तदपि मायाख्यं कारणं जडत्वेन चैतन्येऽध्यस्तत्वात्तव्यतिरेकेण नास्तीत्यनुसंधानेन विद्यमानेऽपि कार्यकारणात्मके प्रपञ्चे चैतन्यमात्रगोचरो यः समाधिः स लयपूर्वक उच्यते । तत्र तत्त्वमस्यादिवेदान्तमहावाक्यार्थज्ञानाभावेनाविद्यातत्कार्यस्याक्षीणत्वात् । एवं चिन्तनेऽपि कारणसत्त्वेन पुनः कृत्स्नप्रपञ्चोत्थानादयं सुषुप्तिवत्सबीजः समाधिर्न मुख्यः । मुख्यस्तु तत्त्वमस्यादिमहावाक्यार्थसाक्षात्कारेणाविद्याया निवृत्तौ सर्गक्रमेण तत्कार्यनिवृत्तेरनाद्यविद्यायाश्च पुनरुस्थानाभावेन तत्कार्यस्यापि पुनरुत्थानाभावान्निर्बीजो बाधपूर्वकः समाधिः । स एवानेन श्लोकेन प्रदर्श्यते। तथाहि-सर्वाणि निखिलानि स्थूलरूपाणि संस्काररूपाणि चेन्द्रिय- कर्माणीन्द्रियाणां श्रोत्रत्वक्चक्षुरसनघ्राणाख्यानां पञ्चानां वाक्पाणिपादपायूूपस्थाख्यानां च पञ्चानां बाह्यानामान्तरयोश्च मनोबुद्योः कर्माणि शब्दश्रवणस्पर्शग्रहणरूपदर्शनरस- ग्रहणगन्धग्रहणानि वचनादानविहरणोत्सर्गानन्दाख्यानि च संकल्पाध्यवसायौ च । एवं प्राणकर्माणि च प्राणानां + प्राणापानव्यानोदानसमानाख्यानां पञ्चानां कर्माणि बहिर्नयनमधोनयनमाकुञ्चनप्रसारणादि अशितपीतसमनयनमूर्ध्वनयनमित्यादीनि । अनेन पञ्च ज्ञानेन्द्रियाणि पञ्च कर्मेन्द्रियाणि पञ्च प्राणा मनो बुद्धिश्चेति सप्तदशात्मकं लिङ्गमुक्तम् । तच्च सूक्ष्मभूतसमष्टिरूपं हिरण्यगर्भाख्यमिह विवक्षितमिति वदितुं सर्वा-


+ अत्र व्यानसमानोदानाख्यानामित्यपेक्षितम् ।

णीति विशेषणम् । आत्मसंयमयोगाग्नौ, आत्मविषयकः संयमो धारणाध्यानसंप्रज्ञातसमाधिरूपस्तत्परिपाके सति योगो निरोधसमाधिः। यं पतञ्जलिः सूत्रयामास-"व्युत्थाननिरोधसंस्कारयोरभिभवप्रादुर्भावौ निरोधक्षणचित्तान्वयो निरोधपरिणामः" इति ।व्युत्थानं क्षिप्तमूढविक्षिप्ताख्यं भूमित्रयं तत्संस्काराः समाधिविरोधिनस्ते योगिप्रयत्नेन प्रतिदिनं प्रतिक्षणं चाभिभूयन्ते । तद्विरोधिनश्च निरोधसंस्काराः प्रादुर्भवन्ति । ततश्च निरोधमात्रक्षणेन चित्तान्वयो निरोधपरिणाम इति । तस्य फलमाह-"ततः प्रशान्तवाहिता संस्कारात्" इति । तमोरजसोः क्षयालयविक्षेपशून्यत्वेन शुद्धसत्त्वरूपं चित्तं प्रशान्तमित्युच्यते । पूर्वपूर्वप्रशमसंस्कारपाटवेन तदाधिक्यं प्रशान्तवाहितेति । तत्कारणं च सूत्रयामास-"विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः " इति । विरामो वृत्त्युपरमस्तस्य प्रत्ययः कारणं वृत्त्युपरमार्थः पुरुषप्रयत्नस्तस्याभ्यासः पौनःपुन्येन संपादनं तत्पूर्वकस्तज्जन्योऽन्यः संप्रज्ञाताद्विलक्षणोऽसंप्रज्ञात इत्यर्थः । एतादृशो य आत्मसंयमयोगः स एवाग्निस्तस्मिज्ञानदीपिते ज्ञानं वेदान्तवाक्यजन्यो ब्रह्मात्मैक्यसाक्षात्कारस्तेनाविद्यातत्कार्यनाशद्वारा दीपितेऽत्यन्तोज्ज्वलिते बाधपूर्वके समाधौ समष्टिलिङ्गशरीरमपरे जुह्वति प्रविलापयन्तीत्यर्थः । अत्र च सर्वाणीति . आत्मेति ज्ञानदीपित इति विशेषणैरग्नावित्येकवचनेन च पूर्ववैलक्षण्यं सूचितमिति न पौनरुक्त्यम् ॥ २७ ॥

 श्री० टी०-सर्वाणीति । अपरे[२०१] ध्याननिष्ठा बुद्धीन्द्रियाणां श्रोत्रादीनां कर्माणि श्रवणदर्शनादीनि, कर्मेन्द्रियाणां वाक्पाण्यादीनां कर्माणि वचनोपादानादीनि[२०२] च, प्राणानां[२०३] च दशानां कर्माणि, प्राणस्य बहिर्गमनम्, अपानस्याधोनयनम्, व्यानस्य व्यानयनमाकुञ्चनप्रसारणादि, समानस्याशितपीता[२०४]नां सम्यङ्नयनम्, उदानस्योर्ध्वनयनम् ।

उद्गारे नाग आख्यातः कूर्म उन्मीलने स्मृतः ।
कृकरः क्षुतकृज्ज्ञेयो देवदत्तो विजृम्भणे ॥
न जहाति मृतं चापि सर्वव्यापी धनंजयः ॥

 इत्येवंरूपाणि जुह्वति । क्व, आत्मनि संयमो ध्यानैकाग्र्यं स एव योगः स एवा. ग्निस्तस्मिन् , ज्ञानेन ध्येयविषयेण दीपिते प्रज्वलिते ध्येयं सम्यग्ज्ञात्वा तस्मिन्मनः संयम्य तानि सर्वाणि कर्माण्युपरमयन्तीत्यर्थः ॥ २७ ॥

 म०टी०-एवं त्रिभिः श्लोकैः पञ्च यज्ञानुक्त्वाऽधुनैकेन श्लोकेन षड्यज्ञानाह--

द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथाऽपरे ॥
स्वाध्यायज्ञानयज्ञाश्च यतयः संशितव्रताः ॥२८॥


 द्रव्यत्याग एव यथाशास्त्रं यज्ञो येषां ते द्रव्ययज्ञाः पूर्तदत्ताख्यस्मार्तकर्मपराः । तथाच स्मृतिः-

"वापीकूपतडागादि देवतायतनानि च ।
अन्नप्रदानमारामः पूर्तमित्यभिधीयते ॥
शरणागतसंत्राणं भूतानां चाप्यहिंसनम् ।
बहिर्वेदि च यद्दानं दत्तमित्यभिधीयते " इति ॥

 इष्टाख्यं श्रौतं कर्म तु दैवमेवापरे यज्ञमित्यत्रोक्तम् । अन्तर्वेदि दानमपि तत्रैवान्तर्भूतम् । तथा कृच्छ्चान्द्रायणादि तप एव यज्ञो येषां ते तपोयज्ञास्तपस्विनः । तथा योगश्चित्तवृत्तिनिरोधोऽष्टाङ्गो यज्ञो येषां ते योगयज्ञा यमनियमासनादियोगाङ्गानुष्ठानपराः। यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयो हि योगस्याष्टावङ्गानि। तत्र प्रत्याहारः श्रोत्रादीनीन्द्रियाण्यन्य इत्यत्रोक्तः। धारणाध्यानसमाधय आत्मसंयमयोगानावित्यत्रोक्ताः । प्राणायामोऽपाने जुह्वति प्राणमित्यनन्तरश्लोके वक्ष्यते । यमनियमासनान्यत्रोच्यन्ते । अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः पञ्च । शौचसंतोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः पञ्च । स्थिरसुखमासनं पद्मकस्वस्तिकाद्यनेकविधम् । अशास्त्रीयः प्राणिवधो हिंसा । सा च कृतकारितानुमोदितभेदेन त्रिविधा । एवमयथार्थभाषणमवध्यहिंसानुबन्धि यथार्थभाषणं चानृतम् । स्तेयमशास्त्रीयमार्गेण परद्रव्यस्वीकरणम् । अशास्त्रीयः स्त्रीपुंसव्यतिकरो मैथुनम् । शास्त्र[२०५]निषिद्धमार्गेण देहयात्रानिर्वाहकाधिकभोगसाधनस्वीकारः परिग्रहः । एतन्निवृत्तिलक्षणा उपरमा यमाः। यम उपरमे " इति स्मरणात् । तथा शौचं द्विविधं बाह्यमाभ्यतरं च । मृज्जलादिभिः कायादिक्षालनं हितमितमेध्याशनादि च बाह्यं, मैत्रीमुदितादिभिर्मदमानादिचित्तमलक्षालनमान्तरं, संतोषो विद्यमानभोगोपकरणादधिकस्यानुपादित्सारूपा चित्तवृत्तिः। तपः क्षुत्पिपासाशीतोष्णादिद्वंद्वसहनं काष्ठमौनाकारमौनादिव्रतानि च । इङ्गितेनापि स्वाभिप्रायाप्रकाशनं काष्ठमौनमवचनमात्रमाकारमौनमिति भेदः । स्वाध्यायो मोक्षशास्त्राणामध्ययनं प्रणवजपो वा । ईश्वरप्रणिधानं सर्वकर्मणां तस्मिन्परमगुरौ फलनिरपेक्षतयाऽर्पणम् । एते विधिरूपा नियमाः। पुराणेषु येऽधिका उक्तास्त एष्वेव यमनियमेष्वन्तर्भाव्याः। एतादृशयमनियमाद्यभ्यासपरा योगयज्ञाः । स्वाध्यायज्ञानयज्ञाश्च यथाविधि वेदाभ्यासपराः स्वाध्याययज्ञाः । न्यायेन वेदार्थनिश्चयपरा ज्ञानयज्ञाः । यज्ञान्तरमाह-यतयो यत्नशीलाः संशितव्रताः सम्यक्शितानि तीक्ष्णीकृतान्यतिहढानि व्रतानि येषां ते संशितव्रता व्रतयज्ञा इत्यर्थः । तथा च भगवान्पतञ्जलि:-" ते जातिदेशकालसमयानवच्छिन्नाः सार्व-


भौमा महाव्रतम् " इति । ये पूर्वमहिंसाद्याः पञ्च यमा उक्तास्त एव जात्याद्यनवच्छेदेन दृढभूमयो महाव्रतशब्दवाच्याः । तत्राहिंसा जात्यवच्छिन्ना यथा मृगयोर्मृगातिरिक्तान्न हनिष्यामीति । देशावच्छिन्ना न तीर्थे हनिष्यामीति । सैव कालावच्छिन्ना यथा न चतुर्दश्यां न पुण्येऽहनीति । सैव प्रयोजनविशेषरूपसमयावच्छिन्ना यथा क्षत्रियस्य देवब्राह्मणप्रयोजनव्यतिरेकेण न हनिष्यामि युद्धं विना न हनिष्यामीति च। एवं विवाहादिप्रयोजनव्यतिरेकेणानृतं न वदिष्यामीति एवमापत्कालव्यतिरेकेणेक्षुद्धयाद्यतिरिक्तस्तेयं न करिष्यामीति एवमृतुव्यतिरिक्तकाले पत्नीं न गमिष्यामीति एवं गुर्वादिप्रयोजनमन्तरेण न परिग्रहीष्यामीति यथायोग्यमवच्छेदो द्रष्टव्यः । एतादृगवच्छेदपरिहारेण यदा सर्वजातिसर्वदेशसर्वकालसर्वप्रयोजनेषु भवाः सार्वभौमा अहिंसादयो भवन्ति महता प्रयत्नेन परिपाल्यमानत्वात् , तदा. ते महाव्रतशब्देनोच्यन्ते । एवं काष्ठमौनादिव्रतमपि द्रष्टव्यम् । एतादृशव्रतदार्ढ्ये च कामक्रोधलोभमोहानां चतुर्णामपि नरकद्वारभूतानां निवृत्तिः । तत्राहिंसया क्षमया क्रोधस्य, ब्रह्मचर्येण वस्तुविचारेण कामस्य, अस्तेयापरिग्रहरूपेण संतोषेण लोभस्य, सत्येन यथार्थज्ञानरूपेण विवेकेन मोहस्य, तन्मूलानां च सर्वेषां निवृत्तिरिति द्रष्टव्यम् । इतराणि च फलानि सकामानां योगशास्त्रे कथितानि ॥ २८ ॥

 श्री० टी०-किं च-द्रव्येति । द्रव्यदानमेव यज्ञो येषां ते द्रव्ययज्ञाः । कृच्छ्रचान्द्रायणादि तप एव यज्ञो येषां ते तपोयज्ञाः । योगश्चित्तवृत्तिनिरोधलक्षणः समाधिः स एव यज्ञो येषां ते योगयज्ञाः । स्वाध्यायेन वे[२०६]देन श्रवणमननादिना [२०७]यत्तदर्थज्ञानं[२०८] स एव यज्ञो येषां ते । अथवा वेदपाठयज्ञास्तदर्थज्ञानयज्ञाश्चेति द्विविधाः । यतयः प्रयत्नशीलाः सम्यक्शितं निशितं तीक्ष्णीकृतं व्रतं येषां ते ॥ २८ ॥

 म०टी०-प्राणायामयज्ञमाह सार्धेन-

अपाने जुह्वति प्राणं प्राणेऽपानं तथाऽपरे ॥
प्राणापानगती रुद्ध्वा प्राणायामपरायणाः ॥
अपरे नियताहाराः प्राणान्प्राणेषु जुह्वति ॥ २९ ॥

 अपानेऽपानवृत्तौ जुह्वति प्रक्षिपन्ति प्राणवृत्ति बाह्यवायोः शरीराभ्यन्तरप्रवेशेन पूरकाख्यं प्राणायाम कुर्वन्तीत्यर्थः । प्राणेऽपानं तथाऽपरे जुह्वति शारीरवायोर्बहिर्निर्गमनेन रेचकाख्यं प्राणायाम कुर्वन्तीत्यर्थः । पूरकरेचककथनेन च तदविनामूतो द्विविधः कुम्भकोऽपि कथित एव । यथाशक्ति वायुमापूर्यानन्तरं श्वासप्रश्वासनिरोधः क्रियमाणोऽन्तःकुम्भकः । यथाशक्ति सर्व वायुं विरिच्यानन्तरं क्रियमाणो बहिष्कु-


म्भकः । एतत्प्राणायामत्रयानुवादपूर्वकं चतुर्थं कुम्भकमाह-प्राणापानगती मुखनासिकाभ्यामान्तरस्य वायोर्बहिर्निर्गमः श्वासः प्राणस्य गतिः । बहिर्निर्गतस्यान्तःप्रवेशः प्रश्वासोऽपानस्य गतिः । तत्र पुरके प्राणगतिनिरोधः । रेचकेऽपानगतिनिरोधः । कुम्भके तूभयगतिनिरोध इति क्रमेण युगपञ्च श्वासप्रश्वासाख्ये प्राणापानगती रुद्ध्वा प्राणायामपरायणाः सन्तोऽपरे पूर्वविलक्षणा नियताहारा आहारनियमादियोगसाधनविशिष्टाः प्राणेषु बाह्याभ्यन्तरकुम्भकाभ्यासनिगृहीतेषु प्राणाज्ञानेन्द्रियकर्मेन्द्रियरूपाञ्जुह्वति चतुर्थकुम्भकाभ्यासेन विलापयन्तीत्यर्थः । तदेतत्सर्वं भगवता पतञ्जलिना संक्षेपविस्तराभ्यां सूत्रितम् । तत्र संक्षेपसूत्रम्" तस्मिन्सति श्वासप्रश्वासयोर्गतिविच्छेदलक्षणः प्राणायामः” इति । तस्मिन्नासने स्थिरे सति प्राणायामोऽनुष्ठेयः । कीदृशः, श्वासप्रश्वासयोर्गतिविच्छेदलक्षणः श्वासप्रश्वासयोः प्राणापानधर्मयोर्या गतिः पुरुषप्रयत्नमन्तरेण स्वाभाविकप्रवहणं क्रमेण युगपच्च पुरुषप्रयत्नविशेषेण तस्या विच्छेदो निरोध एव लक्षणं स्वरूपं यस्य स तथेति । एतदेव विवृणोति-"बाह्याभ्यन्तरस्तम्भवृत्तिर्देशकालसंख्याभिः परिदृष्टो दीर्घसूक्ष्मः " इति । बाह्यगतिनिरोधरूपत्वाबाह्यवृत्तिः पूरकः । आन्तरगतिनिरोधरूपत्वादान्तरवृत्ती रेचकः । कैश्चित्तु बाह्यशब्देन रेचक आन्तरशब्देन च पूरको व्याख्यातः । युगपदुभयगतिनिरोधः स्तम्भस्तद्वृत्तिः कुम्भकः । तदुक्तं यत्रोभयोः श्वासप्रश्वासयोः सकृदेव विधारकात्प्रयत्नादभावो भवति न पुनः पूर्ववदापूरणप्रयत्नौघविधारणं नापि रेचनप्रयत्नौघविधारणं, किं तु यथा तप्त उपले निहितं जलं परिशुष्यत्सर्वतः संकोचमापद्यत एवमयमपि मारुतो वहनशीलो बलवद्विधारकप्रयत्नावरुद्धक्रियः शरीर एव सूक्ष्मभूतोऽवतिष्ठते । न तु पूरयति येन पूरकः । न तु रेचयति येन रेचक इति । त्रिविधोऽयं प्राणायामो देशेन कालेन संख्यया च परीक्षितो दीर्घसूक्ष्मसंज्ञो भवति । यथा धनीभूतस्तूलपिण्डः प्रसार्यमाणो विरलतया दीर्घः सूक्ष्मश्च भवति तथा प्राणोऽपि देशकालसंख्याधिक्येनाभ्यस्यमानो दीर्धो दुर्लक्ष्यतया सूक्ष्मोऽपि संपद्यते । तथाहि-हृदयान्निर्गत्य नासाग्रसंमुखे द्वादशाङ्गुलपर्यन्ते देशे श्वासः समाप्यते । तत एव च परावृत्य हृदयपर्यन्तं प्रविशतीति स्वाभाविकी प्राणापानयोर्गतिः । अभ्यासेन तु क्रमेण नाभेराधाराद्धा निर्गच्छति । नासातश्चतुर्विशत्यङ्गुलपर्यन्ते षट्त्रिंशदङ्गुलपर्यन्ते वा देशे समाप्यते । एवं प्रवेशोऽपि तावानवगन्तव्यः । तत्र बाह्यदेशव्याप्तिर्निर्वाते देश इषीकादिसूक्ष्मतूलक्रिययाऽनुमातव्या । अन्तरापि पिपीलिकास्पर्शसदृशेन स्पर्शनानुमातव्या । सेयं देशपरीक्षा । तथा निमेषक्रियावच्छिन्नस्य कालस्य चतुर्थो भागः क्षणस्तेषामियत्ताऽवधारणीया, स्वजानुमण्डलं पाणिना त्रिः परामृश्य च्छोटिकावच्छिन्नः कालो मात्रा । ताभिः षट्त्रिंशता मात्राभिः प्रथम उद्धातो मन्दः । स एव द्विगुणीकृतो द्वितीयो मध्यः । स एव त्रिगुणीकृतस्तृतीयस्तीव्र

इति । नाभिमूलात्प्रेरितस्य वायोतिरिच्यमानस्य शिरस्यभिहननमुद्धात इत्युच्यते । सेयं कालपरीक्षा । संख्यापरीक्षा च प्रणवजपावृत्तिभेदेन वा संख्यापरीक्षा श्वासप्रवेशगणनया वा । कालसंख्ययोः कथंचिद्भेदविवक्षया पृथगुपन्यासः । यद्यपि कुम्भके देशव्याप्तिर्नावगम्यते तथाऽपि कालसंख्याव्याप्तिरवगम्यत एव । खल्वयं प्रत्यहमभ्यस्तो दिवसपक्षमासादिक्रमेण देशकालप्रचयव्यापितया दीर्घः परमनैपुण्यसमधिगमनीयतया च सूक्ष्म इति निरूपितत्रिविधः प्राणायामः । चतुर्थं फलभूतं सूत्रयति स्म-“ बाह्याभ्यन्तरविषयाक्षेपी चतुर्थः ” इति । बाह्यविषयः श्वासो रेचकः । आभ्यन्तरविषयः प्रश्वासः पूरकः । वैपरीत्यं वा । तावुभावपेक्ष्य सकृदूलवद्विधारकप्रयत्नवशाद्भवति बाह्याभ्यन्तरभेदेन द्विविधस्तृतीयः कुम्भकः । तावभावनपेक्ष्यैव केवलकुम्भकाभ्यासपाटवेनासकृत्तत्तत्प्रयत्नवशाद्भवति चतुर्थः कुम्भकः । तथा च बाह्याभ्यन्तरविषयाक्षेपीति तदनपेक्ष इत्यर्थः । अन्या व्याख्या-बाह्यो विषयो द्वादशान्तादिराभ्यन्तरो विषयो हृदयनाभिचक्रादिः । तौ द्वौ विषयावाक्षिप्य पर्यालोच्य यः स्तम्भरूपो गतिविच्छेदः स चतुर्थः प्राणायाम इति । तृतीयस्तु बाह्याभ्यन्तरौ विषयावपर्यालोच्यैव सहसा भवतीति विशेषः । एतादृशश्चतुर्विधः प्राणायामोऽपाने जुह्वति प्राणमित्यादिना सार्धेन श्लोकेन दर्शितः ॥ २९ ॥

 म०टी०-तदेवमुक्तानां द्वादशधा यज्ञविदां फलमाह-

सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषाः ॥
यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम् ॥ ३०॥

 यज्ञान्विदन्ति जानन्ति विन्दन्ति लभन्ते वेति यज्ञविदो यज्ञानां ज्ञातारः कर्तारश्च । यज्ञैः पूर्वोक्तैः क्षपित नाशितं कल्मषं पापं येषां ते यज्ञक्षपितकल्मषाः । यज्ञान्कृत्वाऽवशिष्टे कालेऽन्नममृतशब्दवाच्यं भुञ्जत इति यज्ञशिष्टामृतभुजः । ते सर्वेऽपि सत्त्वशुद्धिज्ञानप्राप्तिद्वारेण यान्ति ब्रह्म सनातनं नित्यं संसारान्मुच्यन्त इत्यर्थः ॥३०॥

 म. टी.-एवमन्वये गुणमुक्त्वा व्यतिरेके दोषमाहार्धेन-

नायं लोकोऽस्त्ययज्ञस्य कुतोऽन्यः कुरुसत्तम ॥३१॥

 उक्तानां यज्ञानां मध्येऽन्यतमोऽपि यज्ञो यस्य नास्ति सोऽयज्ञस्तस्यायमल्पसुखोऽपि मनुष्यलोको नास्ति सर्वनिन्द्यत्वात्, कुतोऽन्यो विशिष्टसाधनसाध्यः परलोको हे कुरुसत्तम ॥ ३१ ॥

 श्री०टी०-किं च-अपान इति । अपानेऽधोवृत्तौ प्राणमूर्ध्ववृत्तिं पूरकेण जुह्वति पूरककाले प्राणमपानेनैकी कुर्वन्ति । तथा कुम्भकेन प्राणापानयोरूर्ध्वाधोगती रुद्ध्वा रेचककालेऽपानं प्राणे जुह्वति। एवं पूरककुम्भकरेचकैः प्राणायामपरायणा अपर इत्यर्थः ॥ २९॥  श्री. टी-किं च--अपर इति । अपरे त्वाहारसंकोचमम्यस्यन्तः स्वयमेव जीर्यमाणेष्विन्द्रियेषु तत्तदिन्द्रियवृत्तिलयं होमं भावयन्तीत्यर्थः । यद्वा-अपाने जुह्वति प्राण प्राणेऽपानं तथाऽपर इत्यनेन पूरकरेचकयोरा[२०९]वर्तमानयोर्हसः सोऽहमित्यनुलोमतः प्रतिलोमतश्चाभिव्यज्यमानेनाजपामन्त्रेण तत्त्वंपदार्थैक्यं व्यतिहारेण भावयन्तीत्यर्थः । तदुक्तं योगशास्त्रे-

" सकारेण बहिर्याति हकारेण विशेत्पुनः[२१०]
प्राणस्तत्र स एवाहं हंस इत्यनुचिन्तयेत् " इति ॥

 प्राणापानगती रुद्ध्वेत्यनेन तु श्लोकेन प्राणायामयज्ञा अपरैः कथ्यन्ते । तत्रायमर्थः-

"द्वौ भागौ पूरयेदन्नस्तोयेनैकं प्रपूरयेत् ।
मारुतस्य प्रचारार्थं चतुर्थमवशेषयेत् "

 इत्येवमादिवचनोक्तो नियत आहारो येषां ते कुम्भकेन प्राणापानगती रुद्ध्वा प्राणा- यामपरायणाः सन्तः प्राणानिन्द्रियाणि प्राणेषु जुह्वति । कुम्भके हि सर्वे प्राणा एकी भव[२११]न्तीति तत्रैव लीयमानेप्विन्द्रियेषु होमं भावयन्तीत्यर्थः । तदुकं योगशास्त्रे-

"यथा यथा सदाभ्यासान्मनसः स्थिरता भवेत् ।
वायुवाक्कायदृष्टीनां स्थिरता च तथा तथा " इति ॥

 तदेवमुक्तानां द्वादशानां यज्ञविदां फलमाह-सर्व इति । यज्ञान्विन्दन्ति लभन्त इति यज्ञविदो यज्ञज्ञा इति वा । यज्ञैः क्षपितं नाशितं कल्मषं यैस्ते ॥ ३० ॥

 श्री० टी०-यज्ञशिष्टेति ।' यज्ञान्कृत्वाऽवशिष्टे कालेऽनिषिद्धमन्नममृतरूपं भुञ्जत इति तथा ते सनातनं नित्यं ब्रह्म ज्ञानद्वारेण प्राप्नुवन्ति । तदकरणे दोषमाह- नायं लोक इति । अयमल्पसुखोऽपि मनुष्यलोकोऽयज्ञस्य यज्ञानुष्ठानशून्यस्य नास्ति कुतोऽन्यः परलोकः । अतो यज्ञाः सर्वथा कर्तव्या इत्यर्थः ॥ ३१ ॥

 म०टी०-किं त्वया स्वोत्प्रेक्षामात्रेणैवमुच्यते नहि वेद एवात्र प्रमाणमित्याह-

एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे ॥
कर्मजान्विद्धि तान्सर्वानेवं ज्ञात्वा विमोक्ष्यसे ॥३२॥

एवं यथोक्ता बहुविधा बहुप्रकारा यज्ञाः सर्ववैदिकश्यःसाधनरूपा वितता विस्तृता ब्रह्मणो वेदस्य मुखे द्वारे वेदद्वारेणैर्वैतेऽवगता इत्यर्थः । वेदवाक्यानि तु प्रत्येकं विस्तरभयान्नादायिन्ते । कर्मजान्कायिकवाचिकमानसकर्मोद्भवान्विद्धि जानीहि तान्सर्वान्य-


ज्ञान्नाऽऽत्मनान् । निर्व्यापारो ह्यात्मा न तद्व्यापारा एते किं तु निर्व्यापारोऽहमुदासीन इत्येवं ज्ञात्वा विमोक्ष्यसेऽस्मात्संसारबन्धनादिति शेषः ॥ ३२॥

 श्री० टी०-ज्ञानयज्ञं स्तोतुमुक्तान्यज्ञानुपसंहरति-एवमिति । ब्रह्मणो वेदस्य मुखे वितता वेदेन साक्षाद्विहिता इत्यर्थः । तथाऽपि तान्सर्वान्वाङ्मनःकायकर्मजनितानात्मस्वरूपसंस्पर्शरहितान्विद्धि जानीहि आत्मनः कर्मागोचरत्वात् । एवं ज्ञात्वा ज्ञाननिष्ठः सन्संसाराद्विमुक्तो भविष्यसि ॥ ३२ ॥

 म. टी.-सर्वेषां तुल्यवन्निर्देशात्कर्मज्ञानयोः साम्यप्राप्तावाह-

श्रेयान्द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परंतप ।
सर्व कर्माखिलं पार्थ ज्ञाने परिसमाप्यते ॥ ३३ ॥

 श्रेयान्प्रशस्यतरः साक्षान्मोक्षफलत्वात्, द्रव्यमयात्तदुपलक्षिताज्ज्ञानशून्यात्सर्वस्मादपि यज्ञात्संसारफलाज्ज्ञानयज्ञ एक एव हे परंतप । कस्मादेवं यस्मात्सर्वं कर्मेष्टिपशुसोमचयनरूपं श्रौतमखिलं निरवशेषं स्मार्तमुपासनादिरूपं च यत्कर्म तज्ज्ञाने ब्रह्मात्मैक्यसाक्षात्कारे समाप्यते प्रतिबन्धक्षयद्वारेण पर्यवस्यति । " तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन" इति "धर्मेण पापमपनुदति" इति च श्रुतेः “ सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत् " इति न्यायाञ्चेत्यर्थः ॥ ३३ ॥

 श्री०टी०-कर्मयज्ञाज्ज्ञानयज्ञस्तु श्रेष्ठ इत्याह-श्रेयानिति । द्रव्यमयादनात्मव्यापारजन्यादैवादियज्ञाज्ज्ञानयज्ञः श्रेयाञ्श्रेष्ठः । यद्यपि ज्ञान[२१२]यज्ञस्यापि मनोव्यापाराधीनत्वमस्त्येव तथाऽप्यात्मस्वरूपस्य ज्ञानस्य मनःपरिणामऽभिव्यक्तिमात्र न तु तजन्यत्वमिति द्रव्यमयाद्विशेषः । श्रेष्ठत्वे हेतुः-सर्व कर्माखिलं फलसहितं ज्ञाने परिसमाप्यतेऽन्तर्भवतीत्यर्थः । " सर्वं तदभिप्तमेति यत्किचित्प्रजाः साधु कुर्वन्ति " इति श्रुतेः ॥ ३३ ॥

 म. टी०-एतादृशज्ञानप्राप्तौ कोऽतिप्रत्यासन्न उपाय इति उच्यते-

तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया॥
उपदेश्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः ॥ ३४ ॥

 तत्सर्वकर्मफलभूतं ज्ञानं विद्धि लभस्व । आचार्यानभिगम्य तेषां प्रणिपातेन प्रकर्षेण नीचैः पतनं प्रणिपातो दीर्घनमस्कारस्तेन । कोऽहं कथं बद्धोऽस्मि केनोपायेन मुच्येयमित्यादि[ना] परिप्रश्नेन बहुविषयेण प्रश्नेन । सेवया सर्वभावेन तदनुकूलकारितया । एवं भक्तिश्रद्धातिशयपूर्वकेणावनतिविशेषेणाभिमुखाः सन्त उपदेश्यन्ति उपदेशेन संपादयिष्यन्ति ते तुभ्यं ज्ञानं परमात्मविषयं साक्षान्मोक्षफलं ज्ञानिनः पदवाक्यन्याया-


दिमाननिपुणास्तत्त्वदर्शिनः कृतसाक्षात्काराः । साक्षात्कारवद्भिरुपदिष्टमेव ज्ञानं फलपर्यवसायि न तु तद्रहितैः पदवाक्यमाननिपुणैरपीति भगवतो मतं " तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम्" इतिश्रुतिसंवादि । तत्रापि श्रोत्रियमधीतवेदं ब्रह्मनिष्ठं कृतब्रह्मसाक्षात्कारमिति व्याख्यानात् । बहुवचनं चेदमाचार्यविषयमेकस्मिन्नपि गौरवातिशयार्थं न तु बहुत्वविवक्षया। एकस्मादेव तत्त्वसाक्षात्कारवत आचार्यात्तत्त्वज्ञानोदये सत्याचार्यान्तरगमनस्य तदर्थमयोगादिति द्रष्टव्यम् ॥ ३४ ॥

 श्री०टी०;-एवंभूतात्मज्ञाने साधनमाह-तद्विद्धीति । तज्ज्ञानं विद्धि प्राप्नुहि । ज्ञानिनां प्रणिपातेन दण्डवन्नमस्कारेण, ततः परिप्रश्नेन कुतोऽयं मम संसारः कथं वा निवर्ततेति प्रश्नेन, सेवया शुश्रूषया च ज्ञानिनः शास्त्रज्ञास्तत्त्वदर्शिनोऽपरोक्षानुभवसंपन्नाश्च ते तुभ्यं ज्ञानमुपदेशेन संपादयिष्यन्ति ॥ ३४ ॥

 म०टी०-एवमतिनिर्बन्धेन ज्ञानोत्पादने किं स्यादत आह-

यज्ज्ञात्वा न पुनर्मोहमेवं यास्यसि पाण्डव ॥
येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि ॥ ३५ ॥

 यत्पूर्वोक्तं ज्ञानमाचार्यैरुपदिष्टं ज्ञात्वा प्राप्य, ओदनपाकं पचतीतिवत्तस्यैव धातोः सामान्यविवक्षया प्रयोगः। न पुनर्मोहमेवं बन्धुवधादिनिमित्तं भ्रमं यास्यसि हे पाण्डव । कस्मादेवं यस्मादेव ज्ञानेन भूतानि पितृपुत्रादीनि अशेषेण ब्रह्मादिस्तम्बपर्यन्तानि स्वाविद्याविजृम्भितानि आत्मनि त्वयि त्वंपदार्थेऽथो अपि मयि भगवति वासुदेव तत्पदार्थे परमार्थतो भेदरहितेऽधिष्ठानभूते द्रक्ष्यस्यभेदेनैव, अधिष्ठानातिरेकेण कल्पितस्याभावात् । मां भगवन्तं वासुदेवमात्मत्वेन साक्षात्कृत्य सर्वाज्ञाननाशे तत्कार्याणि भूतानि न स्थास्यन्तीति भावः ॥ ३९ ॥

 श्री० टी०--ज्ञानफलमाह-यज्ज्ञात्वेति सार्धेत्रिभि:-यज्ज्ञानं ज्ञात्वा प्राप्य पुनर्बन्धुवधादिनिमित्तं मोहं न प्राप्स्यसि । तत्र हेतुः---येन ज्ञानेन भूतानि पितृपुत्रादीनि स्वाविद्या[२१३]रचितानि स्वान्मन्येवाभेदेन द्रक्ष्यसि । अथो अनन्तरमात्मानं मयि परमात्मन्यभेदेन द्रक्ष्यसीत्यर्थः ॥ ३५ ॥

 म०टी०-किं च शृणु ज्ञानस्य माहात्म्यम्-

अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः॥
सर्व ज्ञानप्लवेनैव वृजिनं संतरिष्यसि ॥ ३६॥

 अपि चेदित्यसंभाविताभ्युपगमप्रदर्शनार्थों निपातौ । यद्यप्ययमर्थो न संभवत्येव


तथाऽपि ज्ञानफलकथनायाभ्युपेत्योच्यते । यद्यपि त्वं पापकारिभ्यः सर्वेभ्योऽप्यतिशयेन पापकारी पापकृत्तमः स्यास्तथाऽपि सर्वं वृजिनं पापमतिदुस्तरत्वेनार्णवसदृशं ज्ञानप्लवेनैव नान्येन ज्ञानमेव प्लवं पोतं कृत्वा संतरिष्यसि सम्यगनायासेन पुनरावृत्तिवर्जितत्वेन च तरिष्यसि अतिक्रमिष्यसि । वृजिनशब्देनात्र धर्माधर्मरूपं कर्म संसारफलमभिप्रेतं मुमुक्षोः पापवत्पुण्यस्याप्यनिष्टत्वात् ॥ ३६ ॥

 श्री०टी०-किंच-अपि चेदिति । सर्वेभ्यः पापकारिभ्यो यद्यपि अतिशयेन पापकारी त्वमसि तथाऽपि सर्व पापसमुद्रं ज्ञानपोतेनैव सम्यगनायासेन तरिष्यसि॥३६॥

 म०टी०-ननु समुद्रवत्तरणे कर्मणां नाशो न स्यादित्याशङ्कय दृष्टान्तान्त- रमाह-

यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन ॥
ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा ॥ ३७॥

 यथैधांसि काष्ठानि समिद्धः प्रज्वलितोऽग्निर्भस्मसात्कुरुते भस्मीभावं नयति हेऽर्जुन ज्ञानाग्निः सर्वकर्माणि पापानि पुण्यानि चाविशेषेण प्रारब्धफलभिन्नानि भस्मसात्कुरुते तथा तत्कारणाज्ञानविनाशेन विनाशयतीत्यर्थः । तथा च श्रुतिः-

"भिद्यते त्वदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः।
क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे " इति ॥

 " तदधिगम उत्तरपूर्वाधयोरश्लेषविनाशौ तद्वयपदेशात् " , " इतरस्याप्येवमसंश्लेषः पाते तु," इति च सूत्रे । अनारब्धे पुण्यपापे नश्यत एवेत्यत्र सूत्रम्-- "अनारब्धकार्ये एव तु पूर्वे तदवधेः” इति । ज्ञानोत्पादकदेहारम्भकाणां तु तद्देहान्त एव विनाशः । "तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ संपत्स्ये” इति श्रुतेः, "भोगेन त्वितरे क्षपयित्वा संपद्यते " इति सूत्राच्च । आधिकारिकाणां तु यान्येव ज्ञानोत्पादकदेहारम्भकाणि तान्येव देहान्तरारम्भकाण्यपि । यथा वसिष्ठापान्तरतमःप्रभृतीनाम् । तथा च सूत्रं " यावदधिकारमवस्थितिराधिकारिकाणाम्" इति । अधिकारोऽनेकदेहारम्भकं बलवत्प्रारब्धफलं कर्म । तच्चोपासकानामेव नान्येषाम् । अनारब्धफलानि नश्यन्ति आरब्धफलानि तु यावद्भोगसमाप्ति तिष्ठन्ति । भोगश्चैकेन देहेनानेकेन वेति न विशेषः । विस्तरस्त्वाकरे द्रष्टव्यः ॥ ३७ ॥

 श्री०टी०-समुद्रवत्स्थितस्यैव पापस्यातिलब्धनमात्रं नतु नाश इति भ्रान्तिं दृष्टान्तेन वारयन्नाह-यथेति । एधांति काष्ठानि प्रदीप्तोऽग्निर्यथा भस्मीभावं नयति तथाऽऽत्मज्ञानरूपोऽग्निः प्रारब्धकर्मव्यतिरिक्तानि सर्वाणि कर्माणि भस्मी करोतीत्यर्थः ॥ ३७॥

 म०टी०-यस्मादेवं तस्मात्-

न हि ज्ञानेन सदृशं पवित्रमिह विद्यते ॥
तत्स्वयं योगसंसिद्धः कालेनाऽऽत्मनि विन्दति ॥३८॥

 न हि ज्ञानेन सदृशं पवित्रं पावनं शुद्धिकरमन्यदिह वेदे लोकव्यवहारे वा विद्यते. ज्ञानभिन्नस्याज्ञानानिवर्तकत्वेन समूलपापनिवर्तकत्वाभावात्कारणसद्भावेन पुनः पापोदयाच्च । ज्ञानेन त्वज्ञाननिवृत्त्या समूलपापनिवृत्तिरिति तत्सममन्यन्न विद्यते । तदात्मविषयं ज्ञानं सर्वेषां किमिति झटिति नोत्पद्यते तत्राऽऽह-तज्ज्ञानं कालेन महता योगसंसिद्धो योगेन पूर्वोक्तकर्मयोगेन(ग) संसिद्धः संस्कृतो योग्यतामापन्नः स्वयमात्मन्यन्तःकरणे विन्दति लभते न तु योग्यतामापन्नोऽन्यदत्तं स्वनिष्ठतया न वा परनिष्ठं स्वीयतया विन्दतीत्यर्थः ॥ ३८ ॥

 श्री०टी०-तत्र हेतुमाह-न हीति । पवित्रं शुद्धिकरमिह तपोयोगादिषु मध्ये ज्ञानतुल्यं नास्त्येव । तर्हि सर्वेऽप्यात्मज्ञानमेव किं नाभ्यस्यन्तीत्यत आह--- तत्स्वयमिति सार्थेन । तदात्मनि विषये ज्ञान कालेन महता कर्मयोगेन (ण) संसिद्धो योग्यतां प्राप्तः सन्स्वयमेवानायासेन लभते न तु कर्मयोगं विनेत्यर्थः ॥ ३८ ॥

 म०टी०-येनैकान्तेन ज्ञानप्राप्तिर्भवति स उपायः पूर्वोक्तप्रणिपाताद्यपेक्षयाऽप्यासन्नतर उच्यते-

श्रद्धावाल्लँभते ज्ञानं तत्परः संयतेन्द्रियः ॥
ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति ॥३९॥

 गुरुवेदान्तवाक्येष्विदमित्थमेवेतिप्रमारूपास्तिक्यबुद्धिः श्रद्धा तद्वान्पुरुषो लभते ज्ञानम् । एतादृशोऽपि कश्चिदलसः स्यात्तत्राऽऽह-तत्परः, गुरूपासनादौ ज्ञानोपायेऽत्यन्ताभियुक्तः । श्रद्धावांस्तत्परोऽपि कश्चिदजितेन्द्रियः स्यादत आह–संयतानि विषयेभ्यो निवर्तितानीन्द्रियाणि येन स संयतेन्द्रियः । य एवं विशेषणत्रययुक्तः सोऽवश्यं ज्ञानं लभते । प्रणिपातादिस्तु बाह्यो मायावित्वादिसंभवादनैकान्तिकोऽपि । श्रद्धावत्त्वादिस्त्वैकान्तिक उपाय इत्यर्थः । ईदृशेनोपायेन ज्ञानं लब्ध्वा परां चरमां शान्तिमविद्यातत्कार्यनिवृत्तिरूपां मुक्तिमचिरेण तदव्यवधानेनैवाधिगच्छति लभते । यथा हि दीपः स्वोत्पत्तिमात्रेणैवान्धकारनिवृत्तिं करोति न तु कंचित्सहकारिणमपेक्षते तथा ज्ञानमपि स्वोत्पत्तिमात्रेणैवाज्ञाननिवृत्तिं करोति न तु किंचित्प्रसंख्यानादिकमपेक्षत इति भावः ॥ ३९ ॥

 श्री०टी०--किं च-श्रद्धावानिति । श्रद्धावान्गुरूपदिष्टेऽर्थ आस्तिक्यबुद्धिमांस्तत्परस्तदेकनिष्ठः संयतेन्द्रियश्च तज्ज्ञानं लभते नान्यः। अतः श्रद्धादिसंपत्त्या

ज्ञानलाभात्प्राकर्मयोग एव शुद्ध्यर्थमनुष्ठेयः, ज्ञानलाभानन्तरं तु न तस्य किंचित्कृत्यमस्तीत्याह-ज्ञानं लब्ध्वा त्वचिरेण पर शान्ति मोक्ष प्राप्नोति ॥ ३९ ॥

 म०टी०-अत्र च संशयो न कर्तव्यः कस्मात्-

अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति ॥
नायं लोकोऽस्ति न परो न सुखं संशयात्मनः॥४०॥

 अज्ञोऽनधीतशास्त्रत्वेनाऽऽत्मज्ञानशून्यः । गुरुवेदान्तवाक्यार्थ इदमेवं न भवत्येवेतिविपर्ययरूपा नास्तिक्यबुद्धिरश्रद्धा तद्वानश्रद्दधानः । इदमेवं भवति न वेति सर्वत्र संशयाक्रान्तचित्तः संशयात्मा विनश्यति स्वार्थाद्भष्टो भवति । अज्ञश्चाश्रद्दधानश्च विनश्यतीति संशयात्मापेक्षया न्यूनत्वकथनार्थ चकाराभ्यां तयोः प्रयोगः । कुतः, संशयात्मा हि सर्वतः पापीयान्यतो नायं मनुष्यलोकोऽस्ति वित्तार्जनाद्यभावात्, न परो लोकः स्वर्गमोक्षादिधर्मज्ञानाद्यभावात् , न सुखं भोजनादिकृतं संशयात्मनः सर्वत्र संदेहाक्रान्तचित्तस्य । अज्ञस्याश्रद्दधानस्य च परो लोको नास्ति मनुष्यलोको भोजनादिसुखं च वर्तते । संशयात्मा तु त्रितयहीनत्वेन सर्वतः पापीयानित्यर्थः ॥ ४० ॥

 श्री. टी-ज्ञानाधिकारिणमुक्त्वा तद्विपरीतमनधिकारिणमाह-अज्ञश्चेति । अज्ञो गुरूपदिष्टानभिज्ञः कथंचिज्ज्ञाने जातेऽप्यश्रद्दधानश्च जातायामपि श्रद्धायां ममेदं सिध्येद्वा न वेति संशयाक्रान्तचित्तश्च नश्यति स्वार्थाद्रश्यति । एतेषु त्रिष्वपि संशयात्मा सर्वथा नश्यति । यतस्तस्यायं लोको नास्ति धनार्जनविवाहाद्यसिद्धेः । न च परलोकः, धर्मस्यानिष्पत्तेः । न च सुखं संशयेनैव भोगस्याप्यसंभवात् ॥ ४० ॥

 म० टी०- एतादृशस्य सर्वानर्थमूलस्य संशयस्य निराकरणायाऽऽत्मनिश्चयमुपायं वदन्नध्यायद्वयोक्तां पूर्वापरभूमिकाभेदेन कर्मज्ञानमयीं द्विविधां ब्रह्मनिष्ठामुपसंहरति-

योगसंन्यस्तकर्माणं ज्ञानसंछिन्नसंशयम् ॥
आत्मवन्तं न कर्माणि निबध्नन्ति धनंजय ॥ ४१ ॥

 योगेन भगवदाराधनलक्षणसमत्वबुद्धिरूपेण संन्यस्तानि भगवति समर्पितानि कर्माणि येन । यद्वा परमार्थदर्शनलक्षणेन योगेन सन्यस्तानि त्यक्तानि कर्माणि येन तं योगसंन्यस्तकर्माणम् । संशये सति कथं योगसंन्यस्तकर्मत्वमत आह-ज्ञानसंछिन्नसंशयं ज्ञानेनाऽऽत्मनिश्चयलक्षणेन च्छिन्नः संशयो येन तम् । विषयपरवशत्वरूपप्रमादे सति कुतो ज्ञानोत्पत्तिरित्यत आह-आत्मवन्तमप्रमादिनं सर्वदा सावधानम् । एतादृशमप्रमादित्वेन ज्ञानवन्तं ज्ञानमसंछिन्नसंशयत्वेन योगसंन्यस्तकर्माणं कर्माणि लोकसंग्रहार्थानि वृथाचेष्टारूपाणि वा न निबध्नन्ति अनिष्टमिष्टं मिश्रं वा शरीरं नाऽऽरभन्ते हे धनंजय ॥ ४१ ॥

 श्री०टी०-अध्यायद्वयोक्तां पूर्वापरभूमिकाभेदेन कर्मज्ञानमयीं द्विविधां ब्रह्मनिष्ठामुपसंहरति योगेतिद्वाभ्याम्-योगेन परमेश्वराराधनरूपेण तस्मिन्संन्यस्तानि समर्पितानि कर्माणि येन तं कर्माणि स्वफलैर्न निबध्नन्ति । [२१४]अतश्च ज्ञानेनाकात्मबोधेन संछिन्नः संशयो देहाद्यभिमानलक्षणो यस्य तं चाऽऽत्मवन्तमप्रमादिनं कर्माणि लोकसंग्रहार्थानि स्वाभाविकानि वा न निबध्नन्ति ॥ ४१ ॥

 म० टी०-यस्मादेवम्-

तस्मादज्ञानसंभूतं हृत्स्थं ज्ञानासिनाऽऽत्मनः ॥
छित्त्वैनं संशयं योगमातिष्ठोत्तिष्ठ भारत ॥ ४२ ॥

इति श्रीमहाभारते शतसाहस्त्यां संहितायां वैयासि-
क्यां भीष्मपर्वणि श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसं-
वादे ब्रह्मार्पणयोगो नाम चतु-
र्थोऽध्यायः ॥ ४ ॥

 अज्ञानादविवेकात्संभूतमुत्पन्नं हृत्स्थं हृदि बुद्धौ स्थितं, कारणस्याऽऽश्रयस्य च झाने शत्रुः सुखेन हन्तुं शक्यत इत्युभयोपन्यासः । एनं सर्वानर्थमूलभूत संशयमात्मनो ज्ञानासिनाऽऽत्मविषयकनिश्चयखड्गेन च्छित्त्वा योगं सम्यग्दर्शनोपायं निष्कामकर्माऽऽतिष्ठ कुरु । अत इदानीमुत्तिष्ठ युद्धाय हे भारत भरतवंशे जातस्य युद्धोद्यमो न निष्फल इति भावः ॥ ४२ ॥

स्वस्थानीशत्वबाधेन भक्तिश्रद्धे दृढीकृते ।
धीहेतुः कर्मनिष्ठा च हरिणेहोपसंहृता ॥१॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीविश्वेश्वरसरस्वतीश्रीपादशिष्यश्रीमधुसूदनसरस्वतीविरचितायां श्रीमद्भगवद्गीतागूढार्थदीपिकायां ब्रह्मार्पणयोगो नाम चतुर्थोऽध्यायः ॥ ४ ॥

 श्री० टी०-तस्मादेवम् - तस्मादिति । आत्मनोऽज्ञानेन संभूतं हृदि स्थितमेनं संशयं शोकादिनिमित्तं देहात्मविवेकज्ञानखड्गेन च्छित्त्वा परमात्मज्ञानोपायमूर्त कर्मयोगमातिष्ठाऽऽश्रय । तत्र च प्रथमं प्रस्तुताय युद्धायोत्तिष्ठ हे भारतेति क्षत्रियत्वेन युद्धस्य धर्म्यत्वं दर्शितम् ॥ ४२ ॥


पुमवस्थादिर्भेदेन कर्मज्ञानमयी द्विधा ।
निष्ठोक्ता येन तं वन्दे शौरि संशयसंछिदम् ॥ १॥

इति श्रीसुबोधिन्या टीकायां श्रीधरस्वामिविरचितायां
ज्ञानयोगो नाम चतुर्थोऽध्यायः ॥ ४ ॥

अथ पञ्चमोऽध्यायः।

 म. टी.--अध्यायाभ्यां कृतो द्वाभ्यां निर्णयः कर्मबोधयोः । कर्मतत्त्यागयोर्भ्यां निर्णयः क्रियतेऽधुना ॥

 तृतीयेऽध्याये " ज्यायसी चेत्कर्मणस्ते " इत्यादिनाऽर्जुनेन पृष्टो भगवाज्ञानकर्मणोर्विकल्पसमुच्चयासंभवेनाधिकारिभेदव्यवस्थया " लोकेऽस्मिन्द्विविधा निष्ठा पुरा प्रोक्ता मया" इत्यादिना निर्णयं कृतवान् । तथा चाज्ञाधिकारिकं कर्म न ज्ञानेन सह समुच्चीयते तेजस्तिमिरयोरिव युगपदसंभवात्कर्माधिकारहेतुभेदबुध्यपनोदकत्वेन ज्ञानस्य तद्विरोधित्वात् । नापि वि[२१५]कल्प्यते, एकार्थत्वाभावात् , ज्ञानकार्यस्याज्ञाननाशस्य कर्मणा कर्तुमशक्यत्वात् “तमेव विदित्वाऽति मृत्युमेति नान्यः पन्था विद्यतेऽयनाय” इति श्रुतेः।ज्ञाने जाते तु कर्मकार्यं नापेक्ष्यत एवेत्युक्तं "यावानर्थ उदपाने" इत्यत्र । तथा च ज्ञानिनः कर्मानधिकारे निश्चिते प्रारब्धकर्मवशाद्वृथाचेष्टारूपेण तदनुष्ठानं वा सर्वकर्मसंन्यासो वेति निर्विवाद चतुर्थे निर्णीतम् । अज्ञेन त्वन्तःकरणशुद्धिद्वारा ज्ञानोत्पत्तये कर्माण्यनुष्ठेयानि " तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन" इति श्रुतेः, “सर्व कर्माखिलं पार्थ ज्ञाने परिसमाप्यते" इति भगवद्वचनाच्च । एवं सर्वकर्माणि ज्ञानार्थानि । तथा सर्वकर्मसंन्यासोऽपि ज्ञानार्थः श्रूयते-"एतमेव प्रवाजिनो लोकमिच्छन्तः प्रव्रजन्ति, " "शान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वाऽऽत्मन्येवाऽऽत्मानं पश्येत्, "त्यजतैव हि तज्ज्ञेयं त्यक्तः प्रत्यक्परं पदम्,“सत्यानृते सुखदुःखे वेदानिमं लोकममुं च परित्यज्याऽऽत्मानमन्विच्छेत् ," इत्यादौ । तत्र कर्मतत्त्यागयोरारादुपकारकसंनिपत्योपकारकयोः प्रयाजावघातयोरव न समुच्चयः संभवति विरुद्धत्वेन यौगपद्याभावात् । नापि कर्मतत्त्यागयोरात्मज्ञानमात्रफलत्वेनैकार्थत्वादतिरात्रयोः षोडशिग्रहणाग्रहणयोरिव विकल्पः स्यात्, द्वारभेदेनैकार्थत्वाभावात् । कर्मणो हि पापक्षयरूपमदृष्टमेव द्वार, संन्यासस्य तु सर्वविक्षेपाभावेन विचारावसरदानरूपं दृष्टमेव द्वारं, नियमापूर्वं तु दृष्टसमवायित्वादवघातादाविव न प्रयोजकम् । तथा चाह-


ष्टार्थदृष्टार्थयोरारादुपकारकसंनिपत्योपकारकयोरेकप्रधानार्थत्वेऽपि विकल्पो नास्त्येव, प्रयाजावघातादीनामपि तत्प्रसङ्गात् । तस्मात्क्रमेणोभयमप्यनुष्ठेयम् । तत्रापि संन्यासानन्तरं कर्मानुष्ठानं चेत्तदा परित्यक्तपूर्वाश्रमस्वीकारेणाऽऽरूढपतितत्वात्कर्मानधिकारित्वं प्राक्तनसंन्यासवैयर्थ्यं च तस्यादृष्टार्थत्वाभावात् । प्रथमकृतसंन्यासेनैव ज्ञानाधिकारलाभे तदुत्तरकाले कर्मानुष्ठानवैयर्थ्यं च । तस्मादादौ भगवदर्पणबुद्ध्या निष्कामकर्मानुष्ठानादन्तःकरणशुद्धौ तीव्रेण वैराग्येण विविदिषायां दृढायां सर्वकर्मसंन्यासः श्रवणमननादिरूपवेदान्तवाक्यविचाराय कर्तव्य इति भगवतो मतम् । तथा चोक्तम्-"न कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्नुते " इति । वक्ष्यते च-

" आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते ।
योगारूढस्य तस्यैव शमः कारणमुच्यते " इति ॥

 योगोऽत्र तीववैराग्यपूर्विका विविदिषा । तदुक्तं वार्तिककारैः-

" प्रत्यग्विविदिषासिद्धयै वेदानुवचनादयः ।
ब्रह्मावाप्त्यै तु तत्याग इप्सन्तीति श्रुतेर्बलात् " इति ॥

स्मृतिश्च-" कषायपक्तिः क[२१६]र्माणि ज्ञानं तु परमा गतिः ।
  कषाये कर्मभिः पक्के ततो ज्ञान प्रवर्तते " इति ॥

 मोक्षधर्मेच-" कषायं पाचयित्वा च श्रेणीस्थानेषु च त्रिषु ।

प्रव्रजेच्च परं स्थानं पारिवाज्यमनुत्तमम् ॥
भावितेः करणैश्चायं बहुसंसारयोनिषु ।
आसादयति शुद्धात्मा मोक्षं वै प्रथमाश्रमे ॥
तमासाद्य तु मुक्तस्य दृष्टार्थस्य विपश्चितः ।
त्रिष्वाश्रमेषु को न्वर्थो भवेत्परमभीप्सतः" इति ॥

मोक्षं वैराग्यम् । एतेन क्रमाक्रमसंन्यासौ द्वावपि दर्शितौ । तथा च श्रुतिः--" ब्रह्मचर्यं समाप्य गृही भवेद्गृहाद्वनी भूत्वा प्रबजेद्यदि वेतरथा ब्रह्मचर्यादेव प्रव्रजेद्गृहाद्वा वनाद्वा यदहरेव विरजेत्तदहरेव प्रव्रजेत् " इति । तस्मादज्ञस्याविरक्ततादशायां कर्मानुष्ठानमेव । तस्यैव विरक्ततादशायां संन्यासः श्रवणाद्यवसरदानेन ज्ञानार्थ इति दशाभेदेनाज्ञमधिकृत्यैव कर्मतत्त्यागौ व्याख्यातुं पञ्चमषष्ठावध्यायावारभ्यते । विद्वत्संन्यासस्तु ज्ञानबलादर्थसिद्ध एवेति संदेहाभावान्नात्र विचार्यते । तत्रैकमेव जिज्ञासुमज्ञं प्रति


ज्ञानार्थत्वेन कर्मतत्त्यागयोविधानात्तयोश्च विरुद्धयोर्युगपदनुष्ठानासंभवान्मया जिज्ञासुना किमिदानीमनुष्ठेयमिति संदिहानः-

अर्जुन उवाच-
  संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि ॥
  यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम् ॥ १॥

 हे कृष्ण सदानन्दरूप भक्तदुःखकर्षणेति वा । कर्मणां यावज्जीवादिश्रुतिविहितानां नित्यानां नैमित्तिकानां च संन्यासं त्यागं जिज्ञासुमज्ञं प्रति कथयति वेदमुखेन पुनस्तद्विरुद्धं योगं च कर्मानुष्ठानरूपं शंससि " एतमेव प्रव्राजिनो लोकमिच्छन्तः प्रव्रजन्ति " "तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन" इत्यादिवाक्यद्वयेन,

"निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः ।
शारीरं केवलं कर्म कुर्वन्नाऽऽप्नोति किल्बिषम्"

 "छित्त्वैनं संशयं योगमातिष्ठोत्तिष्ठ भारत" इति गीतावाक्यद्वयेन वा । तत्रैकमज्ञं प्रति कर्मतत्त्यागयोर्विधानायुगपदुभयानुष्ठानासंमवादेतयोः कर्मतत्त्यागयोर्मध्ये यदेकं श्रेयः प्रशस्यतरं मन्यसे कर्म वा तत्त्यागं वा तन्मे ब्रूहि सुनिश्चितं तव मतमनुष्ठानाय ॥ १ ॥

श्री०टी०निवार्य संशयं जिष्णोः कर्मसंन्यासयोगयोः ।
  जितेन्द्रियस्य च यतेः पञ्चमे मुक्तिमब्रवीत् ॥ १ ॥

 अज्ञानसंभूतं संशयं ज्ञानासिना छित्त्वा कर्मयोगमातिष्ठेत्युक्तं तत्र पूर्वापरविरोधं मन्वानः-अर्जुन उवाच-संन्यासमिति। “यस्त्वात्मरतिरेव स्यात्" इत्यादिना "सर्व कर्माखिलं पार्थ " इत्यादिना च ज्ञानिनः कर्मसंन्यासं कथयसि । ज्ञानासिना संशयं छित्त्वा योगमातिष्ठेति पुनर्योग च कथयसि । न च कर्मसंन्यासः कर्मयोगश्चैकस्यैकदैव संभवतः, विरुद्धस्वरूपत्वात् । तस्मादेतयोर्मध्य एकस्मिन्ननुष्ठातव्ये सति मम यच्छ्रेयः श्रेष्ठं सुनिश्चितं तदेकं ब्रूहि[२१७] ॥ १॥

 म०टी०-एवमर्जुनस्य प्रश्ने तदुत्तरम्-

श्रीभगवानुवाच-
 संन्यासः कर्मयोगश्च निःश्रेयसकरावुभौ ॥
 तयोस्तु कर्मसंन्यासात्कर्मयोगो विशिष्यते ॥२॥


अयं श्लोकः क. पुस्तक एव दृश्यते ।


 निःश्रेयसकरौ ज्ञानोत्पत्तिहेतुत्वेन मोक्षोपयोगिनौ । तयोस्तु कर्मसंन्यासादनधिकारिकृतात्कर्मयोगो विशिष्यते श्रेयानधिकारसंपादकत्वेन ॥२॥

 श्री०टी०--अत्रोत्तरम्-श्रीभगवानुवाच-संन्यास इति । अयं भावः-नहि वेदान्तवेद्यात्मतत्त्वविदं प्रति कर्मयोगमहं ब्रवीमि । यतः पूर्वोक्तेन संन्यासेन विरोधः स्यात्, अपि तु देहात्माभिमानिनं त्वां बन्धुवधादिनिमित्तशोकमोहादिकृतमेनं संशयं देहात्मविवेकज्ञानासिना छित्त्वा परमात्मज्ञानोपायभूतं कर्मयोगमातिष्ठेति ब्रवीमि । कर्मयोगेन(ण) शद्धचित्तस्य चाऽऽत्मतत्त्वज्ञाने जाते सति तत्परिपाकार्थ ज्ञाननिष्ठाङ्गत्वेन संन्यासः पूर्वमुक्तः । एवं सत्यङ्गप्रधानयोर्विकल्पायोगात्संन्यासः कर्मयोगश्चेत्येतावुभावपि भूमिकाभेदेन समुचितावेव निःश्रेयसं साधयतः, तथाऽपि तु तयोर्मध्ये कर्मसंन्यासात्सकाशात्कर्मयोगो विशि[२१८]ष्यते विशिष्टो भवति ॥ २ ॥

 म०टी०-तमेव कर्मयोगं स्तौति त्रिभिः-

ज्ञेयः स नित्यसंन्यासी यो न दृष्टि न काङ्क्षति ॥
निर्द्वंद्वो हि महाबाहो सुखं बन्धात्प्रमुच्यते ॥ ३ ॥

 स कर्मणि प्रवृत्तोऽपि नित्यं संन्यासीति ज्ञेयः। कोऽसौ यो न द्वेष्टि भगवदर्पणबुद्ध्या क्रियमाणं कर्म निष्फलत्वशङ्कया । न काङ्क्षति स्वर्गादिकम् । निद्वंद्वी रागद्वेषरहितो हि यस्मात्सुखमनायासेन हे महाबाहो बन्धादन्तःकरणाशुद्धिरूपाज्ज्ञानप्रतिबन्धात्प्रमुच्यते नित्यानित्यवस्तुविवेकादिप्रकर्षेण मुक्तो भवति ॥ ३ ॥

 श्री० टी०-कुत इत्यपेक्षायां संन्यासित्वेन कर्मयोगिनं स्तुवंस्तस्य श्रेष्ठत्वं दर्शयति-ज्ञेय इति । रागद्वेषादिराहित्येन परमेश्वरार्थं कर्माणि योऽनुतिष्ठति स नित्यं कर्मानुष्ठानकालेऽपि संन्यासी[२१९]त्येवं ज्ञेयः । तत्र हेतुः-निर्द्वद्वो रागद्वेषादिद्वंद्वशून्यो हि शुद्धचित्तो ज्ञानद्वारा सुखमनायासेनैव बन्धात्संसारात्प्रमुच्यते ॥ ३ ॥

 म० टी०-ननु यः कर्मणि प्रवृत्तः स कथं संन्यासीति ज्ञातव्यः कर्मतत्त्यागयोः स्वरूपविरोधात्, फलैक्यात्तथेति चेत्, न स्वरूपतो विरुद्धयोः फलेऽपि विरोधस्यौचित्यात् । तथाच निःश्रेयप्तकरावुभावित्यनुपपन्नभित्याशङ्कयाऽऽह----

सांख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्डिताः ॥
एकमप्यास्थितः सम्यगुभयोविन्दते फलम् ॥ ४॥

संख्या सम्यगात्मबुद्धिस्तां वहतीति ज्ञानान्तरङ्गसाधनतया सांख्यः संन्यासः । योगः पूर्वोक्तः कर्मयोगः । तौ पृथग्विरुद्धफलौ बालाः शास्त्रार्थविवेकज्ञानशून्याः प्रव-


दन्ति न पण्डिताः । किं तर्हि पण्डितानां मतम् । उच्यते--एकमपि संन्यासकर्मणोर्मध्ये सम्यगास्थितः स्वाधिकारानुरूपेण सम्यग्यथाशास्त्रं कृतवान्सन्नुभयोर्विन्दते फलं ज्ञानोत्पत्तिद्वारेण निःश्रेयसमेकमेव ॥ ४ ॥

 श्री० टी०-यस्मादेवमङ्गप्रधानत्वेनोभयोरवस्थाभेदेन क्रमसमुच्चयोऽतो विकल्पमङ्गीकृत्यो+भयोः कः श्रेष्ठ इति प्रश्नोऽज्ञानिनामेवोचितो न विवेकिनामित्याह- सांख्ययोगाविति । सांख्यशब्देन ज्ञाननिष्ठावाचिना तदङ्गं संन्यासं लक्षयति । संन्यासकर्मयोगावेकफलौ सन्तौ पृथक्स्वतन्त्राविति बाला अज्ञा एव प्रवदन्ति न तु पण्डिताः । तत्र हेतुः-अनयोरेकमपि सम्यगास्थित आश्रितः सन्नुभयोरपि फलं प्राप्नोति । तथाहि-कर्मयोगं सम्यगनुतिष्ठञ्शुद्धचित्तः सञ्ज्ञानद्वारा यदुभयोः फलं कैवल्यं तद्विन्दति । संन्यासं सम्यगास्थितोऽपि पूर्वमनुष्ठितस्य कर्मयोगस्यापि परम्परया ज्ञानद्वारा यदुभयोः फलं कैवल्यं तद्विन्दतीति न पृथक्फलत्वमनयोरित्यर्थः ॥ ४ ॥

 म० टी०-एकस्यानुष्ठानात्कथमुभयोः फलं विन्दते तत्राऽऽह-

यत्सांख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते ॥
एकं सांख्यं च योगं च यः पश्यति स पश्यति ॥५॥

 सांख्यैर्ज्ञाननिष्ठैः संन्यासिभिरैहिककर्मानुष्ठानशून्यत्वेऽपि प्राग्भवीयकर्मभिरेव संस्कृतान्तःकरणैः श्रवणादिपूर्विकया ज्ञाननिष्ठया यत्प्रसिद्धं स्थानं तिष्ठत्येवास्मिन्नतु कदाऽपि च्यवत इति व्युत्पत्त्या मोक्षाख्यं प्राप्यत आवरणाभावमात्रेण लभ्यत इव नित्यप्राप्तत्वात् । योगैरपि भगवदर्पणबुद्धया फलाभिसंधिराहित्येन कृतानि कर्माणि शास्त्रीयाणि योगास्ते येषां सन्ति तेऽपि योगाः । अर्शआदित्वान्मत्वर्थीयोऽच्प्रत्ययः । तैर्योगिभिरपि सत्त्वशुद्धया संन्यासपूर्वकश्रवणादिपुरःसरया ज्ञाननिष्ठया वर्तमाने भविष्यति वा जन्मनि संपत्स्यमानया तत्स्थानं गम्यते । अत एकफलत्वादेकं सांख्यं च योगं च यः पश्यति स एव सम्यक्पश्यति नान्यः । अयं भावः-येषां संन्यासपूर्विका ज्ञाननिष्ठा दृश्यते तेषां तयैव लिङ्गेन प्राग्जन्मसु भगवदर्पितकर्मनिष्ठाऽनुमीयते । कारणमन्तरेण कार्योत्पत्त्ययोगात् । तदुक्तम् -

" यान्यतोऽन्यानि जन्मानि तेषु नूनं कृतं भवेत् ।
[२२०]यत्कृत्यं पुरुषेणेह नान्यथा ब्रह्मणि स्थितिः " इति ॥

 एवं येषां भगवदर्पितकर्मनिष्ठा दृश्यते तेषां तयैव लिङ्गेन भाविनी संन्यासपूर्वज्ञाननिष्ठाऽनुमीयते सामग्न्याः कार्याव्यभिचारित्वात् । तस्मादज्ञेन मुमुक्षुणाऽन्तः-


+ क. पुस्तकातिरिक्तपुस्तकेषु " उभयोरेकः श्रेष्ठः " इति पाठो वर्तते । स चायुक्तः ।



करणशुद्धये प्रथम कर्मयोगोऽनुष्ठेयो न तु संन्यासः । स तु वैराग्यतीव्रतायां स्वयमेव भविष्यतीति ॥ ५ ॥

 श्री०टी०-एतदेव स्फुटयति-यत्सांख्यैरिति । सांख्यैर्ज्ञाननिष्ठैः संन्यासिभिर्यत्स्थानं मोक्षाख्यं प्रकर्षेण साक्षादाप्यते, योगैरित्यत्रार्शआदि[२२१]त्वान्मत्वर्थीयोऽच्प्रत्ययो द्रष्टव्यः । कर्मयोगिभिरपि तदेव ज्ञानद्वारेण गम्यतेऽवाप्यत इत्यर्थः । अतः सांख्यं च योगं चैकफलत्वेनैकं यः पश्यति स एव सम्यक्पश्यति ॥ ५ ॥

 म० टी०-अशुद्धान्तःकरणेनापि संन्यास एव प्रथमं कुतो न क्रियते ज्ञाननिष्ठाहेतुत्वेन तस्याऽऽवश्यकत्वादिति चेत्तत्राऽऽह-

संन्यासस्तु महाबाहो दुःखमाप्तुमयोगतः॥
योगयुक्तो मुनिर्ब्रह्म नचिरेणाधिगच्छति ॥६॥

 अयोगतो योगमन्तःकरणशोधकं शास्त्रीय कर्मान्तरेण हठादेव यः कृतः संन्यासः स तु दुःखमाप्तुमेव भवति अशुद्धान्तःकरणत्वेन तत्फलस्य ज्ञाननिष्ठाया असंभवात् । शोधके च कर्मण्यनधिकारात्कर्मब्रह्मोभयभ्रष्टत्वेन परमसंकटापत्तेः । कर्मयोगयुक्तस्तु शुद्धान्तःकरणत्वान्मुनिर्मननशीलः संन्यासी भूत्वा ब्रह्म सत्यज्ञानादिलक्षणमात्मानं नचिरेण शीघ्रमेवाधिगच्छति साक्षात्करोति प्रतिबन्धकाभावात् । एतचोक्तं प्रागेव-

“न कर्मणामनारम्भान्नैष्कर्म्य पुरुषोऽश्नुते ।
न च संन्यसनादेव सिद्धिं समधिगच्छति" इति ॥

 अत एकफलत्वेऽपि कर्मसंन्यासात्कर्मयोगो विशिष्यत इति यत्प्रागुक्तं तदुप- पन्नम् ॥ ६ ॥

 श्री०टी०-यदि कर्मयोगिनोऽप्यन्ततः संन्यासेनैव ज्ञाननिष्ठा तर्हि आदित एव संन्यासः कर्तुं युक्त इति मन्वानं प्रत्याह-संन्यास इति । अयोगतः कर्मयोग विना संन्यासः प्राप्तुं दुःखं दुःखहेतुरशक्य इत्यर्थः । चित्तशुद्ध्यमावेन ज्ञाननिष्ठाया असंभवात् । योगयुक्तस्तु शुद्धचित्ततया मुनिः संन्यासी भूत्वो[२२२]ऽचिरेणैव ब्रह्माधिगच्छति अपरोक्षं जानाति । अतश्चित्तशुद्धेः प्राकर्मयोग एव संन्यासाद्विशिष्यत इति पूर्वोक्त सिद्धम् । तदुक्तं वार्तिककृद्धिः-

" प्रमादिनो बहिश्चित्ताः पिशुनाः कलहोत्सुकाः ।
संन्यासिनोऽपि दृश्यन्ते दैवसंदूषिताशयाः" इति ॥६॥

 म०टी०-ननु कर्मणो बन्धहेतुत्वाद्योगयुक्तो मुनिर्ब्रह्माधिगच्छतीत्यनुपपन्नमि- त्यत आह-



योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः॥
सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते ॥७॥

 भगवदर्पणफलाभिसंधिराहित्यादिगुणयुक्तं शास्त्रीय कर्म योग इत्युच्यते । तेन योगेन युक्तः पुरुषः प्रथमं विशुद्धात्मा विशुद्धो रजस्तमोभ्यामकलुषित आत्माऽन्तःकरणरूपं सत्त्वं यस्य स तथा। निर्मलान्तःकरणः सन्विजितात्मा स्ववशीकृतदेहः। ततो जितेन्द्रियः स्ववशीकृतसर्वबाह्येन्द्रियः । एतेन मनूक्तस्त्रिदण्डी कथितः,

“वाग्दडोऽथ मनोदण्डः कायदण्डस्तथैव च ।
यस्यैते नियता दण्डाः स त्रिदण्डीति कथ्यते " इति ॥

 वागिति बाह्येन्द्रियोपलक्षणम् । एतादृशस्य तत्त्वज्ञानमवश्यं भवतीत्याह-सर्वभूतात्मभूतात्मा सर्वभूत आत्ममूतश्चाऽऽत्मा स्वरूपं यस्य स तथा । जडाजडात्मकं सर्वमात्ममात्रं पश्यन्नित्यर्थः । सर्वेषां भूतानामात्मभूत आत्मा यस्येति व्याख्याने तु सर्वभूतात्मेत्येतावतैवार्थलाभादात्मभूतेत्यधिकं स्यात् । सर्वात्मपदयोर्जडाजडपरत्वे तु समञ्जसम् । एतादृशः परमार्थदर्शी कुर्वन्नपि कर्माणि परदृष्ट्या न लिप्यते तैः कर्मभिः स्वदृष्ट्या तदभावादित्यर्थः ॥ ७ ॥

 श्री०टी०-कर्मयोगादिक्रमेण ब्रह्माधिगमे सत्यपि तदुपरितनेन कर्मणा बन्धः स्यादेवेत्याशङ्कयाऽऽह-योगयुक्त इति । योगेन युक्तोऽतो विशुद्ध आत्मा चित्तं यस्यात एव विजित आत्मा शरीरं येन । अत एव जितानीन्द्रियाणि येन । ततश्च सर्वेषां भूतानामात्मभूत आत्मा यस्य स लोकसंग्रहार्थं स्वाभाविकं वा कर्म कुर्वन्नपि न लिप्यते तैर्न बध्यते ॥ ७ ॥

 म०टी०एतदेव विवृणोति द्वाभ्याम्-

नैव किंचित्करोमीति युक्तो मन्येत तत्त्वविद ॥
पश्यञ्शृण्वन्स्पृशञ्जिघ्रन्नश्नन्गच्छन्स्वपञ्श्वसन् ॥ ८॥
प्रलपन्विसृजन्गृह्णन्नुन्मिषनिमिषन्नपि ॥
इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् ॥ ९ ॥

 चक्षुरादिज्ञानेन्द्रियैर्वागादिकर्मेन्द्रियैः प्राणादिवायुभेदैरन्तःकरणचतुष्टयेन च तत्तच्चेष्टासु क्रियमाणासु इन्द्रियाणीन्द्रियादीन्येवेन्द्रियार्थेषु स्वस्वविषयेषु वर्तन्ते प्रवर्तन्ते न त्वहमिति धारयन्नवधारयन्नैव किंचित्करोमीति मन्येत मन्यते तत्त्ववित्परमार्थदर्शी युक्तः समाहितचित्तः । अथवाऽऽदौ युक्तः कर्मयोगेन(ण) पश्चादन्तःकरणशुद्धिद्वारेण तत्त्वविद्भूत्वा नैव किंचित्करोमीति मन्यत इति संबन्धः । तत्र दर्शनश्रवणस्पर्शनघ्रा णाशनानि चक्षुःश्रोत्रत्वग्घ्राणरसनानां पञ्चज्ञानेन्द्रियाणां व्यापाराः पश्यञ्शृण्वन्स्पृशञ्जिघ्रनश्नन्नित्युक्ताः । गतिः पादयोः । प्रलापो वाचः । विसर्गः पायूपस्थयोः । ग्रहणं हस्तयोरिति पञ्च कर्मेन्द्रियव्यापारा गच्छन्प्रलपन्विसजन्गृह्णन्नित्युक्ताः । श्वसन्निति प्राणादिपञ्चकस्य व्यापारोपलक्षणम् । उन्मिषन्निमिषन्निति नागकर्मादिपञ्चकस्य । स्वपन्नित्यन्तःकरणचतुष्टयस्य । अर्थक्रमवशात्पाठक्रम भङ्क्त्वा व्या[२२३] यस्मात्सर्वव्यापारेष्वप्यात्मनोऽकर्तृत्वमेव पश्यति अतः कुर्वन्नपि न लिप्यत इति युक्तमेवोक्तमिति भावः ॥ ८ ॥९॥

 श्री० टी०--कर्म कुर्वन्नपि न लिप्यत इत्येतद्विरुद्धमित्याशङ्कय कर्तृत्वा [२२४]भिमानाभावान्न विरुद्धमित्याह-नैवेति द्वाभ्याम् । कर्मयोगेन(ण) युक्तः क्रमेण तत्त्वविद्भूत्वा दर्शनश्रवणादीनि कुर्वन्नपीन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन्बुद्ध्या निश्चित्य किंचिदप्यहं न करोमीति मन्येत मन्यते । तत्र दर्शनश्रवणस्पर्शनावघ्राणाशनानि चक्षुरादिज्ञानेन्द्रियव्यापाराः । गतिः पादयोः । स्वापो बुद्धेः । श्वासः प्राणस्य । प्रलपनं वागिन्द्रियस्य । विसर्गः पायूपस्थयोः । ग्रहणं हस्तयोः । उन्मेषणनिमेषणे कूर्माख्यप्राणस्येति विवेकः । एतानि कर्माणि कुर्वन्नपि अभिमानाभावाद्ब्रह्मविन्न लिप्यते । तथाच पारमर्षं सूत्रम्-" तदधिगम उत्तरपूर्वाधयोरश्लेषविनाशौ तथ्यपदेशात् " इति ॥ ८ ॥ ९ ॥

 म० टी०-तर्ह्यविद्वान्कर्तृत्वाभिमानालिप्येतैव तथाच कथं तस्य संन्यासपूर्विका ज्ञाननिष्ठा स्यादिति तत्राऽऽह-

ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः॥
लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ॥१०॥

 ब्रह्मणि परमेश्वर आधाय समर्प्य सङ्गं फलाभिलाषं त्यक्त्वेश्वरार्थं भृत्य इव स्वाम्यर्थं स्वफलनिरपेक्षतया करोमीत्यभिप्रायेण कर्माणि लौकिकानि वैदिकानि च करोति यो लिप्यते न स पापेन पापपुण्यात्मकेन कर्मणेति यावत् । यथा पद्मपत्रमुपरि प्रक्षिप्तेनाम्भसा न लिप्यते तद्वत् । भगवदर्पणबुद्धयाऽनुष्ठितं कर्म बुद्धिशुद्धिफलमेव स्यात् ॥ १०॥

 श्री० टी०-तर्हि यस्य करोमीत्यभिमानोऽस्ति तस्य कर्मलेपो दुर्वारोऽविशुद्धचित्तत्वाच्च संन्यासोऽपि नास्तीति महत्संकटमापन्नमित्याशङ्कयाऽऽह-ब्रह्मणीति । ब्रह्मण्याधाय परमेश्वरे समर्प्य तत्फले च सङ्गं त्यक्त्वा यः कर्माणि करोति असौ


पापेन बन्धहेतुतया पापिष्ठेन पुण्यपापात्मकेन कर्मणा न लिप्यते यथा पद्मपत्रमम्मसि स्थितमध्यम्भसा न लिप्यते तद्वत् ॥ १० ॥

 म० टी०-तदेव विवृणोति-

कायेन मनसा बुद्धया केवलैरिन्द्रियैरपि ।
योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वाऽऽत्मशुद्धये ॥११॥

 कायेन मनसा बुद्ध्येन्द्रियैरपि योगिनः कर्मिणः फलसङ्गं त्यक्त्वा कर्म कुर्वन्ति । कायादीनां सर्वेषां विशेषणं केवलैरिति । ईश्वरायैव करोमि न मम फलायेति ममताशून्यैरित्यर्थः । आत्मशुद्धये चित्त[२२५]शुद्धयर्थम् ॥ ११ ॥

 श्री० टी०-बन्धकत्वाभावमुक्त्वा मोक्षहेतुत्वं सदाचारेण दर्शयति-कायेनेति । कायेन स्नानादि, मनसा ध्यानादि, बुद्ध्या तत्त्वनिश्चयादि, केवलैः कर्माभिनिवेशरहितैरिन्द्रियैश्च श्रवणकीर्तनादिलक्षणं कर्मफलसङ्गं त्यक्त्वा चित्तशुद्धये कर्मयोगिनः कर्म कुर्वन्ति ॥ ११ ॥

 म. टी.-कर्तृत्वाभिमानसाम्येऽपि तेनैव कर्मणा कश्चिन्मुच्यते कश्चित्तु बध्यत इति वैषम्ये को हेतुरिति तत्राऽऽह-

युक्तः कर्मफलं त्यक्त्वा शान्तिमानोति नैष्ठिकीम् ॥
अयुक्तः कामकारेण फले सक्तो निबध्यते ॥ १२ ॥

 युक्त ईश्वरायैवैतानि कर्माणि न मम फलायेत्येवमभिप्रायवान्कर्मफलं त्यक्त्वा कर्माणि कुर्वञ्शान्तिं मोक्षाख्यामाप्नोति नैष्ठिकीं सत्त्वशुद्धिनित्यानित्यवस्तुविवेकसंन्यासज्ञाननिष्ठाक्रमेण जातामिति यावत् । यस्तु पुनरयुक्त ईश्वरायैवैतानि कर्माणि न मम फलायेत्यभिप्रायशून्यः स कामकारेण कामतः प्रवृत्त्या मम फलायैवेदं कर्म करोमीति फले सक्तो निबध्यते कर्मभिनितरां संसारबन्धं प्राप्नोति । यस्मादेवं तस्मात्त्वमपि युक्तः सन्कर्माणि कुर्विति वाक्यशेषः ॥ १२ ॥

 श्री०टी०-ननु तेनैव कर्मणा कश्चिन्मुच्यते कश्चिद्वध्यत इति व्यवस्था कथमत आह-युक्त इति । युक्तः परमेश्वरैकनिष्ठः सन्कर्मणां फलं त्यक्त्वा कर्माणि कुर्वन्नात्यन्तिकीं शान्तिं मोक्षं प्राप्नोति । अयुक्तस्तु बहिर्मुखः कामकारेण कामतः प्रवृत्त्या फल आसक्तो नितरां बन्धं प्राप्नोति ॥ १२ ॥

 म०टी०-अशुद्धचित्तस्य केवलात्संन्यासात्कर्मयोगः श्रेयानिति पूर्वोक्तं प्रपञ्च्याधुना शुद्धचित्तस्य सर्वकर्मसंन्यास एव श्रेयानित्याह-


सर्वकर्माणि मनसा संन्यस्याऽऽस्ते सुखं वशी ॥
नवद्वारे पुरे देही नैव कुर्वन्न कारयन् ॥ १३ ॥

 नित्यं नैमित्तिकं काम्यं प्रतिषिद्धं चेति सर्वाणि कर्माणि मनसा कर्मण्यकर्म यः पश्येदित्यत्रोक्तेनाकर्त्रात्मस्वरूपसम्यग्दर्शनेन संन्यस्य परित्यज्य प्रारब्धकर्मवशादास्ते तिष्ठत्येव । किं दुःखेन नेत्याह-सुखमनायासेन, आयासहेतुकायवाङ्मनोव्यापारशून्यत्वात् । कायवाङ्मनांसि स्वच्छन्दानि कुतो न व्याप्रियन्ते तत्राऽऽह-वशी स्ववशीकृतकार्यकरणसंघातः । क्वाऽऽस्ते नवद्वारे पुरे द्वे श्रोत्रे द्वे चक्षुषी द्वे नासिके वागेकेति शिरसि सप्त द्वे पायूपस्थाख्ये अध इति नवद्वारविशिष्टे देहे । देही देहभिन्नात्म दर्शी प्रवासीव परगेहे तत्पूजापरिभवादिमिरप्रहृष्यन्नविषीदन्नहंकारममकारशून्यस्तिष्ठति । अज्ञो हि देहतादात्म्याभिमानादेह एव न तु देही। स च देहाधिकरणमेवाऽऽत्मनोऽधिकरणं मन्यमानो गृहे भूमावासने वाऽहमास इत्यभिमन्यते न तु देहेऽहमास इति भेददर्शनाभावात् । संघातव्यतिरिक्तात्मदर्शी तु सर्वकर्मसंन्यासी भेददर्शनाद्देहेऽहमास इति प्रतिपद्यते । अत एव देहादिव्यापाराणामविद्ययाऽऽत्मन्यक्रिये समारोपितानां विद्यया बाध एव सर्वकर्मसंन्यास इत्युच्यते । एतस्मादेवाज्ञवैलक्षण्याद्युक्तं विशेषणं नवद्वारे पुर आस्त इति । ननु देहादिव्यापाराणामात्मन्यारोपितानां नौव्यापाराणां तीरस्थवृक्ष इव विद्यया बाधेऽपि स्वव्यापारेणाऽऽत्मनः कर्तृत्वं देहादिव्यापारेषु कारयितृत्वं च स्यादिति नेत्याह-नैव कुर्वन्न कारयन् , आस्त इति संबन्धः ॥ १३ ॥

 श्री०टी०--एवं तावञ्चित्तशुद्धिशून्यस्य संन्यासात्कर्मयोगो विशिष्यत इत्येतत्प्रपञ्चितम् । इदानीं शुद्धचित्तस्य संन्यासः श्रेष्ठ इत्याह-सर्वकर्माणीति । वशी[२२६] यतचित्तः सर्वाणि कर्माणि विक्षेपकाणि मनसा विवेकयुक्तेन संन्यस्य सुखं यथा भवत्येवं ज्ञाननिष्ठः सन्नास्ते । क्वाऽऽस्त इत्यत आह-नवद्वारे नेत्रे नासिके कर्णौ मुखं चेति सप्त शिरोगतानि अधोगते द्वे पायूपस्थरूपे इत्येवं नव द्वाराणि यस्मिंस्तस्मिन्पुरे पुरवदहंभावशून्ये देहे देह्यवतिष्ठते । अहंकाराभावादेव स्वयं तेन देहेन नैव कुर्वन्ममकाराभावाच्च न कारयन्नित्यविशुद्धचित्ताद्यावृत्तिरुक्ता । अविशुद्धचित्तो हि संन्यस्य पुनः करोति कारयति च न त्वयं तथा । अतः सुखमास्त इत्यर्थः ॥ १३ ॥

 म० टी०-देवदत्तस्य स्वगतैव गतिर्यथा स्थितौ सत्यां न भवति एवमात्मनोऽपि कर्तृत्वं कारयितृत्वं च स्वगतमेव सत्संन्यासे सति न भवति अथवा नमसि तलमलिनतादिवद्वस्तुवृत्त्या तत्र नास्त्येवेति संदेहापोहायाऽऽह-


न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः ॥
न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते ॥ १४॥

 लोकस्य देहादेः कर्तृत्वं प्रभुरात्मा स्वामी न सृजति त्वं कुर्विति नियोगेन तस्य कारयिता न भवतीत्यर्थः । नापि लोकस्य कर्माणीप्सिततमानि घटादीनि स्वयं सृजति कर्ताऽपि न भवतीत्यर्थः । नापि लोकस्य कर्म कृतवतस्तत्फलसंबन्धं सृजति भोजयिताऽपि भोक्ताऽपि न भवतीत्यर्थः । " स समानः सन्नुभौ लोकावनुसंचरति ध्यायतीव लेलायतीव सधीः " इत्यादिश्रुतेः । अत्रापि " शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते " इत्युक्तेः । यदि किंचिदपि स्वतो न कारयति न करोति चाऽऽत्मा कस्तर्हि कारयन्कुर्वश्च प्रवर्तत इति तत्राऽऽह-स्वभावस्तु , अज्ञानात्मिका देवी माया प्रकृतिः प्रवर्तते ॥ १४ ॥

 श्री०टी०-ननु "एष एव साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषत एष एवासाधु कर्म कारयति तं यमेभ्यो लोकेभ्योऽधो निनीषते " इत्यादिश्रुतेः परमेश्वरेणैव शुभाशुभफलेषु कर्मसु कर्तृत्वेन प्रयुज्यमानोऽस्वतन्त्रः पुरुषः कथं तानि कर्माणि त्यजेत् , ईश्वरेणैव ज्ञानमार्गे प्रयुज्यमानस्त्यक्ष्यतीति चेत् । एवं सति वैषम्य धुण्याभ्यां प्रयोजक- कर्तृत्वादीश्वरस्यापि पुण्यपापसंबन्धः स्यादित्याशझ्याऽऽह न कर्तृत्वमिति द्वाभ्याम्प्रभुरीश्वरो जीवलोकस्य कर्तृत्वादिकं न सजति किं तु जीवस्यैव स्वभावोऽविद्यैव कर्तत्वादिरूपेण प्रवर्तते । अनाद्यविद्याकामवशात्प्रवृत्तिस्वभावं जीवलोकमीश्वरः कर्मसु नियुङ्क्ते न तु स्वयमेव कर्तृत्वादिकमुत्पादयतीत्यर्थः ॥ १४ ॥

 म०टी०-नवीश्वरः कारयिता जीवः कर्ता, तथा च श्रुतिः-" एष उ ह्येव साधु कर्म कारयति तं यमुन्निनीषते । एष उ एवासाधु कर्म कारयति तं यमधो निनीषते, " इत्यादिः । स्मृतिश्च-

" अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः ।
ईश्वरप्रेरितो गच्छेत्स्वर्ग वा श्वभ्रमेव वा" इति ॥

 तथा च जीवेश्वरयोः कर्तृत्वकारयितृत्वाभ्यां भोक्तृत्वभोजयितृत्वाभ्यां च पापपु. ण्यलेपसंभवात्कथमुक्तं स्वभावस्तु प्रवर्तत इति तत्राऽऽह परमार्थतः-

नाऽऽदत्ते कस्यचित्पापं न चैव सुकृतं विभुः ॥
अज्ञानेनाऽऽवृतं ज्ञानं तेन मुह्यन्ति जन्तवः ॥ १५॥

 विभुः परमेश्वरः कस्यचिज्जीवस्य पापं सुकृतं च नैवाऽऽदत्ते परमार्थतो जीवस्य कर्तृत्वाभावात्परमेश्वरस्य च कारयितृत्वाभावात् । कथं तर्हि [२२७]श्रुतिः स्मृतिर्लोकव्य-



वहारश्च तत्राऽऽह-अज्ञानेनाऽऽवरणविक्षेपशक्तिमता मायाख्येनानृतेन तमसाऽऽवृतमाच्छादितं ज्ञानं जीवेश्वरजगद्भेदभ्रमाधिष्ठानभूतं नित्यं स्वप्रकाशं सच्चिदानन्दरूपमद्वितीयं परमार्थसत्यं, तेन स्वरूपावरणेन मुह्यन्ति प्रमातृप्रमेयप्रमाणकर्तृकर्मकरणभोक्तृभोग्यभोगाख्यनवविधसंसाररूपं मोहमतस्मिंस्तदवभासरूपं विक्षेपं गच्छन्ति जन्तवो जननशीलाः संसारिणो वस्तुस्वरूपादर्शिनः। अकर्त्रभोक्तृपरमानन्दाद्वितीयात्मस्वरूपादर्शननिबन्धनोऽयं जीवेश्वरजगद्देदभ्रमः प्रतीयमानो वर्तते मूढानाम् । तस्यां चावस्थायां मूढप्रत्ययानुवादिन्यावेते श्रुतिस्मृती वास्तवाद्वैतबोधिवाक्यशेषभूते इति न दोषः ॥ १५ ॥

 श्री० टी०-यस्मादेवं तस्मात्-नाऽऽदत्त इति । प्रयोजकोऽपि सन्प्रभुः कस्यचित्पापं सुकृतं च नैवाऽऽदत्ते न भजते । तत्र हेतुः-विभुः परिपूर्ण आप्तकाम इत्यर्थः । यदि हि स्वार्थकामनया कारयेत्तर्हि तथा स्यात् ,न त्वेतदस्ति, आप्तकामस्यैवाचिन्त्यनिजमायया [२२८]तत्पूर्वकर्मानुसारेण प्रवर्तकत्वात् । ननु भक्ताननुगृह्णतोऽमक्तान्निगृह्णतश्च वैषम्योपलम्भात्कथमाप्तकामत्वमित्यत आह-अज्ञानेनेति । अज्ञानेन निग्रहोऽपि दण्डरूपोऽनुग्रह एवेत्येवमज्ञानेन सर्वत्र समः परमेश्वर इत्येवंभूतं ज्ञानमावृतम् । तेन हेतुना जन्तवो जीवा मुह्यन्ति भगवति वैषम्यं मन्यन्त इत्यर्थः ॥ १५ ॥

 म०टी०-तहि सर्वेषामनाद्यज्ञानावृतत्वात्कथं संसारनिवृत्तिः स्यादत आह-

ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः ॥
तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम् ॥ १६ ॥

 तदावरणविक्षेपशक्तिमदनाद्यनिर्वाच्यमनृतमनर्थव्रातमूलमज्ञानमात्माश्रयविषयमविद्यामायादिशब्दवाच्यमात्मनो ज्ञानेन गुरूपदिष्टवेदान्तमहावाक्यजन्येन श्रवणमनननिदिध्यासनपरिपाकनिर्मलान्तःकरणवृत्तिरूपेण निर्विकल्पकसाक्षात्कारेण शोधिततत्त्वंपदार्थाभेदरूपशुद्धसच्चिदानन्दाखण्डैकरसवस्तुमात्रविषयेण नाशितं बाधितं कालत्रयेऽप्यसदेवासत्तया ज्ञातमधिष्ठानचैतन्यमात्रता प्रापितं शुक्ताविव रजतं शुक्तिज्ञानेन येषां श्रवणमननादिसाधनसंपन्नानां भगवदनुगृहीतानां मुमुक्षूणां तेषां तज्ज्ञानं कर्तृ आदित्यवत् , यथाऽऽदित्यः स्वोदयमात्रेणैव तमो निरवशेषं निवर्तयति न तु कंचित्सहायमपेक्षते तथा ब्रह्मज्ञानमपि शुद्धसत्त्वपरिणामत्वाव्ध्यापकप्रकाशरूपं स्वोत्पत्तिमात्रेणैव सहकार्यन्तरनिरपेक्षतया सकार्यमज्ञानं निवर्तयत्परं सत्यज्ञानानन्तानन्दरूपमेकमेवाद्वितीयं परमात्मतत्त्वं प्रकाशयति प्रतिच्छायाग्रहणमात्रेणैव कर्मतामन्तरेणाभिव्यनक्ति । अत्राज्ञानेनाऽऽवृतं ज्ञानेन नाशितमित्यज्ञानस्याऽऽवरणत्वज्ञाननाश्यत्वाभ्यां


ज्ञानाभावरूपत्वं व्यावर्तितम् । नह्यमावः किंचिदावृणोति न वा ज्ञानाभावो ज्ञानेन नाश्यते[२२९] स्वभाव[२३०]तो नाशरूपत्वात्तस्य । तस्मादहमज्ञो मामन्यं च न जानामीित्यादिसाक्षिप्रत्यक्षसिद्धं भावरूपमेवाज्ञानमिति भगवतो मतम् । विस्तरस्त्वद्वैतसिद्धौ द्रष्टव्यः । येषामिति बहुवचनेनानियमो दर्शितः । तथाच श्रुतिः-" तद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत्तथर्षीणां तथा मनुष्याणां तदिदमप्येतार्ह य एवं वेदाहं ब्रह्मास्मीति स इदं सर्वं भवति" इत्यादिर्यद्विषयं यदाश्रयमज्ञानं तद्विषयतदाश्रयप्रमाणज्ञानात्तन्निवृत्तिरिति न्यायप्राप्तमनियमं दर्शयति । तत्राज्ञानगतमावरणं द्विविधम् -एक सतोऽप्यसत्त्वापादकमन्यत्तु भातोऽप्यमानापादकम् । तत्राऽऽद्यं परोक्षापरोक्षसाधारणप्रमाणज्ञानमात्रान्निवर्तते । अनुमितेऽपि वह्नयादौ पर्वते वह्निर्नास्तीत्यादिभ्रमादर्शनात् । तथा “ सत्यं ज्ञानमनन्तं ब्रह्मास्ति " इति वाक्यात्परोक्षनिश्चयेऽपि ब्रह्म नास्तीति भ्रमो निवर्तत एव । अस्त्येव ब्रह्म किं तु मम न भातीत्येकं भ्रमजनकं द्वितीयमभानावरणं साक्षात्कारादेव निवर्तते । स च साक्षात्कारो वेदान्तवाक्येनैव जन्यते निर्विकरुपक इत्याद्वैतसिद्धावनुसंधेयम् ॥ १६ ॥

 श्री० टी०-ज्ञानिनस्तु न मुह्यन्तीत्याह-ज्ञानेनेति । आत्मनो भगवतो ज्ञानेन येषां तद्वैषम्योपलम्भकमज्ञानं नाशितं तज्ज्ञानं तेषामज्ञानं नाशयित्वा तत्परं परिपूर्णमीश्वरस्वरूपं प्रकाशयति यथाऽऽदित्यस्तमो निरस्य समस्तं वस्तुजातं प्रकाशयति तद्वत् ॥ १६ ॥

 म०टी०-ज्ञानेन परमात्मतत्त्वप्रकाशे सति-

तद्बुद्धयस्तदात्मानस्तनिष्ठास्तत्परायणाः ॥
गच्छन्त्यपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः ॥ १७ ॥

 तस्मिज्ञानप्रकाशिते परमात्मतत्वे सच्चिदानन्दघन एव बाह्यसर्वविषयपरित्यागेन साधनपरिपाकात्पर्यवसिता बुद्धिरन्तःकरणवृत्तिः साक्षात्कारलक्षणा येषां ते तद्बुद्धयः सर्वदा निजिसमाधिभाज इत्यर्थः । तत्किं बोद्धारो जीवा बोद्धव्यं ब्रह्मतत्त्वमिति बोद्धृबोद्धव्यलक्षणभेदोऽस्ति नेत्याह-तदात्मानः, तदेव परं ब्रह्माऽऽत्मा येषां ते तथा । बोद्धृबोद्धव्यभावो हि मायाविजृम्भितो न वास्तवाभेदविरोधीति भावः । ननु तदात्मान इति विशेषणं व्यर्थम् । अविद्वद्व्यावर्तकं हि विद्वद्विशेषणम् । अज्ञा अपि हि वस्तुगत्या तदात्मान इति कथं तव्द्यावृत्तिरिति चेत्, न, इतरात्मत्वव्यावृत्तौ तात्पर्यात् । अज्ञा हि अनात्मभूते देहादावात्माभिमानिन इति न तदात्मान इति व्यपदिश्यन्ते । विज्ञास्तु निवृत्तदेहाद्यभिमाना इति विरोधिनिवृत्त्या तदात्मान इति व्यपदि-


श्यन्त इति युक्तं विशेषणम् । ननु कर्मानुष्ठानविक्षेपे सति कथं देहाद्यभिमाननिवृत्तिरिति तत्राऽऽह-तन्निष्ठाः, तस्मिन्नेव ब्रह्माणि सर्वकर्मानुष्ठानविक्षेपानिवृत्त्या निष्ठा स्थितिर्येषां ते तन्निष्ठाः, सर्वकर्मसंन्यासेन तदेकविचारपरा इत्यर्थः । फलरागे सति कथं तत्साधनभूतकर्मत्याग इति तत्राऽऽह-तत्परायणाः, तदेव परमयनं प्राप्तव्यं येषां ते तत्परायणाः, सर्वतो विरक्ता इत्यर्थः । अत्र तद्बुद्धय इत्यनेन साक्षात्कार उक्तः । तदात्मान इत्यनात्माभिमानरूपविपरीतभावनानिवृत्तिफलको निदिध्यासनपरिपाकः, तन्निष्ठा इत्यनेन सर्वकर्मसंन्यासपूर्वकः प्रमाणप्रमेयगतासंभावनानिवृत्तिफलको वेदान्तविचारः श्रवणमननपरिपाकरूपः, तत्परायणा इत्यनेन वैराग्यप्रकर्ष इत्युत्तरोत्तरस्य पूर्वपूर्वहेतुत्वं द्रष्टव्यम् । उक्तविशेषणा यतयो गच्छन्त्यपुनरावृत्तिं पुनर्देहसंबन्धाभावरूपां मुक्तिं प्राप्नुवन्ति । सकृन्मुक्तानामपि पुनर्देहसंबन्धः कुतो न स्यादिति तत्राऽऽह-ज्ञाननिर्धूतकल्मषाः, ज्ञानेन निर्धूतं समूलमुन्मूलितं पुनर्देहसंबन्धकारणं कल्मषं पुण्यपापात्मकं कर्म येषां ते तथा । ज्ञानेनानाद्यज्ञाननिवृत्त्या तत्कार्यकर्मक्षये तन्मूलकं पुनर्देहग्रहणं कथं भवेदिति भावः ॥ १७ ॥

 श्री०टी०-एवंभूतेश्वरोपासकानां फलमाह-तद्बुद्धय इति । तस्मिन्नेव बुद्धिनिश्चयात्मिका येषाम् , तस्मिन्नेवाऽऽत्मा मनो येषाम् , तस्मिन्नेव निष्ठा तात्पर्य येषाम्, तदेव परमयनमाश्रयो येषाम्, ततश्च तत्प्रसादलब्धेनाऽऽत्मज्ञानेन निर्धूतं निरस्तं कल्मषं येषां तेऽपुनरावृत्तिं मुक्तिं यान्ति ॥ १७ ॥

 म० टी०-देहपातादूर्ध्वं विदेहकैवल्यरूपं ज्ञानफलमुक्त्वा प्रारब्धकर्मवशात्सत्यपि देहे जीवन्मुक्तिरूपं तत्फलमाह-

विद्याविनयसंपन्ने ब्राह्मणे गवि हस्तिनि ॥
शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥ १८॥

 विद्या वेदार्थपरिज्ञानं ब्रह्मविद्या वा । विनयो निरहंकारत्वमनौद्धत्यमिति यावत् । ताभ्यां संपन्ने ब्रह्मविदि विनीते च ब्राह्मणे सात्त्विके सर्वोत्तमे, तथा गवि संस्कारहीनायां राजस्यां मध्यमायां, तथा हस्तिनि शुनि श्वपाके चात्यन्ततामसे सर्वाधमेऽपि, सत्त्वादिगुणैस्तज्जैश्च संस्कारैरस्पृष्टमेव समं ब्रह्म द्रष्टुं शीलं येषां ते समदर्शिनः, पण्डिता ज्ञानिनः, यथा गङ्गातोये तडागे सुरायां मूत्रे वा प्रतिबिम्बितस्याऽऽदित्यस्य न तद्गुणदोषसंबन्धस्तथा ब्रह्मणोऽपि चिदाभासद्वारा प्रतिबिम्बितस्य नोपाधिगतगुणदोषसंबन्ध इति प्रतिसंदधानाः सर्वत्र समदृष्टयैव रागद्वेषराहित्येन परमानन्दस्फूर्त्या जीवन्मुक्तिमनुभवन्तीत्यर्थः ॥ १८ ॥

 श्री०टी०-कीदृशास्ते ज्ञानिनो येऽपुनरावृत्तिं गच्छन्तीत्यपेक्षायामाह . विद्याविनयसंपन्न इति । विषमेष्वपि समं ब्रह्मैव द्रष्टुं शीलं येषां ते पण्डिता ज्ञानिन इत्यर्थः । तत्र विद्याविनयाम्यां युक्ते ब्राह्मणे च शूनो यः पचति तस्मिऽश्वपाके चेति कर्मणा वैषम्यं, गवि हस्तिनि शुनि चेति जातितो वैषम्यं दर्शितम् ॥ १८ ॥

 म० टी०-ननु सात्त्विकराजसतामसेषु स्वभावविषमेषु प्राणिषु समत्वदर्शनं धर्मशास्त्रनिषिद्धम् । तथाच तस्यान्नमभोज्यामित्युपक्रम्य गौतमः स्मरति-" समासमाभ्यां विषमसमे पूजातः" इति । समासमाभ्यामिति चतुर्थीद्विवचनम् । विषमसम इति द्वंद्वैकवद्भावेन सप्तम्येकवचनम् । चतुर्वेदपारगाणामत्यन्तसदाचाराणां यादृशो वस्त्रालंकारान्नादिदानपुरःसरः पूजाविशेषः क्रियते तत्समायैवान्यस्मै चतुर्वेदपारगाय सदाचाराय विषमे तदपेक्षया न्यूने पूजाप्रकारे कृते, तथाऽल्पवेदानां हीनाचाराणां यादृशो हीनसाधनः पूजाप्रकारः क्रियते तादृशायैवासमाय पूर्वोक्तवेदपारगसदाचारब्राह्मणापेक्षया हीनाय तादृशहीनपूजाधिके मुख्यपूजासमे पूजाप्रकारे कृते, उत्तमस्य हीनतया हीनस्योत्तमतया पूजातो हेतोस्तस्य पूजयितुरन्नमभोज्यं भवतीत्यर्थः । पूजयिता प्रतिपत्तिविशेषमकुर्वन्धनाद्धर्माच्च हीयत इति च दोषान्तरम् । यद्यपि यतीनां निष्परिग्रहाणां पाकाभावाद्धनाभावाच्चाभोज्यान्नत्वं धनहीनत्वं च स्वत एव विद्यते तथाऽपि धर्महानिर्दोषो भवत्येव । अभोज्यान्नत्वं चाशुचित्वेन पापोत्पत्युपलक्षणम् । तपोधनानां च तप एव धनमिति तद्धानिरपि दूषणं भवत्येवेति कथं समदर्शिनः पण्डिता जीवन्मुक्ता इति प्राप्त परिहरति-

इहैव तैर्जितः सर्गों येषां साम्ये स्थितं मनः॥
निर्दोषं हि समं ब्रह्म तस्माद्ब्रह्मणि ते स्थिताः ॥१९॥

 तैः समदर्शिभिः पण्डितैरिहैव जीवनदशायामेव जितोऽतिक्रान्तः सर्गः सृज्यत इति व्युत्पत्त्या द्वैतप्रपञ्चः । देहपातादूर्ध्वमतिक्रमितव्य इति किमु वक्तव्यम् । कैः, येषां साम्ये सर्वभूतेषु विषमेष्वपि वर्तमानस्य ब्रह्मणः समभावे स्थितं निश्चलं मनः । हि यस्मान्निर्दोष समं सर्वविकारशून्यं कूटस्थनित्यमेकं च ब्रह्म तस्मात्ते समदर्शिनो ब्रह्मण्येव स्थिताः । अयं भावः-दुष्टत्वं हि द्वेधा भवति अदुष्टस्यापि दुष्टसंबन्धात्स्वतोदुष्टत्वाद्वा । यथा गङ्गोदकस्य मूत्रगर्तपातात्, स्वत एव वा यथा मूत्रादेः । तत्र दोषवत्सु श्वपाकादिषु स्थितं तद्दोषैर्दुष्यति ब्रह्मेति मूढैर्विभाव्यमानमापि सर्वदोषासंसृष्टमेव ब्रह्म व्योमवदसङ्गत्वात् " असङ्गो ह्ययं पुरुषः,"

" सूर्यो यथा सर्वलोकस्य चक्षुर्न लिप्यते चाक्षुषैर्बाह्यदोषैः ।
एकस्तथा सर्वभूतान्तरात्मा न लिप्यते लोकदुःखेन बाह्यः" इति श्रुतेः ॥

 नापि कामादिधर्मवत्तया स्वत एव कलुषितं कामादेरन्तःकरणधर्मत्वस्य श्रुतिस्मृतिसिद्धत्वात् । तस्मानिर्दोषब्रह्मरूपा यतयो जीवन्मुक्ता अभोज्यान्नादिदोषदुष्टाश्चेति व्याहतम् । स्मृतिस्त्वविद्वद्गृहस्थविषयैव, तस्यान्नमभोज्यमित्युपक्रमात्, पूजात इति मध्ये निर्देशात् , धनाद्धर्माच्च हीयत इत्युपसंहाराच्चेति द्रष्टव्यम् ॥ १९ ॥

 श्री०टी०-ननु विषमेषु समदर्शनं निषिद्धं कुर्वन्तः कथं ते पण्डिताः । यथाऽऽह गौतमः-" समासमाभ्यां विषमसमे पूज्य(जा)तः" इति । अस्यार्थः- समाय पूजया विषमे प्रकारे कृते सति विषमाय च समे प्रकारे कृते सति स पूजक इहलोकात्परलोकाच्च हीयत इति, तत्राऽऽह-इहैवेति । इहैव जीवद्भिरेव तैः सृज्यत इति सर्गः संसारो जितो निरस्तः । कैः, येषां मनः साम्ये समत्वे स्थितम् । तत्र हेतुः- हि यस्माद्ब्रह्म समं निर्दोषं च तस्मात्ते समदर्शिनो ब्रह्मण्येव स्थिता ब्रह्मभावं प्राप्ता इत्यर्थः । गौतमोक्तस्तु दोषो ब्रह्मभावप्राप्तेः पूर्वमेव, [२३१]पूजात इति पूजकावस्थाश्रवणात् ॥ १९ ॥

 म०. टी०.यस्मान्निर्दोषं समं ब्रह्म तस्मात्तद्रूपमात्मानं साक्षात्कुर्वन्-

न प्रहृष्येत्प्रियं प्राप्य नोद्दिजेत्प्राप्य चाप्रियम् ॥
स्थिरबुद्धिरसंमूढो ब्रह्मविद्ब्रह्मणि स्थितः ॥२०॥

 'दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः' इत्यत्र व्याख्यातं पूर्वार्धम् । जीवन्मुक्तानां स्वाभाविकं चरितमेव मुमुक्षुभिः प्रयत्नपूर्वकमनुष्ठेयमिति वदितुं लिङ्प्रत्ययौ । अद्वितीयात्मदर्शनशीलस्य व्यतिरिक्तप्रियाप्रियप्राप्त्ययोगान्न तन्निमित्तौ हर्षविषादावित्यर्थः । अद्वितीयात्मदर्शनमेव विवृणोति-स्थिरबुद्धिः स्थिरा निश्चला संन्यासपूर्वकवेदान्तवाक्यविचारपरिपाकेण सर्वसंशयशून्यत्वेन निर्विचिकित्सा निश्चिता ब्रह्मणि बुद्धिर्यस्य स तथा, लब्धश्रवणमननफल इति यावत् । एतादृशस्य सर्वासंभावनाशून्यत्वेऽपि विपरीतभावनाप्रतिबन्धात्साक्षात्कारो नोदेतीति निदिध्यासनमाह-असंमूढः, निदिध्यासनस्य विजातीयप्रत्ययानन्तरितसजातीयप्रत्ययप्रवाहस्य परिपाकेण विपरीतभावनाख्यसंमोहरहितः । ततः सर्वप्रतिबन्धापगमाद्ब्रह्मविद्ब्रह्मसाक्षात्कारवान् । ततश्च समाधिपरिपाकेण निर्दोषे समे ब्रह्मण्येव स्थितो नान्यत्रेति ब्रह्मणि स्थितो जीवन्मुक्तः स्थितप्रज्ञ इत्यर्थः । एतादृशस्य द्वैतदर्शनाभावात्प्रहर्षोद्वेगौ न भवत इत्युचितमेव । साधकेन तु द्वैतदर्शने विद्यमानेऽपि विषयदोषदर्शनादिना प्रहर्षविषादौ त्याज्यावित्यभिप्रायः ॥ २० ॥


 श्री०टी०-ब्रह्मप्राप्तस्य लक्षणमाह-नेति । यो ब्रह्मविद्भूत्वा ब्रह्मण्येव स्थितः स प्रियं प्राप्य न प्रहृष्येन्न प्रहृष्यति अप्रियं च प्राप्य नोद्विजेन्न विषादतीत्यर्थः । यतः स्थिरबुद्धिः स्थिरा निश्चला बुद्धिर्यस्य । तत्कुतः, यतोऽसंमूढो निवृतमोहः ॥ २० ॥

 म०. टी०-ननु बाह्यविषयप्रीतेरनेकजन्मानुभूतत्वेनातिप्रबलत्वात्तदासक्तचित्तस्य कथमलौकिके ब्रह्मणि दृष्टसर्वसुखरहिते स्थितिः स्यात्, परमानन्दरूपत्वादिति चेत्, न, तदानन्दस्याननुभूतचरत्वेन चित्तस्थितिहेतुत्वाभावात् । तदुक्तं वार्तिके-

[२३२]अप्यानन्दः श्रुतः साक्षान्मानेनाविषयीकृतः ।
दृष्टानन्दाभिलाषं स न मन्दीकर्तुमप्यलम्" इति ॥

  तत्राऽऽह-

बाह्यस्पर्शेष्वसत्तात्मा विन्दत्यात्मनि यत्सुखम् ॥
स ब्रह्मयोगयुक्तात्मा सुखमक्षयमश्रुते ॥ २१ ॥

 इन्द्रियैः स्पृश्यन्त इति स्पर्शाः शब्दादयः । ते च बाह्या अनात्मधर्मत्वात् । तेष्वसक्तात्माऽनासक्तचित्तस्तृष्णाशून्यतया विरक्तः सन्नात्मनि अन्तःकरण एव बाह्यविषयनिरपेक्षं यदुपशमात्मकं सुखं तद्विन्दति लभते निर्मलसत्त्ववृत्त्या । तदुक्तं भारते-

यच्च कामसुखं लोके यच्च दिव्यं महत्मुखम् ।
तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम्" इति ॥

 अथवा प्रत्यगात्मनि त्वंपदार्थे यत्सुखं स्वरूपभूतं सुषुप्तावनुभूयमानं बाह्यविषयासक्तिप्रतिबन्धादलम्यमानं तदेव तदभावाल्लभते । न केवलं त्वंपदार्थसुखमेव लभते किं तु तत्पदार्थैक्यानुभवेन पूर्णसुखमपीत्याह-स तृष्णाशून्यो ब्रह्मणि परमात्मनि योगः समाधिस्तेन युक्तस्तस्मिन्व्यापृत आत्माऽन्तःकरणं यस्य स ब्रह्मयोगयुक्तात्मा । अथवा ब्रह्मणि तत्पदार्थे योगेन वाक्यार्थानुमवरूपेण समाधिना युक्त ऐक्यं प्राप्त आत्मा त्वंपदार्थस्वरूपं यस्य स तथा, सुखमक्षयमनन्तं स्वस्वरूपभूतमश्नुते व्याप्नोति सुखानुभवरूप एव सर्वदा भवतीत्यर्थः । नित्येऽपि वस्तुन्यविद्यानिवृत्त्यभिप्रायेण धात्वर्थयोग औपचारिकः । तस्मादात्मन्यक्षयसुखानुभवार्थी सन्बाह्यविषयप्रीतेः क्षणिकाया महानरकानुवन्धिन्याः सकाशादिन्द्रियाणि निवर्तयेत्तावतैव च ब्रह्मणि स्थितिर्भवतीत्यभिप्रायः॥२१॥

 श्री०टी०-मोहनिवृत्त्या बुद्धिस्थैर्ये हेतुमाह-बाह्यस्पर्शेष्विति । इन्द्रियैः स्पृश्यन्त इति स्पर्शा विषया बाह्येन्द्रियविषयेषु असक्तात्माऽनासक्तचित्त आत्मन्यन्तः- करणे यदुपशमात्मकं सात्त्विकं सुखं तद्विन्दति लभते । स चोपशमात्मकं सुखं लब्ध्वा


ब्रह्मणि योगेन समाधिना युक्तस्तदैक्यं प्राप्त आत्मा यस्य सोऽक्षयं सुखमभुते प्राप्नोति ॥ २१॥

 म०टी०-ननु बाह्यविषयप्रीतिनिवृत्तावात्मन्यक्षयसुखानुभवस्तस्मिंश्च सति तत्प्रसादादेव बाह्यविषयप्रीतिनिवृत्तिरितीतरेतराश्रयवशान्नैकमपि सिध्येदित्याशङ्कय विषयदोषदर्शनाभ्यासेनैव तत्प्रीतिनिवृत्तिर्भवतीति परिहारमाह-\

ये हि संस्पर्शजा भोगा दुःखयोनय एव ते ॥
आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः ॥ २२ ॥

 हि यस्माद्ये संस्पर्शजा विषयेन्द्रियसंबन्धना भोगाः क्षुद्रसुखलवानुभवा इह वा परत्र वा रागद्वेषादिव्याप्तत्वेन दुःखयोनय एव ते, ते सर्वेऽपि ब्रह्मलोकपर्यन्तं दुःखहेतव एव । तदुक्तं विष्णुपुराणे-

"यावतः कुरुते जन्तुः संबन्धान्मनसः प्रियान् ।
तावन्तोऽस्य निखन्यन्ते हृदये शोकशङ्कवः" इति ॥

 एतादृशा अपि न स्थिराः किं तु आद्यन्तवन्तः, आदिर्विषयेन्द्रियसंयोगोऽन्तश्च तद्वियोग एव तौ विद्येते येषां ते पूर्वापरयोरसत्त्वान्मध्ये स्वप्नवदाविर्भूताः क्षणिका मिथ्याभूताः । तदुक्तं गौडपादाचार्यैः- " आदावन्ते च यन्नास्ति वर्तमानेऽपि तत्तथा इति । यस्मादेवं तस्मात्तेषु बुधो विवेकी न रमते प्रतिकूलवेदनीयत्वान्न प्रीतिमनुभवति । तदुक्तं भगवता पतञ्जलिना-" परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरोधाच्च दुःखमेव सर्व विवेकिनः" इति । सर्वमपि विषयसुखं दृष्टमानुश्रविकं च दुःखमेव प्रतिकूलवेदनीयत्वात् , विवेकिनः परिज्ञातक्लेशादिस्वरूपस्य न त्वविवेकिनः । अक्षिपात्रकल्पो हि विद्वानत्यल्पदुःखलेशेनाप्युद्विजते । यथोर्णातन्तुरतिसुकुमारोऽप्यक्षिपात्रे न्यस्तः स्पर्शन दुःखयति नेतरेष्वङ्गेषु तद्वद्विवेकिन एव मधुविषसंपृक्तानभोजनवत्सर्वमपि भोगसाधनं कालत्रयेऽपि क्लेशानुविद्धत्वाद्दुःखं न मूढस्य बहुविधदुःखसहिष्णोरित्यर्थः । तत्र परिणामतापसंस्कारदुःखैरिति भूतवर्तमानभविष्यत्कालेऽपि दुःखानुविद्धत्वादोषाधिकं दुःखत्वं विषयसुखस्योक्तं, गुणवृत्तिविरोधाच्चेत्यनेन स्वरूपतोऽपि दुःखत्वम् । तत्र परिणामश्च तापश्च संस्कारश्च त एव दुःखानि तैरित्यर्थः । इत्थंभूतलक्षणे तृतीया । तथाहि-रागानुविद्ध एव सर्वोऽपि सुखानुभवः । न हि तत्र न रज्यति तेन सुखी चेति संभवति । राग एव च पूर्वमुद्भतः सन्विषयप्राप्त्या सुखरूपेण परिणमते । तस्य च प्रतिक्षणं वर्धमानत्वेन स्वविषयाप्राप्तिनिबन्धनदुःखस्यापरिहार्यत्वादुःखरूपतैव । या हि भोगेष्विन्द्रियाणामुपशान्तिः परितृप्तत्वात्तत्सुखम् । या लौल्यादनुपशान्तिस्तदुःखम् । न चेन्द्रियाणां भोगाभ्यासेन वैतृष्ण्यं कर्तुं शक्यम् । यतो भोगाभ्यास मनु विवर्धन्ते रागाः कौशलानि चेन्द्रियाणाम् । स्मृतिश्च-“न जातु कामः" इत्यादिः । तस्माद्दुःखात्मकरागपरिणामत्वाद्विषयसुखमपि दुःखमेव कार्यकारणयोरभेदादिति परिणामदुःखत्वम् । तथा सुखानुभवकाले तत्प्रतिकूलानि दुःखसाधनानि द्वेष्टि । नानुपहत्य भूतान्युपभोगः संभवतीति भूतानि च हिनस्ति । द्वेषश्च सर्वाणि दुःखसाधनानि मे मा भूवन्निति संकल्पविशेषः । न च तानि सर्वाणि कश्चिदपि परिहर्तुं शक्नोति । अतः सुखानुभवकालेऽपि तत्परिपन्थिनं प्रति द्वेषस्य सर्वदैवावास्थितत्वात्तापदुःखं दुष्परिहरमेव । तापो हि द्वेषः । एवं[२३३] दुःखसाधनानि परिहर्तुमशक्तो मुह्यति चेति मोहदुःखताऽपि व्याख्येया। तथाचोक्तं योगभाष्यकारैः-सर्वस्य द्वेषानुविद्धश्चेतनाचेतनसाधनाधीनस्तापानुभव इति । तत्रास्ति द्वेषजः कर्माशयः । सुखसाधनानि च प्रार्थयमानः कायेन वाचा मनसा च परिस्पन्दते । ततः परमनुगृह्णात्युपहन्ति चेति परानुग्रहपीडाम्यां धर्माधर्मावुपचिनोति । स कर्माशयो लोभान्मोहाच्च भवतीत्येषा तापदुःखतोच्यते । तथा वर्तमानः सुखानुभवः स्वविनाशकाले संस्कारमाधत्ते । स च सुखस्मरणं, तच्च रागं, स च मनःकायवचनचेष्टां, सा च पुण्यापुण्यकर्माशयौ, तौ च जन्मादीति संस्कारदुःखता । एवं तापमोहयोरपि संस्कारौ व्याख्येयौ । एवं कालत्रयेऽपि दुःखानुवेधाद्विषयसुखं दुःखमेवेत्युक्त्वा स्वरूपतोऽपि दुःखतामाह-गुणवृत्तिविरोधाच्च, गुणाः सत्त्वरजस्तमांसि सुखदुःखमोहात्मकाः परस्परविरुद्धखभावा अपि तैलवर्त्यग्नय इव दीपं पुरुषभो[२३४]गोपयुक्तत्वेन त्र्यात्मकमेकं कार्यमारभन्ते । तत्रैकस्य प्राधान्ये द्वयोर्गुणभावात्प्रधानमात्रव्यपदेशेन सात्त्विकं राजसं तामसमिति त्रिगुणमपि कार्यमेकेन गुणेन व्यपदिश्यते । तत्र सुखोपभोगरूपोऽपि प्रत्यय उद्भूतसत्त्वकार्यत्वेऽप्यनुद्भूतरजस्तमःकार्यत्वात्रिगुणात्मक एव । तथा च सुखात्मकत्ववद्दुःखात्मकत्वं विषादात्मकत्वं च तस्य ध्रुवमिति दुःखमेव सर्वं विवेकिनः । न चैतादृशोऽपि प्रत्ययः स्थिरः । यस्माच्च[२३५]लं च गुणवृत्तमिति क्षिप्रपरिणामि चित्तमुक्तम् । नन्वेकः प्रत्ययः कथं परस्परविरुद्धसुखदुःखमोहत्वान्येकदा प्रतिपयत इति चेत्, न, उद्भूतानुभूतयोर्विरोधाभावात् । समवृत्तिकानामेव हि गुणानां युगपद्विरोधो न विषमवृत्तिकानाम् । यथा धर्मज्ञानवैराग्यैश्वर्याणि लब्धवृत्तिकानि लब्धवृत्तिकैरेवाध- र्माज्ञानावैराग्यानैश्वर्यैः सह विरुध्यन्ते न तु स्वरूपसद्भिः। प्रधानस्य प्रधानेन सह विरोधो न तु दुर्बलेनेति हि न्यायः। एवं सत्त्वरजस्तमांस्यपि परस्परं प्राधान्यमानं युग. पन्न सहन्ते न तु सद्भावमपि । एतेन परिणामतापसंस्कारदुःखेष्वपि रागद्वेषमोहानां युगपत्सद्भावो व्याख्यातः प्रसुप्ततनुविच्छिन्नोदाररूपेण क्लेशानां चतुरवस्थत्वात् ।


तथा हि-"अविद्यास्मितारागद्वेषाभिनिवेशाः पञ्च क्लेशाः । अविद्या क्षेत्रमुत्तरेषां प्रसुसतनुविच्छिन्नोदाराणाम् | अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या । हदर्शनशक्त्योरेकात्मतैवास्मिता । सुखानुशयी रागः । दुःखानुशयी द्वेषः । स्वरसवाही विदुषोऽपि तथा रूढोऽभिनिवेशः। ते प्रतिप्रसवहेयाः सूक्ष्माः। ध्यानहेयास्तद्वृत्तयः । क्लेशमूलः कर्माशयो दृष्टादृष्टजन्मवेदनीयः । सति मूले तद्विपाको जात्यायुर्भोगाः" इति पातञ्जलानि सूत्राणि । तत्रातस्मिंस्तद्बुद्धिर्विपर्ययो मिथ्याज्ञानमविद्येति पर्यायाः । तस्या विशेषः संसारनिदानम् । तत्रानित्ये नित्यबुद्धिर्यथा-ध्रुवा पृथिवी ध्रुवा सचन्द्रतारका द्यौरमृता दिवौकस इति । अशुचौ परमबीभत्से कार्य शुचिबुद्धियथा-नवेव शशाङ्कलेखा कमनीयेयं कन्या मध्वमृतावयवनिर्मितेव चन्द्रं भित्त्वा निःसृतेव ज्ञायते नीलोत्पलपत्रायताक्षी हावगर्भाम्यां लोचनाम्यां जीवलोकमाश्वासयतीवेति कस्य केन संबन्धः।

“स्थानाद्वीजादुपष्टम्भान्निष्यन्दान्निधनादपि ।
कायमाधेयशौचत्वात्पण्डिता ह्यशुचिं विदुः"

 इति च वैयासिकः श्लोकः । एतेनापुण्ये पुण्यप्रत्ययोऽनर्थे चार्थप्रत्ययो व्याख्यातः। दुःखे सुखख्यातिरुदाहता परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरोधाच्च दुःखमेव सर्वं विवेकिन इति । अनात्मन्यात्मख्यातिर्यथा-शरीरे मनुष्योऽहमित्यादिः । इयं चाविद्या सर्वक्लेशमूलभूता तम इत्युच्यते । बुद्धिपुरुषयोरभेदाभिमानोऽस्मिता मोहः । साधनरहितस्यापि सर्वं सुखजातीयं मे भूयादिति विपर्ययविशेषो रागः । स एव महामोहः । दुःखसाधने विद्यमानेऽपि किमपि दुखं मे मा भूदिति विपर्ययविशेषो द्वेषः । स तामिस्रः । आयुरभावेऽप्येतैः शरीरेन्द्रियादिभिरनित्यैरपि वियोगो मे मा भूदित्याविद्वदङ्गनाबालं स्वाभाविकः सर्वप्राणिसाधारणो मरणत्रासरूपो विपर्ययविशेषोऽभिनिवेशः । सोऽन्धतामिस्त्रः । तदुक्तं पुराणे-

" तमो मोहो महामोहस्तामिस्त्रो ह्यन्वसंज्ञितः ।
अविद्या पञ्चपर्वैषा प्रादुर्भूता महात्मनः" इति ॥

 एते च क्लेशाश्चतुरवस्था भवन्ति । तत्रासतोऽनुत्पत्तेरनभिव्यक्तरूपेणावस्थानं सुप्तावस्था । अभिव्यक्तस्यापि सहकार्यलाभात्कार्याजन[२३६]कत्वं तन्ववस्था । अभिव्यक्तस्य जनितकार्यस्यापि केनचिद्वलवताऽभिभवो विच्छेदावस्था । अभिव्यक्तस्य प्राप्तसहकारिसंपत्तेरप्रतिबन्धेन स्वकार्यकरत्वमुदारावस्था । एतादृगवस्थाचतुष्टयविशिष्टानामस्मितादीनां चतुर्णां विपर्ययरूपाणां क्लेशानामविद्यैव सामान्यरूपा क्षेत्रं प्रसवभूमिः, सर्वेषामपि विपर्ययरूपत्वस्य दर्शितत्वात् । तेनाविद्यानिवृत्त्यैव क्लेशानां निवृत्तिरित्यर्थः । ते


च क्लेशाः प्रसुप्ता यथा प्रकृतिलीनाना, तनवः प्रतिपक्षभावनया तनूकृता यथा योगिनाम् । त उभयेऽपि सूक्ष्माः प्रतिप्रसवेन मनोनिरोधेनैव निर्बीजसमाधिना हेयाः । ये तु सूक्ष्मवृत्तयस्तत्कार्यभूताः स्थूला विच्छिन्ना उदाराश्च विच्छिद्य विच्छिद्य तेन तेनाऽऽत्मना पुनः प्रादुर्भवन्तीति विच्छिन्नाः, यथा रागकाले क्रोधो विद्यमानोऽपि न प्रादुर्भूत इति विच्छिन्न उच्यते, एवमेकस्यां स्त्रियां चैत्रो रक्त इति नान्यासु विरक्तः किं त्वेकस्यां रागो लब्धवृत्तिरन्यासु च भविष्यवृत्तिरिति स तदा विच्छिन्न उच्यते, ये यदा विषयेषु लब्धवृत्तयस्ते तदा सर्वात्मना प्रादुर्भूता उदारा उच्यन्ते, त उभयेऽप्यतिस्थूलत्वाच्छुद्धसत्त्व[२३७]भवेन भगवद्ध्यानेन हेया न मनोनिरोधमपेक्षन्ते । निरोधहेयास्तु सूक्ष्मा एव । तथा च परिणामतापसंस्कारदुःखेषु प्रसुप्ततनुविच्छिन्नरूपेण सर्वे क्लेशाः सर्वदा सन्ति । उदारता तु कदाचित्कस्यचिदिति विशेषः । एते च बाधनालक्षणं दुःखमुपजनयन्तः क्लेशशब्दवाच्या भवन्ति । यतः कर्माशयो धर्माधर्माख्यः क्लेशमूलक एव । सति च मूलभूते क्लेशे तस्य कर्माशयस्य विपाकः फलं जन्माऽऽयुर्भोगश्चेति । स च कर्माशय इह परत्र च स्वविपाकारम्भकत्वेन दृष्टादृष्टजन्मवेदनीयः। एवं क्लेशसंततिर्घटीयन्त्रवदनिशमावर्तते । अतः समीचीनमुक्तं ये हि संस्पर्शजा भोगा दुःखयोनय एव ते । आद्यन्तवन्त इति । दुःखयोनित्वं परिणामादिभिर्गुणवृत्तिविरोधाच्च । आद्यन्तवत्त्वं गुणवृत्तस्य चलत्वादिति योगमते व्याख्या । औपनिषदानां तु अनादिभावरूपमज्ञानमविद्या । अहंकारधर्म्य[२३८]ध्यासोऽस्मिता । रागद्वेषाभिनिवेशास्तद्वृत्तिविशेषा इत्यविद्यामूलत्वात्सर्वेऽप्यविद्यात्मकत्वेन मिथ्याभूता रज्जुभुजंगाध्यासवन्मिथ्यात्वेऽपि दुःखयोनयः स्वप्नादिवद्दृष्टिसृष्टिमात्रत्वेनाऽऽधन्तवन्तश्चेति बुधोऽधिष्ठानसाक्षात्कारेण निवृत्तभ्रमस्तेषु न रमते, मृगतृष्णिकास्वरूपज्ञानवानिव तत्रोदकार्थी न प्रवर्तते । न संसारे सुखस्य गन्धमात्रमप्यस्तीति बुद्धा ततः सर्वाणीन्द्रियाणि निवर्तयेदित्यर्थः ॥ २२ ॥

 श्री०टी०-ननु प्रियविषयभोगाना( णा )मपि निवृत्तेः कथं मोक्षः पुरुषार्थः स्यात्तत्राऽऽह-ये हीति । संस्पृश्यन्त इति संस्पर्शा विषयास्तेभ्यो जाता ये भोगाः सुखानि ते हि वर्तमानकालेऽपि स्पर्धासूयादिव्याप्तत्वादुःखस्यैव योनयः कारणभूता आदिमन्तोऽतवन्तश्च । अतो विवेकी तेषु न रमते ॥ २२ ॥

 म० टी०-सर्वानर्थप्राप्तिहेतुर्दुनिवारोऽयं श्रेयोमार्गप्रतिपक्षः कष्टतमो दोषो महता यत्नेन मुमुक्षुणा निवारणीय इति यत्नाधिक्यविधानाय पुनराह-

शक्कोतीहैव यः सोढुं प्राक्शरीरविमोक्षणात् ॥
कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः ॥ २३ ॥


 आत्मनोऽनुकूलेषु सुखहेतुषु दृश्यमानेषु श्रूयमाणेषु स्मर्यमाणेषु वा तद्गुणानुसंधानाभ्यासेन यो रत्यात्मको गर्धोऽभिलाषस्तृष्णा लोभः स कामः । स्त्रीपुंसयोः परस्परव्यतिकराभिलाषे त्वत्यन्तनिरूढः कामशब्दः। एतदभिप्रायेण कामः क्रोधस्तथा लोभ इत्यत्र धनतृष्णा लोभः [२३९]स्त्रीव्यतिकरतृष्णा काम इति कामलोभौ पृथगुक्तौ । इह तु तृष्णासामान्याभिप्रायेण कामशब्दः प्रयुक्त इति लोभः पृथङ्नोक्तः । एवमात्मनः प्रतिकूलेषु दुःखहेतुषु दृश्यमानेषु श्रूयमाणेषु स्मर्यमाणेषु वा तद्दोषानुसंधानाभ्यासेन यः प्रज्वलनात्मको द्वेषो मन्युः स क्रोधः । तयोरुत्कटावस्था लोकवेदविरोधप्रतिसंधानप्रतिबन्धकतया लोकवेदविरुद्धप्रवृत्त्युन्मुखत्वरूपा नदीवेगसाम्येन वेग इत्युच्यते । यथा हि नद्या वेगो वर्षास्वतिप्रबलतया लोकवेदविरोधप्रतिसंधानेनानिच्छन्तमपि गर्ते पातयित्वा मज्जयति चाधो नयति च, तथा कामक्रोधयोरपि वेगो विषयाभिध्यानाभ्यासेन वर्षाकालस्थानीयेनातिप्रबलो लोकवेदविरोधप्रतिसंधानेनानिच्छन्तमपि विषयगर्ते पातयित्वा संसारसमुदे मज्जयति चाधो महानरकान्नयति चेति वेगपदप्रयोगेण सूचितम् । एतच्चाथ केन प्रयुक्तोऽयमित्यत्र विवृतम् । तमेतादृशं कामक्रोधोद्भवं वेगमन्तःकरणप्रक्षोभरूपं स्तम्भस्वेदाद्यनेकबाह्यविकारलिङ्गमाशरीरविमोक्षणाच्छरीरविमोक्षणपर्यन्तमनेकनिमित्तवशात्सर्वदा संभाव्यमानत्वेनाविस्त्रम्भणीयमन्तरुत्पन्नमात्रमिहैव बहिरिन्द्रियव्यापाररूपाद्गर्तपतनात्प्रागेव यो यतिर्धीरस्तिमिंगिल इव नदीवेगं विषयदोषदर्शनाभ्यासजेन वशीकारसंज्ञकवैराग्येण सोढुं तदनुरूपकार्यासंपादनेनानर्थकं कर्तुं शक्नोति समर्थो भवति, स एव युक्तो योगी, स एव सुखी, स एव नरः पुमान्पुरुषार्थसंपादनात्, तदितरस्त्वाहारनिद्रामयमैथुनादिपशुधर्ममात्ररतत्वेन मनुष्याकारः पशुरेवेति भावः । आशरीरविमोक्षणादित्यत्रान्यव्याख्यानम्-यथा मरणादूर्ध्वं विलपन्तीभिर्युक्तीभिरालिङ्गयमानोऽपि पुत्रादिभिर्दह्यमानोऽपि प्राणशून्यत्वात्कामक्रोधवेगं सहते, तथा मरणात्प्रागपि जीवन्नेव यः सहते स युक्त इत्यादि । अत्र यदि मरणवज्जीवनेऽपि कामक्रोधानुत्पत्तिमात्रं ब्रूयात्तदैतद्युज्येत । यथोक्तं वसिष्ठेन-

"प्राणे गते यथा देहः सुखं दुःखं न विन्दति ।
तथा चेत्प्राणयुक्तोऽपि स कैवल्याश्रमे वसेत् " इति ॥

 इह तूत्पन्नयोः कामक्रोधयोर्वेगसहने प्रस्तुते तयोरनुत्पत्तिमात्रं न[२४०] दा[२४१] र्ष्टान्त इति किमतिनिर्बन्धेन ॥ २३ ॥


 श्री० टी०-त(य)स्मान्मोक्ष एव परः पुरुषार्थस्तस्य च कामक्रोधवेगोऽतिप्रतिपक्षोऽतस्तत्सहनसमर्थ एव मोक्षभागित्याह-शक्रोतीति । कामाक्रोधाच्चोद्भवति यो वेगो मनोने[२४२]त्रक्षोभादिलक्षणस्तमिहैव तदुद्भवसमय एव यो नरः सोढुं प्रतिरोढुं शक्नोति । तदपि न क्षणमात्रं किं तु शरीरविमोक्षणात्प्राग्यावदेहपातमित्यर्थः । य एवंभूतः स एवं युक्तः समाहितः सुखी च भवति नान्यः । यद्वा मरणादूर्ध्वं विलपन्तीभिर्युवतीभिरालिङ्गयमानोऽपि पुत्रादिभिर्दह्यमानोऽपि यथा प्राणशून्यः कामक्रोधवेगं सहते तथा मरणात्प्रागपि जीवन्नेव यः सहते स एव युक्तः सुखी चेत्यर्थः । तदुक्तं वसिष्ठेन-

"प्राणे गते यथा देहः सुखं दुःखं न विन्दति ।
तथा चेत्प्राणयुक्तोऽपि स कैवल्याश्रयो भवेत्।" इति ॥ २३ ॥

 म०टी०--कामक्रोधवेगसहनमात्रेणैव मुच्यत इति न, किं तु-

योऽन्तःसुखोऽन्तरारामस्तथाऽन्तर्ज्योतिरेव यः॥
स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति ॥२४॥

 अन्तर्बाह्यविषयनिरपेक्षमेव स्वरूपभूतं सुखं यस्य सोऽन्तःसुखो बाह्यविषयजनितसुखशून्य इत्यर्थः । कुतो बाह्यसुखाभावस्तत्राऽऽह-अन्तरात्मन्येव न तु ख्यादिविषये बाह्यसुखसाधन आराम आरमणं क्रीडा यस्य सोऽन्तरारामस्त्यक्तसर्वपरिग्रहत्वेन बाह्यसुखसाधनशून्य इत्यर्थः । ननु त्यक्तसर्वपरिग्रहस्यापि यतेर्यदृच्छोपनतैः कोकिलादिमधुरशब्दश्रवणमन्दपवनस्पर्शनचन्द्रोदयमयूरनृत्यादिदर्शनातिमधुरशीतलगङ्गोदकपानकेतकीकुसुमसौरभाद्यवघ्राणादिभिर्ग्राम्यैः सुखोत्पत्तिसंभवात्कथं बाह्यसुखतत्साधनशून्यत्वमिति तत्राऽऽह-तथाऽन्तर्ज्योतिरेव यः । यथाऽन्तरेव सुखं न बाह्यैर्विषयैस्तथाऽन्तरेवाऽऽत्मनि ज्योतिर्विज्ञानं न बाह्यैरिन्द्रियैर्यस्य सोऽन्तर्ज्योतिः श्रोत्रादिजन्यशब्दादिविषयविज्ञानरहितः । एवकारो विशेषणत्रयेऽपि संबध्यते । समाधिकाले शब्दादिप्रतिभासाभावाद्व्युत्त्थानकाले तत्प्रतिभासेऽपि मिथ्यात्वनिश्चयान्न बाह्यविषयैस्तस्य सुखोत्पत्तिसंभव इत्यर्थः । य एवं यथोक्तविशेषणसंपन्नः स योगी समाहितो ब्रह्मनिर्वाणं ब्रह्म परमानन्दरूपं कल्पितद्वैतोपशमरूपत्वेन निर्वाणं तदेव, कल्पितभावस्याधिष्ठानात्मकत्वात् , अविद्यावरणनिवृत्त्याऽधिगच्छति नित्यप्राप्तमेव प्राप्नोति । यतः सर्वदैव ब्रह्मभूतो नान्यः, "ब्रह्मैव सन्ब्रह्माप्येति" इति श्रुतेः, "अवस्थितेरिति काशकृत्स्नः" इति न्यायाच ॥ २४ ॥

 श्री०टी०-न केवलं कामक्रोधवेगसंहरणमात्रेण मोक्ष प्राप्नोति अपि तु ---- योऽन्तरिति । अन्तरात्मन्येव सुखं यस्य न विषयेषु, अन्तरेवाऽऽरामः क्रीडा यस्य


न बहिः, अन्तरेव ज्योतिर्दृष्टिर्यस्य न गीतनृत्यादिषु स एवं ब्रह्मणि भूतः स्थितः सन्ब्रह्मणि निर्वाणं लयमधिगच्छति प्राप्नोति ॥ २४ ॥

 म०टी०-मुक्तिहेतोर्ज्ञानस्य साधनान्तराणि विवृण्वन्नाह-

लभन्ते ब्रह्मनिर्वाणमृषयः क्षीणकल्मषाः ॥
छिन्नवैधा यतात्मानः सर्वभूतहिते रताः ॥२५॥

 प्रथमं यज्ञादिभिः क्षीणकल्मषाः, ततोऽन्तःकरणशुद्धया-ऋषयः सूक्ष्मवस्तुविवेचनसमर्थाः संन्यासिनः, ततः श्रवणादिपरिपाकेण च्छिन्नद्वैधा निवृत्तसर्वसंशयाः, ततो निदिध्यासनपरिपाकेण संयतात्मानः परमात्मन्येवैकाग्रचित्ताः । एतादृशाश्च द्वैतादर्शित्वेन सर्वभूतहिते रता हिंसाशून्या ब्रह्मविदो ब्रह्मनिर्वाणं लभन्ते,

" यस्मिन्सर्वाणि भूतानि आत्मैवाभूद्विजानतः ।
तत्र को मोहः कः शोक एकत्वमनुपश्यतः" इति श्रुतेः ॥

 बहुवचनं " तद्यो यो देवानाम् " इत्यादिश्रुत्युक्तानियमप्रदर्शनार्थम् ॥ २५ ॥

 श्री० टी०-लभन्त इति । ऋषयः सम्यग्दर्शिनः क्षीणं कल्मषं येषां छिन्नं द्वैधं संशयो येषां यतः संयत आत्मा चित्तं येषां सर्वेषां भूतानां हिते रताः कृपालवस्ते ब्रह्मनिर्वाण मोक्ष लभन्ते ॥ २५ ॥

 म०टी०-पूर्व कामक्रोधयोरुत्पन्नयोरपि वेगः सोढव्य इत्युक्तमधुना तु तयोरुत्पत्तिप्रतिबन्ध एवं कर्तव्य इत्याह-

कामक्रोधवियुक्तानां यतीनां यतचेतसाम् ॥
अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम् ॥ २६ ॥

 कामक्रोधयोवियोगस्तदनुत्पत्तिरेव तद्युक्तानां कामक्रोधवियुक्तानाम् । अत एव यतचेतसां संयतचित्तानां यतीनां यत्नशीलानां संन्यासिनां विदितात्मनां साक्षात्कृतपरमात्मनामभित उभयतो जीवतां मृतानां च तेषां ब्रह्मनिर्वाणं मोक्षो वर्तते नित्यत्वात् , न तु भविष्यति साध्यत्वाभावात् ॥ २६ ॥

 श्री०टी०-किं च-कामक्रोधवियुक्तानामिति । कामक्रोधाभ्यां वियुक्तानां यतीनां संन्यासिनां संयतचित्तानां ज्ञातात्मतत्त्वानाममित उभयतो मृतानां जीव[२४३]तां च न देहान्त[२४४] एव तेषां ब्रह्मणि लयः, अपि तु जीवतामपि वर्तत इत्यर्थः ॥ २६ ॥

 म०टी०-पूर्वमीश्वरार्पितसर्वभावस्य कर्मयोगेना(णा)न्तःकरणशुद्धिस्ततः सर्वकर्मसन्यासस्ततः श्रवणादिपरस्य तत्त्वज्ञानं मोक्षसाधनमुदेतीत्युक्तम् । अधुना स योगी


ब्रह्मनिर्वाणमित्वत्र सूचितं ध्यानयोगं सम्यग्दर्शनस्यान्तरङ्गसाधनं विस्तरेण वक्तुं सूत्रस्थानीयांस्त्रीश्लोकानाह भगवान् । एतेषामेव वृत्तिस्थानीयः कृत्स्नः षष्ठोऽध्यायो भविष्यति । तत्रापि द्वाभ्यां संक्षेपेण योग. उच्यते । तृतीयेन तु तत्फलं परमात्मज्ञानमिति विवेकः

स्पर्शान्कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे ध्रुवोः ॥
प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ ॥२७॥
यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायणः ॥
विगतच्छाभयकोधो यः सदा मुक्त एव सः ॥२८॥

 स्पर्शाञ्शब्दादीन्बाह्यान्बहिर्भवानपि श्रोत्रादिद्वारा तत्तदाकारान्तःकरणवृत्तिभिरन्तः प्रविष्टान्पुनर्बहिरेव कृत्वा परवैराग्यवशेन तत्तदाकारां वृत्तिमनुत्पाद्येत्यर्थः । यद्येत आन्तरा भवेयुस्तदोपायसहस्रेणापि बहिर्न स्युः स्वभावभङ्गप्रसङ्गात् । बाह्यानां तु रागवशादन्तःप्रविष्टानां वैराग्येण बहिर्गमनं संभवतीति वदितुं बाह्यानिति विशेषणम् । तदनेन वैराग्यमुक्त्वाऽभ्यासमाह --चक्षुश्चैवान्तरे ध्रुवोः, कृत्वेत्यनुषज्यते । अत्यन्तनिमीलने हि निद्राख्या लयात्मिका वृत्तिरे[२४५]का भवेत् । प्रसारणे तु प्रमाणविपर्ययविकल्पस्मृतयश्चतस्रो विक्षेपास्मिका वृत्तयो भवेयुः । पञ्चापि तु वृत्तयो निरोद्धव्या इति अर्धनिमीलनेन भ्रूमध्ये चक्षुषो निधानम् । तथा प्राणापानौ समौ तुल्यावूर्ध्वाधोगतिविच्छेदेन नासाभ्यन्तरचारिणौ कुम्भकेन कृत्वा, अनेनोपायेन यताः संयता इन्द्रियमनोबुद्धयो यस्य स तथा । मोक्षपरायणः सर्वविषयविरक्तो मुनिर्मननशीलो भवेत् । विगतेच्छाभयक्रोध इति वीतरागमयक्रोध इत्यत्र व्याख्यातम् । एतादृशो यः संन्यासी सदा भवति मुक्त एव सः । न तु तस्य मोक्षः कर्तव्योऽस्ति । अथवा य एतादृशः स सदा जीवन्नपि मुक्त एवं ॥ २७ ॥ २८ ॥

 श्री०टी०-स योगी ब्रह्मनिर्वाणमित्यादिषु योगी मोक्षमाप्नोतीत्युक्तं तमेव योगं संक्षेपेण दर्शयन्नाह स्पर्शानिति द्वाभ्याम् -बाह्या एव' स्पर्शा रूपरसादयो विषयाश्चिन्तिताः सन्तोऽन्तः प्रविशन्ति तांस्तच्चिन्तात्यागेन बहिरेव कृत्वा चक्षुश्च भ्रुवोरन्तरे भ्रुमध्य एव कृत्वाऽत्यन्तं नेत्रयोर्निमीलने निद्रया मनो लीयते, उन्मीलने च बहिः प्रसरति । तदुभयदोषपरिहारार्थमनिमीलनेन भ्रूमध्ये दृष्टिं निधायेत्यर्थः । उच्छासनिः- श्वासरूपेण नासिकयोरभ्यन्तरे चरन्तौ प्राणापानावूर्ध्वाधोगतिनिरोधेन समौ कृत्वा कुम्भयित्वेत्यर्थः। यद्वा प्राणो यथा बहिर्न निर्याति यया चापानोऽन्तर्न प्रविशति किंतु


नासामध्य एव द्वावपि यथा चरतस्तथा मन्दाभ्यामुच्छासनिःश्वासाभ्यां समौ कृत्वेति ॥ २७॥

 श्री०टी०-यतेति । अनेनोपायेन यताः संयता इन्द्रियमनोबुद्धयो यस्य, मोक्ष एव परमयनं प्राप्यं यस्य । अत एव विगता इच्छाभयक्रोधा यस्य । य एवंभूतो मुनिः स सदा जीवन्नपि मुक्त एवेत्यर्थः ॥ २८ ॥

 म०टी०-एवं योगयुक्तः किं ज्ञात्वा मुच्यत इति [२४६]तदाह-

भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् ॥
सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति ॥२९॥

इति श्रीमहाभारते शंतसाहस्यां संहितायां वैयासि-
क्यां भीष्मपर्वणि श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसं-
वादे संन्यासयोगो नाम पञ्च-
मोऽध्यायः ॥ ५॥

 म०टी०-सर्वेषां यज्ञानां तपसां च कर्तृरूपेण देवतारूपेण च भोक्तारं भोगकर्तारं पालकमिति वा । "भुज पालनाभ्यवहारयोः" इति धातुः । सर्वेषां लोकानां महान्तमीश्वरं हिरण्यगर्भादीनामपि नियन्तारं, सर्वेषां प्राणिनां सुहृदं प्रत्युपकारनिरपेक्षतयोपकारिणं सर्वान्तर्यामिणं सर्वभासकं परिपूर्णसच्चिदानन्दैकरसं परमार्थसत्यं सर्वात्मानं नारायणं मां ज्ञात्वाऽऽत्मत्वेन साक्षात्कृत्य शान्ति सर्वसंसारोपरति मुक्तिमृच्छति प्राप्नोतीत्यर्थः । त्वां पश्यन्नपि कथं नाहं मुक्त इत्याशङ्कानिराकरणाय विशेषणानि । उक्तरूपेणैव मम ज्ञानं मुक्तिकारणमिति भावः ॥ २९ ॥

अनेकसाधनाभ्यासनिष्पन्नं हरिणेरितम् ।
स्वस्वरूपपरिज्ञानं सर्वेषां मुक्तिसाधनम् ॥ १॥

 इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीविश्वेश्वरसरस्वतीश्रीपादशिष्यश्रीमधु- सूदनसरस्वतीविरचितायां श्रीमद्भगवद्गीतागूढार्थदीपिकायां स्वस्वरूपपरिज्ञानं नाम पञ्चमोऽध्यायः ॥ ५॥

 श्री० टी०-नन्वेवमिन्द्रियादिसंयममात्रेण कथं मुक्तः स्यान्न तावन्मात्रेण किं तु


ज्ञानद्वारेणेत्याह-भोक्तारमिति । यज्ञानां तपसां च भ[२४७]क्तैः समर्पितानां [२४८]तदिच्छया भोक्तारं पालकमिति वा । सर्वेषां लोकानां महान्तमीश्वरं सर्वेषां भूतानां सुहृदं[२४९] निरपेक्षोपकारिणमन्तर्यामिणं मां ज्ञात्वा मत्प्रसादेन शान्ति मोक्षमृच्छति प्राप्नोति ॥२९॥

विकल्पशङ्कापोहेन येनैवं सांख्ययोगयोः ।
समुच्चयः क्रमेणोक्तः सर्वज्ञं नौमि तं हरिम् ॥ १ ॥

इति श्रीसुबोधिन्यां टीकायां श्रीधरस्वामिविरचितायां
संन्यासयोगो नाम पञ्चमोऽध्यायः ॥ ५ ॥

अथ षष्ठोऽध्यायः।

 म०टी०-योगसूत्रं त्रिभिः श्लोकैः पञ्चमान्ते यदीरितम् ।

 षष्ठस्त्वारभ्यतेऽध्यायस्तद्व्याख्यानाय विस्तरात् ॥ १ ॥

 तत्र सवर्कर्मत्यागेन योगं विधास्यंस्त्याज्यत्वेन हीनत्वमाशङ्कय कर्मयोगं स्तौति द्वाभ्याम्-

श्रीभगवानुवाच-
 अनाश्रितः कर्मफलं कार्यं कर्म करोति यः ॥
  स संन्यासी च योगी च न निरग्निर्न चाक्रियः॥१॥

 कर्मणां फलमनाश्रितोऽनपेक्षमाणः फलाभिसंधिरहितः सन्कार्यं कर्तव्यतया शास्त्रेण विहितं नित्यमग्निहोत्रादि कर्म करोति यः स कर्म्यपि सन्संन्यासी च योगी चेति स्तूयते । संन्यासो हि त्यागः । चित्तगतविक्षेपाभावश्च योगः । तौ चास्य विद्यते फलत्यागात्फलतृष्णारूपचित्तविक्षेपाभावाच्च । कर्मफलतृष्णात्याग एवात्र गौण्या वृत्त्या संन्यासयोगशब्दाभ्यामभिधीयते सकामानपेक्ष्य प्राशस्त्यकथनाय । अवश्यंभाविनौ हि निष्कामकर्मानुष्ठातुर्मुख्यौ संन्यासयोगौ । तस्मादयं यद्यपि न निरग्निरग्निसाध्यश्रौतकर्मत्यागी न भवति, न चाक्रियोऽग्निनिरपेक्षस्मार्तक्रियात्यागी च न भवति, तथाऽपि संन्यासी योगी चेति मन्तव्यः । अथवा न निरग्निर्न चाक्रियः संन्यासी योगी चेति मन्तव्यः । किंतु साग्निः सक्रियश्च निष्कामकर्मानुष्ठायी संन्यासी योगी चेति मन्तव्य इति स्तूयते । “ अपशवो वा अन्ये गोअश्वेभ्यः पशवो गोअश्वान् ” इत्यत्रेव प्रशंसालक्षणया नञन्वयोपपत्तिः । अत्र चाक्रिय इत्यनेनैव सर्वकर्मसंन्यासिनि लब्धे निर.


ग्निरिति व्यर्थ स्यादित्यग्निशब्देन सर्वाणि कर्माण्युपलक्ष्य निरग्निरिति संन्यासी क्रियाशब्देन चित्तवृत्तीरुपलक्ष्याक्रिय इति निरुद्धचित्तवृत्तिर्योगी च कथ्यते । तेन न निरग्निः संन्यासी मन्तव्यो न चाक्रियो योगी मन्तव्य इति यथासंख्यमुभयव्यतिरेको दर्शनीयः। एवं सति नञ्द्वयमप्युपपन्नमिति द्रष्टव्यम् ॥ १॥

 श्री०टी०-चित्ते शुद्धेऽपि न ध्यानं विना संन्यासमात्रतः ।   मुक्तिः स्यादिति षष्ठेऽस्मिन्ध्यानयोगो वितन्यते ॥ १ ॥

 पूर्वाध्यायान्ते संक्षेपेणोक्तं योगं प्रपञ्चयितुं षष्ठाध्यायारम्भः । तत्र तावत्सर्वकर्माणि मनसेत्यारभ्य संन्यासपूर्विकाया ज्ञाननिष्ठायास्तात्पर्येणाभिधानाद्दुःखरूपत्वाच्च कर्मणः सहसा संन्यासातिप्रसङ्गं प्राप्तं वारयितुं संन्यासादपि श्रेष्ठत्वेन कर्मयोगं स्तुवञ्श्रीभगवानुवाच, अनाश्रित इति द्वाभ्याम्-~-कर्मफलमनाश्रितोऽनपेक्षमाणोऽवश्यकर्तव्यतया विहितं कर्म यः करोति स एव संन्यासी योगी च, न तु निरग्निरग्निसाध्येष्टाख्यकर्मत्यागी, न चाक्रियोऽनग्निसाध्यपूर्ताख्यकर्मत्यागी च॥१॥

 म०टी०-असंन्यासेऽपि संन्यासशब्दप्रयोगे निमित्तभूतं गुणयोगं दर्शयितुमाह-

यं संन्यासमिति प्राहुर्योगं तं विद्धि पाण्डव ॥
न ह्यसंन्यस्तसंकल्पो योगी भवति कश्चन ॥२॥

 यं सर्वकर्मतत्फलपरित्यागं संन्या[२५०]समिति प्राहुः श्रुतयः " न्यास एवा[२५१]त्यरेच[२५२]यत् " " ब्राह्मणाः पुत्रैषणायाश्च वित्तैषणायाश्च लोकैषणायाश्च व्युत्त्थायाथ मिक्षाचर्यं चरन्ति " इत्याद्याः , योगं फलतृष्णाकर्तृत्वाभिमानयोः परित्यागेन विहितकर्मानुष्ठानं तं संन्यासं विद्धि हे पाण्डव । अब्रह्मदत्तं ब्रह्मदत्तमि (इ) त्याह तं[२५३] वयं मन्यामहे ब्रह्मदत्तसदृशोऽयमिति न्यायात्परशब्दः परत्र प्रयुज्यमानः सादृश्यं बोधयति गौण्या वृत्त्या तद्भावारोपेण वा। प्रकृते तु किं सादृश्यमिति तदाह-न हीति । हि यस्मादसंन्यस्तसंकल्पोऽत्यक्तफलसंकल्पः कश्चन कश्चिदपि योगी न भवति । अपि तु सर्वो योगी त्यक्तफलसंकल्स एव भवतीति फलत्यागसाम्यात्तृष्णारूपचित्तवृत्तिनिरोधसाम्याच्च गौण्या वृत्त्या कर्म्येव. संन्यासी च योगी च भवतीत्यर्थः । तथा हि-योगश्चित्तवृत्तिनिरोधः प्रमाणविपर्ययविकल्पनिद्रास्मृतय इति वृत्तयः पञ्चविधाः । तत्र प्रत्यक्षानुमानशास्त्रोपमानार्थापत्त्यभावाख्यानि प्रमाणानि षडिति वैदिकाः । प्रत्यक्षानुमानागमाः प्रमाणानि त्रीणीति योगाः । अन्तर्मावबहिर्भावाभ्यां संकोचवि-


कासौ द्रष्टव्यौ । अत एव तार्किकादीनां मतभेदाः । विपर्ययो मिथ्याज्ञानं तस्य पञ्च भेदा अविद्यास्मितारागद्वेषाभिनिवेशाः । त एव च क्लेशाः । शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः प्रमाभ्रमविलक्षणोऽसदर्थव्यवहारः शशविषाणमसत्पुरुषस्य चैतन्यमित्यादिः । अभावप्रत्ययालम्बना वृत्तिर्निद्रा, चतसृणां वृत्तीनामभावस्य प्रत्ययः कारणं तमोगुणस्तदालम्बना वृत्तिरेव निद्रा न तु ज्ञानाद्यभावमात्रमित्यर्थः । अनुभूतविषयासंप्रमोषः प्रत्ययः स्मृतिः, पूर्वानुभवसंस्कारजं ज्ञानमित्यर्थः । सर्ववृत्तिजन्यत्वादन्ते कथनम् । लज्जादिवृत्तीनामपि पञ्चस्वेवान्तर्भावो द्रष्टव्यः । एतादृशां सर्वासां चित्तवृत्तीनां निरोधो योग इति च समाधिरिति च कथ्यते । फलसंकल्पस्तु रागाख्यस्तृतीयो विपर्ययभेदस्तन्निरोधमात्रमपि गौण्या वृत्त्या योग इति संन्यास इति चोच्यत इति न विरोधः ॥ २॥

 श्री०टी०-कुत इत्यपेक्षायां कर्मयोगस्यैव संन्यासत्वं संपादयन्नाह-यमिति । यं संन्यासमिति प्राहुः प्रकर्षेण श्रेष्ठत्वेनाऽऽहुः, "न्यास एवात्यरेचयत्" इत्यादिश्रुतेः, केवला[२५४]त्फलसंन्यसनाद्धेतोः, योगमेव तं जानीहि । कुत इत्यपेक्षायामितिशब्दोक्तो हेतुर्योगेऽप्यस्तीत्याह-नहीति । न संन्यस्तः फलसंकल्पो येन स कर्मनिष्ठो ज्ञानिष्ठो वा कश्चिदपि नहि योगी भवति । अतः फलसंकल्पत्यागसाम्या[२५५]त्संन्यासी च फलसंकल्पत्यागादेव चित्तविक्षेपामावाद्योगी च भवत्येव स इत्यर्थः ॥२॥

 म०टी०-तत्किं प्रशस्तत्वात्कर्मयोग एव यावज्जीवमनुष्ठेय इति नेत्याह-

आरुरुक्षोर्मुनर्योगं कर्म कारणमुच्यते ॥
योगारूढस्य तस्यैव शमः कारणमुच्यते ॥३॥

 योगमन्तःकरणशुद्धिरूपं वैराग्यमारुरुक्षोरारोढुमिच्छोर्न त्वारूढस्य मुनेर्भविष्यतः कर्मफलतृष्णात्यागिनः कर्म शास्त्रविहितमग्निहोत्रादि नित्यं भगवदर्पणबुद्ध्या कृतं कारणं योगारोहणे साधनमनुष्ठेयमुच्यते वेदमुखेन मया । योगारूढस्य योगमन्तः- करणशुद्धिरूपं वैराग्यं प्राप्तवतस्तु तस्यैव पूर्व कर्मिणोऽपि सतः शमः सर्वकर्मसंन्यास एव कारणमनुष्ठेयतया ज्ञानपरिपाकसाधनमुच्यते ॥ ३ ॥

 श्री. टी-तर्हि यावज्जीवं कर्मयोग एव प्राप्त इत्याशङ्कय तस्यावधिमाहआरुरुक्षोरिति । ज्ञानयोगमारोढुं प्राप्तुमिच्छोः पुंसस्तदारोहे कारणं कर्मोच्यते चित्तशुद्धिकरत्वात् । ज्ञानयोगमारूढस्य तु तस्यैव ध्याननिष्ठस्य शमः समाधिश्चित्तविक्षेपककर्मोपरमो ज्ञानपरिपाके कारणमुच्यते ॥ ३॥


 म०टी०-कदा योगारुढो भवतीत्युच्यते-

यदा हि नेन्द्रियार्थेषु न कर्मस्वनुषजते ॥
सर्वसंकल्पसंन्यासी योगारूढस्तदोच्यते ॥४॥

 यदा यस्मिंश्चित्तसमाधानकाल इन्द्रियार्थेषु शब्दादिषु कर्मसु च नित्यनैमित्तिककाम्यलौकिकप्रतिषिद्धेषु नानुषज्जते तेषां मिथ्यात्वदर्शनेनाऽऽत्मनोऽकर्त्रभोक्तृपरमानन्दाद्वयस्वरूपदर्शनेन च प्रयोजनाभावबुध्द्याऽहमेतेषां कर्ता ममैते भोग्या इत्यभिनिवेशरूपमनुषङ्गं न करोति हि यस्मात्तस्मात्सर्वसंकल्पसंन्यासी सर्वेषां संकल्पानामिदं मया कर्तव्यमेतत्फलं भोक्तव्यमित्येवंरूपाणां मनोवृत्तिविशेषाणां तद्विषयाणां च कामानां तत्साधनानां च कर्मणां त्यागशीलः, तदा शब्दादिषु कर्मसु चानुषङ्गस्य तद्धेतोश्च संकल्पस्य योगारोहणप्रतिबन्धकस्याभावाद्योगं समाधिमारूढो योगारुढ इत्युच्यते ॥४॥

 श्री०टी०-कीदृशोऽसौ योगारूढो यस्य शमः कारणमुच्यत इत्यत्राऽऽह- यदा हीति । इन्द्रियार्थेषु इन्द्रियभोग्ये[२५६]षु शब्दादिषु तत्साधनेषु च कर्मसु यदा नानुषज्जत आसक्ति न करोति । तत्र हेतु:-आसक्तिमूलभूतान्सर्वान्भोगविषयान्कर्मविषयांश्च संकल्पान्सन्यसितुं त्यक्तुं शीलं यस्य सः, तदा योगारूढ उच्यते ॥ ४ ॥

 म०टी०-यो यदैवं योगारूढो भवति तदा तेनाऽऽत्मनैवाऽऽत्मोद्धृतो भवति संसारानर्थव्रातादतः-

उद्धरेदात्मनाऽऽत्मानं नाऽऽत्मानमवसादयेत् ॥
आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः ॥५॥

 आत्मना विवेकयुक्तेन मनसाऽऽत्मानं स्वं जीवं संसारसमुद्रे निमग्नं तत उद्धरेत्- उत्, ऊर्ध्वं हरेत् , विषयासङ्गपरित्यागेन योगारूढतामापादयेदित्यर्थः । न तु विषयाङ्गेनाऽऽत्मानमवसादयेत्संसारसमुद्रे मज्जयेत् । हि यस्मादात्मैवाऽऽत्मनो बन्धुर्हितकारी संसारबन्धनान्मोचनहेतुर्नान्यः कश्चिल्लौकिकस्य बन्धोरपि स्नेहानुबन्धेन बन्धहेतुत्वात् । आत्मैव नान्यः कश्चित् , रिपुः शत्रुरहितकारी विषयबन्धनागारप्रवेशात्कोशकार इवाऽऽत्मनः स्वस्य । बाह्यस्यापि रिपोरात्मप्रयुक्तत्वाद्युक्तमवधारणमास्मैव रिपुरात्मन इति ॥ ५॥

 श्री०टी०-अतो विषयासक्तित्यागे मोक्षं तदासक्तौ च बन्धं पर्यालोच्य रागादिस्वभावं त्यजेदित्याह-उद्धरेदिति । आत्मना विवेकयुक्तेनाऽऽत्मानं संसारादुद्धरेत्, न त्ववसादयेदधो न नयेत् । हि यस्मादात्मैव मनःसङ्गाघु[२५७]परत आत्मनः स्वस्य बन्धुरुपकारको रिपुरपकारकश्च ॥ ५ ॥


 म० टी०-इदानी किंलक्षण आत्माऽऽत्मनो बन्धुः किंलक्षणो वाऽऽत्मनो रिपुरित्युच्यते-

बन्धुरात्माऽऽत्मनस्तस्य येनाऽऽत्मैवाऽऽत्मना जितः॥
अनात्मनस्तु शत्रुत्वे वर्तताऽऽत्मैव शत्रुवत् ॥६॥

 आत्मा कार्य[२५८]करणसंघातो येन जितः स्ववशीकृत आत्मनैव विवेकयुक्तेन मनसैव न तु[२५९] शस्त्रादिना, तस्याऽऽत्मा स्वरूपमात्मनो बन्धुरुच्छृङ्खलस्वप्रवृत्त्यभावेन स्वहितकरणात् , अनात्मनस्तु अजितात्मन इत्येतत् । शत्रुत्वे शत्रुभावे वर्तेताऽऽत्मैव शत्रुवत्, बाह्यशत्रुरिवोच्छृङ्खलप्रवृत्त्या स्वस्य स्वेनानिष्टाचरणात् ॥ ६ ॥

 श्री० टी०-कथंभूतस्याऽऽत्मैव बन्धुः कथंभूतस्य चाऽऽत्मैव रिपुरित्यपेक्षायामाह-बन्धुरिति । येनाऽऽत्मनैवाऽऽत्मा कार्यकारणसंघातरूपो जितो वशीकृतस्तस्य तथाभूतस्याऽऽत्मन आत्मैव बन्धुः । अनात्मनोऽजितात्मनस्तु आत्मैवाऽऽत्मनः शत्रुत्वे शत्रुवदप[२६०]कारकारित्वे व[२६१]र्तत ॥ ६ ॥

 म०टी०-जितात्मनः स्वबन्धुत्वं विवृणोति-

जितात्मनः प्रशान्तस्य परमात्मा समाहितः ॥
शीतोष्णसुखदुःखेषु तथा मानापमानयोः ॥ ७ ॥

 शीतोष्णसुखदुःखेषु चित्तविक्षेपकरेषु सत्स्वपि तथा मानापमानयोः पूजापरिमवयोश्चित्तविक्षेपहेत्वोः सतोरपि तेषु समत्वेनेति वा । जितात्मनः प्रागुक्तस्य जितेन्द्रियस्य प्रशान्तस्य सर्वत्र समबुद्ध्या रागद्वेषशून्यस्य परमात्मा स्वप्रकाशज्ञानस्वभाव आत्मा समाहितः समाधिविषयो योगारूढो भवति । प[२६२] रमिति वा छेदः । जितात्मनः प्रशान्तस्यैव परं केवलमात्मा समाहितो भवति नान्यस्य । तस्माज्जितात्मा प्रशान्तश्च भवेदित्यर्थः ॥ ७ ॥

 श्री०टी०-नितात्मनः स्वस्मिन्बधुत्वं स्फुटयति-जितात्मन इति । जित आत्मा येन तस्य प्रशान्तस्य रागादिरहितस्यैव परं केवलमात्मा शीतोष्णादिषु सत्स्वापि समाहितः स्वात्मनिष्ठो भवति नान्यस्य । यद्वा तस्य हृदि परमात्मा समा हितः स्थितो भवति ॥ ७॥

 म०टी०-किं च-----

ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः ॥
युक्त इत्युच्यते योगी समलोष्टाश्मकाञ्चनः ॥ ८॥


 ज्ञानं शास्त्रोक्तानां पदार्थानामौपदेशिकं ज्ञानं विज्ञानं तदप्रामाण्यशङ्कानिराकरणफलेन विचारेण तथैव तेषां स्वानुभवनापरोक्षीकरणं ताभ्यां तृप्तः संजातालंप्रत्यय आत्मा चित्तं यस्य स तथा । कूटस्थो विषयसंनिधावपि विकारशून्यः । अत एव विजितानि रागद्वेषपूर्वकाद्विषयग्रहणाव्द्यावर्तितानीन्द्रियाणि येन सः । अत एव हेयोपादेयबुद्धिशून्यत्वेन समानि मृत्पिण्डपाषाणकाञ्चनानि यस्य सः । योगी परमहंसपरिव्राजकः परवैराग्ययुक्तो योगारूढ इत्युच्यते ॥ ८ ॥

 श्री. टी-योगारूढस्य लक्षणं श्रैष्ठ्यं [२६३]चोक्त[२६४] मुपसंहरति--ज्ञानविज्ञानतृप्तात्मेति । ज्ञानमौपदेशिकं विज्ञानमपरोक्षानुभवस्ताभ्यां तृप्तो निराकाङ्क्ष आत्मा चित्तं यस्य । अतः कूटस्थो निर्विकारः । अत एव विजितानीन्द्रियाणि येन । अत एव समानि लोष्टादीनि यस्य मृत्पिण्डपाषाणसुवर्णेषु हेयोपादेयबुद्धिशून्यः स युक्तो योगारूढ इत्युच्यते ॥८॥

 श्री टी.-सुह्रन्मित्रादिषु समबुद्धिस्तु सर्वयोगिश्रेष्ठ इत्याह-

सुहृन्मित्रार्युदासीनमध्यस्थद्देष्यबन्धषु ॥
साधुष्वपि च पापेषु समः

 सुहत्प्रत्युपकारमनपेक्ष्य पूर्वस्नेहं संबन्ध च विनेवोपकर्ता । मित्रं स्नेहेनोपकारकः । अरिः स्वकृतापकारमनपेक्ष्य स्वभावक्रौर्येणापकर्ता । उदासीनो विवदमानयोरुभयोरप्युपेक्षकः । मध्यस्थो विवदमानयोरुभयोरपि हितैषी । द्वेष्यः स्वकृतापकारमपेक्ष्यापकर्ता । बन्धुः संबन्धेनोपकर्ता । एतेषु साधुषु शास्त्रविहितकारिषु पापेषु शास्त्रप्रतिषिद्धकारिष्वपि । चकारादन्येषु च सर्वेषु समबुद्धिः कः कीदृक्कर्मेत्यव्यापृतबुद्धिः सर्वत्र रागद्वेषशून्यो विशिष्यते सर्वत उत्कृष्टो भवति । विमुच्यत इति वा पाठः ॥ ९ ॥

 श्री० टी०-~सुहृन्मित्रादिषु समबुद्धियुक्तस्तु ततोऽपि श्रेष्ठ इत्याह---सुहृदिति । सहृत्स्वभावेनैव हिताशंसी । मित्रं स्नेहवशेनोपकारकः । अरिर्घातकः । उदासीनो विवदमानयोरुभयोरप्युपेक्षकः । मध्यस्थो विवदमानयोरुभयोरपि हिताशंसी। द्वेष्यो द्वेषविषयः । बन्धुः संबन्धी । साधवः सदाचाराः । पापा दुराचाराः । एतेषु समा [२६५]रागद्वेषादिशून्या बुद्धिर्यस्य स तु विशिष्टः ॥ ९ ॥

 म.टी.-एवं योगारूढस्य लक्षणं फलं चोक्त्वा तस्य साङ्गं योगं विधत्ते योगीत्यादिभिः स योगी परमो मत इत्यन्तैस्त्रयोविंशत्या श्लोकैः । तत्रैवमुत्तमफलप्राप्तये-----


योगी युञ्जीत सततमात्मानं रहसि स्थितः ॥
एकाकी यतचित्तात्मा निराशीरपरिग्रहः ॥१०॥

 योगी योगारूढ आत्मानं चित्तं सततं निरन्तरं युञ्जीत क्षिप्तमूढविक्षिप्तभूमिपरित्यागैनैकाग्रनिरोधभूमिभ्यां समाहितं कुर्यात् । रहसि गिरिगुहादौ योगप्रतिबन्धकदुर्जनादिवर्जिते देशे स्थित एकाकी त्यक्तसर्वगृहपरिजनः संन्यासी, चित्तमन्तःकरणमात्मा देहश्च संयतौ योगप्रतिबन्धकव्यापारशून्यौ यस्य स यतचितात्मा । यतो निराशीर्वैराग्यदार्ढ्येन विगततृष्णः । अत एव चापरिग्रहः शास्त्राभ्यनुज्ञातेनापि योगप्रतिबन्धकेन परिग्रहेण शून्यः ॥ १० ॥

 श्री० टी०-~-एवं योगारूढस्य लक्षणमुक्त्वेदानीं तस्य साङ्गं योगं विधत्ते योगीत्यादिना स योगी परमो मत इत्यन्तेन ग्रन्थेन-योगीति । योगी योगारूढ आत्मानं मनो युञ्जीत समाहितं कुर्यात्सततं निरन्तरं रहसि एकान्ते स्थितः सन्नेकाकी सङ्गशून्यो यतं संयतं चित्तमात्मा देहश्च यस्य निराशीर्निराकाङ्क्षोऽपरिग्रहः परिग्रहशून्यश्च ॥ १० ॥

 म०टी०-तत्राऽऽसननियम दर्शयन्नाह द्वाभ्याम् -

शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः ॥
नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम् ॥ ११ ॥

 शुचौ स्वभावतः संस्कारतो वा शुद्धे जनसमुदायरहिते निर्भये गङ्गातटगुहादौ देशे . समे स्थाने प्रतिष्ठाप्य स्थिरं निश्चलं नात्युच्छ्रितं नात्युच्चं नाप्यतिनीचं, चैलाजिनकुशोत्तरं पै दुवस्त्रम् , अजिनं मृदु व्याघ्रादिचर्म ते कुशेभ्य उत्तरे उपरितने यस्मिंस्तत्, आस्यतेऽस्मिन्नित्यासनं, कुशमयवृष्युपरि मृदुचर्म तदुपरि मृदुवस्त्ररूपमित्यर्थः । तथा चाऽऽह भगवान्पतञ्जलिः- " स्थिरसुखमासनम् " इति । आत्मन इति परासनव्यावृत्त्यर्थं तस्यापि परेच्छानियमाभावेन योगविक्षेपकरत्वात् ॥ ११ ॥

 श्री०टी०-आसननियमं दर्शयन्नाह द्वाभ्याम्-शुचाविति । शुद्धे स्थान आत्मनः स्वस्थाऽऽसनं स्थापयित्वा। कीदृशम् , स्थिरमचलं नातीवोन्नतं, न चातिनीचं,[२६६] चैलं वस्त्रमजिनं व्याघ्रादिचर्म चैलाजिने कुशेभ्य उत्तरे यस्मिन् , कुशानामुपरि चर्म तदुपरि वस्त्रमास्तीर्येत्यर्थः ॥ ११ ॥

 म०. टी०-एवमासनं प्रतिष्ठाप्य किं कुर्यादिति तत्राऽऽह-

तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः॥
उपविश्याऽऽसने युञ्ज्याद्योगमात्मविशुद्धये ॥ १२॥


 तत्र तस्मिन्नासन उपविश्यैव न तु शयानस्तिष्ठन्वा । " आसीनः संभवात् " इति न्यायात् । यताः संयता उपरताश्चित्तस्येन्द्रियाणां च क्रिया वृत्तयो येन स यतचित्तेन्द्रियक्रियः सन्योगं समाधिं युञ्जीताभ्यसेत् । किमर्थम् , आत्मविशुद्धय आत्मनोऽन्तःकरणस्य सर्वविक्षेपशन्यत्वेनातिसूक्ष्मतया ब्रह्मसाक्षात्कारयोग्यतायै । " दृश्यते त्वग्र्यया बुद्धया सूक्ष्मया सूक्ष्मदर्शिभिः ” इति श्रुतेः । किं कृत्वा योगमभ्यसेदिति तत्राऽऽह-एकाग्रं राजसतामसव्युत्थानाख्यप्रागुक्तभूमित्रयपरित्यागेनैकविषयकधारावाहिकानेकवृत्तियुक्तमुद्रिक्तसत्त्वं मनः कृत्वा दृढभूमिकेन प्रयत्नेन संपाद्यैकाग्रताविवृध्ध्यर्थ योगं संप्रज्ञातसमाधिमभ्यसेत् । स च ब्रह्माकारमनोवृत्तिप्रवाह एव निदिध्यासनाख्यः। तदुक्तम्-

" ब्रह्माकारमनोवृत्तिप्रवाहोऽहंकृतिं विना ।
संप्रज्ञातसमाधिः स्याद्ध्यानाभ्यासप्रकर्षतः" इति ॥

 एतदेवाभिप्रेत्य ध्यानाभ्यासप्रकर्ष विदधे भगवान्-योगी राय द्योगमात्मविशुद्धये, युक्त आसीत मत्पर इत्यादि बहुकम

 श्री०टी०-तत्रेति । तत्र तस्मिन्नासन्द, 'मनः कृत्वा योगं युञ्ज्यादभ्यसेत् , यता उपग्न माया यस्य स आत्मनो मनसो विशुद्धय उपशान्त

 म०टी०-तदर्थं बाह तत्र कथं शरीरधारणमित्युच्यते--

समं कायशिरमान धारयन्नचलं स्थिरः ॥
संप्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् ॥ १३ ॥

 कायः शरीरमध्यं स च शिरश्च ग्रीवा च कायशिरोग्रीवं मूलाधारादारभ्य मूर्धान्तपर्यन्तं सममवक्रमचलमकम्पं धारयन्नेकतत्त्वाभ्यासेन विक्षेपसहभाव्यङ्गमेजयन्ता संपादयन्स्थिरो दृढप्रयत्नो भूत्वा । किं च लं हित्याय विषयप्रव न्तरा दिशां चाव ... सन्नासातत्युत्तरेण संबन्धः ॥ १३ ॥

 श्री०टी०-चित्तैकाग्योपयोगिनीं देहादिधारणां दर्शयन्नाह द्वाभ्याम्-सममिति । काय इति देहमध्यभागो विवक्षितः । कायश्च शिरश्च ग्रीवा च कायशिरोग्रीवं मूलाधारादारभ्य मूर्धान्तपर्यन्तं सममवक्रमचलं निश्चलं धारयन्स्थिरो दृढप्रयत्नो भूत्वेत्यर्थः । [२६७]स्वीयं नासिकाग्रं संप्रेक्ष्येति अर्धनिमीलितनेत्र इत्यर्थः । इतस्ततो दिशश्चानवलोकयन्नासीतेत्युत्तरेणान्वयः ॥ १३ ॥


म०टी०-कि च-
 प्रशान्तात्मा विगतभीर्ब्रह्मचारिव्रते स्थितः ॥
 मनः संयम्य मच्चित्तो युक्त आसीत मत्परः ॥ १४॥

 निदाननिवृत्तिरूपेण प्रकर्षेण शान्तो रागादिदोषरहित आत्माऽन्तःकरणं यस्य स प्रशान्तात्मा शास्त्रीयनिश्चयदाढर्याद्विगता भीः सर्वकर्मपरित्यागेन युक्तत्वायुक्तत्वशङ्का यस्य स विगतभीः, ब्रह्मचारिव्रते ब्रह्मचर्यगुरुशुश्रूषाभिक्षाभोजनादौ स्थितः सन् , मनः संयम्य विषयाकारवृत्तिशून्यं कृत्वा, मयि परमेश्वरे प्रत्यक्चिति सगुणे निर्गुणे वा चित्तं यस्य स मच्चित्तो मद्विषयकधारावाहिकचित्तवृत्तिमान् । पुत्रादौ प्रिये चिन्तनीये सति कथमेवं स्यादत आह-मत्परः, अहमेव परमानन्दरूपत्वात्परः पुरुषार्थः प्रियो यस्य स तथा । " तदेतत्प्रेयः पुत्रात्प्रेयो वित्तात्प्रेयोऽन्यस्मात्सर्वस्मादरतरं यदयमात्मा " इति श्रुतेः । एवं विषयाकारसर्ववृत्तिनिरोधेन भगवदेकाकारचित्त- वृत्तिर्युक्तः संप्रज्ञातसमाधिमानासीतोपविशेद्यथाशक्ति, न तु स्वेच्छया व्युत्तिष्ठेदित्यर्थः । भवति कश्चिद्रागी स्त्रीचित्तो न तु स्त्रियमेव परत्वेनाऽऽराध्यत्वेन गृह्णाति किं तर्हि राजानं वा देवं वा । अयं तु मच्चित्तो मत्परश्च सर्वाराध्यत्वेन मामेव मन्यत इति भाष्यकृतां व्याख्या।

व्याख्यातृत्वेऽपि मे नात्र भाष्यकारेण तुल्यता ।
गुञ्जायाः किं नु हेम्नैकतुलारोहेऽपि तुल्यता ॥ १४ ॥

 श्री०टी०-प्रशान्तेति । प्रशान्त आत्मा चित्तं यस्य, विगता भीर्भयं यस्य, ब्रह्मचारिव्रते ब्रह्मचर्ये स्थितः सन्मनः संयम्य प्रत्याहृत्य मय्येव चित्तं यस्य, अहमेव परः पुरुषार्थो यस्य स मत्परः । एवं युक्तो भूत्वाऽऽसीत तिष्ठेत् ॥ १४ ॥

 म०टी०-एवं संप्रज्ञातसमाधिनाऽऽसीनस्य किं स्यादित्युच्यतेयुञ्जन्नेवं सदाऽऽत्मानं योगी नियतमानसः ॥ शान्तिं निर्वाणपरमां मत्संस्थामधिगच्छति ॥ १५॥

 एवं रहोवस्थानादिपूर्वोक्तनियमेनाऽऽत्मानं मनो युञ्जन्नभ्यासवैराग्याभ्यां समाहितं कुर्वन्योगी सदा योगाभ्यासपरोऽभ्यासातिशयेन नियतं निरुद्धं मानसं मनो येन नियता निरुद्धा मानसा मनोवृत्तिरूपा विकारा येनेति वा नियतमानसः सन् , शान्तिं सर्ववृत्त्युपरतिरूपां प्रशान्तवाहितां निर्वाणपरमां तत्त्वसाक्षात्कारोत्पत्तिद्वारेण सकार्याविद्यानिवृत्तिरूपमुक्तिपर्यवसायिनीं मत्संस्थां मत्स्वरूपपरमानन्दरूपां निष्ठामधिगच्छति, न तु सांसारिकाण्यैश्वर्याणि अनात्मविषयसमाधिफलान्यधिगच्छति, तेषामपवर्गोपयोगिसमाध्युपसर्गत्वात् । तथा च तत्तत्समाधिफलान्युक्त्वाऽऽह भगवान्पतञ्जलिः- " ते समाधावुपसर्गा व्युत्थाने सिद्धयः" इति । " स्थान्युपनिमन्त्रणे सङ्गस्मयाकरणं पुनरनिष्टप्रसङ्गात् " इति च । स्थानिनो देवाः। तथाचोद्दालको देवैरामन्त्रितोऽपि तत्र सङ्गमादरं स्मयं गर्व चाकृत्वा देवानवज्ञाय पुनरनिष्टप्रसङ्गनिवारणाय निर्विकरुपकमेव समाधिमकरोदिति वसिष्ठेनोपाख्यायते । मुमुक्षुभिर्हेयश्च समाधिः सूत्रितः पतञ्जलिना--वितर्कविचारानन्दास्मितानुगमात्संप्रज्ञातः । सम्यक्संशयविपर्ययानध्यवसायरहितत्वेन प्रज्ञायते प्रकर्षेण विशेषरूपेण ज्ञायते भाव्यस्य रूपं येन स संप्रज्ञातः समाधिर्भावनाविशेषः । भावना हि भाव्यस्य विषयान्तरपरिहारेण चेतसि पुनः पुनर्निवेशनम् । भाव्यं च त्रिविधं ग्राह्यग्रहणग्रहीतृभेदात् । ग्राह्यमपि द्विविधं स्थूलसूक्ष्मभेदात् । तदुक्तं "क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृग्रहणग्राह्येषु तत्स्थतदञ्जनतासमापत्तिः । क्षीणा राजसतामसवृत्तयो यस्य तस्य चित्तस्य ग्रहीतग्रहणग्राह्येप्वात्मेन्द्रियनि तत्स्थता तत्रैवैकाग्रता, तदञ्जनता तन्मयता न्यग्भूते चित्ते भाव्यमानस्यै यावत् । तथाविधा समापत्तिस्तद्रूपः परिणामो भवति । यथानी स्फटिकमणेस्तत्तदुपाश्रयवशात्तत्तद्रूपापत्तिरेवं निर्मलस्य नि गात्तत्तद्रूपापत्तिः समापत्तिः समाधिरिति च पर्याय ग्राह्येष्वित्युक्तं तथाऽपि भूमिकाक्रमवशाग्राह्यग्रता । यतः प्रथमं ग्राह्यनिष्ठ एव समाधिर्मवति ततोइति । ग्रहोत्रादिक्रमोऽ. प्यग्रे व्याख्यास्यते । तत्र द्रयात्मकषोडशविकाररूपं विषयमादाय पूर्वापरानुसंधानेन शब्दा "भावना क्रियते तदा सवितर्कः समाधिः । अस्मिन्नेवाऽऽलम्बने पूर्वापरानुसंधा शब्दार्थोल्लेखशून्यत्वेन यदा भावना प्रवर्तते तदा निर्वितर्कः । एतावुभावप्यत्र वितर्कशब्देनोक्तौ । तन्मात्रान्तःकरणलक्षणं सूक्ष्मं विषयमालम्ब्य तस्य देशकालधर्मावच्छेदेन यदा भावना प्रवर्तते तदा सविचारः । अस्मिन्नेवाऽऽलम्बने देशकालधर्मावच्छेदं विना भिमाना प्रवर्तते तदा निर्वि कश्चित्तस्य स्थल व्यपदिश्यते । यद, वि भाव्यते तदा गुणभावाच्चिच्छक्तेः सुखप्रकाशमयस्य सत्त्वस्य भाव्यमानस्योद्रेकात्सानन्दः समाधिर्भवति । अस्मिन्नेव समाधौ ये बद्धधृतयस्तत्त्वान्तरं प्रधानपुरुषरूपं न पश्यन्ति ते विगतदेहाहंकारत्वाद्विदेहशब्देनोच्यन्ते । इयं ग्रहणसमापत्तिः । ततः परं रजस्तमोलेशानभिभूतं शुद्धं सत्त्वमालम्बनीकृत्य या भावना प्रवर्तते तस्यां ग्राह्यस्य सत्त्वस्य न्यग्भावाच्चितिशक्तेरुद्रेकात्सत्तामात्रावशेषत्वेन समाधिः सास्मित इत्युच्यते । न चाहंकारास्मितयोरभेदः शङ्कनीयः । यतो यत्रान्तःकरणमहमित्युल्लेखेन विषयान्वेदयते सोऽहंकारः । यत्र त्वन्तर्मुस्वतया प्रतिलोमपरिणामेन प्रकृतिलीने चेतसि सत्तामात्रमवभाति साऽस्मिता । अस्मिन्नेव समाधौ ये कृतपरितोषास्ते परं पुरुषमपश्यन्तश्चेतसः प्रकृतौ लीनत्वात्प्रकृतिलया इत्युच्यन्ते । सेयं ग्रहीतृसमापत्तिरस्मितामात्ररूपग्रहीतृनिष्ठत्वात् । ये तु परं पुरुषं विविच्य भावनायां प्रवर्तन्ते, तेषामपि केवलपुरुषविषया विवेकख्यातिग्रहीतृसमापत्तिरपि न सास्मितः समाधिर्विवेकेनास्मितायास्त्यागात् । तत्र ग्रहीतृभानपूर्वकमेव ग्रहणमानं तत्पूर्वकं च सूक्ष्मग्राह्यभानं तत्पूर्वकं च स्थूलग्राह्यभानमिति स्थूलविषयो द्विविधोऽपि वितर्कश्चतुष्टयानुगतः । द्वितीयो वितर्कविकलस्त्रितयानुगतः । तृतीयो वितर्कविचाराभ्यां विकलो द्वितयानुगतः । चतुर्थो वितर्कविचारानन्दैर्विकलोऽस्मितामात्र इति चतुरवस्थोऽयं संप्रज्ञात इति । एवं सवितर्कः सविचारः सानन्दः सास्मितश्च समाधिरन्तर्धानादिसिदेतुतया मुक्तिहेतुसमाधिविरोधित्वाद्धेय एव मुमुक्षुमिः । ग्रहीतृग्रहणयोरपि चित्तदशायां ग्राह्यकोटौ निक्षेपा योपादेयविभागकथनाय ग्राह्यसमापत्तिरेव चतुर्विधा हि ग्राह्यसमापत्तिः स्थूलग्राह्यगोचरा द्विविधा सवितर्को लागोचराऽपि द्विविधा सविचारा निर्विचारा च । "तत्र शब्दा. र्थज्ञाना " शब्दार्थज्ञानविकल्पसंमिन्ना स्थूलार्थावभासरूपा सवितर्का समापत्ति. कुवृत्तिरित्यर्थः । "स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा निर्वितक आलम्बने शब्दार्थस्मृतिप्रविलये प्रत्युदितस्पष्टग्राह्याकारप्रतिभासितया रुपशून्येव निर्वितर्का समापत्तिः स्थूलगोचरा निर्विकल्पकवृत्तिरित्यर्थः रा निर्विचारा च सूक्ष्मविषया व्याख्याता सूक्ष्मस्तन्मात्रादिर्विषयो या सूक्ष्मविषया समापत्तिर्द्विविधा सविचारा निर्विचारा च सविकल्पकनिर्विकल्पकभेदेन । एतयैव सवितर्कया निर्वितर्कया च स्थूलविषयया समापत्त्या व्याख्याता । शब्दार्थज्ञानविकल्पसहितत्वेन देशकालधर्माद्यवच्छिन्नः सूक्ष्मोऽर्थः प्रतिभाति यस्यां सा सविचारा । शब्दार्थज्ञानविमानतया सक्षमोऽर्थः प्रतिभाति निर्विचारायाश्च समापत्तेर्यत्सूक्ष्मवि न्दसास्मितयोर्ग्रहीतृग्रहणसमापत्त्योरपि ग्राह्यसमापत्तावेवान्तर्भाव इत्यर्थः । तथा हिपार्थिवस्याणोर्गन्धतन्मात्रं सूक्ष्मो विषयः, आप्यस्यापि रसतन्मात्रं, तैजसस्य रूपतन्मात्रं, वायवीयस्य स्पर्शतन्मात्रं, नभसः शब्दतन्मात्रं, तेषामहंकारस्तस्य लिङ्गमात्रं महत्तत्तं तस्याप्यलिङ्गं प्रधानं सूक्ष्मो विषयः । सप्तानामपि प्रकृतीनां प्रधान एवं सूक्ष्मताविश्रान्तेस्तत्पर्यन्तमेव सूक्ष्मविषयत्वमुक्तम् । यद्यपि प्रधानादपि पुरुषः सूक्ष्मोऽस्ति तथाऽप्यन्वयिकारणत्वाभावात्तस्य सर्वान्वयिकारणे प्रधान एव निरतिशयं सौक्ष्म्यं व्याख्यातं, पुरुषस्तु निमित्तकारणं सदपि नान्वयिकारणत्वेन सूक्ष्मतामर्हति । अन्वयिकारणत्वाविवक्षायां तु पुरुषोऽपि सूक्ष्मो भवत्येवेति द्रष्टव्यम् । ता एवं सबीजः समाधिः, ताश्चतस्रः समापत्तयो ग्राह्येण बीजेन सह वर्तन्त इति सबीजः समाधिर्वितर्कविचारानन्दास्मितानुगमात्संप्रज्ञात इति प्रागुक्तः । स्थूलेऽर्थे सवितर्को निर्वितर्कः । सूक्ष्मेऽर्थे सविचारो निर्विचार इति । तत्रान्तिमस्य फलमुच्यते--" निर्विचारवैशारद्येऽध्यात्मप्रसादः " स्थूलविषयत्वे तुल्येऽपि सवितर्क शब्दार्थज्ञानविकल्प संकीर्णमपेक्ष्य तद्रहितस्य निर्विकल्पकरूपस्य निर्वितर्कस्य प्राधान्यं, ततः सूक्ष्मविषयस्य सविकल्पकप्रतिभासरूपस्य सविचारस्य, ततोऽपि सूक्ष्मविषयस्य निर्विकल्पकप्रतिभासरूपस्य निर्विचारस्य प्राधान्यम् । तत्र पूर्वेषां त्रयाणां निर्विचारार्थन विचारफलेनैव फलवत्त्वं, निर्विचारस्य तु प्रकृष्टाभ्यासबलाद्वैशारद्ये रजा सत्त्वोद्रेके सत्यध्यात्मप्रसादः क्लेशवासनारहितस्य चित्तस्य भूतार्थति स्फुटः प्रज्ञालोकः प्रादुर्भवति । तथा च भाष्यम्----

"प्रज्ञाप्रसादमारुह्य अशोच्यः शोचतो
भूमिष्ठानिव शैलस्थः सर्वान्प्रा

 "ऋतंभरा तत्र प्रज्ञा समाहितचित्तस्य योगिनो या प्रज्ञा जायते सतभरा । समर्ति न तत्र विपर्यासगन्धोऽप्यस्तीति यौगिक्येवेयं समानु योगः । तथा च भाष्यम----

आगमेनानुमान


 सा तु "श्रुतान ......रानागमविज्ञान तत्सामान्यविषयमेव । न हि विशेषण संह कस्यचिच्छब्दस्य संगतिग्रहीतुं शक्यते । तथाऽनुमानं सामान्यविषयमेव । न हि विशेषेण सह कस्यचिद्व्याप्तिर्ग्रहीतुं शक्यते । तस्माच्छ्रुतानुमानविषयो न विशेषः कश्चिदस्ति । न चास्य सूक्ष्मव्यवहितविप्रकृष्टस्य वस्तुनो लोकप्रत्यक्षेण ग्रहणमस्ति । किं तु समाधिप्रज्ञानिर्ग्राह्य एक स विशेषों भवति भूतसूक्ष्मगतो वा पुरुषगतो वा। तस्मान्निर्विचारवैशारद्यसमुद्भवायां श्रुतानुमानविलक्षणायां सूक्ष्मव्यवहितविप्रकृष्टसर्वविशेषविषयायामृतंभरायामेव प्रज्ञायां योगिना महान्प्रयत्न आस्थेय इत्यर्थः । ननु क्षिप्तमूढविक्षिप्ताख्यव्युत्थानसंस्काराणामेकाग्रतायामपि सवितर्कनिर्वितर्कसविचारजानां संस्काराणां सद्भावात्तैश्चाल्यमानस्य चित्तस्य कथं निर्विचारवैशारद्यपूर्वकाध्यात्मप्रसादलभ्यर्तम्भरा प्रज्ञा प्रतिष्ठिता स्यादत आह-" तज्जः संस्कारोऽन्यसंस्कारप्रतिबन्धी " तयर्तम्भरया प्रज्ञया जनितो यः संस्कारः स तत्त्वविषयया प्रज्ञया अनितत्वेन बलवत्त्वादन्यान्व्युत्थानजान्समाधिजांश्च संस्कारानतत्त्वविषयप्रज्ञाजनितत्वेन दुर्बलान्प्रतिबध्नाति स्वकार्याक्षमान्करोति नाशयतीति वा । तेषां संस्काराणामभिभवात्तत्प्रभवाः प्रत्यया न भवन्ति । ततः समाधिरुपतिष्ठते । ततः समाधिना प्रज्ञा । ततः प्रज्ञाकृताः संस्कारा इति नवो नवः संस्काराशयो वर्धते । ततश्च प्रज्ञा । ततश्च संस्कारा इति । ननु भवतु व्युत्थानसंस्काराणामतत्त्वविषयप्रज्ञाजनितानां तत्त्वमात्रविषयसंप्रज्ञातसमाधिप्रज्ञाप्रमवैः संस्कारैः प्रतिबन्धस्तेषां तु संस्काराणां प्रतिबन्धकामावादेकाग्रभूमावेव सबीजः समाधिः स्यान्न तु निर्बीजो निरोधभूमाविति तत्राऽऽह-" तस्यापि निरोधे सर्वनिरोधान्निर्बीजः समाधिः ॥ तस्य संप्रज्ञातस्य समाधेरेकाग्रभूमिजस्य, अपिशब्दात्क्षिप्तमूढविक्षिप्तानामपि निरोधे योगिप्रयत्विशेषेण विलये सति सर्वनिरोधात्समाधेः समाधिजस्य संस्कारस्यापि निरोधान्निर्बीजो निरालम्बनोऽसंप्रज्ञातसमाधिर्भवति । स च सोपायः प्राक्सूत्रितः "विरामप्रत्ययाभ्यासपरशेषोऽन्यः" इति। विरम्यतेऽनेनेति विरामो वितर्क विचारानन्दास्मितादिरूपया प्रत्ययः कारणं परं वैराग्यमिति यावत् । विरामश्चासौ प्रत्यय। तस्याभ्यासः पौनःपुन्येन चेतसि निवेशनं, तदेव पूर्व कारण कोषः सर्वथा निवृत्तिकोऽन्यः पूर्वोक्तात्सबीजाद्विलक्षणो निर्बीजोऽस असंप्रज्ञातस्य हि समानुपायावुक्तावभ्यासो वैराग्यं च । “य न निरालम्बनसमाधिहेतुत्वं घटत इति निरालम्बनं परं वैराग्यमय यासस्तु संप्रज्ञातसमाधिद्वारा प्रणाड्योपयुज्यते । तदुक्तं " त्रयमन्तरक की ध्यानसमाधिरूपं साधन- त्रयं यमनियमासनप्राणायामप्रत्याहाररूपसाधनपर " सबीजस्य समाधेरन्तरङ्गं साधनम् । साधनकोटौ च समाधिशब्देनाभ्यास एवोच्यते । मुख्यस्य समाधेः साध्यत्वात् । “ तदपि बहिरङ्गं निर्बीजस्य " निर्बीजस्य तु समाधेस्तदाप त्रयं बहिरङ्गं परम्परयोपकारि तस्य तु परं वैराग्यमेवान्तरङ्गमित्यर्थः । अयमपि द्विविधो भवप्रत्यय देहाना सानन्दाना दोषधिविशेषान्मन्त्र आत्मानात्मविवेका. भावरूपः प्रत्ययः कारणं यस्य स तथा । जन्ममात्रहेतुको वा पक्षिणामाकाशगमनवत्, पुनः संसारहेतुत्वान्मुमुक्षुभिर्हेय इत्यर्थः । " श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषाम् ” जन्मौषधिमन्त्रतपःसिद्धव्यतिरिक्तानामात्मानात्मविवेकदर्शिनां तु यः समाधिः स श्रद्धादिपूर्वकः । श्रद्धादयः पूर्व उपाया यस्य स तथा, उपायप्रत्यय इत्यर्थः । तेषु श्रद्धा योगविषये चेतसः प्रसादः । सा हि जननीव योगिनं पाति । ततः श्रद्दधानस्य विवेकार्थिनो वीर्यमुत्साह उपजायते । समुपजातवीर्यस्य पाश्चात्त्यासु भूमिषु स्मृतिरुत्पद्यते । तत्स्मरणाच्च चित्तमनाकुलं सत्समाधीयते । समाधिरत्रैकाग्रता। समाहितचित्तस्य प्रज्ञा भाव्यगोचरा विवेकेन जायते । तदभ्यासात्पराच्च वैराग्याद्भवत्यसं प्रज्ञातः समाधिर्मुमुक्षूणामित्यर्थः । “प्रतिक्षणपरिणामिनो हि भावा ऋते चितिशक्तेः " इति न्यायेन तस्यामपि सर्ववृत्तिनिरोधावस्थायां चित्तपरिणामप्रवाहस्तज्जन्यसंस्कारप्रवाहश्च भवत्येवेत्यभिप्रेत्य संस्कारशेष इत्युक्तम् । तस्य च संस्कारस्य प्रयोजनमुक्तम् -"ततः प्रशान्तवाहिता संस्कारात्" इति । प्रशान्तवाहिता नामावृत्तिकस्य चित्तस्य निरिन्धनाग्निवत्प्रतिलोमपरिणामेनोपशमः । यथा समिदाज्याद्याहुतिप्रक्षेपे वह्निरुत्तरोत्तरवृद्ध्या प्रज्वलति । समिदादिक्षये तु प्रथमक्षणे किंचिच्छाम्यति । उत्तरोत्तरक्षणेषु त्वधिकमधिकं शाम्यतीति क्रमेण शान्तिर्वर्धते । तथा निरुद्धचित्तस्योत्तरोत्त[२६८]राधिकः प्रशमः प्रवहति । तत्र पूर्वप्रशमजनितः संस्कार एवोत्तरोत्तरप्रशमस्य कारणम् । तदा च निरिन्धनाग्निवञ्चित्तं क्रमेणोपशाम्यद्व्युत्थानसमाधिनिरोधसंस्कारैः सह स्वस्यां प्रकृतौ लीयते । तदा च समाधिपरिपाकप्रभवेन वेदान्तवाक्यजेन सम्यग्दर्शनेनाविद्यायां निवृत्तायां तद्धेतुकदृग्दृश्यसंयोगाभावावृत्तौ पञ्चविधायामपि निवृत्तायां स्वरूपप्रतिष्ठः पुरुषः शुद्धः केवलो मुक्त इत्युच्यते । तदुक्तं " तदा द्रष्टुः स्वरूपेऽवस्थानम् " इति । तदा सर्ववृत्तिनिरोधे । वृत्तिदशायां तु नित्यापरिणामिचैतन्य रूपत्वेन तस्य सर्वदा शुद्धत्वेऽप्यनादिना दृश्यसंयोगेनाऽऽविद्यकेनान्तःकरणतादात्म्याध्यासादन्तःकरणवृत्तिसारूप्यं । प्राप्नुवन्नभोक्ताऽपि भोक्तेव भोक्तव दुःखानां भवति । तदुक्तं " बृत्तिसारूप्यमितरत्र " इतरत्र वृत्तिप्रादुर्भाये । एतदेव विवृतं " द्रष्टुदृश्योपरक्तं चित्तं सर्वार्थम् ” चित्तमेव द्रष्टुदृश्योपरक्तं विषयिविषयनिर्भासं चेतनाचेतनस्वरूपापन्नं विषयात्मकमप्यविषयात्मकमिवाचेतनमपि चेतनमिव स्फटिकमणिकल्पं सर्वार्थमित्युच्यते । तदनेन चित्तसारूप्येण भ्रान्ताः केचित्तदेव चेतनमित्याहुः । " तदसंख्येयवासनाभिश्चित्तमपि परार्थं संहत्यकारित्वात् ” यस्य भोगापवर्गार्थं तत्स एव परश्चेतनोऽसंहतः पुरुषो न तु घटादिवत्संहत्यकारि चित्तं चेतनमित्यर्थः । एवं च " विशेषदर्शिन आत्मभावभावनानिवृत्तिः ” एवं योऽन्तःकरणपुरुषयोर्विशेषदर्शी तस्य याऽन्तःकरणे प्रागविवेकवशादात्ममावभावनाऽऽसीत्सा निवर्तते, भेददर्शने सत्यभेदभ्रमानुपपत्तेः । सत्त्वपुरुषयोर्विशेषदर्शनं च भगवदर्पितनिष्कामकर्मसाध्यं, तल्लिङ्गं च योगभाष्ये दर्शितम् --यथा प्रावृषि तृणाङ्कुरस्योद्भेदेन तद्बीजसत्ताऽनुमीयते तथा मोक्षमार्गश्रवणेन सिद्धान्तरुचिवशाद्यस्य लोमहर्षाश्रुपातौ दृश्येते तत्राप्यस्ति विशेषदर्शनबीजमपवर्गमार्गीय कर्माभिनिवर्तितमित्यनुमीयते । यस्य तु तादृशं कर्मबीजं नास्ति तस्य मोक्षमार्गश्रवणे पूर्वपक्षयुक्तिषु रुचिर्मवत्यरुचिश्च सिद्धान्तयुतिषु । तस्य कोऽहमासं कथमहमासमित्यादिरात्मभावभावना स्वाभाविकी प्रवर्तते । सा तु विशेषदर्शिनो निवर्तत इति । एवं सति किं स्यादिति तदाह-" तदा विवेक-


निम्नं कैवल्यप्राग्भारं चित्तम् " निम्नं जलप्रवहणयोग्यो नीचदेशः । प्राग्भारस्तदयोग्य उच्चप्रदेशः । चित्तं च सर्वदा प्रवर्तमानवृत्तिप्रवाहेण प्रवहज्जलतुल्यं, तत्प्रागात्मानात्माविवेकरूपविमार्गवाहिविषयभोगपर्यन्तमस्याऽऽसीत् । अधुना त्वात्मानात्मविवेकमार्गवाहिकैवल्यपर्यन्तं संपद्यत इति । अस्मिंश्च विवेकवाहिनि चित्ते येऽन्तरायास्ते सहेतुका निवर्तनीया इत्याह सूत्राभ्यां " तच्छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः, हानमेषां केशवदुक्तं " तस्मिन्विवेकवाहिनि चित्ते छिद्रेष्वन्तरालेषु प्रत्ययान्तराणि व्युत्थानरूपाण्यहं ममेत्येवंरूपाणि व्युत्थानानुभवजेभ्यः संस्कारेभ्यः क्षीयमाणेभ्योऽपि प्रादुर्भवन्ति । एषां च संस्काराणां क्लेशानामिव हानमुक्तं, यथा क्लेशा अविद्यादयो ज्ञानाग्निना दग्धबीजभावा न पुनश्चित्तभूमौ प्ररोहं प्राप्नुवन्ति तथा ज्ञानाग्निना दग्धबीजभावाः संस्काराः प्रत्ययान्तराणि न [२६९]प्रसेढुमर्हन्ति । ज्ञानाग्निसंस्कारास्तु यावञ्चित्तमनुशेरत इति । एवं च प्रत्ययान्तरानुदयेन विवेकवाहिनि चित्ते स्थिरीभूते सति " प्रसंख्यानेऽप्यकुसीदस्य सर्वथा विवेकख्यातेधर्ममेवः समाधिः " प्रसंख्यानं सत्त्वपुरुषान्यताख्यातिः शुद्धात्मज्ञानमिति यावत् । तत्र बुद्धेः सात्त्विके परिणामे कृतसंयमस्य सर्वेषां गुणपरिणामानां स्वामिवदाक्रमणं सर्वाधिष्ठातृत्वं तेषामेव च शान्तोदिताव्यपदेश्यवर्मित्वेन स्थितानां यथावद्विवेकज्ञानं सर्वज्ञातृत्वं च विशोका नाम सिद्धिः फलं तद्वैराग्याच्च कैवल्यमुक्तं " सत्त्वपुरुषान्यताख्यातिमात्रस्य सर्वभावाधिष्ठातृत्वं सर्वज्ञातृत्वं च" " तद्वैराग्यादपि दोषबीजक्षये कैवल्यम्" इति सूत्राभ्यां, तदेतदुच्यते तस्मिन्प्र- संख्याने सत्यप्यकुसीदस्य फलमलिप्सोः प्रत्ययान्तराणामनुदये सर्वप्रका[२७०]रैविवेकख्यातेः परिपोषाद्धर्ममेवः समाधिर्भवति ।

" इज्याचारदमाहिंसादानस्वाध्यायकर्मणाम् ।
अयं तु परमो धर्मो यद्योगेनाऽऽत्मदर्शनम् ," इति स्मृतेः ॥

 धर्म प्रत्यग्ब्रह्मैक्यसाक्षात्कारं मेहति सिञ्चतीति धर्ममेघस्तत्त्वसाक्षात्कारहेतुरित्यर्थः । “ ततः क्लेशकर्मनिवृत्तिः " ततो धर्ममेघालसमाधेर्धर्माद्वा क्लेशानां पञ्चविधानामविद्यास्मितारागद्वेषाभिनिवेशानां कर्मणां च कृष्णशक्लकृष्णशुक्लभेदेन त्रिविधानामविद्यामूलानामविद्यालये बीजक्षयादात्यन्तिकी निवृत्तिः कैवल्यं भवति । कारणनिवृत्त्या कार्यनिवृत्तेरात्यन्तिक्या उचितत्वादित्यर्थः । एवं स्थिते “ युञ्जन्नेवं सदाऽऽत्मानम् " इत्यनेन संप्रज्ञातः समाधिरेकाग्रभूमावुक्तः । नियतमानस इत्यनेन तत्फलभूतोऽसंप्रज्ञातसमाधिनिरोधभूमावुक्तः । शान्तिमिति निरोधसमाधिजसंस्कारफलभूता प्रशान्तवाहिता । निर्वाणपरमामिति धर्ममेवस्य समाधेस्तत्त्व


ज्ञानद्वारा कैवल्यहेतुत्वं, मत्संस्थामित्यनेनौपनिषदाभिमतं कैवल्यं दर्शितम् । यस्मादेवं महाफलो योगस्तस्मात्तं महता प्रयत्नेन संपादयेदित्यभिप्रायः ॥ १५ ॥

 श्री०टी०-योगाभ्यासफलमाह-युञ्जन्नेवमिति । एवमुक्तप्रकारेण सदाऽऽत्मानं मनो युञ्जन्समाहितं कुर्वन्नियतं निरुद्धं मानतं चित्तं यस्य स शान्ति संसारोपरमं प्राप्नोति । कथंभूताम्, निर्वाणं परमं प्राप्यं यस्यां तां मत्संस्थां मद्रूपेणावस्थितिम् ॥ १५॥

 म. टी.-एवं योगाभ्यासनिष्ठस्याऽऽहारादिनियममाह द्वाभ्याम्-

नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनश्नतः ॥
न चातिस्वप्नशीलस्य जाग्रतो नैव चार्जुन ॥ १५ ॥

 यद्भुक्तं सज्जीर्यति शरीरस्य च कार्यक्षमता संपादयति तदा क्रम्य लोभेनाधिकमश्नतो न योगोऽस्ति अजीर्णदोषेण न्तमनश्नतो योगोऽस्ति अनाहारादत्यल्पाहाराद्वा "कार्याक्षमत्वात् यदु ह वा आत्मसंमितमन् यद्यो हिनस्ति तद्यत्कनीयो न तदवति" इति शतप नाऽऽत्मसंमितादन्नादधिकं न्यून वाऽश्नीयादित्यर्थः । अथवा-

"पूरयेदशनेनार्धं तृतीयमुदकेन तु ।
वायोः संचरणार्थं तु चतुर्थमवशेषयेत्"

 इत्यादियोगशास्त्रोक्तपरिमाणादधिकं न्यूनं वाऽश्नतो योगो न संपद्यत इत्यर्थः । तथाऽतिनिद्राशीलस्यातिजाग्रतश्च योगो नैवास्ति हेऽर्जुन सावधानो भवेत्यभिप्रायः । एकश्चकार उक्ताहारातिक्रमसमचार्थ, मार्कण्डेयपुराणे-

नाऽऽध्मातः
युञ्जीत योगं राजन्द्र योगी सिद्धयर्थमात्मनः ॥
नातिशीते न चैवोष्णे न द्वंद्वे नानिलान्विते ।
कालेप्वेतेषु युञ्जीत न योगं ध्यानतत्परः" इत्यादि ॥ १६ ॥

 श्री०टी०---योगाभ्यासनिष्ठस्याऽऽहारादिनियममाह द्वाभ्याम्-नेति । अत्यन्तमधिकं भुञ्जानस्यैकान्तमत्यन्तमभुञ्जानस्यापि योगः समाधिर्न भवति । तथाऽतिनिद्राशीलस्यातिजाग्रतश्च योगो नैवास्ति ॥ १६ ॥[२७१]


 म०टी०-एवमाहारादिनियमविरहिणो योगव्यतिरेकमुक्त्वा तन्नियमवतो योगान्वयमाह-

युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु ॥
युक्तस्वनावबोधस्य योगो भवति दुःखहा ॥ १७ ॥

 आह्नियत इत्याहारोऽन्नं विहरणं विहारः पाद[२७२]क्रमः, तौ युक्तौ नियतपरिमाणौ यस्य, तथाऽन्येष्वपि प्रणवजपोपनिषदावर्तनादिषु कर्मसु युक्ता नियतकाला चेष्टा यस्य, तथा स्वप्नो निद्रा, अवबोधो जागरणं तौ युक्तौ नियतकालौ यस्य तस्य योगो भवति साधनपाटवात्समाधिः सिध्यति नान्यस्य । एवं प्रयत्नविशेषेण संपादितो योगः किंफल इति तत्राऽऽह-दुःखहेति। सर्वसंसारदुःखकारणाविद्योन्मूलनहेतुब्रह्मवि'द्योत्पादकत्वात्समूलसर्वदुःखनिवृत्तिहेतुरित्यर्थः । अत्राऽऽहारस्य नियतत्वम्-

" अर्धमशनस्य सव्यञ्जनस्य तृतीयमुदकस्य तु ।
वायोः संचारणार्थं तु चतुर्थमवशेषयेत् "

 इत्यादि प्रागुक्तम् । विहारस्य नियतत्वं योजनान्न परं गच्छेदित्यादि । कर्मसु चेष्टाया नियतत्वं वागादिचापलपरित्यागः । रार्वेविभागत्रयं कृत्वा प्रथमान्त्ययोर्जागरणं मध्ये स्वपनमिति स्वप्नावबोधयोर्नियतकालत्वम् । एवमन्येऽपि योगशास्त्रोक्ता नियमा द्रष्टव्याः ॥ १७ ॥

 श्री०टी०-तर्हि कथंभूतस्य योगो भवतीत्यत आह---युक्तेति । युक्तो नियत आहारो विहारश्च गतिर्यस्य, कर्मसु कार्येषु युक्ता नियतैव चेष्टा यस्य, युक्ती नियतौ स्वप्नावबोधौ निद्राजागरौ यस्य तस्य दुःखनिवर्तको योगो भवति सिध्यति ॥ १७ ॥

 म०टी०--एवमेकाग्रभूमौ संप्रज्ञातं समाधिमभिधाय निरोधभूमावसंप्रज्ञातं समाधि वक्तुमुपक्रमते-

यदा विनियतं चित्तमात्मन्येवावतिष्ठते ॥
निःस्पृहः सर्वकामेभ्यो युक्त इत्युच्यते तदा ॥ १८ ॥

 यदा यस्मिन्काले परवैराग्यवशाद्विनियतं विशेषेण नियतं स[२७३]र्ववृत्तिशून्यतामापादितं चित्तं विगतरजस्तमस्कमन्तःकरणसत्त्वं स्वच्छत्वात्सर्व विषयाकारग्रहणप्तमर्थमपि सर्वतोनिरुद्धवृत्तिकत्वादात्मन्येव प्रत्यक्चिति अनात्मानुपरक्ते वृत्तिराहित्येऽपि स्वतःसिद्धस्याऽऽत्माकारस्य वारयितुमशक्यत्वाच्चितेरेव प्राधान्यान्यग्भूतं सदवतिष्ठते निश्चलं भवति, तदा तस्मिन्सर्ववृत्तिनिरोधकाले युक्तः समाहित इत्युच्यते ।


कः, यः सर्वकामेम्यो निःस्पृहः, निर्गता दोषदर्शनेन सर्वेभ्यो दृष्टादृष्टविषयेभ्यः कामेभ्यः स्पृहा तृष्णा यस्येति परं वैराग्यमसंप्रज्ञातसमाधेरन्तरङ्गं साधनमुक्तम् । तथा च व्याख्यातं प्राक् ॥ १८॥

 श्री०टी०-कदा निष्पन्नयोगः पुरुषो भवतीत्यपेक्षायामाह-यदेति। विनियतं विशेषेण निरुद्धं सञ्चित्तमात्मन्येव यदा निश्चलं तिष्ठति । किं च सर्वकामेभ्य ऐहिकामुष्मिकभोगेभ्यो निःस्पृहो विगततृष्णो भवति तदा युक्तः प्राप्तयोग इत्युच्यते॥१८॥

 म०टी०-समाधौ निवृत्तिकस्य चित्तस्योपमानमाह-

यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता ॥
योगिनो यतचित्तस्य युञ्जतो योगमात्मनः ॥ १९ ॥

 दीपचलनहेतुना वातेन रहिते देशे स्थितो दीपो यथा चलनडे चलति सोपमा स्मृता स दृष्टान्तश्चिन्तितो योगज्ञैः । कस्य, ज्ञातसमाधिमतोऽभ्यासपाटवाद्यतचित्तस्य निरुद्धसर्वधि निरोधभूमौ युञ्जतोऽनुतिष्ठतो य आत्माऽन्तः सत्त्वोद्वेकेण प्रकाशकतया च निश्चलो दीपो दृष्टान्त ना योगं युञ्जत इति व्याख्याने दार्ष्टान्तिकालामः सर्वावस्थस्यापित सर्वदाऽऽत्माकारतयाऽऽत्मपदवैयर्थ्यं च । न हि योगेनाऽऽत्माकारता चित्तस्य संपाद्यते, किं तु स्वत एवाऽऽत्माकारस्य सतोऽनात्माकारता निवर्त्यत इति । तस्माद्दार्ष्टान्तिकप्रतिपादनार्थमेवाऽऽत्मपदम् । यतचित्तस्येति[२७४] भावपरो निर्देशः कर्मधारयो वा यतस्य चित्तस्येत्यर्थः ॥ १९ ॥

 श्री०टी०-आत्मैक्याकारतयाऽवस्थितस्य चित्तस्योपमानमाह-यथेति । वातशून्ये देशे स्थितो दीपो यथा नेङ्गते न विचलति सोपमा दृष्टान्त योगं युञ्जतोऽभ्यसतो योगिनो तया च चित्तं तद्वत्तिष्ठतीत्यर्थः

 म०टी०-एवं सामान्य पानराधसमाधि विस्तरेण विवरीतु- मारमतेयत्रोपरमते-----

यत्रोपरमते चित्तं निरुद्धं योगसेवया ॥
यत्र चैवाऽऽत्मनाऽऽत्मानं पश्यन्नात्मनि तुष्यति॥२०॥

यत्र यस्मिन्परिणामविशेषे योगसेवया योगाभ्यासपाटवेन जाते सति चित्तं निरुद्धमेकविषयकवृत्तिप्रवाहरूपामेकाग्रतां त्यक्त्वा निरिन्धनाग्निवदुपशाम्यन्निर्वृत्तिकतया


सर्ववृत्तिनिरोधरूपेण परिणतं भवति । यत्र च यस्मिंश्च परिणामे सति आत्मना रजस्तमोनभिभूतशुद्धसत्त्वमात्रेणान्तःकरणेनाऽऽत्मानं प्रत्यक्चैतन्यं परमात्माभिन्नं सच्चिदानन्दघनमनन्तमद्वितीयं पश्यन्वेदान्तप्रमाणजया वृत्त्या साक्षात्कुर्वन्नात्मन्येव परमानन्दघने तुष्यति, न देहेन्द्रियसंघाते न वा तद्भोग्येऽन्यत्र । परमात्मदर्शने सत्यतुष्टिहेत्वभावात्तुष्यत्येवेति वा । तमन्तःकरणपरिणाम सर्वचित्तवृत्तिनिरोधरूपं योग विद्या-

दिति परेणान्वयः । यत्र काल इति तु व्याख्यानमसाधु तच्छब्दानन्वयात् ॥ २० ॥

 श्री०टी०-"यं संन्यासमिति प्राहुर्योगं तं विद्धि पाण्डव " इत्यादौ कमैंव योगशब्देनोक्तं, “ नात्यनतस्तु योगोऽस्ति" इत्यादौ तु समाधिर्योगशब्देनोक्तः । तत्र मुख्यो योगः क इत्यपेक्षायां समाधिमेव स्वरूपतः फलतश्च लक्षयन्स एव मुख्यो इत्याह यत्रेति सार्धैस्त्रिभिः-यत्र यस्मिन्नवस्थाविशेषे योगाभ्यासेन एतं भवतीति योगस्य स्वरूपलक्षणमुक्तम् । तथाच पातञ्जलं सूत्रम्" इति । इष्टप्राप्तिलक्षणेन फलेन तमेव लक्षयति । यत्र यस्मिन्नवस्थान माऽऽत्मानमेव पश्यति न तु देहादि, पश्यंश्वाऽऽत्म- न्येव तुष्यति जां यच्छब्दानां तं योगसंक्षितं विद्यादिति चतुर्थेनान्वयः ॥ २० ॥

 म०टी०-आत्मन्येव तोष

मुखमात्यन्तिकं यत्तद्बुद्धिग्राह्यमतीन्द्रियम् ॥
वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वतः ॥२१॥

 पत्र यस्मिन्नवस्थाविशेष आत्यन्तिकमनन्तं निरतिशयं ब्रह्मस्वरूपमतीन्द्रियं विषयेगोमाहितया सत्त्वमात्रवाहिन्या ग्राह्यं विद्वांस्तत्त्वत आत्मस्वरूपान्नैव । अत्राऽऽत्यन्तिकमिति ब्रह्मसुखस्वरूपकथनम् । अतीन्द्रियमिति विषयसुखव्यावृत्तिः , तस्य विषयेन्द्रियसंयोगसा- पेक्षत्वात् । बुद्धिग्राह्यमिति सौषुप्तसुखव्यावृत्तिः सुषुप्तौ बुद्धीर्लीनत्वात् , समाधौ निर्वृत्तिकायास्तस्याः सत्त्वात् । तदुक्तं गौडपादै:-" लीयते तु सुषुप्तौ तन्निगृहीतं न लीयते " इति । तथा च श्रूयते-

"समाधिनिर्धूतमलस्य चेतसो निवेशितस्याऽऽत्मनि यत्सुखं भवेत् ।
न शक्यते वर्णयितुं गिरा तदा यदेतदन्तःकरणेन गृह्यते " इति ॥

 अन्तःकरणेन निरुद्धसर्ववृत्तिकेनेत्यर्थः । वृत्त्या तु सुखास्वादनं गौडाचार्यैस्तत्र प्रतिषिद्धम्-" नाऽऽस्वादयेत्सुखं तत्र निःसङ्गः प्रज्ञया भवेत् " इति । महदिदं समाधौ सुखमनुभवामीति सविकल्पवृत्तिरूपा प्रज्ञा सुखास्वादः । तं व्युत्थानरूपत्वेन समाधिविरोधित्वाद्योगी न कुर्यात् । अत एवैतादृश्या प्रज्ञया सह सङ्गं परित्यजेत्तां निरुन्ध्यादित्यर्थः । निर्वृत्तिकेन तु चित्तेन स्वरूपसुखानुभवस्तैः प्रतिपादितः- "स्वस्थं शान्तं सनिर्वाणमकथ्यं सुखमुत्तमम्" इति । स्पष्टं चैतदुपरिष्टात्करिष्यते ॥२१॥

 श्री०टी०--आत्मन्येव तोषे हेतुमाह-सुखमिति । यत्र यस्मिन्नवस्थाविशेषे यत्तत्किमपि निरतिशयमात्यन्तिकं नित्यं सुखं वेत्ति । ननु तदा विषयेन्द्रियसंबन्धाभावात्कुतः सुखं स्यात्तत्राऽऽह-अतीन्द्रियं विषयेन्द्रियसंबन्धातीतं केवलं बुद्धयैवाऽऽत्माकारतया ग्राह्यम् । अत एव च यत्र स्थितः संस्तत्त्वत आत्म[२७५]स्वरूपान्नैव चलति ॥ २१ ॥

 म०टी०-यत्र न चैवायं स्थितश्चलति तत्त्वत इत्युक्तमुपपादयति-

यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः ॥
यस्मिन्स्थितो न दुःखेन गुरुणाऽपि विचाल्यते ॥२२॥

 यं च निरतिशयात्मकसुखव्यञ्जकं निवृत्तिकचित्तावस्थाविशेषं लब्ध्वा संतताभ्यासपरिपाकेन(ण) संपाद्यापरं लाभं ततोऽधिकं न मन्यते । कृतं कृत्यं प्राप्तं प्रापणीय[२७६]मित्यात्मलाभान्न परं विद्यत इति स्मृतेः । एवं विषयभोगवासनया समाधेर्विचलनं नास्तीत्युक्त्वा शीतवातमशकाद्युपद्रवनिवारणार्थनपि तन्नास्तीत्याह-यस्मिन्परमात्मसुखमये निर्वृत्तिकचित्तावस्थाविशेषे स्थितो योगी गुरुणा महता शस्त्रनिपातादिनिमित्तेन महताऽपि दुःखेन न विचाल्यते किमुत क्षुद्रणेत्यर्थः ॥ २२ ॥

 श्री०टी०-अचल[२७७] त्वमेवोपपादयति----यमिति । यमात्मसुखरूपं लाभं लब्ध्वा ततोऽधिकमपरं लामं न मन्यते तस्यैव निरतिशयसुखत्वात् । यस्मिंश्च स्थि ताऽपि शीतोष्णादिदुःखेन न विचाल्यते नाभिभूयते । एतेनानिष्टनिवृत्तिफलेनापि योगस्य लक्षणमुक्तं द्रष्टव्यम् ॥ २२ ॥

तं विद्याहुःखसंयोगवियाग योगसंज्ञितम् ॥
स निश्चयेन योक्तव्यो योगोऽनिर्विण्णचेतसा ॥२३॥

 म०टी०-यत्रोपरमत इत्यारभ्य बहुभिर्विशेषणैर्यो निर्वृत्तिकः परमानन्दाभिव्यञ्जकश्चित्तावस्थाविशेष उक्तस्तं चित्तवृत्तिनिरोधं चित्तवृत्तिमयसर्वदुःखविरोधित्वेन दुःखवियोगमेव सन्तं योगसंज्ञितं वियोगशब्दार्हमपि विरोधिलक्षणया योगशब्दवाच्यं


विद्याज्जानीयान्न तु योगशब्दानुरोधात्कंचित्संबन्ध प्रतिपद्यतेत्यर्थः । तथा च भगवान्पतञ्जलिरसूत्रयत् “योगश्चित्तवृत्तिनिरोधः" इति । "योगो भवति दुःखहा" इति यत्प्रागुक्तं तदेतदुपसंहृतम् । एवंभूते योगे निश्चयानिर्वेदयोः साधनत्वविधानायाऽऽह-स यथोक्तफलो योगो निश्चयेन शास्त्राचार्यवचनतात्पर्यविषयोऽर्थः सत्य एवेत्यध्यवसायेन योक्तव्योऽभ्यसनीयः । अनिर्विण्णचेतसा, एतावताऽपि कालेन योगो न सिद्धः किमतः परं कष्टमित्यनुतापो निर्वेदस्तद्रहितेन चेतसा, इह जन्मनि जन्मान्तरे वा सेत्स्यति कि त्वरयेत्येवं धैर्ययुक्तेन मनसेत्यर्थः । तदेतगौडपादा उदाजहरु:-

"उत्सेक उदधेर्यद्वत्कुशाग्रेणकबिन्दुना ।
मनसो निग्रहस्तद्वद्भवेदपरिखेदतः" इति ॥

 क उत्सेचनं शोषणाध्यवसायेन जलोद्धरणमिति यावत् । अत्र संप्रदायविद xxxxxx-कस्यचित्किल पक्षिणोऽण्डानि तीरस्थानि तरङ्गवेगेन(ण) xxxxxx समद्रं शोषयिष्याम्येवेति प्रवृत्तः स्वमुखाग्रेणैकैकं जलबिन्दुमुपरि भिः पक्षिभिर्बन्धुवगैर्यमाणोऽपि नैवोपरराम । यदृच्छया अत्यस्मिञ्जन्मनि जन्मान्तरे वा येन केनाप्युपायेन समुद्रं शोषयिष्याम्येक ANARAN देवानुकूल्यात्कृपालुर्नारदो गरुडं तत्साहाय्याय प्रेषयामास समुद्रस्त्व वामवमन्यत इति वचनेन । ततो गरुडपक्षवातेन शुष्यन्समुद्रो भीतस्तान्यPE"तस्म पक्षिणे प्रददाविति । एवमखेदेन मनोनिरोधे परमधर्मे प्रवर्तमानं योगिनमीश्वरोऽनुगृह्णाति । ततश्च पक्षिण इव तस्याभिमतं सिध्यतीति भावः ॥ २३ ॥

 श्री टी य एवंमतोऽवस्थाविशेषस्तमाह तमित्यर्धेन-दुःखशब्देन दुःखमि[२७८]जोगेन स्पर्शमात्रेणापि वियोगो यस्मिआत् । परमात्मना क्षेत्रज्ञस्य योजनं यांगः । यद्वा कातरशब्दवविरुद्धलक्षणया योग उच्यते । कर्मणि तु योगशब्दस्तदुपायत्वादौपचारिक एवेति भावः । यस्मादेवं महाफलो योगस्तस्मात्स एव यत्नतोऽभ्यसनीय इत्याह-स इति सार्धेन । स योगो निश्चयेन शास्त्राचार्योपदेशजनितेन योक्तव्योऽभ्यसनीयः । यद्यपि शीघ्रं न सिध्यति तथाऽपि अनिर्विण्णेन निर्वेदरहितेन चेतसा योक्तव्यः । दुःखबुद्धया प्रयत्नशैथिल्यं निर्वेदः ॥ २३ ॥

 म०टी०--किं च कृत्वा योगोऽभ्यसनीयः-


संकल्पप्रभवान्कामांस्त्यक्त्वा सर्वानशेषतः ॥
मनसैवेन्द्रियग्रामं विनियम्य समन्ततः ॥ २४ ॥

 संकल्पो दुष्टेष्वपि विषयेष्वशोभनत्वादर्शनेन शोभनाध्यासः । तस्माच्च संकल्पादिदं मे स्यादिदं मे स्यादित्येवंरूपाः कामाः प्रभवन्ति । ताञ्शोभनाध्यासप्रभवान्विषयाभिलाषाविचारजन्याशोभनत्वनिश्चयेन शोभनाध्यासबाधादृष्टेषु स्रक्चन्दनवनितादिष्वदृष्टेषु चेन्द्रलोकपारिजाताप्सरःप्रभृतिषु श्ववान्तपायसवत्स्वत एव सर्वान्ब्रह्मलोकपर्यन्तानशेषतो निरवशेषान्सवासनांस्त्यक्त्वा, अत एव कामपूर्वकत्वादिन्द्रियप्रवृत्तेस्तदपाये सति विवेकयुक्तेन मनसैवेन्द्रियग्रामं चक्षुरादिकरणसमूहं विनियम्य समन्ततः सर्वेभ्यो विषयेभ्यः प्रत्याहृत्य शनैः शनैरुपरमदित्यन्वयः ॥ २४ ॥

 श्री० टी०-किंच-संकल्पेति । संकल्पात्प्रभवो येषां तान्योगप्रतिकूलान्सर्वा- न्कामानशेषतः [२७९]सवासनांस्त्यक्त्वा मनसैव विषयदोषदर्शिना सर्वतः प्रसरन्तमिन्द्रियसमूह विशेषेण नियम्य योगो योक्तव्य इति पूर्वेणान्वयः ॥ २४ ॥

शनैः शनैरुपरमेद्बुद्ध्या धृतिगृहीतया ॥
आत्मसंस्थं मनः कृत्वा न किंचिदपि चिन्तयेत्॥२५॥

 म० टी०---भूमिकाजयक्रमेण शनैः शनैरुपरमेत् , धृतिधैर्यमखिन्नता तया गृहीता या बुद्धिरवश्यकर्तव्यतानिश्चयरूपा तया यदा कदाचिदवश्यं भविष्यत्येव योगः किं त्वरयेत्येवंरूपया शनैः शनैर्गुरूपदिष्टमार्गेण मनो निरन्ध्यात् । एतेनानिर्वेदनिश्चयौ प्रागुक्तौ दर्शितौ । तथा च श्रुतिः-

" यच्छेद्धामनसी प्राज्ञस्तद्यच्छेज्ज्ञान आत्मनि ।
ज्ञानमात्मनि महति नियच्छेत्तद्यच्छेच्छान्त आत्मनि" इति ॥

 वागिति वाचं लौकिकीं वैदिकीं च मनसि व्यापारवति नियच्छेत् , “नानुध्यायाद्वहूञ्छब्दावाचो विग्लापनं हि तत् " इति श्रुतेः । वाम्वृत्तिनिरोधेन मनोवृत्तिमात्रशेषो भवेदित्यर्थः । चक्षुरादिनिरोधोऽप्येतस्यां भूमौ द्रष्टव्यः । मनसीति च्छादसं दैर्ध्य॑म् । तन्मनः कर्मेन्द्रियज्ञानेन्द्रियसहकारि नानाविधविकल्पसाधनं करणं ज्ञाने जानातीति ज्ञानमिति व्युत्पत्त्या ज्ञातर्यात्मनि ज्ञातृत्वोपाधावहंकारे नियच्छेत् , मनोव्यापारान्परित्यज्याहंकारमात्रं परिशेषयेत् । तच्च ज्ञानं ज्ञातृत्वोपाधिमहंकारमात्मनि महति महतत्त्वे सर्वव्यापके नियच्छेत् । द्विविधो ह्यहंकारो विशेषरूपः सामान्यरूपश्चेति । अयमहमेतस्य पुत्र इत्येवं व्यक्तमभिमन्यमानो विशेषरूपो व्यष्टयहंकारः । अस्मीत्ये


तावन्मात्रमभिमन्यमानः सामान्यरूपः समष्ट्यहंकारः । स च हिरण्यगर्भो महानात्मेति च सर्वानुस्यूतत्वादुच्यते । ताभ्यामहंकाराभ्यां विविक्तो निरुपाधिकः शान्तात्मा सर्वान्तरश्चिदेकरसस्तस्मिन्महान्तमात्मानं समष्टिबुद्धिं नियच्छेत् । एवं तत्कारणमव्यक्तमपि नियच्छेत् । ततो निरुपाधिकस्त्वंपदलक्ष्यः शुद्ध आत्मा साक्षात्कृतो भवति । शुद्धे हि चिदेकरसे प्रत्यगात्मनि जडशक्तिरूपमनिर्वाच्यमव्यक्तं प्रकृतिरुपाधिः । सा च प्रथमं सामान्याहंकाररूपं महत्तत्त्वं नाम धृत्वा व्यक्ती भवति । ततो बहिर्विशेषाहंकाररूपेण । ततो बहिर्मनोरूपेण । ततो बहिर्वागादीन्द्रियरूपेण । तदेतच्छ्रुत्याऽभिहितम्-

" इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः ।
मनसस्तु परा बुद्धिबुद्धरात्मा महान्परः ॥
महतः परमव्यक्तमव्यक्तात्पुरुषः परः ।
पुरुषान्न परं किंचित्सा काष्ठा सा परा गतिः" इति ॥

 तत्र गवादिष्विव वाङ्निरोधः प्रथमा भूमिः । बालमुग्धादिष्विव निर्मनस्त्वं द्वितीया । तन्द्रयामिवाहंकारराहित्यं तृतीया । सुषुप्ताविव महत्तत्त्वराहित्यं चतुर्थी । तदेतद्भूमिचतुष्टयमपेक्ष्य शनैः शनैरुपरमेदित्युक्तम् । यद्यपि महत्तत्त्वशान्तात्मनोर्मध्ये महत्तत्त्वोपादानमव्याकृताख्यं तत्त्वं श्रुत्योदाहारि, तथाऽपि तत्र महत्तत्त्वस्य नियमनं नाभ्यधायि । सुषुप्ताविव[२८०] स्वरूपलयप्रसङ्गात् । तस्य च कर्मक्षये सति पुरुषप्रयत्नमन्तरेण स्वत एव सिद्धत्वात्तत्त्वदर्शनानुपयोगित्वाच्च । “दृश्यते त्वत्र्यया बुध्या सूक्ष्मया सूक्ष्मदर्शिभिः" इति पूर्वमभिधाय सूक्ष्मत्वसिद्धये निरोधसमाधेरभिधानात् । स च तत्त्वदिदृक्षोर्दर्शनसाधनत्वेन दृष्टतत्त्वस्य च जीवन्मुक्तिरूपक्लेशक्षयायापेक्षितः । ननु शान्तात्मन्यवरुद्धस्य चित्तस्य वृत्तिरहितत्वेन सुषुप्तिवन्न दर्शनहेतुत्वमिति चेत् , न, स्वतःसिद्धस्य दर्शनस्य निवारयितुमशक्यत्वात् । तदुक्तम्----

आत्मानात्माकारं स्वभावतोऽवस्थितं सदा चित्तम् ।
आत्मैकाकारतया तिरस्कृतानात्मदृष्टि विदधीत "॥

 यथा घट उत्पद्यमानः स्वतो वियत्पूर्ण एवोत्पद्यते । जलतण्डुलादिपूरणं तूत्पन्ने घटे पश्चात्पुरुषप्रयत्नेन भवति । तत्र जलादौ निःसारितेऽपि वियन्निःसारयितुं न शक्यते । मुखपिधानेऽप्यन्तर्वियदवतिष्ठत एव, तथा चित्तमुत्पद्यमानं चैतन्यपूर्णमेवोत्पद्यते । उत्पन्ने तु तस्मिन्मूषानिषिक्तद्रुतताम्रव[२८१]द्धटदुःखादिरूपत्वं भोगहेतुधर्माधर्मसहकृतसामग्रीवशाद्भवति । तत्र[२८२] घटदुःखाद्यनात्माकारे विरामप्रत्ययाभ्यासेन निवारितेऽपि निर्निमि-


त्तश्चिदाकारो वारयितुं न शक्यते । ततो निरोधसमाधिना निवृत्तिकेन चित्तेन संस्कारमात्रशेषतयाऽतिसूक्ष्मत्वेन निरुपाधिकचिदात्ममात्राभिमुखत्वादत्तिं विनैव निर्विघ्नमात्माऽनुभूयते । तदेतदाह-आत्मसंस्थं मनः कृत्वा न किंचिदपि चिन्तयेदिति । आत्मनि निरुपाधिके प्रतीचि संस्था समा[२८३]प्तिर्यस्य तदात्मसंस्थं सर्वप्रकारवृत्तिशून्यं स्वभावसिद्धात्माकारमात्रविशिष्टं मनः कृत्वा धृतिगृहीतया विवेकबुद्ध्या संपाद्यासंप्रज्ञातसमाधिस्थः सन्किचिदपि अनात्मानमात्मानं वा न चिन्तयेत् , न वृत्त्या विषयी कुर्यात् । अनात्माकारवृत्तौ हि व्युत्थानमेव स्यात् । आत्माकारवृत्तौ च संप्रज्ञातः समाधिरित्यसंप्रज्ञातसमाधिस्थैर्याय कामपि चित्तवृत्तिं नोत्पादयेदित्यर्थः ॥ २५ ॥

 श्री० टी०-यदि तु प्राक्तनकर्मसंस्कारेण मनो विचलेत्तर्हि धारणया स्थिरी कुर्यादित्याह-शनैरिति । धृतिर्धारणा तया गृहीतया वशीकृतया बुद्ध्याऽऽत्मसंस्थमात्मन्येव सम्यस्थितं निश्चलं मनः कृत्वोपरमेत् । तच्च शनैः शनैरभ्यासक्रमेण न तु सहसा । उपरमस्वरूपमाह-न किंचिदपि चिन्तयेत् , निश्चले मनसि स्वयमेव प्रकाशमानपरमानन्दस्वरूपो भूत्वाऽऽत्मध्यानादपि निवर्तेतेत्यर्थः ॥ २५ ॥

 म० टी०-एवं निरोधसमाधिं कुर्वन्योगी-

यतो यतो निश्चरति मनश्चञ्चलमस्थिरम् ॥
ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् ॥ २६ ॥

 शब्दादीनां चित्तविक्षेपहेतूनां मध्ये यतो यतो यस्माद्यस्मानिमित्ताच्छब्दादेर्विषयाद्रागद्वेषादेश्च चञ्चलं विक्षेपाभिमुखं सन्मनो निश्चरति विक्षिप्तं सद्विषयाभिमुखी प्रमाणविपर्ययविकल्पस्मृतीनामन्यतमामपि समाधिविरोधिनीं वृत्तिमुत्पादयति, तथा लयहेतूनां निद्राशेषबह्वशनश्रमादीनां मध्ये यतो यतो निमित्तादस्थिरं लयाभिमुखं सन्मनो निश्चरति लीनं सत्समाधिविरोधिनीं निद्राख्यां वृत्तिमुत्पादयति, ततस्ततो विक्षेपनिमि- त्ताल्लयनिमित्ताच्च नियम्यैतन्मनो निवृत्तिकं कृत्वाऽऽत्मन्येव स्वप्रकाशपरमानन्दघने वशं नयेन्निरुन्ध्यात्, यथा न विक्षिप्येत न वा लीयेतेति । एवकारोऽनात्मगोचरत्वं समाधेर्वारयति । एतच्च विवृतं गौडाचार्यपादैः-

" उपायेन निगृह्णीयाद्विक्षिप्तं कामभोगयोः ।
सुप्रसन्नं लये चैव यथा कामो लयस्तथा ॥
दुःखं सर्वमनुस्मृत्व कामभोगान्निवर्तयेत् ।
अजं सर्वमनुस्मृत्य जातं नैव तु पश्यति ॥
लये संबोधयेच्चित्तं विक्षिप्तं शमयेत्पुनः ।


सकषायं विजानीयात्समप्राप्तं न चालयेत् ॥
नाऽऽस्वादयेत्सुखं तत्रं निःसङ्गः प्रज्ञया भवेत् ।
निश्चलं निश्चरचित्तमेकी कुर्यात्प्रयत्नतः ॥
यदा न लीयते चित्तं न च विक्षिप्यते पुनः ।
अनिङ्गनमनाभासं निष्पन्नं ब्रह्म तत्तदा"

 इति पञ्चभिः श्लोकैः । उपायेन वक्ष्यमाणेन वैराग्याभ्यासेन कामभोगयोविक्षिप्तं प्रमाणविपर्ययविकल्पस्मृतीनामन्यतमयाऽपि वृत्त्या परिणतं मनो निगृह्णीयान्निरुन्ध्यादात्मन्येवेत्यर्थः । कामभोगयोरिति चिन्त्यमानावस्थाभुज्यमानावस्थाभेदेन द्विवचनम् । तथा लीयतेऽस्मिन्निति लयः सुषुप्तं तस्मिन्सुप्रसन्नमायासवर्जितमपि मनो निगृह्णीयादेव । सुप्रसन्नं चेत्कुतो निगृह्यते तत्राऽऽह-यथा कामो विषयगोचरप्रमाणादिवृत्त्युत्पादनेन समाधिविरोधी तथा लयोऽपि निद्राख्यवृत्त्युत्पादनेन समाधिविरोधी । सर्ववृत्तिनिरोधो हि समाधिः । अतः कामादिकृतविक्षेपादिव श्रमादिकृतलयादपि मनो निरोद्धव्यमित्यर्थः । उपायेन निगृह्णीयात्केनेत्युच्यते-सर्वं द्वैतमविद्याविजृम्भितमल्पं दुःखमेवेत्यनुस्मृत्य “यो वै भूमा तत्सुखं, नापे सुखमस्ति अथ यदल्प तन्मर्त्यं तदुः- खम्" इतिश्रुत्यर्थं गुरूपदेशादनु[२८४] पश्चात्पर्यालोच्य कामांश्चिन्त्यमानावस्थाविषयाभोगान्भुज्यमानावस्थांश्च विषयान्निवर्तयेत् , मनसः सकाशादिति शेषः । कामश्च भोगश्च कामभोगं तस्मान्मनो निवर्तयेदिति वा । एवं द्वैतस्मरणकाले वैराग्यभावनोपाय इत्यर्थः । द्वैतविस्मरणं तु परमोपाय इत्याह-अजं ब्रह्म सर्वं न ततोऽतिरिक्तं किंचिदस्तीति शास्त्राचार्योपदेशादनन्तरमनुस्मृत्य तद्विपरीतं द्वैतजातं न पश्यत्येव । अधिष्ठाने ज्ञाते कल्पि [२८५]तस्याभावात् । पूर्वोपायापेक्षया वैलक्षण्यसूचनार्थस्तुशब्दः । एवं वैराग्यभावनातत्त्वदर्शनाभ्यां विषयेभ्यो निवर्त्यमानं चित्तं यदि दैनंदिनलयाभ्यासवशाल्लयाभिमुखं भवेत्तदा निद्राशेषाजीर्णवह्वशनश्रमाणां लयकारणानां निरोधेन चित्तं सम्यक्प्रबोधयेदुत्थानप्रयत्नेन । यदि पुनरेवं प्रबोध्यमानं दैनंदिनप्रबोधाभ्यासवशात्कामभोगयोर्विक्षिप्तं स्यात्तदा वैराग्यभावनया तत्त्वसाक्षात्कारेण च पुनः शमयेत् । एवं पुनः पुनरभ्यस्थतो लयात्संबोधितं विषयेभ्यश्च व्यावर्तितं, नापि समप्राप्तमन्तरालावस्थं चित्तं स्तब्धीभूतं, सकषायं रागद्वेषादिप्रबलवासनावशेन स्तब्धीभावाख्येन कषायेण दोषेण युक्तं विजानीयात्समाहिताञ्चित्ताद्विवेकेन जानीयात् । ततश्च नेदं समाहितमित्यवगम्य लयविक्षेपाभ्यामिव कषायादपि चित्तं निरन्ध्यात् । ततश्च लयविक्षेपकषायेषु परिह्रतेषु परिशेषाच्चित्तेन समं ब्रह्म प्राप्यते । तच्च समप्राप्तं चित्तं कषायलयभ्रान्त्या न चालयेत् , विषयाभिमुखं न कुर्यात् । किं तु धृतिगृहीतया बुद्धया लयकषायप्राप्ते-


विविच्य तस्यामेव समप्राप्तावतियत्नेन स्थापयेत् । तत्र समाधौ परमसुखव्यञ्जकेऽपि सुखं नाऽऽस्वादयेत् । एतावन्तं कालमहं सुखीति सुखास्वादरूपां वृत्तिं न कुर्यात्समाधिमङ्गप्रसङ्गादिति प्रागेव कृतव्याख्यानम् । प्रज्ञया यदुपलभ्यते सुखं तदप्यविद्यापरिकल्पितं मृषैवेत्येवंभावनया निःसङ्गो निस्पृहः सर्वसुखेषु भवेत् । अथवा प्रज्ञया सविकल्पसुखाकारवृत्तिरूपया सह सङ्गं परित्यजेत् । न तु स्वरूपसुखमपि निर्वृत्तिकेन चित्तेन नानुभवेत्स्वभावप्राप्तस्य तस्य वारयितुमशक्यत्वात् । एवं सर्वतो निवर्त्य निश्चलं प्रयत्नवशेन कृतं चित्तं स्वभावचाञ्चल्याद्विषयाभिमुखतया निश्चरद्वहिनिर्गच्छदेकी कुर्यात्प्रयत्नतः, निरोधप्रयत्नेन समे ब्रह्मण्येकतां नयेत् । समप्राप्तं चित्तं कीदृशमित्युच्यते-यदा न लीयते नापि स्तब्धी भवति तामसत्वसाम्येन लयशब्देनैव स्तब्धीभावस्योपलक्षणात् । न च विक्षिप्यते पुनः, न शब्दाद्याकारवृत्तिमनुभवति । नापि सुखमास्वादयति, राजसत्वसाम्येन सुखास्वादस्यापि विक्षेपशब्देनोपलक्षणात् । पूर्वं भेदनिर्देशस्तु पृथक्प्रयत्नकरणाय । एवं लयकषायाभ्यां विक्षेपसुखास्वादाभ्यां च रहितमनिङ्गनमिङ्गनं चलनं सवातप्रदीपवल्लयाभिमुख्यरूपं तदहितं निवातप्रदीपकल्पम् । अनाभासं न केनचिद्विषयाकारेणाऽऽभासत इत्येतत् । कषायसुखास्वादयोरुभयान्तर्भाव उक्त एव । यदेवं दोषचतुष्टयरहित चित्तं भवति तदा तचित्तं ब्रह्म निष्पन्न समं ब्रह्म प्राप्तं भवतीत्यर्थः । एतादृशश्च योगः श्रुत्या प्रतिपादितः-

यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह ।
बुद्धिश्च न [२८६]विचेष्टति तामाहुः परमां गतिम् ॥
तां योगमिति मन्यन्ते स्थिरामिन्द्रियधारणाम् ।
अप्रमत्तस्तदा भवति योगो हि प्रभवाप्ययौ " इति ॥

 एतन्मूलकमेव च “ योगश्चित्तवृत्तिनिरोधः ” इति सूत्रम् । तस्माद्युक्तं ततस्ततो नियम्यैतदात्मन्येव वशं नयेदिति ॥ २६ ॥

 श्री०टी०-एवमपि रजोगुणवशाद्यदि मनः प्रचलेत्तहिं पुनः प्रत्याहारेण वशी कुर्यादित्याह-यत इति । स्वभावतश्चञ्चलं धार्यमाणमप्यस्थिरं मनो यं यं विषय प्रति निर्गच्छति ततस्ततः प्रत्याहृत्याऽऽत्मन्येव स्थिरं कुर्यात् ॥ २६ ॥

 म०टी०एवं योगाभ्यासबलादात्मन्येव योगिनः प्रशाम्यति मनः । ततश्च-

प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम् ॥
उपैति शान्तरजसं ब्रह्मभूतमकल्मषम् ॥ २७ ॥

 प्रकर्षेण शान्तं निर्वृत्तिकतया निरुद्धं संस्कारमात्रशेषं मनो यस्य तं प्रशान्त-


मनसं वृत्तिशून्यतया निर्मनस्कम् । निर्मनस्कत्वे हेतुगर्भं विशेषणद्वयं शान्तरजसमकल्मषमिति । शान्तं विक्षेपकं रजो यस्य तं विक्षेपशून्यम् । तथा न विद्यते कल्मषं लयहेतुस्तमो यस्य तमकल्मषं लयशून्यम् । शान्तरजसमित्यनेनैव तमोगुणोपलक्षणेऽकल्मषं संसारहेतुधर्माधर्मादिवजितमिति वा । ब्रह्मभूतं ब्रह्मैव सर्वमिति निश्चयेन समं ब्रह्म प्राप्तं जीवन्मुक्तमेनं योगिनम् । एवमुक्तेन प्रकारेणेति श्रीधरः । उत्तम निरतिशयं सुखमुपैत्युपगच्छति । मनस्तद्वृत्त्योरमावे सुषुप्तौ स्वरूपसुखाविर्भावप्रसिद्धिं द्योतयति हिशब्दः । तथा च प्राग्व्याख्यातं सुखमात्यन्तिकं यत्तदित्यत्र ॥ २७ ॥

 श्री० टी०-एवं प्रत्याहारादिभिः पुनः पुनर्मनो वशीकुर्वन्तं रजोगुणक्षये सति योगसुखं प्राप्नोतीत्याह-प्रशान्तमनसमिति । एवमुक्तेन प्रकारेण शान्तं रजो यस्य तम् । अत एव प्रशान्तं मनो यस्य तमेनं निष्कल्मषं ब्रह्मत्वं प्राप्तं योगिनमुत्तमं सुखं समाधिसुखं स्वयमेवोपैति प्राप्नोति ॥ २७ ॥

 म०टी०-उक्तं सुखं योगिनः स्फुटी करोति-

युञ्जन्नेवं सदाऽऽत्मानं योगी विगतकल्मषः ॥
सुखेन ब्रह्मसंस्पर्शमत्यन्तं सुखमश्रुते ॥ २८ ॥

 एवं मनसैवेन्द्रियग्राममित्याधुक्तक्रमेणाऽऽत्मानं मनः सदा युञ्जन्समादधद्योगी योगेन नित्यसंबन्धी विगतकल्मषो विगतमलः संसारहेतुधर्माधर्मरहितः सुखेनानायासेनेश्वरप्रणिधानात्सर्वान्तरायनिवृत्त्या ब्रह्मसंस्पर्शं सम्यक्त्वेन विषयास्पर्शेन सह ब्रह्मणः स्पर्शस्तादात्म्यं यस्मिंस्तद्विषयासंस्पर्शि ब्रह्मस्वरूपमित्येतत् । अत्यन्तं सर्वामन्तान्परिच्छेदानतिक्रान्तं निरतिशयं सुखमानन्दमश्नुते व्याप्नोति, सर्वतोनिर्वृत्तिकेन चित्तेन लयविक्षेपविलक्षणमनुभवति, विक्षेपे वृत्तिसत्त्वात् , लये च मनसोऽपि स्वरूपेणासत्त्वात् । सर्ववृत्तिशून्येन सूक्ष्मेण मनसा सुखानुभवः समाधावेवेत्यर्थः । अत्र चानायासेनेत्यन्तरायनिवृत्तिरुक्ता । ते चान्तराया दर्शिता योगसूत्रेण-" व्याधिस्त्यानसंशयप्रमादालस्याविरतिभ्रान्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानि चित्तविक्षेपास्तेऽन्तरायाः" चित्तं विक्षिपन्ति योगादपनयन्तीति चित्तविक्षेपा योगप्रतिपक्षाः । संशयभ्रान्तिदर्शने ताववृत्तिरूपतया वृत्तिनिरोधस्य साक्षात्प्रतिपक्षौ । व्याध्यादयस्तु सप्त वृत्तिसहचरिततया तत्प्रतिपक्षा इत्यर्थः । व्याधिर्धातुवैषम्यनिमित्तो विकारो ज्वरादिः। स्त्यानमकर्मण्यता गुरुणा शिक्ष्यमाणस्याप्यासनादिकर्मानर्हतेति यावत् । योगः साधनीयो न वेत्युभयकोटिस्मृग्विज्ञानं संशयः । [स च] अतद्रूपप्रतिष्ठत्वेन विपर्ययान्तर्गतोऽपि सन्नुभयकोटिस्पशि[२८७]त्वैककोटिस्पर्शित्वरूपावान्तरविशेषविवक्षयाऽत्र विपर्ययाद्भेदेनोक्तः । प्रमादः


समाधिसाधनानामनुष्ठानसामर्थेऽप्यननुष्ठानशीलता विषयान्तरव्यापृततया योगसाधनेष्वौदासीन्यमिति यावत् । आलस्यं सत्यामप्यौदासीन्यप्रच्युतौ कफादिना तमसा च कायचित्तयोर्गुरुत्वम् । तच्च] व्याधित्वेनाप्रसिद्धमपि योगविषये प्रवृत्तिविरोधि । अविरतिश्चित्तस्य विषयविशेष ऐकान्तिकोऽभिलाषः । भ्रान्तिदर्शनं योगासाधनेऽपि तत्साधनत्वबुद्धिस्तथा तत्साधनेऽप्यसाधनत्वबुद्धिः । अलब्धभूमिकत्वं समाधिभूमेरेकाग्रताया अलाभः क्षिप्तमूढविक्षिप्तरूपत्वमिति यावत् । अनवस्थितत्वं लब्धायामपि समाधिभूमौ प्रयत्नशैथिल्याच्चित्तस्य तत्राप्रतिष्ठितत्वम् । त एते चित्तविक्षेपा नव योगमला योगप्रतिपक्षा योगान्तराया इति चाभिधीयन्ते । “ दुःखदौर्मनस्याङ्गमेजयत्वश्वासप्रश्वासा विक्षेपसहभुवः " दुःखं चित्तस्य राजसः परिणामो बाधनालक्षणः । तच्चाऽऽध्यात्मिकं शारीरं मानसं च व्याधिवशात्कामादिवशाच्च भवति । आधिभौतिकं व्याघ्रादिजनितम् । आधिदैविकं ग्रहपीडादिजनितं द्वेषाख्यविपर्ययहेतुत्वात्समाधिविरोधि । दौर्मनस्यमिच्छाविघातादिबलवदुःखानुभवजनितश्चित्तस्य तामसः परिणामविशेषः क्षोभापरपर्यायः स्तब्धीमावः । स तु कषायत्वाल्लयवत्समाधिविरोधी । अङ्गमेजयत्वमङ्गकम्पनमासनस्थैर्यविरोधि । प्राणेन बाह्यस्य वायोरन्तःप्रवेशनं श्वासः समाध्यङ्गरेचकविरोधी । प्राणेन कोष्ठ्यस्य वायोर्बहिनिःसरणं प्रश्वासः समाध्यङ्गपूरकविरोधी । समाहितचित्तस्यैते न भवन्ति विक्षिप्तचित्तस्यैव भवन्तीति विक्षेपसहभुवोऽन्तराया एव । एतेऽभ्यासवैराग्याम्यां निरोद्धव्याः । ईश्वरप्रणिधानेन वा । तीव्रसंवेगानामासन्ने समाधिलाभे प्रस्तुत ईश्वरप्रणिधानाद्वेति पक्षान्तरमुक्त्वा प्रणिधेयमीश्वरं " क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः" " तत्र निरतिशयं सर्वज्ञबीजं" " स पूर्वेषामपि गुरुः कालेनानवच्छे- दात् " इति त्रिभिः सूत्रैः प्रतिपाद्य तत्प्रणिधानं द्वाभ्यामसूत्रयत्-" तस्य वाचकः प्रणवः " " तज्जपस्तदर्थभावनम् " इति । " ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभावश्च " ततः प्रणवजपरूपात्तदर्थध्यानरूपाच्चेश्वरप्रणिधानात्प्रत्यक्चेतनस्य पुरुषस्य प्रकृतिविवेकेनाधिगमः साक्षात्कारो भवति । उक्तानामन्तरायाणामभावोऽपि भवतीत्यर्थः । अभ्यासवैराग्याभ्यामन्तरायनिवृत्तौ कर्तव्यायामभ्यासदार्ढ्यार्थमाह-" तत्प्रतिषेधार्थमेकतत्त्वाभ्यासः" तेषामन्तरायाणां प्रतिषेधार्थमेकस्मिन्कस्मिंश्चिदभिमते तत्वेऽभ्यासश्वेतसः पुनः पुनर्निवेशनं कार्यम् । तथा “ मैत्रीकरुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्यविषयाणां भावनातश्चित्तप्रसादनं " मैत्री सौहार्दं, करुणा कृपा, मुदिता हर्षः, उपेक्षौदासीन्यं, सुखादिशब्दैस्तद्वन्तः प्रतिपाद्यन्ते । सर्वप्राणिषु सुखसंभोगापन्नेषु साध्वेतन्मम मित्राणां सुखित्वमिति मैत्रीं भावयेत्, न त्वीर्ष्या॑म् । दुःखितेषु कंथनु नामैषां दुःखनिवृत्तिः स्यादिति कृपामेव भावयेत् , नोपेक्षां न वा हर्षम् । पुण्यवत्सु पुण्यानुमोदनेन हर्ष कुर्यान्न तु विद्वेषं न चोपेक्षाम् । अपुण्यवत्सु चौदासीन्यमेव भावयेन्नानुमोदनं न वा द्वेषम् । एवमस्य भावयतः शुक्लो धर्म उपजायते । ततश्च विगतरागद्वेषादि

मलं चित्तं प्रसन्नं सदेकाग्रतायोग्यं भवति । मैत्र्यादिचतुष्टयं चोपलक्षणमभयं सत्त्वसंशुद्धिरित्यादीनाममानित्वमदम्मित्वमित्यादीनां च धर्माणां, सर्वेषामेतेषां शुभवासनारूपत्वेन मलिनवासनानिवर्तकत्वात् । रागद्वेषौ महाशत्रू सर्वपुरुषार्थप्रतिबन्धको महता प्रयत्नेन परिहर्तव्यावित्येतत्सूत्रार्थः । एवमन्येऽपि प्राणायामादय उपायाश्चित्तप्रसादनाय दर्शिताः । तदेतचित्तप्रसादनं भगवदनुग्रहेण यस्य जातं तं प्रत्येवैतद्वचनं-सुखेनेति । अन्यथा मनःप्रशमानुपपत्तेः ॥ २८ ॥

 श्री० टी०-ततश्च कृतार्थो भवतीत्याह-युञ्जनिति । एवमनेन प्रकारेण सर्वदाऽऽत्मानं मनो युञ्जन्वशीकुर्वन्विशेषेण सर्वात्मना गतं कल्मषं यस्य स योगी सुखेनानायासेन ब्रह्मणः संस्पर्शोऽविद्यानिवर्तकः साक्षात्कारस्तदेवात्यन्तं सर्वोत्तमं सुखमश्र्नुते जीवन्मुक्तो भवतीत्यर्थः ॥ २८ ॥

 म०टी०-तदेवं निरोधसमाधिना त्वंपदलक्ष्ये तत्पदलक्ष्ये च शुद्धे साक्षात्कृते तदैक्यगोचरा तत्त्वमसीतिवेदान्तवाक्यजन्या निर्विकल्पकसाक्षात्काररूपा वृत्तिर्ब्रह्मविद्याभिधाना जायते । ततश्च कृत्स्नाविद्यातत्कार्यनिवृत्त्या ब्रह्मसुखमत्यन्तमश्नुत इत्युपपादयति त्रिभिः श्लोकैः । तत्र प्रथमं त्वंपदलक्ष्योपस्थितिमाह----

सर्वभूतस्थमात्मानं सर्वभूतानि चाऽऽत्मनि ॥
ईक्षते योगयुक्तात्मा सर्वत्रसमदर्शनः ॥ २९ ॥

 सर्वेषु भूतेषु स्थावरजङ्गमेषु शरीरेषु भोक्तृतया स्थितमेकमेव नित्यं विभुमात्मानं प्रत्यक्चेतनं साक्षिणं परमार्थसत्यमानन्दघनं साक्ष्येभ्योऽनृतजडपरिच्छिन्नदुःखरूपेभ्यो विवेकेनेक्षते साक्षात्करोति । तस्मिंश्चाऽऽत्मनि साक्षिणि[२८८] सर्वाणि भूतानि साक्ष्याण्याध्यासिकेन संबन्धेन भोग्यतया कल्पितानि साक्षिसाक्ष्ययोः संबन्धान्तरानुपपत्तेमिथ्याभूतानि परिच्छिन्नानि जडानि दुःखात्मकानि साक्षिणो विवेकेनेक्षते । कः, योगयुक्तात्मा योगेन निर्विचारवैशारद्यरूपेण युक्तः प्रसादं प्राप्त आत्माऽन्तःकरणं यस्य स तथा । तथाच प्रागेवोक्तं-" निर्विचारवैशारद्येऽध्यात्मप्रसादः " " ऋतंभरा तत्र प्रज्ञा "श्रुतानुमानप्रज्ञाभ्यामन्यविषया विशेषार्थत्वात्" इति । तथा च शब्दानुमानागोचरयथार्थविशेषवस्तुगोचरयोगजप्रत्यक्षेण ऋतंभरसंज्ञेन युगपत्सूक्ष्मं व्यवहितं विप्रकृष्टं च सर्वं तुल्यमेव पश्यतीति सर्वत्र समं दर्शनं तस्येति सर्वत्रसमदर्शनः सन्नात्मानमनात्मानं च योगयुक्तात्मा यथावस्थितमीक्षत इति युक्तम् । अथवा यो योगयुक्तात्मा यो वा सर्वत्रसमदर्शनः स आत्मानमीक्षत इति योगिसमदर्शिनावात्मेक्षणाधिकारिणावुक्तौ । यथा हि चित्तवृत्तिनिरोधः साक्षिसाक्षात्कारहेतुस्तथा जडविवेकेन सर्वानुस्यूतचैतन्यपृथक्करणमपि । नावश्यं योग एवापेक्षितः । अत एवाऽऽह वसिष्ठः-


द्वौ क्रमौ चित्तनाशस्य योगो ज्ञानं च राघव ।
योगो वृत्तिनिरोधो हि ज्ञानं सम्यगवेक्षणम् ॥
असाध्यः कस्यचिद्योगः कस्य चित्तत्त्वनिश्चयः ।
प्रकारौ द्वौ ततो देवो जगाद परमः शिवः " इति ॥

 चित्तनाशस्य साक्षिणः सकाशात्तदुपाधिभूतचित्तस्य पृथक्करणात्तददर्शनस्य । तस्योपायद्वयम्-एकोऽसंप्रज्ञातसमाधिः । संप्रज्ञातसमाधौ हि आत्मैकाकारवृत्तिप्रवाहयुक्तमन्तःकरणसत्त्वं साक्षिणाऽनुभूयते निरुद्धसर्ववृत्तिकं तूपशान्तत्वान्नानुभूयत इति विशेषः । द्वितीयस्तु साक्षिणि कल्पितं साक्ष्यमनृतत्वान्नास्त्येव साक्ष्येव तु परमार्थसत्यः केवलो विद्यत इति विचारः । तत्र प्रथममुपायं प्रपञ्चपरमार्थतावादिनो हैरण्यगर्भादयः प्रपेदिरे, तेषां परमार्थस्य चित्तस्यादर्शनेन साक्षिदर्शने निरोधातिरिक्तोपाया- संभवात् । श्रीमच्छकरभगवत्पूज्यपादमतोपजीविनस्त्वौपनिषदाः प्रपञ्चानृतत्ववादिनो द्वितीयमेवोपायमुपेयुः । तेषां ह्यधिष्ठानज्ञानदार्ढ्ये सति तत्र कल्पितस्य बाधितस्य चित्तस्य तदृश्यस्य चादर्शनमनायासेनैवोपपद्यते । अत एव भगवत्पूज्यपादाः कुत्रापि ब्रह्मविदां योगापेक्षां न व्युत्पादयांबभूवुः । अत एव चौपनिषदाः परमहंसाः श्रौते वेदान्तवाक्यविचार एव गुरुमुपसृत्य प्रवर्तन्ते ब्रह्मसाक्षात्काराय न तु योगे । विचारेजैव चित्तदोषनिराकरणेन तस्यान्यथासिद्धत्वादिति कृतमधिकेन ॥ २९ ॥

 श्री०टी०-ब्रह्मसाक्षात्कारमेव दर्शयति-सर्वभूतस्थमिति । योगेनाभ्यस्यमानेन युक्तात्मा समाहितचित्तः सर्वत्र समं ब्रह्मैव पश्यतीति समदर्शनः स्वमात्मानमविद्याकृतदेहादिपरिच्छेदशून्यं सर्वभूतेषु ब्रह्मादिस्थावरान्तेष्ववस्थितं पश्यति । [२८९]तानि चाऽऽत्मन्यभेदेन पश्यति ॥ २९ ॥

 म० टी०-एवं शुद्ध त्वंपदार्थं निरूप्य शुद्धं तत्पदार्थं निरूपयति----

यो मां पश्यति सर्वत्र सर्व च मयि पश्यति ॥
तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ॥३०॥

 यो योगी मामीश्वरं तत्पदार्थमशेषप्रपञ्चकारणमायोपाधिकमुपाधिविवेकेन सर्वत्र प्रपञ्चे सद्रूपेण स्फुरणरूपेण चानुस्यूतं सर्वोपाधिविनिर्मुक्तं परमार्थसत्यमानन्दघनमनन्तं पश्यति योगजेन प्रत्यक्षेणापरोक्षी करोति । तथा सर्वं च प्रपञ्चजातं मायया मय्यारोपितं मद्भिन्नतया मृषात्वेनैव पश्यति, तस्यैवंविवेकदर्शिनोऽहं तत्पदार्थो भगवान्न प्रणश्यामि, ईश्वरः कश्चिन्मद्भिन्नोऽस्तीति परोक्षज्ञानविषयो न भवामि, किंतु योगजा- परोक्षज्ञानविषयो भवामि । यद्यपि वाक्यजापरोक्षज्ञानविषयत्वं त्वंपदार्थाभेदेनैव


तथाऽपि केवळस्यापि तत्पदार्थस्य योगजापरोक्षज्ञानविषयत्वमुपपद्यत एव । एवं योगजेन प्रत्यक्षेण मामपरोक्षीकुर्वन्स च मे न प्रणश्यति परोक्षो न भवति । स्वात्मा हि मम स विद्वानतिप्रियत्वात्सर्वदा मदपरोक्षज्ञानगोचरो भवति “ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् " इत्युक्तेः । तथैव शरशय्यास्थभीष्मध्यानस्य युधिष्ठिरं प्रति भगवतोक्तेः :। अविद्वांस्तु स्वात्मानमपि सन्तं भगवन्तं न पश्यति । अतो भगवान्पश्यन्नपि तं न पश्यति “स एनमविदितो न सुनक्ति" इति श्रुतेः । विद्वांस्तु सदैव संनिहितो भगवतोऽनुग्रहभाजनमित्यर्थः ॥ ३० ॥

 श्री०टी०-एवंभूतात्मज्ञानस्य सर्वभूतात्मतया मदुपासनं मुख्य कारणमित्याह-य इति । मां परमेश्वरं सर्वत्र भूतमात्रे यः पश्यति सर्वं च प्राणिमात्रं च मयि यः पश्यति तस्याहं न प्रणश्यामि अदृश्यो न भवामि । स च ममादृश्यो न भवति । प्रत्यक्षो भूत्वा कृपादृष्ट्या तं विलोक्यानुगृह्णामीत्यर्थः ॥ ३० ॥

 म०टी०-एवं त्वंपदार्थ तत्पदार्थं च शुद्धं निरूप्य तत्त्वमसीतिवाक्यार्थं निरूपयति-

सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः ॥
सर्वथा वर्तमानोऽपि स योगी मयि वर्तते ॥ ३१ ॥

 सर्वेषु भूतेष्वधिष्ठानतया स्थितं सर्वानुस्यूतसन्मात्रं मामीश्वरं तत्पदलक्ष्यं स्वेन त्वंपदलक्ष्येण सहैकत्वमत्यन्ताभेदमास्थितो घटाकाशो महाकाश इत्यत्रेवोपाधिभेदनिराकरणेन निश्चिन्वन्यो भजति अहं ब्रह्मास्मीतिवेदान्तवाक्यजेन साक्षात्कारेणापरोक्षी करोति सोऽविद्यातत्कार्यनिवृत्त्या जीवन्मुक्तः कृतकृत्य एव भवति । यावत्तु तस्य बाधितानुवृत्त्या शरीरादिदर्शनमनुवर्तते तावत्प्रारब्धकर्मप्राबल्यात्सर्वकर्मत्यागेन वा याज्ञवल्क्यादिवत्, विहितेन कर्मणा वा जनकादिवत्, प्रतिषिद्धेन कर्मणा वा दत्तात्रेयादिवत् , सर्वथा येन केनापि रूपेण वर्तमानोऽपि व्यवहरन्नपि स योगी ब्रह्माहमस्मीति. विद्वान्मयि परमात्मन्येवाभेदेन वर्तते । सर्वथा तस्य मोक्ष प्रति नास्ति प्रतिबन्धशङ्का “ तस्य ह न देवाश्चनाभूत्या ईशत आत्मा ह्येषां स भवति" इति श्रुतेः । देवा महाप्रभावा अपि तस्य मोक्षाभवनाय नेशते किमुतान्ये क्षुद्रा इत्यर्थः । ब्रह्मविदो निषिद्ध कर्मणि प्रवर्तकयो रागद्वेषयोरसंभवेन निषिद्धकर्मासंभवेऽपि तदङ्गीकृत्य ज्ञानस्तुत्यर्थमिदमुक्तं सर्वथा वर्तमानोऽपीति हत्वाऽपि स इमाँल्लोकान्न हन्ति न निबध्यत इतिवत् ॥ ३१ ॥

 श्री०टी०-न चैवंभूतो विधिकिंकरः स्यादित्याह-सर्वभूतस्थितमिति । सर्वेषु भूतेषु स्थित मामभेद[२९०]मास्थित आश्रितो यो भजति स योगी ज्ञानी सन्सर्वथा कर्मत्यागेनापि वर्तमानो मय्येव वर्तते मुच्यते न तु भ्रश्यतीत्यर्थः ॥ ३१ ॥


 म०टी०-एवमुत्पन्नेऽपि तत्त्वबोधे कश्चिन्मनोनाशवासनाक्षययोरभावाज्जीवन्मुक्तिसुखं नानुभवति चित्तविक्षेपेण च दृष्टदुःखमनुभवति सोऽपरमो योगी देहपाते कैवल्यभागित्वात् , देहसद्भावपर्यन्तं च दृष्टदुःखानुभवात् , तत्त्वज्ञानमनोनाशवासनाक्षयाणां तु युगपदभ्यासादृष्टदुःखनिवृत्तिपूर्वकं जीवन्मुक्तिसुखमनुभवन्प्रारब्धकर्मवशात्समाधेर्युत्थानकाले-

आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन ॥
सुखं वा यदि वा दुःखं स योगी परमो मतः ॥३२॥

 आत्मैवौपम्यमुपमा तेनाऽऽत्मदृष्टान्तेन सर्वत्र प्राणिजाते सुखं वा यदि वा दुःखं समं तुल्यं यः पश्यति स्वस्यानिष्टं यथा न संपादयति एवं परस्याप्यनिष्टं यो न संपादयति प्रद्वेषशून्यत्वात् । एवं स्वस्येष्टं यथा संपादयति तथा परस्यापीष्टं यः संपादयति रागशून्यत्वात् , स निर्वासनतयोपशान्तमना योगी ब्रह्मवित्परमः श्रेष्ठो मतः पूर्वस्मात् , हेऽर्जुन । अतस्तत्त्वज्ञानमनोनाशवासनाक्षयाणामक्रममभ्यासाय महान्प्रयत्न आस्थेय इत्यर्थः । तत्रेदं सर्वं द्वैतजातमद्वितीये चिदानन्दात्मनि मायया कल्पितत्वान्मृषैवाऽऽत्मैवैकः परमार्थसत्यः सच्चिदानन्दाद्वयोऽहमस्मीति ज्ञानं तत्त्वज्ञानं प्रदीपज्वालासंतानवद्वृत्तिसंतानरूपेण परिणममानमन्तःकरणद्रव्यं मननात्मकत्वान्मन इत्युच्यते । तस्य नाशो नाम वृत्तिरूपपरिणाम परित्यज्य सर्ववृत्तिविरोधिना निरोधाकारेण परिणामः । पूर्वापरपरामर्शमन्तरेण सहसोत्पद्यमानस्य क्रोधादिवृत्तिविशेषस्य हेतुश्चित्तगतः संस्कारविशेषो वासना पूर्वपूर्वाभ्यासेन चित्ते वास्यमानत्वात् । तस्याः क्षयो नाम विवेकजन्यायां चित्तप्रशमवासनायां दृढायां सत्यपि बाह्ये निमित्ते क्रोधाद्यनुत्पत्तिः । तत्र तत्त्वज्ञाने सति मिथ्याभूते जगति नरविषाणादाविव धीवृत्त्यनुदयादात्मनश्च दृष्टत्वेन पुनर्वृत्त्यनुपयोगानिरिन्धनाग्निवन्मनो नश्यति । नष्टे च मनसि संस्कारोबोधकस्य बाह्यस्य निमित्तस्याप्रतीतौ वासना क्षीयते[२९१]। क्षीणायां वासनायां हेत्वमावेन क्रोधादिवृत्त्यनुदयान्मनो नश्यति । नष्टे च मनसि शमदमादिसंपत्त्या तत्त्वज्ञानमुदेति । एवमुत्पन्ने तत्त्वज्ञाने रागद्वेषादिरूपा वासना क्षीयते । क्षीणायां च वासनायां प्रतिबन्धाभावात्तत्त्वज्ञानोदय इति परस्परकारणत्वं दर्शनीयम् । अत एवं भगवान्वसिष्ठ आह---

" तत्त्वज्ञानं मनोनाशो वासनाक्षय एव च ।
मिथःकारणतां गत्वा दुःसाध्यानि स्थितानि हि ॥
तस्माद्राघव यत्नेन पौरुषेण विवेकिना।
भोगेच्छां दूरतस्त्यक्त्वा त्रयमेतत्समाश्रय " इति ॥


 पौरुषो यत्नः केनाप्युपायेनावश्यं संपादयिष्यामीत्येवंविधोत्साहरूपो निबन्धः । विवेको नाम विविच्य निश्चयः । तत्त्वज्ञानस्य श्रवणादिकं साधनं, मनोनाशस्य योगः, वासनाक्षयस्य प्रतिकूलवासनोत्पादनमिति । एतादृशविवेकयुक्तेन पौरुषेण प्रयत्नेन भोगेच्छायाः स्वल्पाया अपि हविषा कृष्णवर्मेवेति न्यायेन वासनावृद्धिहेतुत्वादूरत इत्युक्तम् । द्विविधो हि विद्याधिकारी कृतोपास्तिरकृतोपास्तिश्च । तत्र य उपास्यसाक्षात्कारपर्यन्तामुपास्ति कृत्वा तत्त्वज्ञानाय प्रवृत्तस्तस्य वासनाक्षयमनोनाशयोदृढतरत्वेन ज्ञानादूर्ध्व जीवन्मुक्तिः स्वत एव सिध्यति । इदानींतनस्तु प्रायेणाकृतोपास्तिरेव मुमुक्षुरौत्सुक्यमात्रात्सहसा विद्यायां प्रवर्तते । योगं विना चिज्जडविवेकमात्रेणैव च मनोनाशवासनाक्षयौ तात्कालिको संपाद्य शमदमादिसंपत्त्या श्रवणमनननिदिध्यास नानि संपादयति । तैश्च दृढाभ्यस्तैः सर्वबन्धविच्छेदि तत्त्वज्ञानमुदेति । अविद्याग्रन्थिरब्रह्मत्वं हृदयग्रन्थिः संशयाः कर्माण्यसर्वकामत्वं मृत्युः पुनर्जन्म चेत्यनेकविधो बन्धो ज्ञानान्निवर्तते । तथा च श्रूय[२९२]ते--" यो वेद निहितं गुहायां सोऽविद्याग्रन्थिं विकिरतीह सोम्य, " " ब्रह्म वेद ब्रह्मैव भवति,"

"भिद्यते त्दृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ।
क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे"॥

 " सत्यं ज्ञानमनन्तं ब्रह्म," " यो वेद निहितं गुहायां परमे व्योमन् ," " सोऽश्रुते सर्वान्कामान्सह " | " तमेव विदित्वाऽति मृत्युमेति"।

"यस्तु विज्ञानवान्भवत्यमनस्कः सदा शुचिः ।
स तु तत्पदमाप्नोति यस्माद्भूयो न जायते " ॥

 “य एवं वेदाहं ब्रह्मास्मीति स इद सर्वं भवति" इत्यसर्वत्वनिवृत्तिफलमुदाहार्यम् । सेयं विदेहमुक्तिः सत्यपि देहे ज्ञानोत्पत्तिसमकालीना ज्ञेया । ब्रह्मण्यविद्याध्यारोपितानामेतेषां बन्धानामविद्यानाशे सति निवृत्तौ पुनरुत्पत्त्यसंभवात् । अतः शैथिल्यहेत्वभावात्तत्त्वज्ञानं तस्यानुवर्तते । मनोनाशवासनाक्षयौ तु दृढाभ्यासाभावाद्भोगप्रदेन प्रार- ब्धेन कर्मणा बाध्यमानत्वाच्च सवातप्रदेशप्रदीपवत्सहसा निवर्तेते । अत इदानींतनस्य तत्त्वज्ञानिनः प्राक्सिद्धे तत्त्वज्ञाने न प्रयत्नापेक्षा । किं तु मनोनाशवासनाक्षयौ प्रयत्नसाध्याविति । तत्र मनोनाशोऽसंप्रज्ञातसमाधिनिरूपणेन निरूपितः प्राक् । वासनाक्षयस्त्विदानीं निरूप्यते । तत्र वासनास्वरूपं वसिष्ठ आह----

दृढभावनया त्यक्तपूर्वापरविचारणम् ।
यदादानं पदार्थस्य वासना सा प्रकीर्तिता"॥

 अत्र च स्वस्वदेशाचारकुलधर्मस्वभावभेदतद्गतापशब्दसुशब्दादिषु प्राणिनाम-


भिनिवेशः सामान्येनोदाहरणम् । सा च वासना द्विविधा मलिना शुद्धा च । शुद्धा दैवी संपत् , शास्त्रसंस्कारप्राबल्यात्तत्त्वज्ञानसाधनत्वेनैकरूपैव । मलिना तु त्रिविधा लोकवासना शास्त्रवासना देहवासना चेति । सर्वे जना यथा न निन्दन्ति तथैवाऽऽचरिष्यामीत्यशक्यार्थाभिनिवेशो लोकवासना । तस्याश्च को लोकमाराधयितुं समर्थ इति न्यायेन संपादयितुमशक्यत्वात्पुरुषार्थानुपयोगित्वाच्च मलिनत्वम् । शास्त्रवासना तु त्रिविधा पाठव्यसनं बहुशास्त्रव्यसनमनुष्ठानव्यसनं चेति क्रमेण भरद्वाजस्य दुर्वाससो निदाघस्य च प्रसिद्धा । मलिनत्वं चास्याः क्लेशावहत्त्वात्पुरुषार्थानुपयोगित्वादर्पहेतुस्वाज्जन्महेतुत्वाच्च । देहवासनाऽपि त्रिविधा-~-आत्मत्त्वभ्रान्तिर्गुणाधानभ्रान्तिर्दोषापनयनभ्रान्तिश्चेति । तत्राऽऽत्मत्वभ्रान्तिर्विरोचनादिषु प्रसिद्धा सार्वलौकिकी । गुणाधानं द्विविधं लौकिक शास्त्रीयं च । समीचीनशब्दादिविषयसंपादनं लौकिकं, गङ्गास्नाननशालग्रामतीर्थादिसंपादनं शास्त्रीयम् । दोषापनयनमपि द्विविधं लौकिकं शास्त्रीयं च । चिकित्सकोक्तैरौषधैाध्याद्यपनयनं लौकिकं, वैदिकस्नानाचमनादिभिरशौचाद्यपनयनं वैदिकम् । एतस्याश्च सर्वप्रकाराया मलिनत्वमप्रामाणिकत्वादशक्यत्वात्पुरुषार्थानुपयोगित्वात्पुनर्जन्महेतुत्वाच्च शास्त्रे प्रसिद्धम् । तदेतल्लोकशास्त्रदेहवासनात्रयमविवेकिनामुपादेयत्वेन प्रतिभासमानमपि विविदिषोर्वेदनोत्पत्तिविरोधित्वाद्विदुषो ज्ञाननिष्ठाविरोधित्वाच्च विवेकिभिर्हेयम् । तदेवं बाह्यविषयवासना त्रिविधा निरूपिता । आभ्यन्तरवासना तु कामक्रोधदम्भदर्पाद्यासुरसंपद्रूपा सर्वानर्थमूलं मानसी वासनेत्युच्यते । तदेवं बाह्याभ्यन्तरवासनाचतुष्टयस्य शुद्धवासनया क्षयः संपादनीयः । तदुक्तं वसिष्ठेन-

" मानसीर्वासनाः पूर्वं त्यक्त्वा विषयवासनाः ।
मैत्र्यादिवासना राम गृहाणामलवासनाः ” इति ॥

 तत्र विषयवासनाशब्देन पूर्वोक्तास्तिस्रो लोकशास्त्रदेहवासना विवक्षिताः । मानसवासनाशब्देन कामक्रोधदम्भदांद्यासुरसंपद्विवक्षिता । यद्वा शब्दस्पर्शरूपरसगन्धा विषयाः। तेषां भुज्यमानत्वदशाजन्यः संस्कारो विषयवासना । काम्यमानत्वदशाजन्यः संस्कारो मानसवासना । अस्मिन्पक्षे पूर्वोक्तानां चतसृणामनयोरेवान्तर्भावः, बाह्याभ्यन्तरव्यतिरेकेण वासनान्तरासंभवात् । तासां वासनानां परित्यागो नाम तद्विरुद्धमैत्र्यादिवासनोत्पादनम् । ताश्च मैत्र्यादिवासना भगवता पतञ्जलिना सूत्रिताः प्रासंक्षेपेण व्याख्याता अपि पुनर्व्याख्यायन्ते । चित्तं हि रागद्वेषपुण्यपापैः कलुषी क्रियते । तत्र “ सुखानुशयी रागः " मोहादनुभूयमानं सुखमनुशेते कश्चिद्धीवृत्तिविशेषो राजसः सर्व सुखजातीयं मे भूयादिति । तच्च दृष्टादृष्टसामग्र्यभावात्संपादयितुमशक्यम् । अतः स रागश्चित्तं कलुषी करोति । यदा तु सुखिषु प्राणिष्वयं मैत्री भावयेत्सर्वेऽप्येते सुखिनो मदीया इति तदा तत्सुखं स्वकीयमेव संपन्नमिति भावयतस्तत्र रागो निवर्तते । यथा स्वस्य राज्यनिवृत्तावपि पुत्रादिराज्यमेव स्वकीयं राज्यं तद्वत् । निवृत्ते च रागे वर्षाव्यपाये जलमिव चित्तं प्रसीदति । तथा " दुःखानुशयी द्वेषः " दुःखमनुशेते कश्चिद्धीवृत्तिविशेषस्तमोनुगतरजःपरिणाम ईदृशं सर्वं दुःखं सर्वदा मे मा भूदिति । तच्च शत्रुव्याघ्रादिषु सत्सु न निवारयितुं शक्यम् । न च सर्वे ते दुःखहेतवो हन्तुं शक्यन्ते । अतः स द्वेषः सदा हृदयं दहति । यदा तु स्वस्येव परेषां सर्वेषामपि दुःखं मा भूदिति करुणां दुःखिषु भावयेत्तदा वैर्यादिद्वेषनिवृत्तौ चित्तं प्रसीदति । तथा च स्मर्यते-

"प्राणा यथाऽऽत्मनोऽभीष्टा भूतानामपि ते तथा ।
आत्मौपम्येन भूतेषु दयां कुर्वन्ति साधवः" इति ॥

 एतदेवेहाप्युक्तम्-आत्मौपम्येन सर्वत्रेत्यादि । तथा प्राणिनः स्वभावत एवं पुण्यं नानुतिष्ठन्ति पापं त्वनुतिष्ठन्ति । तदाहुः-

"पुण्यस्य फलमिच्छन्ति पुण्यं नेच्छन्ति मानवाः ।
न पापफलमिच्छन्ति पापं कुर्वन्ति यत्नतः ” इति ॥

 ते च पुण्यपापे अक्रियमाणक्रियमाणे पश्चात्तापं जनयतः । स च श्रुत्याऽनूदितः- "किमहं साधु नाकरवं किमहं पापमकरवम् ” इति । यद्यसौ पुण्यपुरुषेषु मुदिता भावयेत्तदा तद्वासनावान्स्वयमेवाप्रमत्तोऽशुक्लकृष्णे पुण्ये प्रवर्तते । तदुक्तं " कर्माशुक्लकृष्णं योगिनस्त्रिविधमितरेषाम् " अयोगिनां त्रिविधं शुक्लं शुभं कृष्णमशुभं शुक्लकृष्णं शुभाशुभमिति । तथा पापपुरुषेषूपेक्षां भावयन्वयमपि तद्वासनावान्पापान्निवर्तते । ततश्च पुण्याकरणपापकरणनिमित्तस्य पश्चात्तापस्याभावे चित्तं प्रसीदति । एवं सुखिषु मैत्री भावयतो न केवलं रागो निवर्तते किं त्वसूयेर्ष्यादयोऽपि निवर्तन्ते । परगुणेषु दोषाविष्करणमसूया । परगुणानामसहनमीर्ष्या॑ । यदा मैत्रीवशात्परसुखं स्वीयमेव संपन्नं तदा परगुणेषु कथमसूयादिकं संभवेत् । तथा दुःखिषु करुणां भावयतः शत्रुवधादिकरो द्वेषो यदा निवर्तते तदा [२९३]दुःखि[२९४][त्व]प्रतियोगिकस्वसुखित्वप्रयुक्तदर्पोऽपि निवर्तते । एवं दोषान्तरनिवृत्तिरप्यूहनीया वासिष्ठरामायणादिषु । तदेवं तत्त्वज्ञानं मनोनाशो वासनाक्षयश्चेति त्रयमभ्यसनीयम् । तत्र केनापि द्वारेण पुनः पुनस्तत्त्वानुस्मरणं तत्त्वज्ञानाभ्यासः । तदुक्तम्-

"तचिन्तनं तत्कथनमन्योन्यं तत्प्रबोधनम् ।
एतदेकपरत्वं च ब्रह्माभ्यासं विदुर्बुधाः ॥


सर्गादावेव नोत्पन्नं दृश्यं नास्त्येव [२९५]तत्सदा ।
इदं जगदहं चेति बोधाभ्यासं विदुः परम् " इति ॥

 दृश्यावभासविरोधियोगाभ्यासो मनोनिरोधाभ्यासः । तदुक्तम्-----

" अत्यन्ताभावसंपत्तौ ज्ञातुर्जेयस्य वस्तुनः ।
युक्त्या शास्त्रैर्यतन्ते ये तेऽप्यत्राभ्यासिनः स्थिताः" इति ॥

 ज्ञातृज्ञेययोर्मिथ्यात्वधीरभावसंपत्तिः। स्वरूपेणाप्यप्रतीतिरत्यन्ताभावसंपत्तिस्तदर्थम् । युक्त्या योगेन ।

" दृश्यासंभवबोधेन रागद्वेषादितानवे ।
रतिर्धनोदिता याऽसौ ब्रह्माभ्यासः स उच्यते " इति ॥

 रागद्वेषादिक्षीणतारूपवासनाक्षयाभ्यास उक्तः । तस्मादुपपन्नमेतत्तत्त्वज्ञानाभ्यासेन मनोनाशाम्यासेन वासनाक्षयाभ्यासेन च रागद्वेषशून्यतया यः स्वपरसुखदुःखादिषु समदृष्टिः स परमो योगी मतो यस्तु विषमदृष्टिः स तत्त्वज्ञानवानप्यपरमो योगीति ॥ ३२ ॥

 श्री० टी०-एवं च मां भजतां योगिनां मध्ये सर्वभूतानुकम्पी श्रेष्ठ इत्याह- आत्मौपम्येनेति । आत्मौपम्येन स्वसादृश्येन यथा मम सुखं प्रियं दुःखं चाप्रियं तथाऽन्येषामपीति सर्वत्र समं पश्यन्सुखमेव सर्वेषां यो वाञ्छति न तु कस्यापि दुःखं, स योगी श्रेष्ठो ममाभिमत इत्यर्थः ॥ ३२ ॥

 म०टी०-उक्तमर्थमाक्षिपन्-

 अर्जुन उवाच-

योऽयं योगस्त्वया प्रोक्तः साम्येन मधुसूदन ॥
एतस्याहं न पश्यामि चञ्चलत्वात्स्थितिं स्थिराम्॥३३॥

 योऽयं सर्वत्रसमदृष्टिलक्षणः परमो योगः साम्येन समत्वेन चित्तगतानां रागद्वेषदीनां विषमदृष्टिहेतूनां निराकरणेन त्वया सर्वज्ञेनेश्वरेणोक्तः, हे मधुसूदन सर्ववैदिकसं- प्रदायप्रवर्तक, एतस्य त्वदुक्तस्य सर्वमनोवृत्तिनिरोधलक्षणस्य योगस्य स्थिति विद्यमानतां स्थिरां दीर्घकालानुवर्तिनी न पश्यामि न संभावयामि अहमस्मद्विधोऽन्यो वा योगाभ्यासनिपुणः । कस्मान्न संभावयसि तत्राऽऽह-चञ्चलत्वात् , मनस इति शेषः ॥ ३३ ॥

 श्री० टी०-उक्तलक्षणस्य योगस्यासंभवं मन्वानः-अर्जुन उवाच योऽय-


मिति । साम्येन मनसो लयविक्षेपशून्यतया केवलात्माकारावस्थानेन योऽयं योगस्त्वया प्रोक्त एतस्य योगस्य स्थिरां दीर्घकालं स्थिति न पश्यामि मनसश्चञ्चलत्वात् ॥ ३३ ॥

 म०टी०-सर्वलोकप्रसिद्धत्वेन तदेव चञ्चलत्वमुपपादयति-

चञ्चलं हि मनः कृष्ण प्रमाथि बलवदृढम् ॥
तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् ॥ ३४ ॥

चञ्चलमत्यर्थं चलं सदा चलनस्वभावं मनः, हि प्रसिद्धमेवैतत् । भक्तानां पापादिदोषान्सर्वथा निवारयितुमशक्यानपि कृषति निवारयति तेषामेव सर्वथा प्राप्तुमशक्यानपि पुरुषार्थानाकर्षति प्रापयतीति वा कृष्णः । तेन रूपेण संबोधयन्दुर्निवारमपि चित्तचाञ्चल्यं निवार्य दुष्प्रापमपि समाधिसुखं त्वमेव प्रापयितुं शक्नोषीति सूचयति । न केवलमत्यर्थं चञ्चलं किं तु प्रमाथि, शरीरमिन्द्रियाणि च प्रमथितुं क्षोभयितुं शीलं यस्य तत् , क्षोभकतया शरीरेन्द्रियसंघातस्य विवशताहेतुरित्यर्थः । किं च बलवत् , अभिप्रेताद्विषयात्केनाप्युपायेन निवारयितुमशक्यम् । । किं च दृढं विषयवासनासहस्रानुस्यूततया भेत्तुमशक्यम् । तन्तुनागवदच्छेद्यमिति भाष्ये । तन्तुनागो नागपाशः । तातनीति गुर्जरादौ प्रसिद्धो महाह्रदनिवासी जन्तुविशेषो वा । तस्यातिदृढतया बलवतो बलवत्तया प्रमाथिनः प्रमाथितयाऽतिचञ्चलस्य महामत्तवनगजस्येव मनसो निग्रहं निरोधं निर्वृत्तिकतयाऽवस्थानं सुदुष्करं सर्वथा कर्तुमशक्यमहं मन्ये, वायोरिव । यथाऽऽकाशे दोधूयमानस्य वायोनिश्चलत्वं संपाद्य निरोधनमशक्यं तद्वदित्यर्थः । अयं भावः-जातेऽपि तत्त्वज्ञाने प्रारब्धकर्मभोगाय जीवतः पुरुषस्य कर्तृत्वभोक्तृत्वसुखदुःखरागद्वेषादिलक्षणश्चित्तधर्मः क्लेशहेतुत्वाद्वाधितानुवृत्त्याऽपि बन्धो भवति । चित्तवृत्तिनिरोधरूपेण तु योगेन तस्य निवारणं जीवन्मुक्तिरित्युच्यते । यस्याः संपादनेन स योगी परमो मत इत्युक्तम् । तत्रेदमुच्यते-बन्धः किं साक्षिणो निवार्यते किं वा चित्तात् , नाऽऽद्यस्तत्त्वज्ञानेनैव साक्षिणो बन्धस्य निवारितत्वात् । न द्वितीयः स्वभावविपर्ययायोगात् , विरोधिसद्भावाच्च । न हि जलादार्द्रत्वमग्नेर्वोष्णत्वं निवारयितुं शक्यते " प्रतिक्षणपरिणामिनो हि भावा ऋते चितिशक्तेः" इतिन्यायेन प्रतिक्षणपरिणामस्वभावत्वाच्चित्तस्य । प्रारब्धभोगेन च कर्मणा कृत्स्नाविद्यातत्कार्यनाशने प्रवृत्तस्य तत्त्वज्ञानस्यापि प्रतिबन्धं कृत्वा स्वफलदानाय देहेन्द्रियादिकमवस्थापितम् । न च कर्मणा स्वफलसुखदुःखादिभोगश्चित्तवृत्तिभिर्विना संपादयितुं शक्यते । तस्माद्यद्यपि स्वाभाविकानामपि चित्तपरिणामानां कथंचिद्योगेनाभिभवः शक्येत कर्तुं तथाऽपि तत्त्वज्ञानादिव योगादापि प्रारब्धफलस्य कर्मणः प्राबल्यादवश्यंभाविनि चित्तस्य चाञ्चल्ये योगेन तन्निवारणमशक्यमह[२९६] स्वाबोधादेव


मन्ये । तस्मादनुपपन्नमेतदात्मौपम्येन सर्वत्र समदर्शी परमो योगी मत इत्यर्जुनस्याऽऽक्षेपः ॥ ३४॥

 श्री० टी-एतत्स्फुटयति-चञ्चलमिति । चञ्चल स्वभावेनैव चपलम् । किं च प्रमाथि प्रमथनशीलं देहेन्द्रियक्षोभकमित्यर्थः । किं च बलवद्विचारेणापि जेतुमशक्यम् । किं च दृढं विषयवासनानुबद्धतया दुर्भेदम् । अतो यथाऽऽकाशे दोधूयमानस्य वायोः कुम्भादिषु निरोधनमशक्यं तथा तस्य मनसोऽपि निग्रहं निरोधं सुदुष्करं सर्वथा कर्तुमशक्यं मन्ये ॥ ३४ ॥

 म०टी०-तमिममाक्षेपं परिहरन्-

श्रीभगवानुवाच-
 असंशयं महाबाहो मनो दुर्निग्रहं चलम् ॥
  अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ॥३५॥

 सम्यग्विदितं ते चित्तचेष्टितं मनो निग्रहीतुं शक्ष्यसीति संतोषेण संबोधयति हे महाबाहो महान्तौ साक्षान्महादेवेनापि सह कृतप्रहरणौ बाहू यस्येति निरतिशयमुत्कर्षं सूचयति । प्रारब्धकर्मप्राबल्यादसंयतात्मना दुनिग्रहं दुःखेनापि निग्रहीतुमशक्यम् । प्रमाथि बलवदृढमिति विशेषणत्रयं पिण्डीकृत्यैतदुक्तम् । चलं स्वभावचञ्चलं मन इत्यसंशयं नास्त्येव संशयोऽत्र सत्यमेवैतद्ब्रवीषीत्यर्थः । एवं सत्यपि संयतात्मना[२९७] समाधिमात्रोपायेन [२९८]योगिनाऽभ्यासेन वैराग्येण च गृह्यते निगृह्यते सर्ववृत्तिशून्यं क्रियते तन्मन इत्यर्थः । अनिग्रहीतुरसंयतात्मनः सकाशात्संयतात्मनो निग्रहीतुर्विशेषद्योतनाय तुशब्दः । मनोनिग्रहेऽभ्यासवैराग्ययोः समुच्चयबोधनाय चशब्दः । हे कौन्तेयेति पितृष्वसृपुत्रस्त्वमवश्यं मया सुखी कर्तव्य इति स्नेहसंबन्धसूचनेनाऽऽश्वासयति । अत्र प्रथमार्धन चित्तस्य हठनिग्रहो न संभवतीति द्वितीयार्धेन तु क्रमनिग्रहः संभवतीत्युक्तम् । द्विविधो हि मनसो निग्रहः-हठेन क्रमेण च । तत्र चक्षुःश्रोत्रादीनि ज्ञानेन्द्रियाणि वाक्पाण्यादीनि कर्मेन्द्रियाणि च तद्गोलकमात्रोपरोधेन हठान्निगृह्यन्ते । तदृष्टान्तेन मनोऽपि हठेन निग्रहीष्यामीति मूढस्य भ्रान्तिर्भवति । न च तया निग्रहीतुं शक्यते तद्गोलकस्य हृदयकमलस्य निरोधुमशक्यत्वात् । अत एव च क्रमनिग्रह एष युक्तस्तदेतद्भगवान्वसिष्ठ आह-

" उपविश्योपविश्यैव चित्तज्ञेन मुहूर्मुहुः ।
न शक्यते मनो जेतुं विना युक्तिमानिन्दिताम् ॥
अङ्कुशेन विना मत्तो यथा दुष्टमतङ्गजः ।
अध्यात्मविद्याधिगमः साधुसंगम एव च ॥


वासनासंपरित्यागः प्राणस्पन्दनिरोधनम् ।
एतास्ता युक्तयः पुष्टाः सन्ति चित्तजये किल ॥
सतीषु युक्तिष्वेतासु हठान्नियमयन्ति ये ।
चेतस्ते दीपमुत्सृज्य विनिघ्नन्ति तमोऽजनैः” इति ॥

 क्रमनिग्रहे चाध्यात्मविद्याधिगम एक उपायः । सा हि दृश्यस्य मिथ्यात्वं दृग्वस्तुनश्च परमार्थसत्यपरमानन्दस्वप्रकाशत्वं बोधयति । तथा च सत्येतन्मनः स्वगोचरेषु दृश्येषु मिथ्यात्वेन प्रयोजनाभावं प्रयोजनवति च परमार्थसत्यपरमानन्दरूपे दृग्वस्तुनि स्वप्रकाशत्वेन स्वागोचरत्वं बुद्ध्वा निरिन्धनाग्निवत्स्वयमेवोपशाम्यति । यस्तु बोधितमपि तत्त्वं न सम्यग्बुध्यते यो वा विस्मरति तयोः साधुसंगम एवोपायः । साधवो हि पुनः पुनर्बोधयन्ति स्मारयन्ति च । यस्तु विद्यामदादिदुर्वासनया पीड्यमानो न साधूननुवर्तितुमुत्सहते तस्य पूर्वोक्तविवेकेन वासनापरित्याग एवोपायः । यस्तु वासनानामतिप्राबल्यात्तास्त्यक्तुं न शक्नोति तस्य प्राणस्पन्दनिरोध एवोपायः । प्राणस्पवासनयोश्चित्तप्रेरकत्वात्तयोर्निरोधे चित्तशान्तिरुपपद्यते । तदेतदाह स एव----

" द्वे बीजे चित्तवृक्षस्य प्राणस्पन्दनवासने ।
एकस्मिंश्च तयोः क्षीणे क्षिप्रं द्वे अपि नश्यतः ॥
प्राणायामदृढाभ्यासैर्युक्त्या च गुरुदत्तया ।
आसनाशनयोगेन प्राणस्पन्दो निरुध्यते ॥
असङ्गव्यवहारित्वाद्भवमावनवर्जनात् ।
शरीरनाशदर्शित्वाद्वासना न प्रवर्तते ॥
वासनासंपरित्यागाच्चितं गच्छत्यचित्तताम् ।
प्राणस्पन्दनिरोधाच्च यथेच्छसि तथा कुरु ॥
एतावन्मात्रकं मन्ये रूपं चित्तस्य राघव ।
यद्भावनं वस्तुनोऽन्तर्वस्तुत्वेन रसेन च ॥
यदा न भाव्यते किंचिद्धेयोपादेयरूपि यत् ।
स्थीयते सकलं त्यक्त्वा तदा चित्तं न जायते ।
अवासनत्वात्सततं यदा न मनुते मनः ।
अमनस्ता तदोदेति परमात्मपदप्रदा" इति ॥

 अत्र द्वावेवोपायौ पर्यवसितौ प्राणस्पन्दनिरोधार्थमभ्यासः, वासनापरित्यागार्थ च वैराग्यमिति । साधुसंगमाध्यात्मविद्याधिगमौ त्वभ्यासवैरा[२९९]ग्योपपादकतयाऽन्यथासिद्धौ तयोरेवान्तर्भवतः । अत एव भगवताऽभ्यासेन वैराग्येण चेति द्वयमेवोक्तम् । अत एवं


भगवान्पतञ्जलिरसूत्रयत्-" अभ्यासवैराग्याम्यां तन्निरोधः” इति । तासां प्रागुक्तानां प्रमाणविपर्ययविकल्पनिद्रास्मृतिरूपेण पञ्चविधानामनन्तानामासुरत्वेन क्लिष्टानां दैवत्वेनाक्लिष्टानामपि वृत्तीनां सर्वासामपि निरोधो निरिन्धनाग्निवदुपशमाख्यः परिणामोऽभ्यासेन वैराग्येण च समुच्चितेन भवति । तदुक्तं योगभाष्ये-चित्तनदी नामोमयतोवाहिनी वहति कल्याणाय वहति पापाय च । तत्र या कैवल्यप्राग्मारा विवेकनिम्ना सा कल्याणवहा । या त्वविवेकनिम्ना संसारप्राग्भारा सा पापवहा । तत्र वैराग्येण विषयस्रोतः खिली क्रियते । विवेकदर्शनाभ्यासेन च कल्याणस्रोत उद्घाट्यते, इत्युभयाधीनश्चित्तवृत्तिनिरोध इति । प्राग्भारनिम्नपदे “तदा विवेकनिम्नं कैवल्यप्राग्भारं चित्तम्" इत्यत्र व्याख्याते । यथा तीव्रवेगोपेतं नदीप्रवाहं सेतुबन्धनेन निवार्य कुल्याप्रणयनेन क्षेत्राभिमुखं तिर्यक्प्रवाहान्तरमुत्पाद्यते तथा वैराग्येण चित्तनद्या विषयप्रवाहं निवार्य समाध्यभ्यासेन प्रशान्तवाहिता संपाद्यत इति द्वारभेदात्समुच्चय एव, एकद्वारत्वे हि व्रीहियववद्विकल्पः स्यादिति । मन्त्रजपदेवताध्यानादीनां क्रियारूपाणामावृत्तिलक्षणोऽभ्यासः संभवति । सर्वव्यापारोपरमस्य तु समाधेः को नामाभ्याप्त इति शङ्कां निवारयितुमभ्यासं सूत्रयति स्म " तत्र स्थितौ यत्नोऽभ्यासः" इति । तत्र स्वरूपावस्थिते द्रष्टरि शुद्ध चिदात्मनि चित्तस्यावृत्तिकस्य प्रशान्तवाहितारूपा निश्चलतास्थितिस्तदर्थं यत्नो मानस उत्साहः स्वभावचाञ्चल्याद्बहिष्प्रवाहशीलं चित्तं सर्वथा निरोत्स्यामीत्येवंविधः । स आवर्त्यमानोऽभ्यास उच्यते । “स तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः" अनिर्वेदेन दीर्घकालासेवितो विच्छेदाभावेन निरन्तरासेवितः सत्कारेण श्रद्धातिशयेन चाऽऽसेवितः । सोऽभ्यासो दृढभूमिर्विषयसुखवासनया चालयितुमशक्यो भवति । अदीर्घकालत्वे दीर्घकालत्वेऽपि विच्छिद्य विच्छिद्य सेवने श्रद्धातिशयाभावे च लयविक्षेपकषायसुखास्वादानामपरिहारे व्युत्थानसंस्कारप्राबल्याददृढभूमिरभ्यासः फलाय न स्यादिति त्रयमुपात्तम् । वैराग्यं तु द्विविधमपरं परं च । यतमानसंज्ञाव्यतिरेकसज्ञैकेन्द्रियसंज्ञावशीकारसंज्ञामेदैरपरं चतुर्धा । तत्र पूर्वभूमिजयनोत्तरभूमिसंपादन विवक्षया चतुर्थमेवासूत्रयत्-"दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञावैराग्यम्" इति । स्त्रियोऽन्नं [३००]पानमैश्वर्यमित्यादयो दृष्टा विषयाः । स्वर्गों विदेहता प्रकृतिलय इत्यादयो वैदिकत्वेनाऽऽनुश्रविका विषयास्तेषूभयविधेष्वपि सत्यामेव तृष्णायां विवेकतारतम्येन यतमानादित्रयं भवति । अत्र जगति किं सारं किमसारमिति गुरुशाखाम्यां ज्ञास्यामीत्युद्योगो यतमानम् । स्वचित्ते पूर्वविद्यमानदोषाणां मध्येऽभ्यस्यमानविवेकेनैते पक्वा एतेऽवशिष्टा इति चि[३०१]कित्सकवद्विवेचनं व्यतिरेकः । दृष्टानुश्रविकविषयप्रवृत्तेर्दुःखात्मत्वबोधेन बहिरिन्द्रियप्रवृत्तिमजनयन्त्या अपि तृष्णाया


औत्सुक्यमात्रेण मनस्यवस्थानमेकेन्द्रियम् । मनस्यपि तृष्णाशून्यत्वेन सर्वथा वैतृष्ण्यं तृष्णाविरोधिनी चित्तवृत्तिर्ज्ञानप्रसादरूपा वशीकारसंज्ञा वैराग्यं संप्रज्ञातस्य समाधेरन्तरङ्गं साधनमसंप्रज्ञातस्य तु बहिरङ्गम् । तस्य त्वन्तरसाधनं परमेव वैराग्यम् । तच्चासूत्रयत्-" तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यम् ” इति । संप्रज्ञातसमाधिपाटवेन गुणत्रयात्मकात्प्रधानाद्विविक्तस्य पुरुषस्य ख्यातिः साक्षात्कार उत्पद्यते । ततश्चाशेषगुणत्रयव्यवहारेषु वैतृष्ण्यं यद्भवति तत्परं श्रेष्ठं फलभूतं वैराग्यम् । तत्परिपाकनिमित्ताच्च चित्तोपशमपरिपाकादविलम्बेन कैवल्यमिति ॥ ३५॥

 श्री०टी०-तदुक्तं चञ्चलत्वादिकमगीकृत्यैव मनोनिग्रहोपायं श्रीभगवानुवाच---- असंशयमिति । चञ्चलत्वादिना मनो निरोद्धमशक्यमिति यद्वदसि एतन्निःसंशयमेव, तथाऽपि [३०२]तु अभ्यासेन परमात्माकारप्रत्ययावृत्त्या विषयवैतृष्ण्येन च गृह्यते निगृह्यते, अभ्यासेन लयप्रतिबन्धाद्वैराग्येण च विक्षेपप्रतिबन्धादुपरतवृत्तिकं सत्परमात्माकारेण परिणतं तिष्ठतीत्यर्थः । तदुक्तं योगशास्त्रे-

" मनसो वृत्तिशून्यस्य ब्रह्माकारतया स्थितिः ।
याऽसंप्रज्ञातनामाऽसौ समाधिरभिधीयते" इति ॥३५ ॥

 म०टी०-~-'यत्तु त्वमवोचः प्रारब्धभोगेन कर्मणा तत्त्वज्ञानादपि प्रबलेन स्वफलदानाय मनसो वृत्तिषूत्पाद्यमानासु कथं तासां निरोधः कर्तुं शक्य इति तत्रोच्यतेअसंयतात्मना योगो दुष्पाप इति मे मतिः ॥ वश्यात्मना तु यतता शक्योऽवाप्तुमुपायतः ॥ ३६॥

 उत्पन्नेऽपि तत्त्वसाक्षात्कारे वेदान्तव्याख्यानादिव्यासङ्गादालस्यादिदोषाद्वाऽभ्यासवैराग्याभ्यां न संयतो निरुद्ध आत्माऽन्तःकरणे येन तेनासंयतात्मना तत्त्वसाक्षात्कारवताऽपि योगो मनोवृत्तिनिरोधो दुष्प्रापो दुःखेनापि प्राप्तुं न शक्यते प्रारब्धकर्मकृताच्चित्तचाञ्चल्यादिति चेत्त्वं वदसि तत्र मे मतिर्मम संमतिस्तत्तथैवेत्यर्थः । केन तर्हि प्राप्यते, उच्यते-वश्यात्मना तु वैराग्यपरिपाकेन(ण) वासनाक्षये सति वश्यः स्वाधीनो विषयपारतन्त्र्यशून्य आत्माऽन्तःकरणं यस्य तेन । तुशब्दोऽसंयतात्मनो वैलक्षण्यद्योतनार्थोऽवधारणार्थो वा । एतादृशेनापि यतता यतमानेन वैराग्येण विषयस्रोतःखिलीकरणेऽष्यात्मस्रोतउद्धाटनार्थमभ्यासं प्रागुक्तं कुर्वता योगः सर्वचित्तवृत्तिनिरोधः शक्योऽवाप्तुं चित्तचाञ्चल्यनिमित्तानि प्रारब्धकर्माण्यप्यभिभूय प्राप्तुं शक्यः । कथमतिबलवतामारब्धभोगानां कर्मणामभिभवः, उच्यते-उपायत उपायात् । उपायः पुरुषकारस्तस्य लौकिकस्य वैदिकस्य वा प्रारब्धकर्मापेक्षया प्राबल्यात् । अन्यथा लौकि-


कानां कृष्यादिप्रयत्नस्य वैदिकानां ज्योतिष्टोमादिप्रयत्नस्य च वैयर्थ्यापत्तेः । सर्वत्र प्रारब्धकर्मसदसत्त्वविकल्पग्रासात्प्रारब्धकर्मसत्त्वे तत एव फलप्राप्तेः किं पौरुषेण प्रयत्नेन, तदसत्त्वे तु सर्वथा फलासंभवात्किं तेनेति । अथ कर्मणः स्वयमदृष्टरूपस्य दृष्टसाधनसंपत्तिव्यतिरेकेण फलजननासमर्थत्वादपेक्षितः कृष्यादौ पुरुषप्रयत्न इति चेत् । योगाभ्यासेऽपि समं समाधानं तत्साध्याया जीवन्मुक्तेरपि सुखातिशयरूपत्वेन प्रारब्धकर्मफलान्तर्भावात् । अथवा यथा प्रारब्धफलं कर्म तत्त्वज्ञानात्प्रबलमिति कल्प्यते दृष्टत्वात् , तथा तस्मादपि कर्मणो योगाभ्यासः प्रबलोऽस्तु शास्त्रीयस्य प्रयत्नस्य सर्वत्र ततः प्राबल्यदर्शनात् । तथा चाऽऽह भगवान्वसिष्ठः-

" सर्वमेवेह हि सदा संसारे रघुनन्दन ।
सम्यक्प्रयुक्तात्सर्वेण पौरुषात्समवाप्यते ॥
उच्छास्त्रं शास्त्रितं चेति पौरुषं द्विविधं स्मृतम् ।
तत्रोच्छास्त्रमनर्थाय परमार्थाय शास्त्रितम् " ॥

 उच्छास्त्रं शास्त्रप्रतिषिद्धमनर्थाय नरकाय । शास्त्रितं शास्त्रविहितमन्तःकरणशुद्धिद्वारा परमार्थाय चतुर्ष्वर्थेषु परमाय मोक्षाय ।

शुभाशुभाम्यां मार्गाभ्यां वहन्ती वासना सरित् ।
पौरुषेण प्रयत्नेन योजनीया शुभे पथि ॥
अशुभेषु समाविष्टं शुभेष्वेवावतारय ।
स्वमनः पुरुषार्थेन बलेन बलिनां वर ॥
द्रागभ्यासवशाद्याति यदा ते वासनोदयम् ।
तदाऽभ्यासस्य साफल्यं विद्धि त्वमरिमर्दन ॥

 वासना शुभेति शेषः।

“ संदिग्धायामपि भृशं शुभामेव समाहर।
शुभायां वासनावृद्धौ तात दोषो न कश्चन ॥
अव्युत्पन्नमना यावद्भवानज्ञाततत्पदः ।
गुरुशास्त्रप्रमाणैस्त्वं निणीतं तावदाचर ॥
ततः पक्वकषायेण नूनं विज्ञातवस्तुना ।
शुभोऽप्यसौ त्वया त्याज्यो वासनौघो निरोधिना" इति ॥

 तस्मात्साक्षिगतस्य संसारस्याविवेकनिबन्धनस्य विवेकसाक्षात्कारादपनयेऽपि प्रारब्धकर्मपर्यवस्थापितस्य चित्तस्य स्वाभाविकीनामपि वृत्तीनां योगाभ्यासप्रयत्नेनापनये सति जीवन्मुक्तः परमो योगी । चित्तवृत्तिनिरोधामावे तु तत्त्वज्ञानवानप्यपरमो योगीति सिद्धम् । अवशिष्टं जीवन्मुक्तिविवेके सविस्तरमनुसंधेयम् ॥ ३६ ॥

 श्री०टी०एतावास्त्विह निश्चय इत्याह-असंयतात्मनेति । उक्तप्रकारेणाभ्यासवैराग्याभ्यामसंयत आत्मा चित्तं यस्य तेन पुरुषेणायं योगो दुष्प्रापः प्राप्तुमशक्यः । अभ्यासवैराग्याभ्यां वश्यो वशवर्ती, आत्मा चित्तं यस्य तेन पुरुषेण पुनश्चानेनैवोपायेन प्रयत्नं कुर्वता योगः प्राप्तुं शक्यः ॥ ३६ ॥

 म०टी०-एवं प्राक्तनेन ग्रन्थेनोत्पन्नतत्त्वज्ञानोऽनुत्पन्नजीवन्मुक्तिरपरमो योगी मतः । उत्पन्नतत्त्वज्ञान उत्पन्नजीवन्मुक्तिस्तु परमो योगी मत इत्युक्तम् । तयोरुभयोरपि ज्ञानादज्ञाननाशेऽपि यावत्प्रारब्धभोगं कर्म देहेन्द्रियसंघातावस्थानात्प्रारब्धभोगकर्मापाये च वर्तमानदेहेन्द्रियसंघातापायात्पुनरुत्पादकाभावाद्विदेहकैवल्यं प्रति काऽपि नास्त्याशङ्का । यस्तु प्रा[३०३]क्कृतकर्मभिर्लब्धविविदिषापर्यन्तचित्तशुद्धिः कृत[३०४]कार्यत्वात्सर्वाणि कर्माणि परित्यज्य प्राप्तपरमहंसपरिव्राजकभावः परमहंसपरिव्राजकमात्मसाक्षात्कारेण जीवन्मुक्तं परप्रबोधनदर्श गुरुमुपसृत्य ततो वेदान्तमहावाक्योपदेशं प्राप्य तत्रासंभावनाविपरीतभावनाख्यप्रतिबन्धनिरासायाथातो ब्रह्मजिज्ञासेत्याधनावृत्तिः शब्दादित्यन्तया चतुर्लक्षणमीमांसया श्रवणमनननिदिध्यासनानि गुरुप्रसादात्कर्तुमारभते स श्रद्दधानोऽपि सन्नायुषोऽल्पत्वेनाल्पप्रयत्नत्वादलब्धज्ञानपरिपाकः श्रवणमनननिदिध्यासनेषु क्रियमाणेष्वेव मध्ये व्यापद्यते । स ज्ञानपरिपाकशून्यत्वेनानष्टाज्ञानो न मुच्यते, नाप्युपासनासहितकर्मफलं देवलोकमनुभवत्यर्चिरादिमार्गेण, नापि केवलकर्मफलं पितृलोकमनुभवति धूमादिमार्गेण, कर्मणामुपासनानां च त्यक्तत्वात् । अत एतादृशो योगभ्रष्टः कीटादिभावेन कष्टां गतिमियादज्ञत्वे सति देवयानपितृयान(ण)मार्गासंबन्धित्वाद्वर्णाश्रमाचारभ्रष्टवदथवा कष्टां गतिं नेयात् , शास्त्रनिन्दितकर्मशून्यत्वाद्वामदेववदितिसंशयपर्याकुलमनाः-

अर्जुन उवाच-
 अयतिः श्रद्धयोपेतो योगाच्चलितमानसः॥
 अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति ॥३७॥

 यतिर्यत्नशीलः । अल्पार्थे नञ्, अलवणा यवागूरित्यादिवत्, अयतिरल्पयत्नः, श्रद्धया गुरुवेदान्तवाक्येषु विश्वासबुद्धिरूपयोपेतो युक्तः । श्रद्धा च स्वसहचरितानां शमादी नामुपलक्षणं " शान्तो दान्त उपरतस्तितिक्षुः [३०५]श्रद्धान्वितो भूत्वाऽऽत्मन्येवाऽऽत्मानं पश्यति " इति श्रुतेः । तेन नित्यानित्यवस्तुविवेक इहामुत्रभोगविरागः शमदमोपर-


तितितिक्षाश्रद्धादि[३०६]संपन्मुमुक्षुता चेतिसाधनचतुष्टयसंपन्नो गुरुमुपसृत्य वेदान्तवाक्यश्रवणादि कुर्वन्नपि परमायुषोऽल्पत्वेन मरणकाले चेन्द्रियाणां व्याकुलत्वेन साधनानुष्ठानासंभवाद्योगाच्चलितमानसो योगाच्छ्रवणादिपरिपाकलब्धजन्मनस्तत्त्वसाक्षात्काराच्चलितं तत्फलमप्राप्तं मानसं यस्य स योगानिष्पत्त्यैवाप्राप्य योगसंसिद्धिं तत्त्वज्ञाननिमित्तामज्ञानतत्कार्यनिवृत्तिमपुनरावृत्तिसहितामप्राप्यातत्त्वज्ञ एव मृतः सन्कां गतिं हे कृष्ण गच्छति सुगतिं दुर्गतिं वा, कर्मणां परित्यागाज्ज्ञानस्य चानुत्पत्तेः शास्त्रोक्तमोक्षसाधनानुष्ठायित्वाच्छास्त्रगर्हितकर्मशून्यत्वाच्च ॥ ३७ ॥

 श्री०टी०-अभ्यासवैराग्यामावेन कथंचिदप्राप्तसम्यग्ज्ञानः किं फलमाप्नोतीति अर्जुन उवाच-अयतिरिति। प्रथमं श्रद्धयोपेत एव योगे प्रवृत्तो न तु मिथ्याचारतया, ततः परं तु अयतिर्न सम्यग्यतते शिथिलाभ्यास इत्यर्थः । तथा योगच्चलितं मानसं विषयप्रवणं चित्तं यस्य मन्दवैराग्य इत्यर्थः । एवमम्यासवैराग्यशैथिल्याद्योगस्य संसिद्धिं फलं ज्ञानमप्राप्य कां गतिं प्राप्नोति ॥ ३७ ॥

 म०टी०-एतदेव संशयबीजं विवृणोति-

कञ्चिन्नोभयविभ्रष्टश्छिन्नाभ्रमिव नश्यति ॥
अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि ॥ ३८॥

 कञ्चिदिति साभिलाषप्रश्ने। हे महाबाहो महान्तः सर्वेषां भक्तानां सर्वोपद्रवनिवारणसमर्थाः पुरुषार्थचतुष्टयदानसमर्था वा चत्वारो बाहवो यस्येति प्रश्ननिमित्तक्रोधाभावस्तदुत्तरदानसहिष्णुत्वं च सूचितम् । ब्रह्मणः पथि ब्रह्मप्राप्तिमार्गे ज्ञाने विमूढो विचित्तः, अनुत्पन्नब्रह्मात्मैक्यसाक्षात्कार इति यावत् । अप्रतिष्ठो देवयानपितृयान(ण)मार्गगमनहेतुभ्यामुपासनाकर्मभ्यां प्रतिष्ठाभ्यां साधनाभ्यां रहितः सोपासनानां सर्वेषां कर्मणां परित्यागात् । एतादृश उभयविभ्रष्टः कर्ममार्गाज्ज्ञानमार्गाच्च विभ्रष्टश्छिन्नाभ्रमिव वायुना छिन्नं विशकलितं पूर्वस्मान्मेघाष्टमुत्तरं मेघमप्राप्तमभ्रं यथा वृष्टायोग्यं सदन्तराल एव नश्यति तथा योगभ्रष्टोऽपि पूर्वस्मात्कर्ममार्गाद्विच्छिन्न उत्तरं च ज्ञानमार्गमप्राप्तोऽन्तराल एव नश्यति कर्मफलं ज्ञानफलं च लब्धुमयोग्यो न किमिति प्रश्नार्थः । एतेन ज्ञानकर्मसमुच्चयो निराकृतः । एतस्मिन्हि पक्षे ज्ञानफलालाभेऽपि कर्मफललाभसंभवेनोभयविभ्रष्टत्वासंभवात् । न च तस्य कर्मसंभवेऽपि फलकामनात्यागात्तत्फलभ्रंशवचनमवकल्पत इति वाच्यं निष्कामाना(णा)मपि कर्मणां फलसद्भावस्याऽऽपस्तम्बवचनाद्युदाहरणेन बहुशः प्रतिपादितत्वात् । तस्मात्सर्वकर्मत्यागिनं प्रत्येवायं प्रश्नः, अनर्थप्राप्तिशङ्कायास्तत्रैव संभवात् ॥ ३८॥


 श्री०टी०-प्रश्नाभिप्रायं विवृणोति-कञ्चिदिति । कर्मणामीश्वरेऽर्पितत्वादननुष्ठानाच्च नतावत्कर्मफलं स्वर्गादिकं प्राप्नोति योगानिष्पत्तेश्च न मोक्षं प्राप्नोति । एवमुभयस्माद्भष्टोऽप्रतिष्ठो निराश्रयः । अत एव ब्रह्मणः प्राप्त्युपाये पथि मार्गे विमूढः सन्कञ्चित्किं नश्यति किं वा न नश्यतीत्यर्थः । नाशे दृष्टान्तः--यथा छिन्नमभ्रं पूर्वस्मादभ्राद्विक्ष्लिष्टमभ्रान्तरं चाप्राप्तं सन्मध्य एव विलीयते तद्व[३०७]दिति ॥ ३८ ॥

 म०टी०-यथोपदर्शितसंशयापाकरणाय भगवन्तमन्तर्यामिणमर्थयते पार्थ:-

एतन्मे संशयं कृष्ण च्छेत्तुमर्हस्यशेषतः ॥
त्वदन्यः संशयस्यास्य च्छेत्ता न घुपपद्यते ॥३९॥

 एतदेतं पूर्वोपदर्शितं मे मम संशयं हे कृष्ण च्छेत्तुमपनेतुमर्हस्यशेषतः संशयमूलाधर्माघुच्छेदेन । मदन्यः कश्चिदृषिर्वा देवो वा त्वदीयमिमं संशयमुच्छेत्स्यतीत्याशङ्कयाऽऽह-त्वदन्यः , त्वत्परमेश्वरात्सर्वज्ञाच्छास्त्रकृतः परमगुरोः कारुणिकादन्योऽनीश्वरत्वेनासर्वज्ञः कश्चिदृषिर्वा देवो वाऽस्य योगभ्रष्टपरलोकगतिविषयस्य संशयस्य च्छेत्ता सम्यगुत्तरदानेन नाशयिता हि यस्मान्नोपपद्यते न संभवति तस्मात्त्वमेव प्रत्यक्षदर्शी सर्वस्य परमगुरुः संशयमेतं मम च्छेत्तुमर्हसीत्यर्थः ॥ ३९ ॥

 श्री० टी०-त्वयैव सर्वज्ञेनायं मम संदेहो निरसनीयः, त्वत्तोऽन्य[३०८]स्तु संदेहनिवर्तको नास्तीत्याह-एतन्म इति । एतदेन छेत्ता निवर्तकः । स्पष्टमन्यत् ॥ ३९ ॥

 म० टी०-एवमर्जुनस्य योगिनं प्रति नाशाशङ्कां परिहरन्नुत्तरम्-

श्रीतगवानुवाच-
 पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते ॥
 न हि कल्याणकृत्कश्चिदुर्गतिं तात गच्छति ॥४०॥

 उभयविभ्रष्टो योगी नश्यतीति कोऽर्थः । किमिह लोके शिष्टगर्हणीयो भवति वेदविहितकर्मत्यागात् , यथा कश्चिदृच्छ्टङ्खलः, किं वा परत्र निकृष्टां गतिं प्राप्नोति । यथोक्तं श्रुत्या " अथैतयोः पथोर्न कतरेणचन ते कीटाः पतङ्गा यदि दन्दशूकम्" इति । तथा चोक्तं मनुना-" वान्ताश्युल्कामुखः प्रेतो विप्रो धर्मात्स्वकाञ्च्युतः" इत्यादि । तदुभयमपि नेत्याह-हे पार्थ नैवेह नामुत्र विनाशस्तस्य यथाशास्त्रं कृतसर्वकर्मसंन्यासस्य सर्वतो विरक्तस्य गुरुमुपसृत्य वेदान्तश्रवणादि कुर्वतोऽन्तराले मृतस्य योगभ्रष्टस्य विद्यते । उभयत्रापि तस्य विनाशो नास्तीत्यत्र हेतुमाह हि यस्मात्कल्याणकृच्छास्त्रविहितकारी कश्चिदपि दुर्गतिमिहाकीर्ति परत्र च कीटादिरूपतां न गच्छति ।


अयं तु सर्वोत्कृष्ट एव सन्दुर्गतिं न गच्छतीति किमु वक्तव्यमित्यर्थः । तनोत्यात्मानं पुत्ररूपेणेति पिता तत उच्यते । स्वार्थिकेऽणि तत एव तातो राक्षसवायसादिवत् । पितैव च पुत्ररूपेण भवतीति पुत्रस्थानीयस्य शिष्यस्य तातेति संबोधनं कृपातिशयसूचनार्थम् । यदुक्तं योगभ्रष्टः कष्टां गतिं गच्छति अज्ञत्वे सति देवयानपितृयान(ण)मार्गान्यतरासंबन्धित्वात्स्वधर्मभ्रष्टवदिति, तदयुक्तम् , एतस्य देवयानमार्गसंबन्धित्वेन हेतोरसिद्धत्वात् । पञ्चाग्निविद्यायां य इत्थं विदुर्ये चामी अरण्ये श्रद्धां सत्यमुपासते तेऽचिरभिसंभवन्तीत्यविशेषेण पञ्चाग्निविदामिवातत्ऋतूनां श्रद्धासत्यवतां मुमुक्षूणामपि देवयानमार्गेण ब्रह्मलोकप्राप्तिकथनात् । श्रवणादिपरायणस्य च योगभ्रष्टस्य [३०९]श्रद्धान्वितो भूत्वेत्यनेन श्रद्धायाः प्राप्तत्वात् , शान्तो दान्त इत्यनेन चानृतभाषणरूपवाग्व्यापारनिरोधरूपस्य सत्यस्य लब्धत्वात् । बहिरिन्द्रियाणामुच्छृङ्खलव्यापारनिरोधो हि दमः । योगशास्त्रे चाहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमा इति योगाङ्गत्वेनोक्तत्वात् । यदि तु सत्यशब्देन ब्रह्मैवोच्यते तदाऽपि न क्षतिः, वेदान्तश्रवणादेरपि सत्यब्रह्मचिन्तनरूपत्वात् । अतत्क्रतुत्वेऽपि च पञ्चाग्निविदामिव ब्रह्मलोकप्राप्तिसंभवात् । तथाच स्मृतिः " संन्यासाद्ब्रह्मणः स्थानम् " इति । तथा प्रात्यहिकवेदान्तवाक्यविचारस्यापि कृच्छ्राशीतिफलतुल्यफलत्वं स्मर्यते[३१०] । एवं च संन्यासश्रद्धासत्यब्रह्मविचाराणामन्यतमस्यापि ब्रह्मलोकप्राप्तिसाधनत्वात्समुदितानां तेषां तत्साधनत्वं किं चित्रम् । अत एव सर्वसुकृतरूपत्वं योगिचरितस्य तैत्तिरीया आमनन्ति " [३११]तस्यैवं विदुषो यज्ञस्य " इत्यादिना । स्मर्यते च-

" स्नातं तेन समस्ततीर्थसलिले सर्वाऽपि दत्ताऽवनि-
र्यज्ञानां च कृतं सहस्रमखिला देवाश्च संपूजिताः ॥
संसाराच्च समुद्धताः स्वपितरत्रैलोक्यपूज्योऽप्यसौ
यस्य ब्रह्मविचारणे क्षणमपि स्थैर्य मनः प्राप्नुयात् ' " इति ॥ ४० ॥

 श्री० टी०-अत्रोत्तरं श्रीभगवानुवाच पार्थेति सार्धैश्चतुभिः-इह लोके नाश उभयभ्रंशात्पातित्यम् । अमुत्र परलोके नाशो नरकप्राप्तिः । तदुभयं तस्य नास्त्येव । यतः कल्याणकृच्छुभकारी कश्चिदपि दुर्गतिं न गच्छति । अयं च शुभकारी श्रद्धया योगे प्रवृत्तत्वात् । तातेति लोकरीत्योपलालयन्संबोधयति ॥ ४० ॥

 म०टी०-तदेवं योगभ्रष्टस्य शुभकृत्त्वेन लोकद्वयेऽपि नाशाभावे किं भवतीत्युच्यते-


प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वतीः समाः॥
शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते ॥४१॥

 योगमार्गप्रवृत्तः सर्वकर्मसंन्यासी वेदान्तश्रवणादि कुर्वन्नन्तराले म्रियमाणः कश्चित्पूर्वोपचितभोगवासनाप्रादुर्भावाद्विषयेभ्यः स्पृहयति । कश्चित्तु वैराग्यभावनादार्ढ्यान्न स्पृहयति । तयोः प्रथमः प्राप्य पुण्यकृतामश्वमेधयाजिनां लोकानर्चिरादिमार्गेण ब्रह्मलोकान् । एकस्मिन्नपि भोगभूमिभेदापेक्षया बहुवचनम् । तत्र चोषित्वा वासमनुभूय शाश्वतीर्ब्रह्मपरिमाणेनाक्षयाः समाः संवत्सरान् , तदन्ते शुचीनां शुद्धानां श्रीमतां विभूतिमतां महाराजचक्रवर्तिनां गेहे कुले भोगवासनाशेषसद्भावादजातशत्रुजनकादिवद्योगभ्रष्टोऽभिजायते । भोगवासनाप्राबल्याद्ब्रह्मलोकान्ते सर्वकर्मसं[३१२]न्यासायोग्यो महाराजो भवतीत्यर्थः ॥ ४१॥

 श्री०टी०-तर्हि किमसौ प्राप्नोतीत्यपेक्षायामाह-प्राप्येति । पुण्यकारिणामश्वमेधादियाजिनां लोकान्प्राप्य तत्र शाश्वतीः समा बहूसंवत्सरानुषित्वा[३१३] वाससुखमनुभूय शुचीनां सदाचाराणां श्रीमतां धनिनां गेहे[३१४] योगभ्रष्टोऽभिजायते जन्म प्राप्नोति ॥ ४१ ॥

 म०टी०-द्वितीयं प्रति पक्षान्तरमाह-

अथवा योगिनामेव कुले भवति धीमताम् ॥
एतद्धि दुर्लभतरं लोके जन्म यदीदृशम् ॥ ४२ ॥

 श्रद्धावैराग्यादिकल्याणगुणाधिक्ये तु भोगवासनाविरहात्पुण्यकृतां लोकानप्राप्यैव योगिनामेव दरिद्राणां ब्राह्मणानां न तु श्रीमतां राज्ञां कुले भवति धीमतां ब्रह्मविद्यावताम् । एतेन योगिनामिति न कर्मिग्रहणम् । यच्छुचीनां श्रीमतां राज्ञां गृहे योगभ्रष्टजन्म तदपि दुर्लभमनेकसुकृतसाध्यत्वान्मोक्षपर्यवसायित्वाच्च । यत्तु शुचीनां दरिद्राणां ब्राह्मणानां ब्रह्मविद्यावतां कुले जन्म, एतद्धि प्रसिद्धं शुकादिवत्, दुर्लभतरं दुर्लभादपि दुर्लभं लोके यदीदृशं सर्वप्रमादकारणशून्यं जन्मेति द्वितीयः स्तूयते भोगवासनाशून्यत्वेन सर्वकर्मसंन्यासार्हत्वात् ॥ ४२ ॥

 श्री० टी-अल्पकालाभ्यस्तयोगभ्रंशे गतिरियमुक्ता । चिराभ्यस्तयोगभ्रंशे तु पक्षान्तरमाह-अथवेति । योगनिष्ठानां धीमतां ज्ञानिनामेव कुले जायते न तु पूर्वोक्तानामनारूढयोगानां कुले जायते । एतज्जन्म स्तौति-ईदृशं यज्जन्म, एतद्धि लोके दुर्लभतरं मोक्षहेतुत्वात् ॥ ४२ ॥

 म०. टी०.-एतादृशजन्मद्वयस्य दुर्लभत्वं कस्मात् । यस्मात्-



तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम् ॥
यतते च ततो भूयः संसिद्धौ कुरुनन्दन ॥४३॥

तत्र द्विप्रकारेऽपि जन्मनि पूर्वदेहे भवं पौर्वदेहिकं सर्वकर्मसंन्यासगुरूपसदनश्रवणमनननिदिध्यासनानां मध्ये यावत्पर्यन्तमनुष्ठितं तावत्पर्यन्तमेव तं ब्रह्मात्मैक्यविषयया बुद्ध्या संयोगं तत्साधनकलापमिति यावत् । लभते प्राप्नोति । न केवलं लभत एव किं तु ततस्तल्लाभानन्तरं भूयोऽधिकं लब्धाया भूमेरग्रिमां भूमिं संपादयितुं सांसद्धौ संसिद्धिर्मोक्षस्तन्निमित्तं यतते च प्रयत्नं करोति च । यावन्मोक्षं भूमिकाः संपादयतीत्यर्थः । हे कुरुनन्दन तवापि शुचीनां श्रीमतां कुले योगभ्रष्टजन्म जातमिति पूर्ववासनावशादनायासेनैव ज्ञानलामो भविष्यतीति सूचयितुं महाप्रभावस्य कुरोः कीर्तनम् । अयमर्थो भगवद्वसिष्ठवचने व्यक्तः । यथा श्रीरामः-

"एकामथ द्वितीयां वा तृतीयां भूमिकामुत ।
आरूढस्य मृतस्याय कीदृशी भगवन्गतिः " ॥

पूर्व हि सप्त भूमयो व्याख्याताः । तत्र नित्यानित्यवस्तुविवेकपूर्वकादिहामुत्रार्थमोगवैराग्याच्छमदमश्रद्धातितिक्षासर्वकर्मसंन्यासादिपुरःसरा मुमुक्षा शुभेच्छाख्या प्रथमा भूमिका, साधनचतुष्टयसंपदिति यावत् । ततो गुरुमुपसृत्य वेदान्तवाक्यविचारणात्मिका द्वितीया भूमिका, श्रवणमननसंपदिति यावत् । ततः श्रवणमननपरिनिष्पन्नस्य तत्त्वज्ञानस्य निर्विचिकित्सतारूपा तनुमानसा नाम तृतीया भूमिका, निदिध्यासनसंपदिति यावत् । चतुर्थी भूमिका तु तत्त्वसाक्षात्कार एव। पञ्चमषष्ठसप्तमभूमयस्तु जीवन्मुक्तेरवान्तरभेदा इति तृतीये प्राग्व्याख्यातम् । तत्र चतुर्थी भूमिं प्राप्तस्य मृतस्य जीवन्मुक्त्यभावेऽपि विदेहकैवल्यं प्रति नास्त्येव संशयः । तदुत्तरभूमित्रयं प्राप्तस्तु जीवन्नपि मुक्तः किमु विदेह इति नास्त्येव भूमिकाचतुष्टये शङ्का । साधनभूतभूमिकात्रये तु कर्मत्यागाज्ज्ञानालाभाच्च भवति शङ्केति तत्रैव प्रश्नः । श्रीवसिष्ठः-

" योगभूमिकयोत्क्रान्तजीवितस्य शरीरिणः ।
मूमिकांशानुसारेण क्षीयते[३१५] पूर्वदुष्कृतम् ॥
ततः सुरविमानेषु लोकपालपुरेषु च ।
मेरूपवनकुञ्जेषु रमते रमणीसखः ॥
ततः सुकृतसंभारे दुष्कृते च पुराकृते ।
भोगक्षयात्परिक्षीणे जायन्ते योगिनो भुवि ॥
शुचीनां श्रीमतां गेहे गुप्ते गुणवतां सताम् ।
जनित्वा योगमेवैते सेवन्ते योगवासिताः ॥


तत्र [३१६]प्राग्भवनाभ्यस्तं योगभूमिक्रमं बुधाः ।
दृष्ट्वा परिपतन्त्युच्चैरुत्तरं भूमिका[३१७]क्रमम् " इति ॥

 अत्र प्रागुपचितभोगवासनाप्राबल्यादल्पकालाभ्यस्तवैराग्यवासनादौर्बल्येन प्राणोक्रान्तिसमये प्रादुर्भूतभोगस्पृहः सर्वकर्मसंन्यासी यः स एवोक्तः । यस्तु वैराग्यवासनाप्राबल्यात्प्रकृष्टपुण्यप्रकटितपरमेश्वरप्रसादवशेन प्राणोत्क्रान्तिसमयेऽनुद्भूतभोगस्पृहः संन्यासी भोगव्यवधानं विनैव ब्राह्मणानामेव ब्रह्मविदां सर्वप्रमादकारणशून्ये कुले समुत्पन्नस्तस्य प्राक्तनसंस्काराभिव्यक्तेरनायासेनैव संभवान्नास्ति पूर्वस्यैव मोक्षं प्रत्याशङ्केति स वसिष्ठेन नोक्तो भगवता तु परमकारुणिकेनाथवेति पक्षान्तरं कृत्वोक्त एवं । स्पष्टमन्यत् ॥ ४३ ॥

 श्री०टी०-ततः किमत आह-'तत्रेति सार्धेन । तत्र द्विप्रकारेऽपि जन्मनि पूर्वदेहे भवं पौर्वदेहिकं तमेव ब्रह्मविषयया बुद्ध्या संयोगं लभते । ततश्च भूयोऽधिकं संसिद्धौ मोक्षे प्रयत्नं करोति ॥ ४३ ॥

 म०टी०-ननु यो ब्रह्मविदां ब्राह्मणानां सर्वप्रमादकारणशून्ये कुले समुत्पन्नस्तस्य मध्ये विषयभोगव्यवधानाभावादव्यवहितप्राग्मवीयसंस्कारोद्बोधात्पुनरपि सर्वकर्मसंन्यासपूर्वको ज्ञानसाधनलाभो भवतु नाम । यस्तु श्रीमतां महाराजचक्रवर्तिनां कुले बहुविधविषयभोगव्यवधानेनोत्पन्नस्तस्य विषयभोगवासनाप्राबल्यात्प्रमादकारणसंभवाच्च कथमतिव्यवहितज्ञानसंस्कारोबोधः क्षत्रियत्वेन सर्वकर्मसंन्यासानर्हस्य कथं वा ज्ञानसाधनलाम इति । तत्रोच्यते-

पूर्वाभ्यासेन तेनैव हियते ह्यवशोऽपि सः ॥
जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते ॥ ४४ ॥

 अतिचिरव्यवहितजन्मोपचितेनापि तेनैव पूर्वाभ्यासेन प्रागर्जितज्ञानसंस्कारेणावशोऽपि मोक्षसाधनायाप्रयतमानोऽपि ह्रियते स्ववशी क्रियते, अकस्मादेव भोगवासनाभ्यो व्युत्थाप्य मोक्षसाधनोन्मुखः क्रियते, ज्ञानवासनाया एवाल्पकालाभ्यस्ताया अपि वस्तुविषयत्वेनावस्तुविषयाभ्यो भोगवासनाभ्यः प्राबल्यात् । पश्य यथा त्वमेव युद्धे प्रवृत्तो ज्ञानायाप्रयतमानोऽपि पूर्वसंस्कारप्राबल्यादकस्मादेव रणभूमौ ज्ञानोन्मुखोऽभूरिति । अत एव प्रागुक्तं नेहाभिक्रमनाशोऽस्तीति । अनेकजन्मसहस्रव्यवहितोऽपि ज्ञानसंस्कारः स्वकार्यं करोत्येव सर्वविरोध्युपमर्दैनेत्यभिप्रायः । सर्वकर्मसंन्यासाभावेऽपि हि क्षत्रियस्य ज्ञानाधिकारः स्थित एव । यथा पाटचरेण बहूनां रक्षिणां मध्ये विद्यमानमपि अश्वादिद्रव्यं स्वयमनिच्छदपि तान्सर्वानभिभूय स्वसामर्थ्य विशेषादेवापहियते । पश्चात्तु कदाऽपद्धतमिति विमर्शो भवति । एवं बहूनां ज्ञानप्रतिवन्ध-


कानां मध्ये विद्यमानोऽपि योगभ्रष्टः स्वयमनिच्छन्नपि ज्ञानसंस्कारेण बलवता स्वसामर्थ्यविशेषादेव सर्वान्प्रतिबन्धकानभिभूयाऽऽत्मवशी क्रियत इति दृढ् प्रयोगेण सूचितम् । अत एव संस्कारप्राबल्याज्जिज्ञासुर्ज्ञातुमिच्छुरपि योगस्य मोक्षसाधनज्ञानस्य विषयं ब्रह्म, प्रथमभूमिकायां स्थितः संन्यासीति यावत् । सोऽपि तस्यामेव भूमिकायां मृतोऽन्तराले बहून्विषयान्मुक्त्वा महाराजचक्रवर्तिनां कुले समुत्पन्नोऽपि योगभ्रष्टः प्रागुपचितज्ञानसंस्कारप्राबल्यात्तस्मिञ्जन्मनि शब्दब्रह्म वेदं कर्मप्रतिपादकमतिवर्ततेऽतिक्रम्य तिष्ठति कर्माधिकारातिक्रमेण ज्ञानाधिकारी भवतीत्यर्थः । एतेनापि ज्ञानकर्मसमुच्चयो निराकृत इति द्रष्टव्यं, समुच्चये हि ज्ञानिनोऽपि कर्मकाण्डातिक्रमाभावात् ॥४४॥

 श्री०टी०-तत्र हेतुः-पूर्वेति । तेनैव पूर्वदेहकृताम्यासेनावशोऽपि कुतश्चिदन्तरायादनिच्छन्नपि संह्रियते विषयेभ्यः परावर्त्य ब्रह्मनिष्ठः क्रियते । तदेवं पूर्वाभ्यासवशेन प्रयत्न कुर्वञ्शनैर्मुच्यत इतीममर्थं कैमुत्यन्यायेन स्फुटयति-जिज्ञासुरितिसार्धैन । योगस्य स्वरूपं जिज्ञासुरेव केवलं न तु प्राप्तयोगः । एवंभूतो योगे प्रविष्टमान्नोऽपि पापवशाद्योगभ्रष्टोऽपि शब्दब्रह्म वेदमतिवर्तते वेदोक्तकर्मफलान्यतिक्रामति तेभ्योऽधिकं फलं प्राप्य मुच्यत इत्यर्थः ॥ ४४ ॥

 म० टी०-यदा चैवं प्रथमभूमिकायां मृतोऽपि अनेकभोगवासनाव्यवहितमपि विविधप्रमादकारणवति महाराजकुलेऽपि जन्म लब्ध्वाऽपि योगभ्रष्टः पूर्वोपचितज्ञानसंस्कारप्राबल्येन कर्माधिकारमतिक्रम्य ज्ञानाधिकारी भवति तदा किमु वक्तव्यं द्वितीयायां तृतीयायां वा भूमिकायां मृतो विषयभोगान्ते लब्धमहाराजकुलजन्मा यदि वा भोगमकृत्वैव लब्धब्रह्मविद्राह्मणकुलजन्मा योगभ्रष्टः कर्माधिकारातिक्रमेण ज्ञानाधिकारी भूत्वा तत्साधनानि संपाद्य तत्फललाभेन संसारबन्धनान्मुच्यत इति । तदेतदाह-

प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्बिषः॥
अनेकजन्मसंसिद्धस्ततो याति परां गतिम् ॥४५॥

 प्रयत्नात्पूर्वकृतादप्यधिकमधिकं यतमानः प्रयत्नातिरेकं कुर्वन्योगी पूर्वोपचितसंस्कारवांस्तेनैव योगप्रयत्नपुण्येन संशद्धकिल्बिषो धौतज्ञानप्रतिबन्धकपापमलः । अत एव संस्कारोपचयात्पुण्योपच[३१८]याच्चानेकैर्जन्मभिः संसिद्धः संस्कारातिरेकेण पुण्यातिरेकेण च प्राप्तचरमजन्मा ततः साधनपरिपाकाद्याति परां प्रकृष्टां गतिं मुक्तिम् । नास्त्येवात्र कश्चित्संशय इत्यर्थः ॥ ४५ ॥

 श्री०टी०-यदैवं मन्दप्रयत्नोऽपि योगी परां गति याति तदा यस्तु योगी प्रयत्नादुत्तरोत्तरमधिकं योगे यतमानो यत्नं कुर्वन्योगेनैव संशुद्धकिल्विषो विधूतपापः


सोऽनेकेषु जन्मसूपचितेन योगेन संसिद्धः सम्यग्ज्ञानी भूत्वा ततः श्रेष्ठां गति यातीति किं वक्तव्यमित्यर्थः ॥ ४५ ॥

 म० टी०-इदानीं योगी स्तूयतेऽर्जुनं प्रति श्रद्धातिशयोत्पादनपूर्वकं योगं विधातुम्-

तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः ॥
कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन ॥ ४६॥

 तपस्विभ्यः कृच्छ्रचान्द्रायणादितपःपरायणेभ्योऽपि अधिक उत्कृष्टो योगी तत्त्वज्ञानोत्पत्त्यनन्तरं मनोनाशवासनाक्षयकारी।

" विद्यया तदारोहन्ति यत्र कामाः परागताः ।
न तत्र दक्षिणा [३१९]यन्ति नाविद्वांसस्तपस्विनः" इति श्रुतेः ॥

 अत एव कर्मिभ्यो दक्षिणासहितज्योतिष्टोमादिकर्मानुष्ठायिभ्यश्चाधिको योगी, कर्मिणां तपस्विनां चाज्ञत्वेन मोक्षानर्हत्वात् । ज्ञानिभ्योऽपि परोक्षज्ञानवद्भयोऽपि अपरोक्षज्ञानवानधिको मतो योगी । एवमपरोक्षज्ञानवद्भयोऽपि मनोनाशवासनाक्षयाभावादजीवन्मुक्तेभ्यो मनोनाशवासनाक्षयवत्त्वेन जीवन्मुक्तो योग्यधिको मतो मम संमतः । यस्मादेवं तस्मादधिकाधिकप्रयत्नबलात्वं योगभ्रष्ट इदानीं तत्त्वज्ञानमनोनाशवासनाक्षयैर्युगपत्संपादितैर्यौगी जीवन्मुक्तो यः स योगी परमो मत इति प्रागुक्तः स तादृशो भव साधनपरिपाकात्, हेऽ[३२०]र्जुनेति शुद्धेति संबोधनार्थः ॥ ४६ ॥

 श्री० टी०-यस्मादेवं तस्मात्-तपस्विभ्य इति । कृच्छ्चान्द्रायणादितपोनिष्ठेम्यो[३२१] ज्ञानिम्यः शास्त्रज्ञानवन्द्योऽपि कर्मिभ्य इष्टा[३२२] पूर्तादि[३२३]कर्मकारिभ्योऽपि योगी श्रेष्ठोऽभिमतस्तस्मात्त्वं योगी भव ॥ ४६ ॥

 म०टी०-इदानीं सर्वयोगिश्रेष्ठं योगिनं वदन्नध्यायमुपसंहरति-

योगिनामपि सर्वेषां मद्गतेनान्तरात्मना ॥
श्रद्धावान्भजते यो मां स मे युक्ततमो मतः॥४७॥

इति श्रीमहाभारते शतसाहत्यां संहितायां वैयासिक्यां

भीष्मपर्वणि श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां

योगशास्त्रे श्रीकृष्णार्जुनसंवाद आत्मसंयम-

योगो नाम षष्ठोऽध्यायः ॥ ६॥


 योगिनां वसुरुद्रादित्यादिक्षुद्रदेवताभक्तानां सर्वेषामपि मध्ये मयि भगवति वासुदेवे पुण्यपरिपाकविशेषाद्गतेन प्रीतिवशान्निविष्टेन मद्गतेनान्तरात्मनाऽन्तःकरणेन प्राग्भवीयसंस्कारपाटवात्साधुसङ्गाच्च मद्भजन एव श्रद्धावानतिशयेन श्रद्दधानः सन्भजते सेवते सततं चिन्तयति यो मां नारायणमीश्वरेश्वरं सगुणं निर्गुणं वा मनुष्योऽयमीश्वरान्तरसाधारणोऽयमित्यादिभ्रमं हित्वा स एव मद्भक्तो योगी युक्ततमः सर्वेभ्यः समाहितचित्तेभ्यो युक्तेभ्यः श्रेष्ठो मे मम परमेश्वरस्य सर्वज्ञस्य मतो निश्चितः । समानेऽपि योगाभ्यासक्लेशे समानेऽपि भजनायासे मद्भक्तिशून्येभ्यो मद्भक्तस्यैव श्रेष्ठत्वात्त्वं मद्भक्तः परमो युक्ततमोऽनायासेन भवितुं शक्ष्यसीति भावः । तदनेनाध्यायेन कर्मयोगस्य बुद्धिशुद्धिहेतोर्मर्यादां दर्शयता ततश्च कृतसर्वकर्मसंन्यासस्य साङ्गं योगं विवृण्वता मनोनिग्रहोपायं चाऽऽक्षेपनिरासपूर्वकमुपदिशता योगभ्रष्टस्य पुरुषार्थशून्यताशङ्कां च शिथिल[३२४]यता कर्मकाण्डं त्वंपदार्थनिरूपणं च समापितम् । अतः परं श्रद्धावान्भजते यो मामिति सूचितं भक्तियोगं भजनीयं च भगवन्तं वासुदेवं तत्पदार्थं निरूपयितुमाग्रिममध्यायषट्कमारभ्यत इति शिवम् ॥ ४७ ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीविश्वेश्वरसरस्वतीपादशिष्यश्रीमधु-

सूदनसरस्वतीविरचितायां श्रीमद्भगवद्गीतागूढार्थदीपिकाया-

मध्यात्मयोगो नाम षष्ठोऽध्यायः ॥६॥

 श्री०टी०-योगिनामपि यमनियमादिपराणां मध्ये मद्भक्तः श्रेष्ठ इत्याह---- योगिनामिति ।मद्गतेन मय्यासक्तेनान्तरात्मना मनसा यो मां परमेश्वरं वासुदेवं श्रद्धायुक्तः सन्भजते स योगयुक्तेषु श्रेष्ठो मम संमतः । अतो मद्भक्तो भवे[३२५]ति भावः ॥४७॥

आत्मयोगमवोचद्यो भक्तियोगशिरोमणिम् ।
तं वन्दे परमानन्दं माधवं भक्तशेवधिम् ॥ १ ॥

इति श्रीसुबोधिन्यां टीकायां श्रीधरस्वामिविरचितायामध्यात्मयोगो नाम षष्ठोऽध्यायः ॥ ६ ॥

अथ सप्तमोऽध्यायः।

 म०टी०-यद्भक्तिं न विना मुक्तिर्यः सेव्यः सर्वयोगिना(णा)म् ।

तं वन्दे परमानन्दघनं श्रीनन्दनन्दनम् ॥

 एवं कर्मसंन्यासात्मकसाधनप्रधानेन प्रथमषट्केन ज्ञेयं त्वंपदलक्ष्यं सयोगं व्याख्यायाधुना ध्येयब्रह्मप्रतिपादनप्रधानेन मध्यमेन षट्केन तत्पदार्थो व्याख्यातव्यः । तत्रापि-


"योगिनामपि सर्वेषां मदतेनान्तरात्मना ।
श्रद्धावान्भजते यो मां स मे युक्ततमो मतः "

 इति प्रागुक्तस्य भगवद्भजनस्य व्याख्यानाय सप्तमोऽध्याय आरम्यते । तत्र कीदृशं भगवतो रूपं भजनीयं कथं वा तद्वतोऽन्तरात्मा स्यादित्येद्वयं प्रष्टव्यमर्जुनेनापृष्टमपि परमकारुणिकतया स्वयमेव विवक्षुः-

श्रीभगवानुवाच-
 मय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रयः ॥
 असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु ॥ १ ॥

 मयि परमेश्वरे सकलजगदायतनत्वादिविविधविभूतिभागिनि आसक्तं विषयान्तरपरिहारेण सर्वदा निविष्टं मनो यस्य तव स त्वम् । अत एव मदाश्रयो मदेकशरणः, राजाश्रयो भार्याद्यासक्तमनाश्च राजभृत्यः प्रसिद्धो मुमुक्षुस्तु मदाश्रयो मदासक्तमनाश्च, त्वं त्वद्विधो वा योगं युञ्जन्मनःसमाधानं षष्ठोक्तप्रकारेण कुर्वन् , असंशयं यथा भवत्येवं समग्रं सर्वविभूतिबलशक्त्यैश्वर्यादिसंपन्नं मां यथा येन प्रकारेण ज्ञास्यति तच्छृणूच्यमानं मया ॥ १ ॥

 श्री०टी०-विज्ञेयमात्मनस्तत्त्वं संयोग समुदीरितम् । भजनीयमयेदानीमैश्वरं रूपमीर्यते ॥१॥

 पूर्वाध्यायान्ते मद्गतेनान्तरात्मना यो मां भजते स मे युक्ततमो मत इत्युक्तं तत्र कीदृशस्त्वं यस्य भक्तिः कर्तव्येत्यपेक्षायां स्वस्वरूपं निरूपयिष्यश्रीभगवानुवाच-मय्यासक्तमना इति । मयि परमेश्वर आसक्तमभिनिविष्टं मनो यस्य स मदाश्रयोऽहमेवाऽऽश्रयो यस्यानन्यशरणः सन्योगं युञ्जन्नम्यसन्नसंशयं यथा भवत्येवं मां समग्रं विभूतिबलैश्चर्यादिसहितं यथा ज्ञास्यसि तदिदं मया वक्ष्यमाणं शृणु ॥ १ ॥

 म०टी०-ज्ञास्यसीत्युक्ते परोक्षमेव तज्ज्ञानं स्यादिति शङ्कां व्यावर्तयन्स्तौति श्रोतुराभिमुख्याय-

ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः ॥
यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते ॥२॥

 इदं मद्विषयं स्वतोऽपरोक्षज्ञानम् । असंभावनादिप्रतिबन्धेन फलमजनयत्परोक्षमित्युपचर्यते । असंभावनादिनिरासे तु विचारपरिपाकान्ते तेनैव प्रमाणेन जनितं ज्ञानं प्रतिबन्धाभावात्फलं जनयदपरोक्षमित्युच्यते । विचारपरिपाकनिष्पन्नत्वाच्च तदेव विज्ञानं, तेन विज्ञानेन सहितमिदमपरोक्षमेव ज्ञानं शास्त्रजन्यं ते तुभ्यमहं परमाप्तो वक्ष्यान्यशे.  षतः साधनफलादिसहितत्वेन निरवशेष कथयिष्यामि । श्रौतीमेकविज्ञानेन सर्वविज्ञानप्रतिज्ञामनुसरन्नाह-यज्ज्ञानं नित्यचैतन्यरूपं ज्ञात्वा वेदान्तजन्यमनोवृत्तिविषयीकृत्येह व्यवहारभूमौ भूयः पुनरपि अन्यत्किंचिदपि ज्ञातव्यं नावशिष्यते । सर्वाधिष्ठानसन्मात्रज्ञानेन कल्पितानां सर्वेषां बाधे सन्मात्रपरिशेषात्तन्मात्रज्ञानेनैव त्वं कृतार्थों भविष्यसीत्यभिप्रायः ॥ २ ॥

 श्री०टी०-वक्ष्यमाणं[३२६] स्तौति-ज्ञानमिति । ज्ञानं शास्त्रीयं विज्ञानमनुभवस्तत्सहितमिदं मद्विषयमशेषतः साकल्येन वक्ष्यामि । यज्ज्ञात्वे[३२७]ह श्रेयोमार्गे वर्तमानस्य पुनरन्यज्ज्ञातव्यमवशिष्टं न भवति । तेनैव कृतार्थो भवतीत्यर्थः ॥ २॥

 म०टी०-अतिदुर्लभं चैतन्मदनुग्रहमन्तरेण महाफलं ज्ञानम् । यतः-

मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये ॥
यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः ॥३॥

 मनुष्याणां शास्त्रीयज्ञानकर्मयोग्यानां(णां) सहस्त्रेषु मध्ये कश्चिदेकोऽनेकजन्मकृतसुकृतसमासादितनित्यानित्यवस्तुविवेकः सन्यतति यतते सिद्धये सत्त्वशुद्धिद्वारा ज्ञानोत्पत्तये । यततां यतमानानां ज्ञानाय सिद्धानां प्रागर्जितसुकृतानां साधकानामपि मध्ये कश्चिदेकः श्रवणमनननिदिध्यासनपरिपाकान्ते मामीश्वरं वेत्ति साक्षात्करोति तत्त्वतः प्रत्यगभेदेन तत्त्वमसीत्यादिगुरूपदिष्टमहावाक्येभ्यः । अनेकेषु मनुष्येष्वात्मज्ञानसाधनानुष्ठायी परमदुर्लभः, साधनानुष्ठायिष्वपि मध्ये फलभागी परमदुर्लभ इति किं वक्तव्यमस्य ज्ञानस्य माहात्म्यमित्यभिप्रायः ॥ ३ ॥

 श्री०टी०-मद्भक्तिं विना तु मज्ज्ञानं दुर्लभमित्याह-मनुष्याणामिति । असंख्यातानां जीवानां मध्ये मनुष्यव्यतिरिक्तानां श्रेयसि प्रवृत्तिरेव नास्ति । मनुष्या[३२८]णां [३२९]तु सहस्रेषु मध्ये कश्चिदेव प्रकृष्टपुण्यवशासिद्धय आत्मज्ञानाय [३३०]यतते । प्रयत्नं कुर्वतामपि सहस्त्रेषु कश्चिदेव प्रकृष्टपुण्यवशादात्मानं वेत्ति । तादृशानां चाऽऽत्मज्ञानसि- द्धानां सहस्रेषु कश्चिदेव मां परमात्मानं मत्प्रसादेन तत्त्वतो वेत्ति । तदेवमतिदुर्लभमपि मज्ज्ञानं तुभ्यमहं वक्ष्यामीत्यर्थः ॥ ३ ॥

 म०टी०-एवं प्ररोचनेन श्रोतारमभिमुखीकृत्याऽऽत्मनः सर्वात्मकत्वेन परिपूर्णत्वमवतारयन्नादावपरां प्रकृतिमुपन्यस्यति-

भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च ॥
अहंकार इतीयं मे भिन्ना प्रकृतिरष्टधा ॥४॥


 सांख्यैर्हि पञ्च तन्मात्राण्यहंकारो महानव्यक्तमित्यष्टौ प्रकृतयः पञ्च महाभूतानि

पञ्च कर्मेन्द्रियाणि पञ्च ज्ञानेन्द्रियाणि उभयसाधारणं मनश्चेति षोडश विकारा उच्यन्ते । एतान्येव चतुर्विशतिस्तत्त्वानि । तत्र भूमिरापोऽनलो वायुः खमिति पृथिव्यप्तेजोवाय्वाकाशाख्यपञ्चमहाभूतसूक्ष्मावस्थारूपाणि गन्धरसरूपस्पर्शशब्दात्मकानि पञ्चतन्मात्राणि लक्ष्यन्ते । बुद्ध्यहंकारशब्दौ तु स्वार्थावेव । मनःशब्देन च परिशिष्टमव्यक्तं लक्ष्यते प्रकृतिशब्दसामानाधिकरण्येन स्वार्थहानेरावश्यकत्वात् । मनःशब्देन वा स्वकारणमहंकारो लक्ष्यते पञ्चतन्मात्रसंनिकर्षात् । बुद्धिशब्दस्त्वहंकारकारणे महत्तत्त्वे मुख्यवृत्तिरेव । अहंकारशब्देन च सर्ववासनावासितमविद्यात्मकमव्यक्तं लक्ष्यते प्रवर्तकत्वाद्यसाधारणधर्मयोगाच्च । इति उक्तप्रकारेणेयमपरोक्षा साक्षिभास्यत्वात्प्रकृतिर्मायाख्या पारमेश्वरी शक्तिरनिर्वचनीयस्वमावा त्रिगुणात्मिकाऽष्टधा भिन्नाऽष्टभिः प्रकारैर्भेदमागता । सर्वोऽपि जडवर्गोऽत्रैवान्तर्भवतीत्यर्थः । स्वसिद्धान्ते चेक्षणसंकल्पात्मकौ मायापरिणामावेव बुद्ध्यहंकारौ । पञ्चतन्मात्राणि चापञ्चीकृतपञ्चमहाभूतानीत्यसकृदवोचाम ॥ ४ ॥

 श्री० टी०-एवं श्रोतारमभिमुखीकृत्येदानीं प्रकृतिद्वारा सृष्ट्यादिकर्तृत्वनेश्वरतत्त्वं प्रतिज्ञातं निरूपयिष्यन्परापरभेदेन प्रकृतिद्वयमाह भूमिरितिद्वाभ्याम्-भूम्यादिशब्दैः पञ्च गन्धादितन्मात्राण्युच्यन्ते । मनःशब्देन तत्कारणभूतोऽहंकारो बुद्धिशब्देन तत्कारणं महत्तत्त्वमहंकारशब्देन तत्कारणमविद्येत्येवमष्टधा भिन्ना । यद्वा भूम्यादिशब्दैः पञ्च महाभूतानि सूक्ष्मैः सहैकीकृत्य गृह्यन्ते । अहंकारशब्देनैवाहंकारस्तेनैव तत्कार्याणीन्द्रियाण्यपि गृह्यन्ते । बुद्धिरिति महत्तत्त्वं, मनःशब्देन तु मनसैवोन्नयमव्यक्तरूपं प्रधानमित्यनेन प्रकारेण मे प्रकृतिर्मायाख्या शक्तिरष्टधा भिन्ना विभागं प्राप्ता । चतुर्विंशतिभेदभिन्नाऽप्यष्टस्वेवान्यान्तर्भावविवक्षयाऽष्टधा भिन्नेत्युक्तम् । तथा च वक्ष्यमाणक्षेत्राध्याय इमामेव प्रकृतिं चतुर्विंशतितत्त्वात्मना प्रपञ्चयिष्यति-

“ महाभूतान्यहंकारो बुद्धिव्यक्तमेव च ।
इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः” इति ॥ ४ ॥

 म० टी०-एवं क्षेत्रलक्षणायाः प्रकृतेरपरत्वं वदन्क्षेत्रज्ञलक्षणां परां प्रकृतिमाह-

अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् ॥
जीवभूतां महाबाहो ययेदं धार्यते जगत् ॥५॥

 या प्रागष्टधोक्ता प्रकृतिः सर्वाचेतनवर्गरूपा सेयमपरा निकृष्टा जडत्वात्परार्थत्वात्संसारबन्धरूपत्वाच्च । इतस्त्वचेतनवर्गरूपायाः क्षेत्रलक्षणायाः प्रकृतेरन्यां विलक्षणां, तुशब्दाद्यथाकथंचिदप्यभेदायोग्यां जीवभूतां चेतनात्मिकां क्षेत्रज्ञलक्षणां मे ममाऽऽत्म

भूतां विशुद्धां परां प्रकृष्टां प्रकृतिं विद्धि हे महाबाहो, यया क्षेत्रज्ञलक्षणया जीवभूतयाऽन्तरनुप्रविष्टया प्रकृत्येदं जगदचेतनजातं धार्यते स्वतो विशीर्य उत्तभ्यते " अनेन जीवेनाऽऽत्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि" इति श्रुतेः । न हि जीवरहितं धारयितुं शक्यमित्यभिप्रायः ॥५॥

 श्री०टी०-अपरामिमां प्रकृतिमुपसंहरन्परां प्रकृतिमाह-अपरेति । अष्टधोक्ता या प्रकृतिरियमपरा निकृष्टा जडत्वात्परार्थत्वाच्च । इतः सकाशात्परां प्रकृष्टामन्यां जीवभू[३३१]तां जीवस्वरूपां मे प्रकृतिं विद्धि जानीहि । परत्वे हेतुः- यया चेतनया क्षेत्रज्ञरूपया स्वकर्मद्वारेणेदं जगद्धार्यते ॥५॥

 म०टी०-उक्तप्रकृतिद्वये कार्यलिङ्गकमनुमानं प्रमाणयन्वस्य तद्वारा जगत्सृष्टयादिकारणत्वं दर्शयति-

एतद्योनीनि भूतानि सर्वाणीत्युपधारय ॥
अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा ॥६॥

 एते अपरत्वेन परत्वेन च प्रागुक्ते क्षेत्रक्षेत्रज्ञलक्षणे प्रकृती योनिर्येषां तान्येतद्योनीनि भूतानि भवनधर्मकाणि सर्वाणि चेतनाचेतनात्मकानि जनिमन्ति निखिलानीत्येवमुपधारय जानीहि । कार्याणां चिदचिद्वन्थिरूपत्वात्तत्कारणमपि चिदचिरन्थिरूपमनुमिन्वित्यर्थः । एवं क्षेत्रक्षेत्रज्ञलक्षणे ममोपाधिभूते यतः प्रकृती भवतस्ततस्तद्वाराऽहं सर्वज्ञः सर्वेश्वरोऽनन्तशक्तिमायोपाधिः कृत्स्नस्य चराचरात्मकस्य जगतः सर्वस्य कार्यवर्गस्य प्रभव उत्पत्तिकारणं प्रलयस्तथा विनाशकारणम् । स्वाप्निकस्येव प्रपञ्चस्य मायिकस्य मायाश्रयत्वविषयत्वाभ्यां मायाव्यहमेवोपादानं द्रष्टा चेत्यर्थः ॥ ६ ॥

 श्री०टी०-अनयोः प्रकृतित्वं दर्शयन्स्वस्य तद्वारा सृष्टयादिकारणत्वमाह- एतदिति । एते क्षेत्रक्षेत्रज्ञरूपे प्रकृती योनी कारणभूते येषां तान्येतद्योनीनि स्थावरजङ्गमात्मकानि सर्वाणि भूतानीत्युपधारय वुध्यस्व । तत्र जडा प्रकृतिदेहरूपेण परिणमते । चेतना तु मदंशभूता भोक्तृत्वेन देहेषु प्रविश्य स्वकर्मणा तानि धारयति । ते च मदीये प्रकृती मत्तः संभूते । अतोऽहमेव कृत्स्नस्य सप्रकृतिकस्य जगतः प्रभवः प्रकर्षेण भवत्यस्मादिति प्रभवः [३३२]परं कारणमहमित्यर्थः । तथा प्रलीयतेऽनेनेति प्रलयः संहर्ताऽप्यहमे[३३३]वेत्यर्थः ॥ ६ ॥

 म०टी०-यस्मादहमेव मायया सर्वस्य जगतो जन्मस्थितिभङ्गहेतुस्तस्मात्परमार्थतः-


मत्तः परतरं नान्यत्किंचिदस्ति धनंजय ॥
मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ॥ ७ ॥

 निखिलदृश्याकारपरिणतमायाधिष्ठानात्सर्वभासकान्मत्तः सद्रूपेण स्फुरणरूपेण च सर्वानुस्यूतात्स्वप्रकाशपरमानन्दचैतन्यघनात्परमार्थ[३३४]सत्यात्स्वप्नसदृश इव स्वाप्निकं मायाविन इव मायिकं शुक्तिशकलावच्छिन्नचैतन्यादिवत्तदज्ञानकल्पितं रजतं परतरं परमार्थसत्यमन्यत्किंचिदपि नास्ति हे धनंजय । मयि कल्पितं परमार्थतो न मत्तो भिद्यत इत्यर्थः “ तदनन्यत्वमारम्भणशब्दादिभ्यः" इति न्यायात् । व्यवहारदृष्टया तु मयि सद्रूपे स्फुरणरूपे च सर्वमिदं जडजातं प्रोतं ग्रथितं मत्सत्तया सदिव मत्स्फुरणेन च स्फुरदिव व्यवहाराय मायामयाय कल्पते । सर्वस्य चैतन्यग्रथितत्वमात्रे दृष्टान्तः- सूत्रे मणिगणा इवेति । अथवा सूत्रे तैजसात्मनि हिरण्यगर्भे स्वप्नदृशि स्व[३३५]प्नप्रोता मणिगणा इवेति सर्वाशे दृष्टान्तो व्याख्येयः । अन्ये तु" परमतः सेतून्मानसंबन्धभेदव्यपदेशेभ्यः" इतिसूत्रोक्तस्य पूर्वपक्षस्योत्तरत्वेन श्लोकमिमं व्याचक्षते । मत्तः सर्वज्ञात्सर्वशक्तेः सर्वकारणात्परतरं प्रशस्यतरं सर्वस्य जगतः सृष्टिसंहारयोः स्वतन्त्रं कारणमन्यन्नास्ति हे धनंजय । यस्मादेवं तस्मान्मयि सर्वकारणे सर्वमिदं कार्यजातं प्रोतं ग्रथितं नान्यत्र । सूत्रे मणिगणा इवेति दृष्टान्तस्तु ग्रथितत्वमात्रे न तु कारणत्वे । कनके कुण्डलादिवदिति तु योग्यो दृष्टान्तः ॥ ७ ॥

 श्री०. टी०-यस्मादेवं तस्मात्-~-मत्त इति । मत्तः सकाशात्परतरं श्रेष्ठं जगतः सृष्टिसंहारयोः स्वतन्त्रं कारणं किंचिदपि नास्ति । स्थितिहेतुरप्यहमेवेत्याह- मयीति । मयि सर्वमिदं जगत्प्रोतं ग्रथितमाश्रितमित्यर्थः । दृष्टान्तः स्पष्टः ॥ ७ ॥

 म० टी०-अवादीनां रसादिषु प्रोतत्वप्रतीतेः कथं त्वयि सर्वमिदं प्रोतमिति च न शङ्कयं रसादिरूपेण ममैव स्थितत्वादित्याह पञ्चभिः-

रसोऽहमप्सु कौन्तेय प्रभाऽस्मि शशिसूर्ययोः ॥
प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु ॥ ८॥

 रसः पुण्यो मधुरस्तन्मात्ररूपः सर्वासामपां सारः कारणभूतो योऽप्सु सर्वास्वनुगतः सोऽहं हे कौन्तेय । तद्रूपे मयि सर्वा आपः प्रोता इत्यर्थः । एवं सर्वेषु पय व्याख्यातव्यम् । इयं विभूतिराध्यानायोपदिश्यत इति नातीवाभिनिवेष्टव्यम् । तथा प्रभा प्रकाशः शशिसूर्ययोरहमस्मि । प्रकाशसामान्यरूपे मयि शशिसूर्यो प्रोतावित्यर्थः । तथा प्रणव ओंकारः सर्ववेदेष्वनुस्यूतोऽहं " तद्यथा शङ्कुना सर्वाणि पर्णानि संतृष्णान्येवमोंकारेण सर्वा वाक् " इति श्रुतेः । संतृण्णानि ग्रथितानि । सर्वा वाक्सर्वो वेद


इत्यर्थः । शब्दः पुण्यस्तन्मात्ररूपः ख आकाशेऽनुस्यूतोऽहम् । पौरुषं पुरुषत्वसामान्यं नृषु पुरुषेषु यदनुस्यूतं तदहम् । सामान्यरूपे मयि सर्वे विशेषाः प्रोता: श्रौतेदुन्दुभ्यादिदृष्टान्तैरिति सर्वत्र द्रष्टव्यम् ॥ ८ ॥

 श्री०टी०-जगतः स्थितिहेतुत्वं प्रपञ्चयति रसोऽहमितिपञ्चभिः-अप्सु रसोऽहं रसतन्मात्ररूपया विभू[३३६]त्या तदाश्रयत्वेनाप्सु स्थितोऽहमित्यर्थः । तथा शशिसूर्ययोः प्रभाऽस्मि चन्द्रेऽर्के च प्रकाशरूपया विभूत्या तदाश्रयत्वेन स्थितोऽहमित्यर्थः । एवमुत्तरत्रापि द्रष्टव्यम् । सर्वेषु वेदेषु वैखरीरूपेषु तन्मूलभूतः प्रणव ओंकारोऽस्मि । ख आकाशे शब्दतन्मात्ररूपोऽस्मि । नृषु पुरुषेषु पौरुषमुद्यमोऽस्मि । उद्यमे हि पुरुषास्तिष्ठन्ति ॥ ८॥

पुण्यो गन्धः पृथिव्यां च तेजश्चास्मि विभावसौ ॥
जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु ॥ ९॥

 म०टी०--पुण्यः सुरभिरविकृतो गन्धः सर्वपृथिवीसामान्यरूपस्तन्मात्राख्यः पृथिव्यामनुस्यूतोऽहम् । चकारो रसादीनामपि पुण्यत्वसमुच्चयार्थः । शब्दस्पर्शरूपरसगन्धानां हि स्वभावत एव पुण्यत्वमविकृतत्वं प्राणिनामधर्मविशेषात्तु तेषामपुण्यत्वं न तु स्वभावत इति द्रष्टव्यम् । तथा विभावसावग्नौ यत्तेजः सर्वदहनप्रकाशनसामर्थ्यरूपमुष्णस्पर्शसहितं सितभास्वरं रूपं पुण्यं तदहमस्मि । चकाराद्यो वायौ पुण्य उष्णस्पर्शातुराणामाप्यायकः शीतस्पर्शः सोऽप्यहमिति द्रष्टव्यम् । सर्वभूतेषु सर्वेषु प्राणिषु जीवनं प्राणधारणमायुरहमस्मि, तद्रूपे मयि सर्वे प्राणिनः प्रोता इत्यर्थः । तपस्विषु नित्यं तपोयुक्तेषु वानप्रस्थादिषु यत्तपः शीतोष्णक्षुत्पिपासादिद्वंद्वसहनसामर्थ्यरूपं तदहमस्मि, तद्रूपे मयि तपस्विनः प्रोता विशेषणाभावे विशिष्टाभावात् । तपश्चेति चकारेण चित्तैकाग्र्यमान्तरं जिह्वोपस्थादिनिग्रहलक्षणं बाह्यं च सर्वं तपः समुच्चीयते ॥ ९ ॥

 श्री० टी०-किं च-पुण्य इति । पुण्योऽविकृतो गन्धो गन्धतन्मात्रं पृथिव्या आश्रयभूतमहमित्यर्थः । यद्वा विभूतिरूपेणाऽऽश्रयत्वस्य विवक्षितत्वात्सुरभिगन्धस्यैवोत्कृष्टतया विभूतित्वात्पुण्यो गन्ध इत्युक्तम् । तथा विभावसावग्नौ यत्तेजः सहजा दीप्तिस्तदहम् । सर्वभूतेषु जीवनं प्राणधारणमायुरहमित्यर्थः । तपस्विषु वानप्रस्थादिषु द्वंद्वसहनरूपं तपोऽस्मि ॥९॥

 म०. टी०.-सर्वाणि भूतानि स्वस्वबीजेषु प्रोतानि न तु त्वयीति चेन्नेत्याह-

बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम् ॥
बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनामहम् ॥ १० ॥


 यत्सर्वभूतानां स्थावरजङ्गमानामेकं बीजं कारणं सनातनं नित्यं बीजान्तरानपेक्षं न तु

प्रतिव्यक्तिभिन्नमनित्यं वा तव्याकृताख्यं सर्वबीजं मामेव विद्धि न तु मद्भिन्नं हे पार्थ । अतो युक्तमेकस्मिन्नेव मयि सर्वबीजे प्रोतत्वं सर्वेषामित्यर्थः । किं च बुद्धिस्तत्त्वातत्त्वविवेकसामर्थ्यं तादृशबुद्धिमतामहमस्मि, बुद्धिरूपे मयि बुद्धिमन्तः प्रोता विशेषणाभावे विशिष्टाभावस्योक्तत्वात् । तथा तेजः प्रागल्भ्यं पराभिभवसामर्थ्यं परैश्चानभिभाव्यत्वं तेजस्विनां तथाविधप्रागल्भ्ययुक्तानां यत्तदहमस्मि, तेजोरूपे मयि तेजस्विनः प्रोता इत्यर्थः ॥ १० ॥

 श्री०टी०-किं च-बीजमिति । सर्वेषां चराचराणां भूतानां बीजं सजातीयकार्योत्पादनसामर्थ्यं सनातनं नित्यमुत्तरोत्तरसर्वकार्येष्वनुस्यूतं तदेव बीजं मद्विभूतिं विद्धि न तु प्रतिव्यक्ति विनश्यत् । तथा बुद्धिमतां बुद्धिः प्रज्ञाऽहमस्मि । तेजस्विनां प्रगल्भानां तेजः प्रागल्भ्यमहम् ॥ १० ॥

बलं बलवतां चाहं कामरागविवर्जितम् ॥
धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ ॥ ११ ॥

म०टी०-अप्राप्तो विषयः प्राप्तिकारणाभावेऽपि प्राप्यतामित्याकारश्चित्तवृत्तिविशेषः कामः, प्राप्तो विषयः क्षयकारणे सत्यपि न क्षीयतामित्येवमाकारश्चित्तवृत्तिविशेषो रञ्जनात्मा रागस्ताभ्यां विशेषेण वर्जितं सर्वथा तदकारणं रजस्तमोविरहितं यत्स्वधर्मानुष्ठानाय देहेन्द्रियादिधारणसामर्थ्यं सात्त्विकं बलं बलवतां तादृशसात्त्विकबलयुक्तानां संसारपराङ्मुखानां तदहमस्मि, तद्रूपे मयि बलवन्तः प्रोता इत्यर्थः । चशब्दस्तुशब्दार्थो भिन्नक्रमः, कामरागविवर्जितमेव बलं मद्रूपत्वेन ध्येयं न तु संसारिणां कामरागकारणं बलमित्यर्थः । क्रोधार्थो वा रागशब्दो व्याख्येयः । धर्मो धर्मशास्त्रं तेनाविरुद्धोऽप्रतिषिद्धो धर्मानुकूलो वा यो भूतेषु प्राणिषु कामः शास्त्रानुमतजायापुत्रवित्तादिविषयोऽभिलाषः सोऽहमस्मि हे भरतर्षभ । शास्त्राविरुद्धकामभूते मयि तथाविधकामयुक्तानां भूतानां प्रोतत्वमित्यर्थः ॥ ११ ॥

 श्री०टी०-किं च-बलमिति । कामोऽप्राप्ते वस्तुन्यभिलाषो राजसः । रागः पुनरभिलषितेऽर्थे प्राप्तेऽपि पुनरधिकऽर्थे चित्तरञ्जनात्मकस्तृष्णापरपर्यायस्तामसस्ताभ्यां विवर्जितं बलवतां बलमहमस्मि । सात्त्विकं स्वधर्मानुष्ठानसामर्थ्यमहमित्यर्थः । स्वधर्मेणाविरुद्धः स्वदारेषु पुत्रोत्पत्तिमात्रोपयोगी कामोऽहम् ॥ ११ ॥

 म०टी०-किमेवं परिगणनेन-

ये चैव सात्त्विका भावा राजसास्तामसाश्च ये ॥
मत्त एवेति तान्विद्धि न त्वहं तेषु ते मयि ॥ १२ ॥

 ये चान्येऽपि भावाश्चित्तपरिणामाः सात्त्विकाः शमदमादयः । ये च राजसा हर्षदर्पादयः । ये च तामसाः शोकमोहादयः प्राणिनामविद्याकर्मादिवशाज्जायन्ते तान्मत्त एव जायमानान् इति अहं कृत्स्नस्य जगतः प्रभव इत्यायुक्तप्रकारेण विद्धि समस्तानेव । अथवा सात्त्विका राजसास्तामसाश्च भावाः सर्वेऽपि जडवर्गा व्याख्येया विशेषहेत्वभावात् । एवकारश्च समस्तावधारणार्थः । एवमपि न त्वहं तेषु, मत्तो जातत्वेऽपि तद्वशस्तद्विकाररूषितो रज्जुखण्ड इव कल्पितसर्पविकाररूषितोऽहं न भवामि संसारीव । ते तु भावा मयि रज्ज्वामिव सर्पादयः कल्पिता मदधीनसत्तास्फूर्तिका मद[३३७]धीना इत्यर्थः ॥ १२॥

 श्री०टी०- किं च-ये चेति । ये चान्येऽपि सात्त्विका भावाः शमदमादयः, राजसाश्च हर्षददियः, तामसाश्च ये शोकमोहादयः प्राणिनां स्वकर्मवशाज्जायन्ते तान्सर्वान्मत्त एव जातानि(इ)ति विद्धि मदीयप्रकृतिगुणकार्यत्वात् । एवमपि तेष्वहं न वर्ते जीववत्तदधीनोऽहं न भवामीत्यर्थः । ते तु मदधीनाः सन्तो मयि वर्तन्त इत्यर्थः ॥१२॥

 म०टी०-तव परमेश्वरस्य स्वातन्व्ये नित्यशुद्धबुद्धमुक्तस्वभावत्वे च सति कुतो जगतस्त्वदात्मकस्य संसारित्वम् । एवंविधमत्स्वरूपापरिज्ञानादिति चेत् , तदेव कुत इत्यत आह-

त्रिभिर्गुणमयैर्भावैरेभिः सर्वमिदं जगत् ॥
मोहितं नाभिजानाति मामेभ्यः परमव्ययम् ॥ १३॥

 एभिः प्रागुक्तैस्त्रिभिस्त्रिविधैर्गुणमयैः सत्त्वरजस्तमोगुणविकारैर्भावैः सर्वैरपि भवनधर्मभिः सर्वमिदं जगत्प्राणिजातं मोहितं विवेकायोग्यत्वमापादितं सदेभ्यो गुणमयेभ्यो मावेभ्यः परमेषां कल्पनाधिष्ठानमत्यन्तविलक्षणमव्ययं सर्वविक्रियाशून्यमप्रपञ्चमानन्दघनमात्मप्रकाशमव्यवहितमपि मां नाभिजानाति । ततश्च स्वरूपापरिचयात्संसरतीवे. त्यहो दौर्भाग्यमविवेकिजनस्येत्यनुक्रोशं दर्शयति भगवान्[३३८] ॥ १३ ॥

 श्री०टी०-एवंभूतं त्वां परमेश्वरमयं जनः किमिति न जानातीत्यत आह- त्रिभिरिति । त्रिभिस्त्रिविधैरेभिः पूर्वोक्तैः कामलोभादिभिर्गुणमयैर्गुणविकारैर्भावैः स्वभावैर्मोहितमिदं जगत् । अतो मां नाभिजानाति । कथंभूतम् , एभ्यो भावेभ्यः परमेमिरसंस्पृष्टमेतेषां नियन्तारम् । अत एवाव्ययं निर्विकारमित्यर्थः ॥ १३ ॥

 म०टी०----ननु यथोक्तानादिसिद्धमायागुणत्रयबद्धस्य जगतः स्वातन्त्र्याभावेन तत्परिवर्जनासामर्थ्यान्न कदाचिदपि मायातिक्रमः स्याद्वस्तुविवेकासामर्थ्यहेतोः सदातनत्वादित्याशङ्कय भगवदेकशरणतया तत्त्वज्ञानद्वारेण मायातिक्रमः संभवतीत्याह-


दैवी ह्येषा गुणमयी मम माया दुरत्यया ॥
मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ॥ १४ ॥

 दैवी, “एको देवः सर्वभूतेषु गूढः" इत्यादिश्रुतिप्रतिपादिते स्वतोद्योतनवति देवे स्वप्रकाशचैतन्यानन्दे निर्विभागे तदाश्रयतया तद्विषयतया च कल्पिता “ आश्रयत्वविषयत्वभागिनी निर्विभागचितिरेव केवला" इत्युक्तेः । एषा साक्षिप्रत्यक्षत्वेनापलापानर्हा । हिशब्दाद्भ्रमोपादानत्वादर्थापत्तिसिद्धा च । गुणमयी सत्त्वरजस्तमोगुणत्रयात्मिका । त्रिगुणरज्जुरिवातिदृढत्वेन बन्धनहेतुः, मम मायाविनः परमेश्वरस्य सर्वजगत्कारणस्य सर्वज्ञस्य सर्वशक्तेः स्वभूता स्वाधीनत्वेन जगत्सृष्ट्वादिनिर्वाहिका, माया तत्त्वप्रतिभासप्रतिबन्धेनातत्त्वप्रतिभासहेतुरावरणविक्षेपशक्तिद्वयवत्यविद्या सर्वप्रपञ्चप्रकृतिः " मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् ” इति श्रुतेः । अत्रैवं प्रक्रियाजीवेश्वरजगद्विभागशून्ये शुद्धे चैतन्येऽध्यस्ताऽनादिरविद्या सत्त्वप्राधान्येन स्वच्छा दर्पण इव मुखाभासं चिदाभासमागृह्णाति । ततश्च बिम्बस्थानीयः परमेश्वर उपाधिदोषानास्कन्दितः प्रतिबिम्बस्थानीयश्च जीव उपाधिदोषास्कन्दितः । ईश्वराच्च जीवमोगायाऽऽकाशादिक्रमेण शरीरेन्द्रियसंघातस्तद्भोग्यश्च कृत्स्नः प्रपञ्चो जायत इति कल्पना भवति । बिम्बप्रतिबिम्बमुखानुगतमुखवच्चेशजीवानुगतं मायोपाधि चैतन्यं साक्षीति कल्प्यते । तेनैव च स्वाध्यस्ता माया तत्कार्यं च कृत्स्नं प्रकाश्यते । अतः साक्ष्यभिप्रायेण देवीति बिम्बेश्वराभिप्रायेण तु ममेति भगवतोक्तम् । यद्यप्यविद्याप्रतिबिम्ब एक एव जीवस्तथाऽप्यविद्यागतानामन्तःकरणसंस्काराणां भिन्नत्वात्तद्भेदेनान्त:- करणोपास्तस्यात्र भेदव्यपदेशो मामेव ये प्रपद्यन्ते दुष्कृतिनो मूढा न प्रपद्यन्ते चतुर्विधा भजन्ते मामित्यादिः । श्रुतौ च " तद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत्तथर्षीणां तथा मनुष्याणाम् ” इत्यादिः । अन्तःकरणोपाधिभेदापर्यालोचने तु जीवत्वप्रयोजकोपाधेरेकत्वादेकत्वेनैवात्र व्यपदेशः "क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु" "प्रकृतिं पुरुषं चैव विद्धयनादी उभावपि” “ममैवांशो जीवलोके जीवभूतः सनातनः" इत्यादिः। श्रुतौ च "ब्रह्म वा इदमग्र आसीत्तदात्मानमेवावेदहं ब्रह्मास्मीति तस्मात्तत्सर्वमभवत्", एको देवः सर्वभूतेषु गूढः, "" अनेन जीवेनाऽऽत्मनाऽनुप्रविश्य,"

"वालाग्रशतभागस्य शतधा कल्पितस्य च ।
भागो जीवः स विज्ञेयः स चाऽऽनन्त्याय कल्पते "

 इत्यादिः । यद्यपि दर्पणगतश्चैत्रप्रतिबिम्बः स्वं परं च न जानात्यचेतनांशस्यैव तत्र प्रतिबिम्बितत्वात्तथाऽपि चित्प्रतिबिम्बश्चित्त्वादेव स्वं परं च जानाति, प्रतिबिम्बपक्षे बिम्बचैतन्य एवोपाधिस्थत्वमात्रस्य कल्पितत्वात् , आभासपक्षे तस्यानिर्वचनीयत्वेऽपि जडविलक्षणत्वात् । स च यावत्स्वबिम्बैक्यमात्मनो न जानाति तावज्जलसूर्य इव जलग तकम्पादिकमुपाधिगतं विकारसहस्त्रमनुभवति । तदेतदाह-दुरत्ययेति । बिम्बभूतेश्वरैक्यसाक्षात्कारमन्तरेणात्येतुं तरितुमशक्येति दुरत्यया । अत एव जीवोऽन्तःकरणावच्छिन्नत्वात्तत्संबद्धमेवाक्ष्यादिद्वारा भासयन्किंचिज्ज्ञो भवति । ततश्च जानामि करोमि भुञ्जे चेत्यनर्थशतभाजनं भवति । स चेद्विम्बभूतं भगवन्तमनन्तशक्तिं मायानियन्तारं सर्वविदं सर्वफलदातारमनिशमानन्दधनमूर्तिमनेकानवतारान्भक्तानुग्रहाय विदधतमाराधयति परमगुरुमशेषकर्मसमर्पणेन तदा बिम्बसमर्पितस्य प्रतिबिम्बे प्रतिफलनात्सर्वानपि पुरुषार्थानासादयति । एतदेवाभिप्रेत्य प्रह्लादेनोक्तम् -

" नैवाऽऽत्मनः प्रभुरयं निजलाभपूर्णो
 मानं जनादविदुषः करुणो वृणीते ।
यद्यज्जनो भगवते विदधीत मानं
 तच्चाऽऽत्मने प्रतिमुखस्य यथा मुखश्रीः " इति ॥

 दर्पणप्रतिविम्बितस्य मुखस्य तिलकादिश्रीरपेक्षिता चेद्विम्बभूते मुखे समर्पणीया । सा स्वयमेव तत्र प्रतिफलति नान्यः कश्चित्तत्प्राप्तावुपायोऽस्ति यथा तथा बिम्बभूतेश्वरे समर्पितमेव तत्प्रतिबिम्बभूतो जीवो लभते नान्यः कश्चित्तस्य पुरुषार्थलाभेऽस्त्युपाय इति दृष्टा[३३९]न्तदार्ष्टान्तिकयोरर्थः । तस्य यदा भगवन्तमनन्तमनवरतमाराधयतोऽन्तःकरणं ज्ञाप्रतिबन्धकपापेन रहितं ज्ञानानुकूलपुण्येन चोपचितं भवति तदाऽतिनिर्मले मुकुरमण्डल इव मुखमतिस्वच्छेऽन्तःकरणे सर्वकर्मत्यागशमदमादिपूर्वकगुरूपसदनवेदान्तवाक्यश्रवणमनननिदिध्यासनैः संस्कृते तत्त्वमसीतिगुरूपदिष्टवेदान्तवाक्यकरणिकाऽहं ब्रह्मास्मीत्यनात्माकारशून्या निरुपाधिचैतन्याकारा साक्षात्कारात्मिका वृत्तिरुदेति । तस्यां च प्रतिफलितं चैतन्यं सद्य एव स्वविषयाश्रयामविद्यामुन्मूलयति दीप इव तमः । ततस्तस्या नाशात्तया वृत्त्या सहाखिलस्य कार्यप्रपञ्चस्य नाशः, उपादाननाशादुपादेयनाशस्य सर्वतन्त्रसिद्धान्तसिद्धत्वात् । तदेतदाह भगवान् - " मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते " इति । आत्मेत्येवोपासीत तदात्मानमेवावेत्तमेव धीरो विज्ञाय तमेव विदित्वाऽति मृत्युमेतीत्यादिश्रुतिष्विवेहापि मामेवेत्येवकारोऽप्यनुपरक्तताप्रतिपत्त्यर्थः । मामेव सर्वोपाधिविरहितं चिदानन्दसदात्मानमखण्डं ये प्रपद्यन्ते वेदान्तवाक्यजन्यया निर्विकल्पकसाक्षात्काररूपया निर्वचनानर्हशुद्धचिदाकारत्वधर्मविशिष्टया सर्वसुकृतफलमूतया निदिध्यासनपरिपाकप्रसूतया चेतोवृत्त्या सर्वाज्ञानतत्कार्यविरोधिन्या विषयी कुर्वन्ति ते ये केचिदेतां दुरतिक्रमणीयामपि मायामखिलानर्थजन्मभुवमनायासेनैव तरन्ति अतिक्रामन्ति "तस्य ह न देवाश्चनाभूत्या ईशत आत्मा ह्येषां स भवति" इति श्रुतेः । सर्वोपाधिनिवृत्त्या सच्चिदानन्दघनरूपेणैव तिष्ठन्तीत्यर्थः । बहुवचनप्रयोगो देहेन्द्रि[३४०]यादिसंघातभे-


दनिबन्धनात्मभेदभ्रान्त्यनुवादार्थः। प्रपश्यन्तीति वक्तव्ये प्रपद्यन्त इत्युक्तेर्ये मदेकशरणाः सन्तो मामेव भगवन्तं वासुदेवमीदृशमनन्तसौन्दर्यसारसर्वस्वमखिलकलाकलापनिलयमभिनव[३४१]जलदशोभासर्वस्वहरणचरणं परमानन्दघनमयमूर्तिमतिवैरिञ्चप्रपञ्चमनवरतमनुचिन्तयन्तो दिवसानतिवाहयन्ति ते मत्प्रेममहानन्दसमुद्रमग्नमनस्तया समस्तमायागुणविकारैर्नाभिभूयन्ते । किं तु मद्विलासविनोदकुशला एते मदुन्मूलनसमर्था इति शङ्कमानेव माया तेभ्योऽपसरति वारविलासिनीव क्रोधनेभ्यस्तपोधनेभ्यस्तस्मान्मायातरणार्थी मामीदृशमेव संततमनुचिन्तयेदित्यप्यभिप्रेतं भगवतः। श्रुतयः स्मृतयश्चात्रार्थे[३४२] प्रमाणीकर्तव्याः ॥१४॥

 श्री० टी०-के तर्हि त्वां जानन्तीत्यत आह-दैवी हीति । दैव्यलौकिक्य त्यद्भुतेत्यर्थः । गुणमयी सत्त्वादिगुणविकारात्मिका मम परमेश्वरस्य शक्तिर्माया दुरत्यया दुस्तरा हि प्रसिद्धमेतत् । तथाऽपि ये मामेवाव्यभिचारिण्या भक्त्या प्रपद्यन्ते भजन्ति ते मायामेतां दुस्तरामपि तरन्ति । ततो मां जानन्तीति भावः ॥ १४ ॥

 म०टी०-यद्येवं तर्हि किमिति निखिलानर्थमूलमायोन्मूलनाय भगवन्तं भवन्तमेव सर्वे न प्रतिपद्यन्ते चिरसंचितदुरितप्रतिबन्धादित्याह भगवान्-

न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः ॥
माययाऽपहृतज्ञाना आसुरं भावमाश्रिताः ॥ १५॥

 दुष्कृतिनो दुष्कृतेन पापेन सह नित्ययोगिनः । अत एव नरेषु मध्येऽधमा इह साधुभिर्गर्हणीयाः परत्र चानर्थसहस्रभाजः । कुतो दुष्कृतमनर्थहेतुमेव सदा कुर्वन्ति यतो मूढा इदमर्थसाधनमिदमनर्थसाधनमितिविवेकशून्याः । सति प्रमाणे कुतो न विविश्वन्ति यतो माययाऽपहृतज्ञानाः शरीरेन्द्रियसंघाततादात्म्यभ्रान्तिरूपेण परिणतया मायया पूर्वोक्तयाऽपहृतं प्रतिबद्धं ज्ञानं विवेकसामर्थ्यं येषां ते तथा । अत एव ते दम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव चेत्यादिनाऽग्रे वक्ष्यमाणमासुरं भावं हिंसानृतादिस्वभावमाश्रिता मत्प्रतिपत्त्ययोग्याः सन्तो न मां सर्वेश्वरं प्रपद्यन्ते न भजन्ते । अहो दौर्भाग्य तेषामित्यभिप्रायः ॥ १५ ॥

 श्री०टी०-किमिति तर्हि सर्वे त्वामेव न भजन्ति तत्राऽऽह-न मामिति । नरेषु येऽधमास्ते मां न प्रपद्यन्ते न भजन्ति । अधमत्वे हेतुः-मूढा विवेकशून्याः । तत्कृतः-दुष्कृतिनः पापशीलाः । अतो माययाऽपहृतं निरस्तं शास्त्राचार्योपदेशाभ्यां जातमपि ज्ञानं येषां ते । अत एव दम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव चेत्यादिना वक्ष्यमाणमासुरं भावं स्वभावं प्राप्ताः सन्तो न भजन्ति ॥ १५ ॥


 म० टी०-ये त्वासुरभावरहिताः पुण्यकर्माणो विवेकिनस्ते पुण्यकर्मतारतम्येन चतुर्विधाः सन्तो मां भजन्ते क्रमेण च कामनाराहित्येन मत्प्रसादान्मायां तरन्तीत्याह----

चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन ॥
आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ॥१६॥

 ये सुकृतिनः पूर्वजन्मकृतपुण्यसंचया जनाः सफलजन्मानस्त एव नान्ये ते मां भजन्ते सेवन्ते हेऽर्जुन । ते च त्रयः सकामा एकोऽकाम इत्येवं चतुर्विधाः[३४३] । आर्त आर्त्या शत्रुव्याध्याद्यापदा प्रस्तस्तन्निवृत्तिमिच्छन् । यथा मखमङ्गेन कुपित इन्द्रे वर्षति ब्रजवासी जनः, यथा वा जरासंधकारागारवर्ती राजनिचयः, द्यूतसभायां वस्त्राकर्षणे द्रौपदी च, ग्राहग्रस्तो गजेन्द्रश्च । जिज्ञासुरात्मज्ञानार्थी मुमुक्षुः। यथा मुचकुन्दः, यथा वा मैथिलो जनकः श्रुतदेवश्च, निवृत्ते मौसले यथा चोद्धवः । अर्थार्थी, इह वा परत्र वा यद्भोगोपकरणं तल्लिप्सः । तत्रेह यथा सुग्रीवो विभीषणश्च, यथा चोपमन्युः परत्र यथा ध्रुवः । एते त्रयोऽपि भगवद्भजनेन मायां तरन्ति । तत्र जिज्ञासुर्ज्ञानोत्पत्त्या साक्षादेव मायां तरति आर्तोऽर्थार्थी च जिज्ञासुत्वं प्राप्येति विशेषः । आर्तस्यार्थिनश्च जिज्ञासुत्वसंभवाज्जिज्ञासोश्वाऽऽर्तत्वज्ञानोपकरणार्थित्वसंभवादुभयोर्मध्ये जिज्ञासुरुद्दिष्टः । तदेते त्रयः सकामा व्याख्याताः । निष्कामश्चतुर्थ इदानीमुच्यते-ज्ञानी च, ज्ञानं भगवत्तत्त्वसाक्षात्कारस्तेन नित्ययुक्तो ज्ञानी तीर्णमायो निवृत्तसर्वकामः । चकारो यस्य कस्यापि निष्कामप्रेमभक्तस्य ज्ञानिन्यन्तर्भावार्थः । हे भरतर्षभ त्वमपि जिज्ञासुर्वा ज्ञानी वेति कतमोऽहं भक्त इति मा शङ्किष्ठा इत्यर्थः । तत्र निष्कामभक्तो ज्ञानी यथा सनकादिर्यथा नारदो यथा प्रह्लादो यथा पृथुर्यथा वा शुकः। निष्कामः शुद्धप्रेमभक्तो यथा गोपिकादिर्यथा वाऽक्रूरयुधिष्ठिरादिः । कंसशिशुपालादयस्तु भयाद्वेषाच्च संततभगवच्चिन्तापरा अपि न भक्ता भगवदनुरक्तेरभावात् । भगवदनुरक्तिरूपायास्तु भक्तेः स्वरूपं साधनं भेदास्तथा भक्तानामपि भगवद्भक्तिरसायनेऽस्माभिः सविशेष प्रपञ्चिता इतीहोपरम्य[३४४]ते॥१६॥

 श्री० टी०-सुकृतिनस्तु मां भजन्ति ते च सुकृततारतम्येन चतुर्विधा इत्याह- चतुर्विधा इति । पूर्वजन्मसु ये कृतपुण्या जनास्ते मां भजन्ति ते चतुर्विधाः । आर्तो रोगाद्यभिभूतः । स यदि पूर्व कृतपुण्यस्तर्हि मां भजति अन्यथा क्षुद्रदेवताभजनेन


संसरति । एवमुत्तरत्रापि द्रष्टव्यम् । जिज्ञासुरात्मज्ञानेच्छुः । अर्थार्थी, अत्र वा परत्र वा भोगसाधनभूतार्थलिप्सुः । ज्ञानी चाऽऽत्मवित् ॥ १६ ॥

 म०टी०-चतुर्विधानामपि सुकृतित्वे नियतेऽपि सुकृताधिक्येन निष्कामतया प्रेमाधिक्यात्-

तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते ॥
प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः ॥१७॥

चतुर्विधानां तेषां मध्ये ज्ञानी तत्त्वज्ञानवानिवृत्तसर्वकामो विशिष्यते सर्वतोऽतिरिच्यते सर्वोत्कृष्ट इत्यर्थः । यतो नित्ययुक्तो भगवति प्रत्यगमिन्ने सदा समाहितचेता विक्षेपकाभावात् । अत एवैकभक्तिरेकस्मिन्भगवत्येव भक्तिरनुरक्तिर्यस्य स तथा, तस्यानुरक्तिविषयान्तराभावात् । हि यस्मात्प्रियो निरुपाधिप्रेमास्पदमत्यर्थमत्यन्तातिशयेन ज्ञानिनोऽहं प्रत्यगभिन्नः परमात्मा च तस्मादत्यर्थं स मम परमेश्वरस्य प्रियः। आत्मा प्रियोऽतिशयेन भवतीति श्रुतिलोकयोः प्रसिद्धमेवेत्यर्थः ॥ १७ ॥

 श्री० टी०-तेषां मध्ये ज्ञानी श्रेष्ठ इत्याह-तेषामिति । तेषां मध्ये ज्ञानी विशिष्टः । तत्र हेतवः-नित्ययुक्तः सदा मन्निष्ठः । एकस्मिन्मय्येव भक्तिर्यस्य सः। ज्ञानिनो देहाद्यभिमानाभावेन चित्तविक्षेपाभावान्नित्ययुक्तत्वमेकान्तभक्तिश्च संभवति नान्यस्य । अत एव हि तस्याहमत्यन्तं प्रियः । स च मम । तस्मादेतैर्नित्ययुक्तत्वादिभिश्चतुर्हेतुभिः स उत्तम इत्यर्थः ॥ १७ ॥

 म०टी०--तत्किमार्तादयस्तव न प्रियाः, न, अत्यर्थमिति विशेषणादित्याह-

उदाराः सर्व एवैते ज्ञानी त्वात्मैव मे मतम् ॥
आस्थितः स हि युक्तात्मा मामेवानुत्तमां गतिम्॥१८॥

 एत आर्तादयः सकामा अपि मद्भक्ताः सर्वे त्रयोऽप्युदारा एवोत्कृष्टा एवं पूर्वजन्मार्जितानेकसुकृतराशित्वात् । अन्यथा हि मां न भजेयुरेव, आर्तस्य जिज्ञासोरार्थिनश्च मद्विमुखस्य क्षुद्रदेवताभक्तस्यापि बहुलमुपलम्भात् । अतो मम प्रिया एव ते । न हि ज्ञानवानज्ञो वा कश्चिदपि भक्तो ममाप्रियो भवति । किं तु यस्य यादृशी मयि प्रीतिर्ममापि तत्र तादृशी प्रीतिरिति स्वभावसिद्धमेतत् । तत्र सकामानां त्रयाणां काम्यमानमपि प्रियमहमपि प्रियः, ज्ञानिनस्तु प्रियान्तरशून्यस्याहमेव निरतिशयप्रीतिविषयः । अतः सोऽपि मम निरतिशयप्रीतिविषय इति विशेषः । अन्यथा हि मम कृतज्ञता न स्यात्कृतघ्नता च स्यात् । अत एवात्यर्थमिति विशेषणमुपात्तं प्राक् । यथा हि " यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति" इत्यत्र तरवर्थस्य विवक्षितत्वाद्विद्यादिन्यतिरेकेण कृतमपि कर्म वीर्यवद्भवत्येव, तथाऽत्यर्थ ज्ञानी भक्तो मम प्रिय इत्युक्तेर्थो ज्ञानव्यतिरेकेण भक्तः सोऽपि प्रिय इति पर्यवस्यत्येव, अत्यर्थमिति विशेषणस्य विवक्षितत्वात् । उक्त हि-"ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम्" इति । अतो मामात्मत्वेन ज्ञानवाञ्ज्ञानी, आत्मैव न मत्तो भिन्नः किं त्वहमेव स इति मम मतं निश्चयः । तुशब्दः सकामभेददर्शित्रितयापेक्षया निष्कामत्वमेदार्शित्वविशेषद्योतनार्थः । हि यस्मात्स ज्ञानी युक्तात्मा सदा मयि समाहितचित्तः सन्मां भगवन्तमनन्तमानन्दधनमात्मानमेवानुत्तमां सर्वोत्कृष्टां गतिं गन्तव्यं परमं फलमास्थितोऽङ्गीकृतवान् , न तु मद्भिन्नं किमपि फलं स मन्यत इत्यर्थः ॥ १८ ॥

 श्री०टी०--तर्हि किमितरे त्रयस्त्वद्भक्ताः संसरन्ति नहि नहीत्याह-उदारा इति । सर्वेऽप्येत उदारा महान्तो मोक्षमाज एवेत्यर्थः । ज्ञानी पुनरात्मैवेति मे मतं निश्चयः । हि यस्मात्स ज्ञानी युक्तात्मा मदेकचित्तः सन्न विद्यत उत्तमा यस्यास्तामनुत्तमा सर्वोत्तमां गति मामेवाऽऽस्थित आश्रितवान् । मव्द्यतिरिक्तमन्यत्फलं न मन्यत इत्यर्थः ॥ १८॥

 म०टी०-यस्मादेवं तस्मात्-

बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते ॥
वासुदेवः सर्वमिति स महात्मा सुदुर्लभः ॥ १९ ॥

 बहूनां जन्मनां किंचित्किंचित्पुण्योपचयहेतूनामन्ते चरमे जन्मनि सर्वसुकृतविपाकरूपे वासुदेवः सर्वमिति ज्ञानवान्सन्मां निरुपाधिप्रेमास्पदं प्रपद्यते सर्वदा समस्तप्रेमविषयत्वेन भजते , सकलमिदमहं च वासुदेव इति दृष्ट्या सर्वप्रेम्णां मस्येव पर्यवसायित्वात् । अतः स एवंज्ञानपूर्वकमद्भक्तिमान्महात्माऽत्यन्तशुद्धान्तःकरणत्वाज्जीवन्मुक्तः सर्वोत्कृष्टो न तत्समोऽन्योऽस्ति अधिकस्तु नास्त्येव । अतः सुदुर्लभो मनुष्याणां संहस्रेषु दुःखेनापि लब्धुमशक्यः । अतः स निरतिशयमत्प्रीतिविषय इति युक्तमेवेत्यर्थः ॥ १९॥

 श्री०टी०-एवंभूतो मद्भक्तोऽतिदुर्लभ इत्याह-बहूनामिति । बहूनां जन्मनां किंचित्किंचित्पुण्योपचयेनान्ते चरमे जन्मनि ज्ञानवान्सर्वमिदं चराचरं वासुदेव एवेति सर्वात्मदृष्टया मां प्रपद्यते भजति । अतः स महात्माऽपरिच्छिन्नदृष्टिः सुदुर्लभः ॥ १९ ॥

 म०टी०-तदेवमार्तादिभक्तत्रयापेक्षया ज्ञानिनो भक्तस्योत्कर्षस्तेषां ज्ञानी नित्ययुक्त एकभक्तिविशिष्यत इत्यत्र प्रतिज्ञातो व्याख्यातः । अधुना तु सकामत्वे भेद दर्शित्वे च समेऽपि देवतान्तरमक्तापेक्षयाऽऽर्तादीनां त्रयाणां स्वभक्तानामुत्कर्ष उदाराः सर्व एवैत इत्यत्र प्रतिज्ञातो भगवता व्याख्यायते यावदध्यायसमाप्ति । समानेऽप्यायासे सकामत्वे भेददर्शित्वे च मद्भक्ता भूमिकाक्रमेण सर्वोत्कृष्टं मोक्षाख्यं फलं लभन्ते । क्षुद्रदेवताभक्तास्तु क्षुद्रमेव पुनःपुनःसंसरणरूपं फलम् । अतः सर्वेऽप्यार्ता जिज्ञासवोऽर्थार्थिनश्च मामेव प्रपन्नाः सन्तोऽनायासेन सर्वोत्कृष्टं मोक्षाख्यं फलं लभन्तामित्यभिप्रायः परमकारुणिकस्य भगवतः । तत्र परमपुरुषार्थफलमपि भगवद्भजनमुपेक्ष्य क्षुद्रफले क्षुद्रदेवताभजने पूर्ववासनाविशेष एवासाधारणो हेतुरित्याह-

कामैस्तैस्तैर्ह्रतज्ञानाः प्रपद्यन्तेऽन्यदेवताः ॥
तं तं नियममास्थाय प्रकृत्या नियताः स्वया ॥२०॥

 मोहनस्तम्भनाकर्षणवशीकरणमारणोच्चाटनादिविषयैर्भगवत्सेवया लब्धुमशक्यत्वेनाभिमतैस्तैस्तैः क्षुद्रैः कामैरभिलाषैर्त्दृतमपदृतं भगवतो वासुदेवाद्विमुखीकृत्य तत्तत्फलदातृत्वाभिमतक्षुद्रदेवताभिमुख्यं नीतं ज्ञानमन्तःकरणं येषां तेऽन्यदेवता भगवतो वासुदेवादन्याः क्षुद्रदेवतास्तं तं नियमं जपोपवासप्रदक्षिणानमस्कारादिरूपं तत्तद्देवताराधने प्रसिद्धं नियममास्थायाऽऽश्रित्य प्रपद्यन्ते भजन्ते तत्तत्क्षुद्रफलप्राप्तीच्छया । क्षुद्रदेवतामध्येऽपि केचित्कांचिदेव भजन्ते स्वया प्रकृत्या नियता असाधारणया पूर्वाभ्यासवासनया वशीकृताः सन्तः ॥ २० ॥

 श्री०टी०-तदेवं कामिनोऽपि सन्तः कामप्राप्तये परमेश्वरमेव ये भजन्ति ते कामान्प्राप्य शनैर्मुच्यन्त इत्युक्तम् । ये त्वत्यन्तं राजसास्तामसाश्च कामाभिभूताः क्षुद्रदेवताः सेवन्ते ते संसरन्तीत्याह कामैरिति चतुभिः-*तैस्तैः पुत्रकीर्तिशत्रुजयादिविषयः कामैरपहृतविवेकाः सन्तोऽन्याः क्षुद्रा भूतप्रेतयक्षादिदेवता भजन्ति । किं कृत्वा तत्तदेवताराधने यो यो नियम उपवासादिलक्षणस्तं तं नियम स्वीकृत्य । तत्रापि स्वकीयया प्रकृत्या पूर्वाभ्यासवासनया नियता वशीकृताः सन्तः ॥ २० ॥

 म० टी०-तत्तद्देवताप्रसादात्तेषामपि सर्वेश्वरे भगवति वासुदेवे भक्तिर्भविष्यतीति न शङ्कनीयं, यतः-

यो यो यां यां तनुं भक्तः श्रद्धयाऽर्चितुमिच्छति ॥
तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् ॥२१॥

 तेषां मध्ये यो यः कामी यां यां तनुं देवतामूर्ति श्रद्धया जन्मान्तरवासनाबलप्रादुर्भूतया भक्त्या संयुक्तः सन्नर्चितुमर्चयितुमिच्छति प्रवर्तते । चौरादिकस्यायर्चयतेणिजभावपक्षे रूपमिदम् । तस्य तस्य कामिनस्तामेव देवतातनुं- प्रति श्रद्धां पूर्ववासनावशा-


  • सर्वपुस्तकेषु तैरियतः प्राग्ये विति वर्तते तदसंबद्धत्वादुपेक्षितम् ।

त्प्राप्तां भक्तिमचलां स्थिरां विदधामि करोम्यहमन्तर्यामी, न तु मद्विषयां श्रद्धां तस्य तस्य करोमीत्यर्थः । तामेव श्रद्धामिति व्याख्याने यच्छब्दानन्वयः स्पष्टस्तस्मात्प्रतिशब्दमध्यात्हत्य व्याख्यातम् ॥ २१ ॥

 श्री०टी०--देवताविशेष ये भजन्ति तेषां मध्ये यो यो यामिति । यो यो भक्तो यां यां तनुं देवतारूपां मदीयामेव मूर्ति श्रद्धयाऽर्चितुमिच्छति प्रवर्तते तस्य तस्य भक्तस्य तत्तन्मूर्तिविषयां तामे श्रद्धामचलां दृढामहमन्तर्यामी विदधामि करोमि ॥२१॥

स तया श्रद्धया युक्तस्तस्या राधनमीहते ॥
लभते च ततः कामान्मयैव विहितान्हि तान् ॥२२॥

स कामी तया मद्विहितया स्थिरया श्रद्धया युक्तस्तस्या देवतातन्वा राधनमाराधनं पूजनमीहते निर्वतयति । उपसर्गरहितोऽपि राधयतिः पूजार्थः । सोपसर्गत्वे ह्याकारः श्रूयेत । लभते च ततस्तस्या देवतातन्वाः सकाशात्कामानीप्सितांस्तान्पूर्वसंकल्पितान्हि प्रसिद्धम् । मयैव सर्वज्ञेन सर्वकर्मफलदायिना तत्तद्देवतान्तर्यामिणा विहितांस्तत्तत्फलविपाकसमये निर्मितान् । हितान्मनःप्रियानित्यैकपद्य वा । अहितत्वेऽपि हिततया प्रतीयमानानित्यर्थः ॥ २२ ॥

 श्री०टी०-ततश्च-स तयेति । स भक्तस्तया दृढया श्रद्धया तस्यास्तनो राधनमाराधनमीहते करोति । ततश्च ये संकल्पिताः कामास्तान्कामांस्ततो देवताविशेषाल्लभते । किं तु मयैव तत्तद्देवतान्तर्यामिणा विहितान्निमितान्हि स्फुटमेतत्तत्तद्देवतानामपि मदधीनत्वान्मन्मूर्तित्वाच्चेत्यर्थः ॥ २२ ॥

 म०टी०-यद्यपि सर्वा अपि देवताः सर्वात्मनो ममैव तनवस्तदाराधनमपि वस्तुतो मदाराधनमेव, सर्वत्रापि च फलदाताऽन्तर्याम्यहमेव, तथाऽपि साक्षान्मद्भक्तानां च तेषां च वस्तुविवेकाविवेककृतं फलवैषम्यं भवतीत्याह-

अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम् ॥
देवान्देवयजो यान्ति मद्भक्ता यान्ति मामपि ॥२३॥

 अल्पमेधसां मन्दप्रज्ञत्वेन वस्तुविवेकासमर्थानां तेषां तत्तद्देवताभक्तानां तन्मया विहितमपि तत्तद्देवताराधननं फलमन्तवदेव विनाश्येव न तु मद्भक्तानां विवेकिनामिवानन्तं फलं तेषामित्यर्थः । कुत एवं यतो देवानिन्द्रादीनन्तवत एव देवयजो मदन्यदेवताराधनपरा यान्ति प्राप्नुवन्ति । मद्भक्तास्तु त्रयः सकामाः प्रथम मत्प्रसादादीष्टान्कामान्प्राप्नुवन्ति । अपिशब्दप्रयोगात्ततो मदुपासनापरिपाकान्मामनन्तमानन्दघनमीश्वरमपि यान्ति प्राप्नुवन्ति । अतः समानेऽपि सकामत्वे मद्भक्तानामन्यदेवताभक्तानां च महदन्तरम् । तस्मात्साधूक्तमुदाराः सर्व एवैत इति ॥ २३ ॥ ..  श्री० टी०-तदेवं यद्यपि सर्वा अपि देवता ममैव मूर्तयोऽतस्तदाराधनमपि वस्तुतो मदाराधनमेवाहमेव च तत्र फलदाताऽपि तथाऽपि तु साक्षान्मद्भक्तानां च तेषां च फलवैषम्यं भवतीत्याह-अन्तवत्तिति । अल्पमेधसां परिच्छिन्नदृष्टीनां मया दत्तमपि तत्फलमन्तवत्तु विनाशि भवति । तदेवाऽऽह-देवान्यजन्तीति देवयजस्ते देवानन्तवतो यान्ति । मद्भक्तास्तु मामनाद्यन्तं परमानन्दं प्राप्नुवन्ति ॥ २३ ॥

 म०टी०एवं भगवद्भजनस्य सर्वोत्तमफलत्वेऽपि कथं प्रायेण प्राणिनो भगव-

इत्यत्र हेतुमाह भगवान्----

अव्यक्तं व्यक्तिमापन्नं मन्यन्ते मामबुद्धयः॥
परं भावमजानन्तो ममाव्ययमनुत्तमम् ॥ २४॥

 अव्यक्तं देहग्रहणात्प्राक्कार्याक्षमत्वेन स्थितमिदानीं वसुदेवगृहे व्यक्तिं भौतिकदेहावच्छेदेन कार्यक्षमतां प्राप्तं कंचिज्जीवमेव मन्यन्ते मामीश्वरमप्यबुद्धयो विवेकशून्याः । अव्यक्तं सर्वकारणमपि मां व्यक्तिं कार्यरूपतां मत्स्यकूर्माद्यनेकावताररूपेण प्राप्तमिति वा । कथं ते जीवास्त्वां न [३४५]विविञ्चन्ति । तत्राबुद्धय इत्युक्तं हेतुं विवृणोति-परं सर्वकारणरूपमव्ययं नित्यं मम भावं स्वरूपं सोपाधिकमजानन्तस्तथा निरुपाधिकमप्यनुत्तमं सर्वोत्कृष्टमनतिशयाद्वितीयपरमानन्दघनमनन्तं मम स्वरूपमजानन्तो जीवानुकारिकार्यदर्शनाज्जीवमेव कंचिन्मां मन्यन्ते । ततो [३४६]मामनीश्वरत्वेनाभिमतं विहाय प्रसिद्धं देवतान्तरमेव भजन्ते । ततश्चान्तवदेव फलं प्राप्नुवन्तीत्यर्थः । अग्रे च वक्ष्यते--अवजानन्ति मां मूढा मानुषीं तनुमाश्रितमिति ॥ २४ ॥

 श्री०टी०-ननु च समाने प्रयासे महति च फलविशेषे सति सर्वेऽपि किमिति देवतान्तरं हित्वा त्वामेव न भजन्ति तत्राऽऽह-अव्यक्तमिति । अव्यक्तं प्रपञ्चातीतं मां व्यक्तिं मनुष्यमत्स्यकूर्मादिभावं प्राप्तमल्पबुद्धयो मन्यन्ते । तत्र हेतुः-मम परं भावं स्वरूपमजानन्तः । कथंभूतम् , अव्ययं नित्यं न विद्यत उत्तमो यस्मात्तं भावम् । अतो जगद्रक्षार्थं लीलयाऽऽविकृतनानाविशुद्धोर्जितसत्त्वमूर्तिं मां परमेश्वरं च स्वकर्मनिर्मितभौतिकदेहं च देवतान्तरं समं पश्यन्तो मन्दमतयो मां ना[३४७]ऽऽद्रियन्ते । प्रत्युत क्षिप्रफलदं देवतान्तरमेव भजन्ति । ते चोक्तप्रकारेणान्तवत्फलं प्राप्नुवन्तीत्यर्थः ॥ २४ ॥

 म० टी०-ननु जन्मकालेऽपि सर्वयोगिध्येयं श्रीवैकुण्ठस्थमैश्वरमेव रूपमाविर्भावितवति संप्रति च श्रीवत्सकौस्तुभवनमालाकिरीटकुण्डलादिदिव्योपकरणशालिनि कम्बु.


कमलकौमोदकीचक्रवरधारिचतुर्भुजे श्रीमद्वैतनेयवाहने निखिलसुरलोकसंपादितराजराजेश्वराभिषेकादिमहावैभवे सर्वसुरासुरजेतरि विविधदिव्यलीलाविलासशीले सर्वावतारशिरोमणौ साक्षाद्वैकुण्ठनायके निखिललोकदुःखनिस्ताराय भुवमवतीर्णे विरिञ्चिप्रपच्चासंभविनिरतिशयसौन्दर्यसारसर्वस्वमूर्तौ बाललीलाविमोहितविधातरि तरणिकिरणोज्ज्वलदिव्यपीताम्बरे निरुपमश्यामसुन्दरे करदीकृतपारिजातार्थपराजितपुरंदरे बाणयुद्धविजितशशाङ्कशेखरे समस्तसुरासुरविजयिनरकप्रभृतिमहादैतेयप्रकरप्राणपर्यन्तसर्वस्वहारिणि श्रीदामादिपरमरङ्कमहावैभवकारिणि षोडशसहस्रदिव्यरूपधारिण्यपरिमेयगुणगरिमणि महामहिमनि नारदमार्कण्डेयादिमहामुनिगणस्तुते त्वयि कथमविवेकिनोऽपि मनुष्यबुद्धिर्जीवबुद्धिर्वेत्यर्जुनाशङ्कामपनिनीषुराह भगवान् -

नाहं प्रकाशः सर्वस्य योगमायासमावृतः ॥
मूढोऽयं नाभिजानाति लोको मामजमव्ययम् ॥२५॥

 अहं सर्वस्य लोकस्य न प्रकाशः स्वेन रूपेण प्रकटो न भवामि । किं तु केषांचिन्मद्भक्तानामेव प्रकटो भवामीत्यभिप्रायः । कथं सर्वस्य लोकस्य न प्रकट इत्यत्र हेतुमाह-योगमायासमावृतः, योगो मम संकल्पस्तद्वशवर्तिनी माया योगमाया तयाऽयमभक्तो जनो मां स्वरूपेण न जानात्वितिसंकल्पानुविधायिन्या मायया सम्यगावृतः सत्यपि ज्ञानकारणे ज्ञानविषयत्वायोग्यः कृतः । अतो यदुक्तं परं भावमजानन्त इति तत्र मम संकल्प एव कारणमित्युक्तं भवति । अतो मम मायया मूढ आवृतज्ञानः सन्नयं चतुर्विधभक्तविलक्षणो लोकः सत्यपि ज्ञानकारणे मामजमव्ययमनाद्यनन्तं परमेश्वरं नाभिजानाति, किं तु. विपरीतदृष्ट्या मनुष्यमेव कंचिन्मन्यत इत्यर्थः । विद्यमानं वस्तुस्वरूपमावृणोत्यविद्यमानं च किंचिद्दर्शयतीति लौकिकमायायामपि प्रसिद्धमेतत् ॥ २५॥

 श्री०टी०-तेषां स्वाज्ञाने हेतुमाह-नाहमिति । सर्वस्य लोकस्य नाहं प्रकाशः प्रकटो न भवामि किं तु मद्भकानामेव । यतो योगमायया समावृतः । योगो युक्तिर्मदीयः कोऽप्यचिन्त्यप्रज्ञाविलासः । स एव मायाऽघटमानघटना[३४८]पटीय[३४९]स्त्वात्तया संछन्नः। अत एव मत्स्वरूपज्ञाने मूढः सन्नयं लोकोऽजमव्ययं च मां न जानाति॥२५॥

 म.टी०-अतो मायया स्वाधीनया सर्वव्यामोहकत्वात्स्वयं चाप्रतिबद्धज्ञानत्वात्-

वेदाहं समतीतानि वर्तमानानि चार्जुन ॥
भविष्याणि च भूतानि मां तु वेद न कश्चन ॥२६॥


 अहमप्रतिबद्धसर्वविज्ञानो मायया सर्वांल्लोकान्मोहयन्नपि समतीतानि चिरविनष्टानि वर्तमानानि च भविष्याणि च । एवं कालत्रयवर्तीनि भूतानि स्थावरजङ्गमानि सर्वाणि वेद जानामि हेऽर्जुन । अतोऽहं सर्वज्ञः परमेश्वर इत्यत्र नास्ति संशय इत्यर्थः । मां तु, तुशब्दो ज्ञानप्रतिबन्धद्योतनार्थः । मां सर्वदर्शिनमपि मायाविनमिव तन्मायामोहितः कश्चन कोऽपि मदनुग्रहभाजनं मद्भक्तं विना न वेद मन्मायामोहितत्वात् । अतो मत्तत्ववेदनाभावादेव प्रायेण प्राणिनो मां न भजन्त इत्यभिप्रायः ॥ २६ ॥

 श्री०टी०सर्वोत्तमं मत्स्वरूपमजानन्त इत्युक्तम् । तदेव स्वस्य सर्वोत्तमत्वमनावृतज्ञानशक्तित्वेन दर्शयन्नन्येषामज्ञानमाह-वेदेति । समतीतानि विनष्टानि वर्तमानानि च भविष्याणि च भावीनि च त्रिकालवर्तीनि भूतानि स्थावरजङ्गमानि सर्वाण्यहं वेद जानामि, मायाश्रयत्वान्मम, तस्याः स्वाश्रयव्यामोहकत्वाभावादिति प्रसिद्धम् । मां तु न कोऽपि वेत्ति मन्मायामोहितत्वात् । प्रसिद्धं हि लोके मायायाः स्वाश्रयाधीनत्वमन्यमोहकत्वं च ॥ २६ ॥

 म० टी०-~-योगमायां भगवत्तत्त्वविज्ञानप्रतिबन्धे हेतुमुक्त्वा देहेन्द्रियसंघाताभि- मानातिशयपूर्वकं भोगाभिनिवेशं हेत्वन्तरमाह-

इच्छादेषसमुत्थेन द्वंद्वमोहेन भारत ॥ सर्वभूतानि संमोहं सर्गे यान्ति परंतप ॥२७॥

 इच्छाद्वेषाभ्यामनुकूलप्रतिकूलविषयाभ्यां समुत्थितेन शीतोष्णसुखदुःखादिद्वंद्वनिमित्तेन मोहेनाहं सुख्यहं दुःखीत्यादिविपर्ययेण सर्वाण्यपि भूतानि संमोहं विवेकायोग्यत्वं सर्गे स्थूलदेहोत्पत्तौ सत्यां यान्ति । हे भारत हे परंतपेति संबोधनद्वयस्य कुलमहिम्ना स्वरूपशक्त्या च त्वां द्वंद्वमोहाख्यः शत्रुर्नाभिभवितुमलमिति भावः । नहीच्छाद्वेषरहितं किंचिदपि भूतमस्ति । न च ताभ्यामाविष्टस्य बहिर्विषयमपि ज्ञानं संभवति किं पुनरात्मविषयम् । अतो रागद्वेषव्याकुलान्तःकरणत्वात्सर्वाण्यापि भूतानि मां परमेश्वरमात्मभूतं न जानन्ति अतो न भजन्ते भजनीयमपि ॥ २७ ॥

 श्री०टी०-तदेवं मायाविषयत्वेन जीवानां परमेश्वराज्ञानमुक्तम् । तस्यैवाज्ञानस्य दृढत्वे कारणमाह-इच्छाद्वेषसमुत्थेनेति । सृज्यत इति सर्गः । सर्गे स्थूलदेहोत्पत्तौ सत्यां तदनुकूल इच्छा तत्प्रतिकूले च द्वेषः । ताभ्यां समुत्थः समुद्भूतो यः शीतोष्णसुखदुःखादिद्वंद्वनिमित्तो मोहो विवेकभ्रंशस्तेन सर्वभूतानि संमोहमहमेव सुखी दुःखी चेति गाढतरमभिनिवेशं प्राप्नुवन्ति । अतस्तानि मज्ज्ञानाभावान्न मां भजन्तीति भावः ॥ २७ ॥

 म० टी०-यदि सर्वभूतानि संमोहं यान्ति कथं तर्हि चतुर्विधा भजन्ते मामित्युक्तं, सत्यं सुकृतातिशयेन तेषां क्षीणपापत्वादित्याह- .

येषां त्वन्तगतं पापं जनानां पुण्यकर्मणाम् ॥
ते द्वंद्वमोहनिर्मुक्ता भजन्ते मां दृढव्रताः ॥२८॥

 येषां तु इतरलोकविलक्षणानां जनानां सफलजन्मनां पुण्यकर्मणामनेकजन्मसु पुण्याचरणशीलानां तैस्तैः पुण्यैः कर्मभिज्ञानप्रतिबन्धकं पापमन्तगतमन्तमवसानं प्राप्तं ते पापाभावेन[३५०] तन्निमित्तेन द्वंद्वमोहेन रागद्वेषादिनिबन्धनविपर्यासेन स्वत एव निर्मुक्ताः पुनरावृत्त्ययोग्यत्वेन त्यक्ता दृढव्रता अचाल्यसंकल्पाः सर्वथा भगवानेव भजनीयः स चैवरूप एवेति प्रमाणजनिताप्रामाण्यशङ्काशून्यविज्ञानाः सन्तो मां परमात्मानं भजन्तेऽनन्यशरणाः सन्तः सेवन्ते । एतादृशा एव चतुर्विधा भजन्ते मामित्यत्र सुकृतिशब्देनोक्ताः । अतः सर्वभूतानि संमोहं यान्तीत्युत्सर्गः । तेषां मध्ये ये सुकृतिनस्ते संमोहशून्या मां भजन्त इत्यपवाद इति न विरोधः । अयमेवोत्सर्गः प्रागपि प्रतिपादितस्त्रिभिर्गुणमयीर्भावैरित्यत्र । तस्मात्सत्त्वशोधकपुण्यकर्मसंचयाय सर्वदा यतनीयमिति भावः ॥ २८॥

 श्री०टी०-कुतस्तर्हि केचन त्वां भजन्तो दृश्यन्ते तत्राऽऽह-येषामिति । येषां तु पुण्याचरणशीलानां सर्व प्रतिबन्धकं पापमन्तगतं नष्टं ते द्वंद्वनिमित्तेन मोहेन निर्मुक्ता दृढव्रता एकान्तिनः सन्तो मां भजन्ते ॥ २८ ॥

 म०टी०-अथेदानीमर्जुनस्य प्रश्नमुत्थापयितुं सूत्रभूतौ श्लोकावुच्येते । अनयोरेव वृत्तिस्थानीय उत्तरोऽध्यायो भविष्यति-

जरामरणमोक्षाय मामाश्रित्य यतन्ति ये ॥
ते ब्रह्म तद्विदुः कृत्स्नमध्यात्म कर्म चाखिलम् ॥२९॥

 ये संसारदुःखान्निर्विण्णा जरामरणमोक्षाय जरामरणादिविविधदुःसहसंसारदुःखनिरासाय तदेकहेतुं मां सगुणं भगवन्तमाश्रित्येतरसर्ववैमुख्येन शरणं गत्वा यतन्ति यतन्ते मदर्पितानि फलाभिसंधिशून्यानि विहितानि कर्माणि कुर्वन्ति ते क्रमेण शुद्धन्तःकरणाः सन्तस्तज्जगत्कारणं मायाधिष्ठानं शुद्धं परं ब्रह्म निर्गुणं तत्पदलक्ष्यं मां विदुः । तथाऽऽत्मानं शरीरमधिकृत्य प्रकाशमानं कृत्स्नमुपाध्यपरिच्छिन्नं त्वंपदलक्ष्यं विदुः । कर्म च तदुभयवेदनसाधनं गुरूपसदनश्रवणमननाद्यखिलं निरवशेष फलाव्यभिचारि विदु नर्जान्तीत्यर्थः ॥ २९ ॥

 श्री०टी०-एवं च मां भ[३५१]जन्तः सर्व विज्ञेयं विज्ञाय कृतार्था भवन्तीत्याह- जरामरणेति । जरामरणयोर्मोक्षाय निरासार्थ मामाश्रित्य ये प्रयतन्ते ते तत्परं ब्रह्म


विदुः कृत्स्नमध्यात्मं च विदुः । येन तत्प्राप्तव्यं तं देहादिव्यतिरिक्तं शुद्धमात्मानं च जानन्तीत्यर्थः । तत्साधनभूतमखिलं सरहस्यं कर्म च जानन्ति ॥ २९ ॥

साधिभूताधिदैवं मां साधियज्ञं च ये विदुः ॥
प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः ॥ ३० ॥

इति श्रीमहाभारते शतसाहस्यां संहितायां वैयासिक्या

भीष्मपर्वणि श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां

योगशास्त्रे श्रीकृष्णार्जुनसंवादे ज्ञानयोगो

नाम सप्तमोऽध्यायः ॥ ७॥

 म०टी०-न चैवंभूतानां मद्भक्तानां मृत्युकालेऽपि विवशकरणतया मद्विस्मरणं शङ्कनीय, यतः साधिभूताधिदैवमधिभूताधिदैवाभ्यां सहितं तथा साधियज्ञं चाधियज्ञेन च सहितं मां ये विदुश्चिन्तयन्ति ते युक्तचेतसः सर्वदा मयि समाहितचेतसः सन्तस्तत्संस्कारपाटवात्प्रयाणकाले प्राणोत्क्रमणकाले करणग्रामस्यात्यन्तव्यग्रतायामपि, चकारादयत्नेनैव मत्कृपया मां सर्वात्मानं विदुर्जानन्ति, तेषां मृतिकालेऽपि मदाकारैव चित्तवृत्तिः पूर्वोपचितसंस्कारपाटवाद्भवति । तथा च ते मद्भक्तियोगात्कृतार्था एवेति भावः । अधिभूताधिदैवाधियज्ञशब्दानुत्तरेऽध्यायेऽर्जुनप्रश्नपूर्वकं व्याख्यास्यति भगवानिति सर्वमनाविलम् । तदत्रोत्तमाधिकारिणं प्रति ज्ञेयं मध्यमाधिकारिणं प्रति च ध्येयं लक्षणया मुख्यया च वृत्त्या तत्पदप्रतिपाद्यं ब्रह्म निरूपितम् ॥ ३० ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीविश्वेश्वरसरस्वतीपादशिष्यश्रीमधु.

सूदनप्तरस्वतीविरचितायां श्रीमद्भगवद्गीतागूढार्थदीपिकाया-

मधिकारिभेदेन ज्ञेयध्येयप्रतिपाद्यतत्त्वब्रह्मनिरू-

पणं नाम सप्तमोऽध्यायः॥ ७ ॥

 श्री०टी-न चैवभूतानां योगभ्रंशशङ्काऽपीत्याह-साधिभूताधिदेवमिति । अधिभूतादिशब्दानामर्थं भगवानेवानन्तराध्याये व्याख्यास्यति । अधिभूतेनाधिदेवेन च सहाधियज्ञेन च सहितं ये मां जानन्ति ते युक्तचेतसो मय्यासक्तमनसः प्रयाणकालेऽपि मरणसमयेऽपि मां विदुर्न तु तदाऽपि व्याकुलीभूय मां विस्मरन्ति । अतो मद्भक्तानां न योगभ्रंशशङ्केत्यर्थः ॥ ३० ॥

कृष्णभक्तैरयत्नेन ब्रह्मज्ञानमवाप्यते ।
इति विज्ञानयोगाख्ये सप्तमे संप्रकाशितम् ॥ १ ॥

इति श्रीसुबोधिन्या टीकायां श्रीधरस्वामिविरचितायां ज्ञानविज्ञानयोगो नाम सप्तमोऽध्यायः ॥ ७ ॥

अथाष्टमोऽध्यायः

 म० टी०-पूर्वाध्यायान्ते “ ते ब्रह्म तद्विदुः कृत्स्नमध्यात्म कर्म चाखिलम् " इत्यादिना सार्ध श्लोकेन सप्त पदार्था ज्ञेयत्वेन भगवता सूत्रितास्तेषां वृत्तिस्थानीयोऽयमष्टमोऽध्याय आरभ्यते । तत्र सूत्रितानि सप्त वस्तूनि विशेषतो बुभुत्समानः क्ष्लोकाभ्याम्-

अर्जुन उवाच-
 किं तद्ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम ॥
 अधिभूतं च किं प्रोक्तमधिदेवं किमुच्यते ॥ १

 तज्ज्ञेयत्वेनोक्तं ब्रह्म किं सोपाधिकं निरुपाधिकं वा । एवमात्मानं देहमधिकृत्य तस्मिन्नधिष्ठाने तिष्ठतीत्यध्यात्म किं श्रोत्रादिकरणग्रामो वा प्रत्यक्चैतन्यं वा । तथा कर्म चाखिलमित्यत्र किं कर्म यज्ञरूपमन्यद्वा “ विज्ञानं यज्ञं तनुते कर्माणि तनुतेऽपि च" इति श्रुतौ द्वैविध्यश्रवणात् । तव मम च समत्वात्कथं त्वं मां पृच्छसीति शङ्कामपनुदन्सर्वपुरुषेभ्य उत्तमस्य सर्वज्ञस्य तव न किंचिदज्ञेयमिति संबोधनेन सूचयति हे पुरुषोत्तमेति । अधिभूतं च किं प्रोक्तं पृथिव्यादिभूतमधिकृत्य यत्किंचित्कार्यमधिभूतपदेन विवक्षितं किं वा समस्तमेव कार्यजातम् । चकारः सर्वेषां प्रश्नानां समुच्चयार्थः । अधिदैवं किमुच्यते. देवताविषयमनुध्यानं वा सर्वदैवतेष्वादित्यमण्डलादिप्वनुस्यूतं चैतन्यं वा ॥ १॥

 श्री० टी०- ब्रह्मकर्माधिभूतादि विदुः कृष्णैकचेतसः ।
   इत्युक्तं ब्रह्मकर्मादि स्पष्टमष्टम उच्यते ॥

 पूर्वाध्यायान्ते भगवतोप[३५२]क्षिप्तानां ब्रह्माध्यात्मादिसप्तानां पदार्थानां तत्त्वं जिज्ञासुरर्जुन उवाच किं तद्ब्रह्मेतिद्वाभ्याम्-स्पष्टोऽर्थः ॥ १ ॥


अधियज्ञः कथं कोऽत्र देहेऽस्मिन्मधुसूदन ॥
प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभिः॥२॥

 अधियज्ञो यज्ञमधिगतो देवतात्मा वा परब्रह्म वा । स च कथं केन प्रकारेण चिन्तनीयः । किं तादात्म्येन किं वाऽत्यन्ताभेदेन । सर्वथाऽपि स किमस्मिन्देहे वर्तते ततो बहिर्वा । देहे चेत्स कोऽत्र बुद्धयादिस्तव्यतिरिक्तो वा । अधियज्ञः कथं कोऽत्रेति न प्रश्नद्वयम् । किं तु सप्रकार एक एव प्रश्न इति द्रष्टव्यम् । परमकारुणिकत्वा [३५३] ।दायासेनापि सर्वोपद्रवनिवारकस्य भगवतोऽनायासेन मत्संदेहोपद्रवनिवारणमीपत्करमुचितमेवेति सूचयन्संबोधयति हे मधुसूदनेति । प्रयाणकाले च सर्वकरणग्रामवैयग्र्याचित्तसमाधानानुपपत्तेः कथं केन प्रकारेण नियतात्मभिः समाहितचित्तैर्ज्ञेयोऽसीत्युक्तशङ्कासूचनार्थश्चकारः । एतत्सर्व सर्वज्ञत्वात्परमकारुणिकत्वाच्च शरणागतं मां प्रति कथयेत्यभिप्रायः ॥ २॥

 श्री०टी०-किं च-अधियज्ञ इति । अत्र देहे यो यज्ञो निर्वर्तते तस्मिन्कोऽधियज्ञोऽधिष्ठाता प्रयोजकः फलदाता च क इत्यर्थः । स्वरूपं पृष्ट्वाऽधिष्ठानप्रकार पृच्छति-कथं केन प्रकारेणासावस्मिन्देहे स्थितो यज्ञमधितिष्ठतीत्यर्थः । यज्ञग्रहणं सर्वकर्मणामुपलक्षणार्थम् । अन्तकाले च नियतचित्तैः पुरुषैः कथं केनोपायेन ज्ञेयोऽसि ॥ २॥

 म०. टी०-एवं सप्तानां प्रश्नानां क्रमेणोत्तरं त्रिभिः श्लोकैः-

श्रीभगवानुवाच-
 अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते ॥
 भूतभावोद्भवकरो विसर्गः कर्मसंज्ञितः ॥३॥

 प्रश्नक्रमेण हि निर्णये प्रष्टुरभीष्टसिद्धिरनायासेन स्यादित्यभिप्रायवान्भगवानत्र श्लोके प्रश्नत्रयं क्रमेण निर्धारितवान् । एवं द्वितीयश्लोकेऽपि प्रश्नत्रयं तृतीयश्लोके त्वेकमिति विभागः । निरुपाधिकमेव ब्रह्मात्र विवक्षितं ब्रह्मशब्देन न तु सोपाधिकमिति प्रथमप्रश्नस्योत्तरमाह-अक्षरं न क्षरतीत्यविनाशि अश्र्नुते वा सर्वमिति सर्वव्यापकम् । " एतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्त्यस्थूलमनणु" इत्याद्युपक्रम्य “ एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः, नान्यदतोऽस्ति द्रष्टु" इत्यादि मध्ये परामृश्य " एतस्मिन्नु खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्च " इत्युपसंहृतं श्रुत्या । सर्वोपाधिशून्यं सर्वस्य प्रशासितु अव्याकृताकाशान्तस्य कृत्स्नस्य प्रपञ्चस्य धारयितृ अस्मिंश्च शरीरेन्द्रियसंघाते विज्ञातृ निरुपाधिकं चैतन्यं तदिह ब्रह्मेति विव.


क्षितम् । एतदेव विवृणोति--परमामति । परमं स्वप्रकाशपरमानन्दरूपं प्रशासनस्य

कृत्स्नजडवर्गधारणस्य च लिङ्गस्य तत्रैवोपपत्तेः । अक्षरमम्बरान्तधृतेः " इति न्यायात् । न विहाक्षरशब्दस्य वर्णमात्रे रूढत्वाच्छ्रतिलिङ्गाधिकरणन्यायमूलकेन " रूढिर्योगमपहरति" इति न्यायेन रथकारशब्देन जातिविशेषवत्प्रणवाख्यमक्षरमेव ग्राह्यं तत्रोक्तलिङ्गासंभवात् , ओमित्येकाक्षरं ब्रह्मेति च परेण विशेषणात् "आनर्थक्यप्रतिहतानां विपरीतं बलाबलम्" इति न्यायात् । “वर्षासु रथकार आदधीत" इत्यत्र तु जातिविशेषे नास्त्यसंभव इति विशेषः । अनन्यथासिद्धेन तु लिङ्गेन श्रुतेर्बाधः "आकाशस्तल्लिङ्गात् " इत्यादौ विवृतः । एतावास्त्विह विशेषः, अनन्यथासिद्धेन लिङ्गेन श्रुतेर्बाधे यत्र योगः संभवति तत्र स एव गृह्यते मुख्यत्वात् , यथाऽऽज्यैः स्तुवते पृष्ठैः स्तुवत इत्यादौ । यथा चात्रैवाक्षरशब्दे । यत्र तु योगोऽपि न संभवति तत्र गौणी वृत्तिर्यथाऽऽकाशप्राणादिशब्देषु । आकाशशब्दस्यापि ब्रह्मणि आ समन्तात्काशत इति योगः संभवतीति चेत्, स एव गृह्यतामिति पञ्चपादीकृतः । तथा च पारमर्ष सूत्रं " प्रसिद्धेश्च " इति । कृतम[३५४]त्र विस्तरेण । तदेवं किं तद्ब्रह्मेति निर्णीतम् । अधुना किमध्यात्ममिति निर्णीयते-यदक्षरं ब्रह्मेत्युक्तं तस्यैव स्वभावः स्वो भावः स्वरूपं प्रत्यक्चैतन्यं न तु स्वस्य भाव इति षष्ठीसमासः, लक्षणाप्रसङ्गात्, षष्ठीतत्पुरुषबाधेन कर्मधारयपरिग्रहस्य श्रुतपदार्थान्वयेन निषादस्थपत्यधिकरणसिद्धत्वात् । तस्मान्न ब्रह्मणः संबन्धि किं तु ब्रह्मस्वरूपमेव । आत्मानं देहमधिकृत्य भोकृतया वर्तमानमध्यात्ममुच्यतेऽध्यात्मशब्देनाभिधीयते न करणग्राम इत्यर्थः । यागदानहोमात्मकं वैदिकं कर्मैवात्र कर्मशब्देन विवक्षितमिति तृतीयप्रश्नोत्तरमाह-भूतानां भवनधर्मकाणां सर्वेषां स्थावरजङ्गमानां भावमुत्पत्तिमुद्भवं वृद्धिं च करोति यो विसर्गस्त्यागस्तत्तच्छास्त्रविहितो यागदानहोमात्मकः स इह कर्मसंज्ञितः कर्मशब्देनोक्त इति यावत् । तत्र देवतोदेशेन द्रव्यत्यागो याग उत्तिष्ठद्धोमो वषट्कारप्रयोगान्तः । स एवोपविष्टहोमः स्वाहाकारप्रयोगान्त आसेचनपर्यन्तो होमः । परस्वत्वापत्तिपर्यन्तः स्वत्वत्यागो दानम् । सर्वत्र च त्यागांशोऽनुगतः । तस्य च भूतभावाद्भवकरत्वम् -----

" अग्नौ प्रास्ताऽऽहुतिः सम्यगादित्यमुपतिष्ठते
आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः"

 इति स्मृतेः, “ ते वा एते आहुती हुते उत्क्रामतः " इत्यादिश्रुतेश्च ॥ ३ ॥

 श्री०टी०-प्रश्नक्रमेणोत्तरं श्रीभगवानुवाचाक्षरमितित्रिभिः-न क्षरति न चलतीत्यक्षरम्[३५५] । परमं यदक्षरं जगतो मूलकारणं तद्ब्रह्म । " एतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्ति " इति श्रुतेः । स्वस्यैव ब्रह्मण एवांशतो जीवरूपेण भवनं स्वभावः । स


एवाऽऽत्मानं देहमधिकृत्य भोक्तृत्वेन वर्तमानोऽध्यात्मशब्देनोच्यत इत्यर्थः । भूतानां जरायुजादीनां भाव उत्पत्तिः, उद्भवश्व-

" अग्नौ प्रास्ताऽऽहुतिः सम्यगादित्यमुपतिष्ठते ।
आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः "

 इत्युक्तक्रमेण वृद्धिस्तौ भावोद्भवौ करोति यो विसर्गो देवतोद्देशेन द्रव्यत्यागरूपो यज्ञः, सर्वकर्मणामुपलक्षणमेतत् , स कर्मशब्दवाच्यः ॥ ३ ॥

 म०टी०-संप्रत्यग्रिमप्रश्नत्रयस्योत्तरमाह-

अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतम् ॥
अधियज्ञोऽहमेवात्र देहे देहभृतां वर ॥ ४॥

 क्षरतीति क्षरो विनाशी भावो यत्किंचिज्जनिमद्वस्तु भूतं प्राणिजातमधिकृत्य भवतीत्यधिभूतमुच्यते । पुरुषो हिरण्यगर्भः समष्टिलिङ्गात्मा व्यष्टिसर्वकरणानुग्राहकः " आत्मैवेदमग्र आसीत्पुरुषविधः" इत्युपक्रम्य “ स यत्पूर्वोऽस्मात्सर्वस्मात्सर्वान्पाप्मन औषत्तस्मात्पुरुषः " इत्यादिश्रुत्या प्रतिपादितः । चकारात्-

" स वै शरीरी प्रथमः स वै पुरुष उच्यते ।
आदिकर्ता स भूतानां ब्रह्माऽग्रे समवर्तत "

 इत्यादिस्मृत्या च प्रतिपादितः । अधिदैवतं दैवतान्यादित्यादीन्यधिकृत्य चक्षुरादिकरणान्यनुगृह्णातीति तथोच्यते । अधियज्ञः सर्वयज्ञाधिष्ठाता सर्वयज्ञफलदायकश्च । सर्वयज्ञाभिमानिनी विष्ण्वाख्या देवता " यज्ञो वै विष्णुः" इति श्रुतेः । स च विष्णुरधियज्ञोऽहं वासुदेव एव न मद्भिन्नः कश्चित् । अत एव परब्रह्मणः सकाशादत्यन्ताभेदेनैव प्रतिपत्तव्य इति कथमिति व्याख्यातम् । स चात्रास्मिन्मनुष्यदेहे यज्ञरूपेण वर्तते बुद्ध्यादिव्यतिरिक्तो विष्णुरूपत्वात् । एतेन स किमस्मिन्देहे ततो बहिर्वा, देहे चेत्कोऽत्र बुद्ध्यादिस्तव्यतिरिक्तो वेति संदेहो निरस्तः । मनुष्य[३५६]देहे च यज्ञस्यावस्थानं यज्ञस्य मनुष्यदेहनिर्वर्त्यत्वात् । " पुरुषो वै यज्ञः पुरुषस्तेन यज्ञो यदेनं पुरुषस्तनुते इत्यादिश्रुतेः । हे देहभृतां वर सर्वप्राणिनां श्रेष्ठेति संबोधयन्प्रतिक्षणं मत्संभाषणात्कृतकृत्यस्त्वमेतद्बोधयोग्योऽसीति प्रोत्साहयत्यर्जुनं भगवान् । अर्जुनस्य सर्वप्राणिश्रेष्ठत्वं भगवदनुग्रहातिशयभाजनत्वात्प्रसिद्ध मेव ॥ ४ ॥

 श्री० टी०-किं च-अधिभूतमिति । क्षरो भावो विनश्वरो देहादिपदार्थों भूतं प्राणिमात्रमधिकृत्य भवतीत्यधिभूतमुच्यते । पुरुषो वैराजः सूर्यमण्डलमध्यवर्ती स्वांभूतसर्वदेवतानामधिपतिरधिदैवतमुच्यते ।


" स वै शरीरी प्रथमः स वै पुरुष उच्यते ।
आदिकर्ता स भूतानां ब्रह्माऽग्रे समवर्तत" इति श्रुतेः ॥

 अत्रास्मिन्देहेऽन्तर्यामित्वेन स्थितोऽहमेवाधियज्ञो यज्ञादिकर्मप्रवर्तकस्तत्फलदाता च । कथमित्यस्योत्तरमनेनैवोक्तं द्रष्टव्यम् । अन्तर्यामिणोऽसङ्गत्वादिभिर्गुणैर्जीववैलक्षण्येन देहान्तर्वतित्वस्य प्रसिद्धत्वात् । तथाच श्रुतिः-

द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते ।
तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति" इति ॥

 देहभृतां मध्ये श्रेष्ठेति संबोधयंस्त्वमप्येवंभूतमन्तर्यामिणं पराधीनस्वप्रवृत्तिनिवृत्त्यन्वयव्यतिरेकाम्या बोद्धुमर्हसीति सूचयति ॥ ४ ॥

 म०टी०-इदानीं प्रयाणकाले च कथं ज्ञेयोऽसीति सप्तमस्य प्रश्नस्योत्तरमाह-

अन्तकाले च मामेव स्मरन्मुक्त्या कलेवरम् ॥
यः प्रयाति स मद्रावं याति नास्त्यत्र संशयः ॥५॥

 मामेव भगवन्तं वासुदेवमधियज्ञं सगुणं निर्गुणं वा परममक्षरं ब्रह्म न त्वध्यात्मादिकं स्मरन्सदा चिन्तयंस्तत्संस्कारपाटवात्समस्तकरणग्रामवैयत्र्यवत्यन्तकालेऽपि स्मरन्कलेवरं मुक्त्वा शरीरेऽहममाभिमानं त्यक्त्वा प्राणवियोगकाले यः प्रयाति, सगुणध्यानपक्षेऽग्निर्ज्योतिरहः शुक्ल इत्यादिवक्ष्यमाणेन देवयानमार्गेण पितृयान(ण)मार्गात्प्रकर्षेण याति स उपासको मद्भावं मद्रूपतां निर्गुणब्रह्मभावं हिरण्यगर्भलोकभोगान्ते याति प्राप्नोति । निर्गुणब्रह्मस्मरणपक्षे तु कलेवरं त्यक्त्वा प्रयातीति लोकदृश्यभिप्रायं न तस्य प्राणा उत्क्रामन्त्यत्रैव सम[३५७]वनीयन्ते " इति श्रुतेस्तस्य प्राणोत्क्रमणाभावेन मत्यभावात् । स मद्भाव साक्षादेव याति " ब्रह्मैव सन्ब्रह्माप्येति" इति श्रुतेः । नास्त्यत्र देहव्यतिरिक्त आत्मनि मद्भावप्राप्तौ वा संशयः, आत्मा देहाद्यतिरिक्तो न वा, देहव्यतिरेकेऽपि ईश्वराद्भिन्नो न वेति संदेहो न विद्यते " छिद्यन्ते सर्वसंशयाः " इतिश्रुतेः । अत्र च कलेवरं मुक्त्वा प्रयातीति देहाद्भिन्नत्वं मद्भावं यातीति चेश्वरादभिन्नत्वं जीवस्योक्तमिति द्रष्टव्यम् ॥ ५ ॥

 श्री०टी०-प्रयाणकाले च कथं ज्ञेयोऽसीत्यनेन पृष्टमन्त[३५८]काले ज्ञानोपायं तत्फलं च दर्शयति-अन्तकाल इति । मामेवोक्तलक्षणमन्तर्यामिरूपं परमेश्वरं स्मरन्देहं त्यक्त्वा यः प्रकर्षणाचिरादिमार्गेण याति स मद्भावं मद्रूपतां याति । अत्र च संशयो नास्ति । स्मरणं ज्ञानोपायो मद्भावापत्तिश्च फलमित्यर्थः ॥ ५॥


 म०. टी०--अन्तकाले भगवन्तमनुध्यायतो भगवत्प्राप्तिर्नियतेति वदितुमन्य[३५९]दपि[३६०]

यत्किचित्तकाले ध्यायतो देहं त्यजतस्तत्प्राप्तिरवश्यंभाविनीति दर्शयति-

यं यं [३६१]चापि स्मरन्भावं त्यजत्यन्ते कलेवरम् ॥
तं तमेवैति कौन्तेय सदा तद्भावभावितः ॥६॥

 न केवलं मां स्मरन्मद्भावं यातीति नियमः किं तर्हि यं यं चापि भावं देवताविशेषं, चकारादन्यदपि यत्किंचिद्वा स्मरंश्चिन्तयन्नन्ते प्राणवियोगकाले कलेवरं त्यजति [३६२]स तं तमेव स्मर्यमाणं भावमेव नान्यमेति प्राप्नोति । हे कौन्तेयेति पितृष्वसपुत्रत्वेन स्नेहातिशयं सूचयति । तेन चावश्यानुग्राह्यत्वं तेन च प्रतारणाशङ्काशून्यत्वमिति । अन्तकाले स्मरणोद्यमासंभवेऽपि पूर्वाभ्यासजनिता वासनैव स्मृतिहेतुरित्याह-सदा सर्वदा तस्मिन्देवताविशेषादौ भावो भावना वासना तद्भावः स भावितः संपादितो येन स तथा भाविततद्भाव इत्यर्थः । आहिताग्न्यादेराकृतिगणवाद्भावितपदस्य परनिपातः । तद्भावेन तच्चिन्तनेन भावितो वासितचित्त इति वा ॥ ६ ॥

 श्री०टी० -न केवलं मां स्मरन्मद्भावं प्राप्नोतीति नियमः किं तर्हि-यं यमिति | यं यं भावं देवतान्तरं वाऽन्यमपि वाऽन्तकाले स्मरन्देहं त्यजति तं तमेक स्मर्यमाणं भावं प्राप्नोति । अन्तकाले भावविशेषस्मरणे हेतुः---सर्वदा तस्य भावो भावनाऽनुचिन्तनं तेन भावितो वासितचित्तः ॥ ६ ॥

 म० टी०-यस्मादे[३६३]वं पूर्वस्मरणाभ्यासजनिताऽन्त्या भावनैव तदानीं परवशस्थ देहान्तरप्राप्तौ कारणम्-

तस्मात्सर्वेषु कालेषु मामनुस्मर युध्य च ॥
मय्यर्पितमनोबुद्धिर्मामेवैष्यस्यसंशयः ॥ ७ ॥

 तस्मान्मद्विषयकान्त्यभावनोत्पत्त्यर्थं सर्वेषु कालेषु पूर्वमेवाऽऽदरेण मां सगुणमीश्वरमनुस्मर चिन्तय । यद्यन्तःकरणाशुद्धिवशान्न शक्नोषि सततमनुस्मर्तुं ततोऽन्तःकरणशुद्धये युध्य च, अन्तःकरणशुद्ध्यर्थं युद्धादिकं स्वधर्मं कुरु । युध्येति युध्यस्वेत्यर्थः । एवं च नित्यनैमित्तिककर्मानुष्ठानेनाशुद्धिक्षयान्मयि भगवति वासुदेवेऽर्पिते संकल्पाध्यवसायलक्षणे मनोबुद्धी येन त्वया स त्वमीदृशः सर्वदा मच्चिन्तनपरः सन्मामेवैष्यसि प्राप्स्यसि । असंशयो नात्र संशयो विद्यते । इदं च सगुणब्रह्मचिन्तनमुपासकानामुक्तं

चाऽपीत्येव पाठः।


तेषामन्त्यभावनासापेक्षत्वात् । निर्गुणब्रह्मज्ञानिनां तु ज्ञानसमकालमेवाज्ञाननिवृत्तिलक्षणाया मुक्तेः सिद्धत्वान्नास्त्यन्त्यभावनापेक्षेति द्रष्टव्यम् ॥ ७ ॥

 श्री० टी०-यस्मात्पूर्ववासनैवान्तकाले स्मृतिहेतुर्न तु तदा विवशस्य स्मरणोद्यमः संभवति - तस्मादिति । तस्मात्सर्वदा मामनुस्मर[३६४] चिन्तय । सततं स्मरणं च चित्तशुद्धिं विना न भ[३६५]वति । अतो युध्य च युध्यस्व चित्तशुद्धयर्थं युद्धादिकं स्वधर्म चानुतिष्ठेत्यर्थः । एवं मय्यर्पितं मनः संकल्पात्मकं बुद्धिश्च व्यवसायात्मिका येन त्वया स त्वं मामेव प्राप्स्यसि असंशयः संशयोऽत्र नास्ति ॥ ७ ॥

 म०टी०-तदेवं सप्तानामपि प्रश्नानामुत्तरमुक्त्वा प्रयाणकाले भगवदनुस्मरणस्य भगवत्प्राप्तिलक्षणं फलं विवरीतुमारमते----

अभ्यासयोगयुक्तेन चेतसा नान्यगामिना ॥
परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् ॥ ८॥

 अभ्यासः सजातीयप्रत्ययप्रवाहो मयि विजातीयप्रत्ययानन्तरितः षष्ठे प्राग्व्याख्यातः । स एव योगः समाधिस्तेन युक्तं तत्रैव व्याप्तमात्माकारवृत्तीतरवृत्तिशून्यं यच्चेतस्तेन चेतसाऽभ्यासपाटवेन नान्यगामिना नान्यत्र विषयान्तरे निरोधप्रयत्न विनाऽपि गन्तुं शीलमस्येति तेन परमं निरतिशयं पुरुषं पूर्णं दिव्यं दिवि द्योतनात्मन्यादित्ये भवं “ यश्वासावादित्ये" इति श्रुतेः । याति गच्छति हे पार्थ । अनुचिन्तयन् , शास्त्राचार्योपदेशमनुध्यायन् ॥ ८॥

 श्री०टी०--संततस्मरणस्य चाभ्यासोऽन्तरङ्गं साधनमिति दर्शयन्नाह-अभ्यासेति । अभ्यासः सजातीयप्रत्ययप्रवाहः । स एव योग उपायस्तेन युक्तेनैकाग्रेण । अत एव नान्यं विषयं गन्तुं शीलं यस्य तेन चेतसा दिव्यं द्योतनात्मकं परमं पुरुषं परमेश्वरमनुचिन्तयन्हे पार्थ तमेव याति ॥ ८॥

 म०टी०-पुनरपि तमेवानुचिन्तयितव्यं गन्तव्यं च पुरुषं विशिनष्टि---

कविं पुराणमनुशासितार-
 मणोरणीयांसमनुस्मरेद्यः॥
सर्वस्य धातारमचिन्त्यरूप-
 मादित्यवर्णं तमसः परस्तात् ॥ ९॥

 कविं क्रान्तदर्शिनं तेनातीतानागताद्यशेषवस्तुदर्शित्वेन सर्वज्ञं, पुराणं चिरंतनं सर्वकारणत्वादनादिमिति यावत् । अनुशासितारं सर्वस्य जगतो नियन्तारमणोरणीयांसं


सूक्ष्मादप्याकाशादेः सूक्ष्मतरं तदुपादानत्वात् । सर्वस्य कर्मफलजातस्य धातारं विचित्रतया प्राणिभ्यो विभक्तारं " फलमत उपपत्तेः” इति न्यायात् । न चिन्तयितुं

शक्यमपरिमितमहिमत्वेन रूपं यस्य तम् । आदित्यस्येव सकलजगदवभासको वर्णः प्रकाशो यस्य तं सर्वस्य जगतोऽवभासकमिति यावत् । अत एव तमसः परस्तात्तमसो मोहान्धकारादज्ञानलक्षणात्परस्तात्प्रकाशरूपत्वेन तमोविरोधिनमिति यावत् । अनुस्मरेचिन्तयेद्यः कश्चिदपि स तं यातीति पूर्वेणैव संबन्धः । स तं परं पुरुषमुपैति दिव्यमिति परेण वा संबन्धः ॥९॥

 म० टी०-कदा तदनुस्मरणे प्रयत्नातिरेकोऽभ्यर्थ्यते तदाह-

प्रयाणकाले मनसाऽचलेन
 भक्त्या युक्तो योगबलेन चैव ॥
भुवोर्मध्ये प्राणमावेश्य सम्य-
 क्स तं परं पुरुषमुपैति दिव्यम् ॥ १० ॥

 प्रयाणकालेऽन्तकालेऽचलेनैकाग्रेण मनसा तं पुरुषं, योऽनुस्मरेदित्यनुवर्तते । कीदृशः, भक्त्या परमेश्वरविषयेण परमेण प्रेम्णा युक्तः । योगस्य समाधेर्बलेन तज्जनितसंस्कारसमूहेन व्युत्थानसंस्कारविरोधिना च युक्तः । एवं प्रथमं हृदयपुण्डरीके वशीकृत्य तत ऊर्ध्वगामिन्या सुषुम्नया नाड्या गुरूपदिष्टमार्गेण भूमिजयक्रमेण ध्रुवोर्मध्य आज्ञाचक्रे प्राणमावेश्य स्थापयित्वा सम्यगप्रमत्तो ब्रह्मरन्ध्रा[३६६]दुत्क्राम्य स एवमुपासकस्तं कर्वि पुराणमनुशासितारमित्यादिलक्षणं परं पुरुषं दिव्यं द्योतनात्मकमुपैति प्रतिपद्यते ॥१०॥

 श्री० टी०-पुनरप्यनुचिन्तनीयं पुरुषं विशिनष्टि-कविमितिद्वाभ्याम्---- कविं सर्वज्ञं[३६७] पुराणमनादिसिद्धम् , अनुशासितारं नियन्तारम् , अणोः सूक्ष्मादप्यणीयांसमतिसू[३६८]क्ष्म सर्वस्य धातारं पोषकम् । अपरिमितमहिमत्वादचिन्त्य[३६९]रूपं मलीमसयोर्नोबुद्ध्योरगोचरम् । आदित्यवत्वपरप्रकाशात्मको वर्णः स्वरूपं यस्य तम् । तमसः प्रकृतेः परस्ताद्वर्तमानम् । " वेदाहमेतं पुरुषं महान्तम् " । " आदित्यवर्ण तमसः परस्तात् " इति श्रुतेः[३७०] । एवंभूतं पुरुषमन्तकाले भक्तियुक्तो निश्चलेन[३७१] मनसा योऽनुस्रेत् । मनोनैश्चल्ये हेतुः-योगबलेन सम्यक्सुषुम्नामार्गेण भ्रुवोर्मध्ये प्राणमावेश्येति । स तं परं पुरुषं[३७२] दिव्यं द्योतनात्मकं प्राप्नोति ॥९॥ १० ॥


  • इयं श्रुतिः क.पुस्तक एव दृश्यते ।

 म०. टी०-इदानी येन केनचिदभिधानेन ध्यानकाले भगवदनुस्मरणे प्राप्ते-

" सर्वे वेदा यत्पदमामनन्ति तपांसि सर्वाणि च यद्वदन्ति ।
यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं संग्रहेण ब्रवीभ्योमित्येतत् "

 इत्यादिश्रुतिप्रतिपादितत्वेन प्रणवेनैवाभिधानेन तदनुस्मरणं कर्तव्यं नान्येन मन्त्रादिनेति नियन्तुमुपक्रमते-

यदक्षरं वेदविदो वदन्ति
 विशन्ति यद्यतयो वीतरागाः ॥
यदिच्छन्तो ब्रह्मचर्य चरन्ति
 तत्ते पदं संग्रहेण प्रवक्ष्ये ॥११ ॥

 यदक्षरमविनाशि ओंकाराख्यं ब्रह्म वेदविदो वदन्ति " एतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्त्यस्थूलमनण्वह्रस्वमदीर्घम्" इत्यादिवचनैः सर्वविशेषनिवर्तनेन प्रतिपादयन्ति । न केवलं प्रमाणकुशलैरेव प्रतिपन्नं किं तु मुक्तोपसप्यतया तैरप्यनुभूतमित्याह-विशन्ति स्वरूपतया सम्यग्दर्शनेन यदक्षरं यतयो यत्नशीलाः संन्यासिनो वीतरागा निस्पृहाः । न केवलं सिद्धैरनुभूतं साधकानामपि सर्वोऽपि प्रयासस्तदर्थ इत्याह-यदिच्छन्तो ज्ञातुं नैष्ठिका ब्रह्मचारिणो ब्रह्मचर्यं गुरुकुलवासादि तपश्चरन्ति यावज्जीव तदक्षराख्यं पदं पदनीयं ते तुभ्यं संग्रहेण संक्षेपेणाहं प्रवक्ष्ये प्रकर्षेण कथयिष्यामि यथा तव बोधो भवति तथा । अतस्तदक्षरं कथं मया ज्ञेयमित्याकुलो मा भूरित्यभिप्रायः । अत्र च परस्य ब्रह्मणो वाचकरूपेण प्रतिमावत्प्रतीकरूपेण च “यः पुनरेतं त्रिमात्रेणोमित्यनेनैवाक्षरेण परं पुरुषमभिध्यायीत स तमधिगच्छति" इत्यादिवचनैर्मन्दमध्यमबुद्धीनां क्रममुक्तिफलकमुपासनमुक्तं तदेवेहापि विवक्षितं भगवता । अतो योगधारणासहितमोंकारोपासनं तत्फलं स्वस्वरूपं ततोऽपुनरावृत्तिस्तन्मार्गश्चेत्यर्थजातमुच्यते यावदध्यायसमाप्ति ॥ ११ ॥

 श्री०टी०-केवलादम्यासयोगादपि प्रणवाधारमभ्यासमन्तरङ्गं विधित्सुः प्रतिजानीते-यदक्षरमिति । यदक्षरं वेदान्तज्ञा वदन्ति "एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः" इति श्रुतेः । वीतो रागो येभ्यस्ते वीतरागा यतयः प्रयत्नवन्तो यद्विशन्ति । यज्ज्ञातुमिच्छन्तो गुरुकुले ब्रह्मचर्यं चरन्ति तत्ते तुभ्यं पद्यते गम्यत इति पदं प्राप्यं संग्रहेण संक्षेपेण प्रवक्ष्ये तत्प्राप्त्युपायं कथयिष्यामीत्यर्थः ॥११॥

 म० टी०-तत्र प्रवक्ष्य इति प्रतिज्ञातमर्थं सोपकरणमाह द्वाभ्याम्-

सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च ॥
मूर्ध्न्याधायाऽऽत्मनः प्राणमास्थितो योगधारणाम् ॥१२॥

 सर्वाणीन्द्रियद्वाराणि संयम्य स्वस्वविषयेभ्यः प्रत्याहृत्य विषयदोषदर्शनाभ्यासात्तद्विमुखतामापादितैः श्रोत्रादिभिः शब्दादिविषयग्रहणमकुर्वन् । बाह्येन्द्रियनिरोधेऽपि

मनसः प्रचारः स्यादित्यत आह-मनो हृदि निरुध्य च, अभ्यासवैराग्याभ्यां षष्ठे व्याख्याताम्यां हृदयदेशे मनो निरुध्य निर्वृत्तिकतामापाद्य च, अन्तरपि विषयचिन्तामकुर्वन्नित्यर्थः । एवं बहिरन्तरुपलब्धिद्वाराणि सर्वाणि संनिरुध्य क्रियाद्वारं प्राणमपि सर्वतो निगृह्य भूमिजयक्रमेण मूर्घ्न्याधाय भ्रुवोर्मध्ये तदुपरि च गुरूपदिष्टमार्गेणाऽऽवेश्याऽऽत्मनो योगधारणामात्मविषयसमाधिरूपां धारणामास्थितः । आत्मन इति देवतादिव्यावृत्त्यर्थम् ॥ १२ ॥

 श्री० टी०-प्रतिज्ञातमुपायं साङ्गमाह द्वाभ्याम्-सर्वेति । सर्वाणीन्द्रियद्वाराणि संयम्य प्रत्याहृत्य चक्षुरादिभिर्बाह्यविषयग्रहणमकुर्वनित्यर्थः । मनश्च हृदि निरुध्य बाह्यविषयस्मरणमकुर्वन्नित्यर्थः । मूर्ध्नि भ्रुवोर्मध्ये प्राणमाधाय योगस्य धारणां स्थैर्यमास्थित आश्रितवान्सन् ॥ १२ ॥

ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन् ।
यः प्रयाति त्यजन्देहं स याति परमां गतिम् ॥ १३॥

 म०टी०-ओमित्ये[३७३]कमक्षरं ब्रह्मवाचकत्वात्प्रतिमावब्रह्मप्रतीकत्वाद्वा ब्रह्म व्याहरन्नुच्चरन् । ओमिति व्याहरन्नित्येतावतैव निर्वाह एकाक्षरमित्यनायासकथनेन स्तुत्यर्थम् । ओमिति व्याहरन्नेकाक्षरमेकमद्वितीयमक्षरमविनाशि सर्वव्यापकं ब्रह्म मामोमित्यस्यार्थं स्मरन्निति वा । तेन प्रणवं जपंस्तदभिधेयभूतं च मां चिन्तयन्मूर्धन्यया नाड्या देहं त्यजन्यः प्रयाति स याति देवयानमार्गेण ब्रह्मलोकं गत्वा तद्भोगान्ते परमां प्रकृष्टां गति मद्रूपाम् । अत्र पतञ्जलिना " तीव्रसंवेगानामासन्नः" समाधिलाभः, इत्युक्त्वा “ ईश्वरप्रणिधानाद्वा " इत्युक्तम् । प्रणिधानं च व्याख्यातं " तस्य वाचकः प्रणवः" " तज्जपस्तदर्थभावनम् ” इति । "समाधिसिद्धिरीश्वरप्रणिधानात्" इति च । इह तु साक्षादेव ततः परमगतिलाम इत्युक्तम् । तस्मादविरोधायोमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन्नात्मनो योगधारणामास्थित इति व्याख्येयम् । विचित्रफलत्वोपपत्तेर्वा न विरोधः ॥ १३ ॥

 श्री०टी०-ओमिति । ओमित्येकं यदक्षरं तदेव ब्रह्मवाचकत्वाद्वा प्रतिमादिवद्ब्रह्मप्रतीकत्वाद्वा ब्रह्म तद्याहरन्नुच्चारयस्तद्वाच्यं च मामनुस्मरन्नेव देहं त्यजन्यः प्रकर्षेण याति अर्चिरादिमार्गेण स परमां श्रेष्ठां गतिं मद्गतिं याति प्राप्नोति ॥ १३ ॥

 म० टी०-य एवं वायुनिरोधवैधुर्येण ध्रुवोर्मध्ये प्राणमावेश्य मूर्धन्यया नाड्या


देहं त्यक्तुं स्वेच्छया न शक्नोति किं तु कर्मक्षयेणैव परवशो देहं त्यजति तस्य किं स्यादिति तदाह-

अनन्यचेताः सततं यो मां स्मरति नित्यशः॥
तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः ॥ १४ ॥

 न विद्यते मदन्यविषये चेतो यस्य सोऽनन्यचेताः सततं निरन्तरं नित्यशो यावज्जीवं यो मां स्मरति तस्य स्ववशतया परवशतया वा देहं त्यजतोऽपि नित्ययुक्तस्य सततसमाहितचित्तस्य योगिनः सुलभः सुखेन लभ्योऽहं परमेश्वर इतरेषामतिदुर्लभोऽपि हे पार्थ, तवाहमतिसुलभो मा भैषीरित्यभिप्रायः । अत्र तस्येति षष्ठी शेषे संबन्धसमान्ये । कर्तरि न लोकेत्यादिना निषेधात् । अत्र चानन्यचेतस्त्वेन सत्कारोऽत्यादरः सततमिति नैरन्तर्यं नित्यश इति दीर्घकालत्वं स्मरणस्योक्तम् । तेन " स तु दीर्घकालनरन्तर्यसत्कारासेवितो दृढभूमिः " इति पातञ्जलं मतमनुसृतं भवति । तत्र स इत्यभ्यास उक्तोऽपि स्मरणपर्यवसायी । तेन यावज्जीवं प्रतिक्षणं विक्षेपान्तरशून्यतया भगवदनुचिन्तनमेव परमगतिहेतुर्मूर्धन्यया नाड्या तु स्वेच्छया प्राणोत्क्रमणं भवतु न वेति नातीवाऽऽग्रहः ॥ १४ ॥

 श्री०टी०-एवं चान्तकाले धारणया मत्प्राप्तिनित्याभ्यासवत एव भवति नान्यस्येति पूर्वोक्तमेवानुस्मारयति-अनन्येति । नास्त्यन्यस्मिंश्वेतो यस्य तथाभूतः सन्यो मां सततं निरन्तरं नित्यशः प्रतिदिनं स्मरति तस्य नित्ययुक्तस्य समाहितस्याहं सुखेन लभ्योऽस्मि नान्यस्य ॥ १४ ॥

 म० टी०-भगवन्तं प्राप्ताः पुनरावर्तन्ते न वेति संदेहे नाऽऽवर्तन्त इत्याह-

मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम् ॥
नाऽऽप्नुवन्ति महात्मानः संसिद्धिं परमां गताः॥१५॥

 मामीश्वरं प्राप्य पुनर्जन्म मनुष्यादिदेहसंबन्धं, कीदृशं दुःखालयं गर्भवासयोनिद्वारनिर्गमनाद्यनेकदुःखस्थानम् । अशाश्वतमस्थिरं दृष्टनष्टप्रायं नाऽऽप्नुवन्ति पुनर्नाऽऽवर्तन्त इत्यर्थः । यतो महात्मानो रजस्तमोमलरहितान्तःकरणाः शुद्धसत्त्वाः समुत्पन्नसम्यग्दर्शना मल्लोकभोगान्ते परमां सर्वोत्कृष्टां संसिद्धिं मुक्तिं गतास्ते । अत्र मां प्राप्य सिद्धिं गता इति वदतोपासकानां क्रममुक्तिर्दर्शिता ॥ १५ ॥

 श्री० टी०-यद्येवं त्वं सुलमोऽसि ततः किमत आह-मामिति । उक्त लक्षणा महात्मानो मद्भक्ता मां प्राप्य पुनर्दुःखाश्रयमनित्यं च जन्म न प्राप्नुवन्ति । यतस्ते परमां सम्यक्सिद्धिं मोक्षमेव प्राप्ताः । पुनर्जन्मनो दुःखानां चाऽऽलयं स्थानं ते मामुपेत्य न प्राप्नुवन्तीति वा ॥ १५ ॥  म० टी०-भगवन्तमुपागतानां सम्यग्दर्शिनामपुनरावृत्तौ कथितायां ततो विमुखानामसम्यग्दर्शिनां पुनरावृत्तिरर्थसिद्धेत्याह-

आब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन ॥
मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते ॥ १६ ॥

 आब्रह्मभुवनात् , भवन्त्यत्र भूतानीति भुवनं लोकः । अभिविधावाकारः । ब्रह्मलोकेन सह सर्वेऽपि लोका मद्विमुखानामसम्यग्दर्शिनां भोगभूमयः पुनरावर्तिनः पुनरावर्तनशीलाः । ब्रह्मभवनादिति पाठे भवनं वासस्थानमिति स एवार्थः । हेऽर्जुन स्वतःप्रसिद्धमहापौरुष । किं तद्वदेव त्वां प्राप्तानामपि पुनरावृत्तिर्नेत्याह-मामीश्वरमेकमुपेत्य तु । तुर्लोकान्तरवैलक्षण्यद्योतनार्थोऽवधारणार्थो वा । मामेव प्राप्य निर्वृताना हे कौन्तेय मातृतोऽपि प्रसिद्धमहानुभाव पुनर्जन्म न विद्यते पुनरावृत्तिर्नास्तीत्यर्थः । अत्रार्जुन कौन्तेयेति संबोधनद्वयेन स्वरूपतः कारणतश्च शुद्धिर्ज्ञानसंपत्तये सूचिता । अत्रेयं व्यवस्था, ये क्रममुक्तिफलाभिरुपासनाभिर्ब्रह्मलोकं प्राप्तास्तेषामेव तत्रोत्पन्नसम्यग्दर्शनानां ब्रह्मणा सह मोक्षः । ये तु पञ्चाग्निविद्यादिभिरतत्क्रतवोऽपि तत्र गतास्तेषामवश्यंभावि पुनर्जन्म । अत एव क्रममुक्त्यभिप्रायेण " ब्रह्मलोकमभिसंपद्य[३७४]ते न च पुनरावर्तते[३७५] " " अनावृत्तिः शब्दात् " इति श्रुतिसूत्रयोरुपपत्तिः । इतरत्र " तेषामिह न पुनरावृत्तिः " " इमं मानवमावर्त नाऽऽवर्तन्ते " इतीहेममिति च विशेषणाद्भगमनाधिकरणकल्पादन्यत्र पुनरावृत्तिः प्रतीयते ॥ १६ ॥

 श्री०टी०-एतदेव सर्वेष्वपि लोकेषु पुनरावृत्तिं दर्शयनिर्धारयति-आब्रह्मेति । ब्रह्मणो भुवनं वासस्थानं ब्रह्मलोकस्तमभिव्याप्य सर्वे लोकाः पुनरावर्तनशीलाः । ब्रह्मलोकस्यापि विनाशित्वात्तत्रत्यानामनुत्पन्नज्ञानानामवश्यंभावि पुनर्जन्म । य एवं क्रममुक्तिफलाभिरुपासनाभिर्ब्रह्मलोकं प्राप्तास्तेषामेव तत्रोत्पन्नज्ञानानां ब्रह्मणा सह मोक्षो नान्येषाम्[३७६] । मामुपेत्य वर्तमानानां तु पुनर्जन्म नास्त्येवेत्यर्थः ॥ १६ ॥

 म० टी०-ब्रह्मलोकसहिताः सर्वे लोकाः पुनरावर्तिनः, कस्मात्कालपरिच्छिन्नत्वादित्याह-

सहस्रयुगपर्यन्तमहर्यद्ब्रह्मणो विदुः॥
रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जनाः ॥ १७ ॥


 मनुष्यपरिमाणेन सहस्रयुगपर्यन्तं सहस्रं युगानि चतुर्युगानि(णि) पर्यन्तोऽवसानं यस्य तत् । " चतुर्युगसहस्रं तु ब्रह्मणो दिनमुच्यते " इति हि पौराणिकं वचनम् । तादृशं ब्रह्मणः प्रजापतेरहर्दिनं यद्ये विदुः, तथा रात्रिं युगसहस्रान्तां चतुर्युगसहस्रपर्यन्तां, ये विदुरित्यनुवर्तते, तेऽहोरात्रविदस्त एवाहोरात्रविदो योगिनो जनाः । ये तु चन्द्रार्कगत्यैव विदुस्ते नाहोरात्रविदः स्वल्पदर्शित्वादित्यभिप्रायः ॥ १७ ॥

 श्री०टी०-ननु च-

" तपस्विनो दानशीला वीतरागास्तितिक्षवः ।
त्रिलोक्या उपरि स्थानं लभन्ते शोकवर्जितम् "

 इत्यादिपुराणवाक्यैत्रिलोक्याः सकाशान्महर्लोकादीनामुत्कृष्टत्वं गम्यते । विनशित्वे च सर्वेषामविशिष्टे कथमसौ विशेषः स्यादित्याशङ्कय बह्वल्पकालावस्थायित्वनिमित्तोऽसौ विशेष इत्याशयेन स्वमानेन शतवर्षायुषो ब्रह्मणोऽहन्यहनि त्रिलोक्या उत्पत्तिर्निशि निशि च प्रलयो भवतीति दर्शयिष्यन्ब्रह्मणोऽहोरात्रयोः प्रमाणमाह- सहस्रति । सहस्रं युगानि पर्यन्तोऽवसानं यस्य तद्ब्रह्मणो यदहस्तद्ये विदुः, युगसहस्रमन्तो यस्यास्तां रात्रिं च योगबलेन ये विदुस्त एव सर्वज्ञा जना अहोरात्रविदः । येषां तु केवलं चन्द्रार्कगत्यैव ज्ञानं ते तथाऽहोरात्रविदो न भवन्ति अल्पदर्शित्वात् । युगशब्देनात्र चतुर्युगमभिप्रेतम् । "चतुर्युगसहस्रं तु ब्रह्मणो दिनमुच्यते” [३७७]इत्यादिपराणोक्तेः । ब्रह्मण इति महर्लोकादिवासिनामप्युपलक्षणार्थम् । तत्रायं कालगणनाप्रकारः-मनुष्याणां यद्वर्ष तद्देवानामहोरात्रं, तादृशैरहोरात्रैः पक्षमासादिकल्पनया द्वादशभिर्वर्षसहस्रैश्चतुर्युगं भवति । चतुर्युगसहस्रं च ब्रह्मणो दिनम् , तावत्परिमाणैव रात्रिः । तादृशैश्चाहोरात्रैः पक्षमासादिक्रमेण वर्षशतं ब्रह्मणः परमायुरिति ॥ १७ ॥

 म०टी०-यथोक्तैरहोरात्रैः पक्षमासादिगणनया पूर्ण वर्षशतं प्रजापतेः परमायुरिति कालपरिच्छिन्नत्वेनानित्योऽसौ । तेन तल्लोकात्पुनरावृत्तिर्युक्तैव । ये तु ततोऽर्वाचीनास्तेषां तदहर्मात्रपरिच्छिन्नत्वात्तत्तल्लोकेभ्यः पुनरावृत्तिरिति किमु वक्तव्यमित्याह-

अव्यक्ताद्व्यक्तयः सर्वाः प्रभवन्त्यहरागमे ॥
रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसंज्ञके ॥ १८॥

 अत्र दैनंदिनसृष्टिप्रलययोरेव वक्तुमुपक्रान्तत्वात्तत्र चाऽऽकाशादीनां सत्त्वादव्यक्तशब्देनाव्याकृतावस्था नोच्यते । किं तु प्रजापतेः स्वापावस्थैव । स्वापावस्थः प्रजापतिरिति यावत् । अहरागमे प्रजापतेः प्रबोधसमयेऽव्यक्तात्तत्स्वापावस्थारूपाध्व्यक्तयः शरीरविषयादिरूपा भोगभूमयः प्रभवन्ति व्यवहारक्षमतयाऽभिव्यज्यन्ते । रात्र्यागमे तस्य


स्वापकाले पूर्वोक्ताः सर्वा अपि व्यक्तयः प्रलीयन्ते तिरो भवन्ति यत आविर्भूतास्तत्रैवाव्यक्तसंज्ञके कारणे प्रागुक्ते स्वापावस्थे प्रजापतौ ॥ १८ ॥

 श्री०टी०-ततः किमत आह-अव्यक्तादिति । कार्यस्याव्यक्तं रूपं कारणात्मकं तस्मादव्यक्तात्कारणरूपाद्व्यज्यन्तेऽभिव्यज्यन्त इति व्यक्तयश्चराचराणि भूतानि प्रादुर्भवन्ति । कदा, अहरागमे ब्रह्मणो दिनस्योपक्रमे । तथा रात्रेरागमे[३७८] तस्मिन्नेवाव्यक्तसंज्ञके कारणरूपे प्रलयं यान्ति । यद्वा तेऽहोरात्रविद इत्येतन्न विधीयते किं तु ते प्रसिद्धा अहोरात्रविदो जना यद्ब्रह्मणोऽहर्विंदुस्तस्याह्न आगमेऽव्यक्ताव्यक्तयः प्रभवन्ति । यां च रात्रि विदुस्तस्या रात्रेरागमे प्रलीयन्त इति द्वयोरन्वयः ॥ १८ ॥

 म०. टी०-एवमाशुविनाशित्वेऽपि संसारस्य न निवृत्तिः क्लेशकर्मादिभिरवशतया पुनः पुनः प्रादुर्भावात्प्रादुर्भूतस्य च पुनः क्लेशादिवशेनैव तिरोभावात् । संसारे विपरिवर्तमानानां सर्वेषामपि प्राणिनामस्वातन्त्र्यादवशानामेव जन्ममरणादिदुःखप्रबधसंबन्धादलमनेन संसारेणेतिवैराग्योत्पत्त्यर्थं समाननामरूपत्वेन च पुनः पुनः प्रादुर्भावात्कृतनाशाकृताभ्यागमपरिहारार्थ चाऽऽह-

भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते ॥
राध्यागमेऽवशः पार्थ प्रभवत्यहरागमे ॥ १९ ॥

 भूतग्रामो भूतसमुदायः स्थावरजङ्गमलक्षणो यः पूर्वस्मिन्कल्पे स्थितः स एवायमेतस्मिन्कल्पे जायमानोऽपि न तु प्रतिकरूपमन्योऽन्यश्च । असत्कार्यवादानभ्युपगमात् ।

सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत् ।
दिवं च पृथिवीं चान्तरिक्षमथो स्वः" इति श्रुतेः ॥

 "समाननामरूपत्वादावृत्तावप्यविरोधो दर्शनात्स्मृतेश्च " इति न्यायाच्च । अवश इत्यविद्याकामकर्मादिपरतन्त्रः । हे पार्थ स्पष्टमितरत् ॥ १९ ॥

 श्री०टी०-तत्र च कृतनाशाकृताभ्यागमशङ्कां वारयन्वैराग्यार्थं सृष्टिप्रलयप्रवाहस्याविच्छेदं दर्शयति-भूतेति । भूतानां चराचरप्राणिनां ग्रामः समूहो यः प्रागासीत्स एवायमहरागमे भूत्वा भूत्वा रात्रैरागमे प्रलीय प्रलीय[३७९] पुनरप्यहरागमेऽवशः कर्मादिपरतन्त्रः प्रभवति नान्य इत्यर्थः ॥ १९ ॥

 म०टी०-एवमवशानामुत्पत्तिविनाशप्रदर्शनेनाऽऽब्रह्मभुवनाल्लोकाः पुनरावर्तिन इत्येतद्वयाख्यातमधुना मामुपेत्य पुनर्जन्म न विद्यत इत्येतद्व्याचष्टे द्वाभ्याम् ---

परस्तस्मात्तु भावोऽन्योऽव्यक्तोऽव्यक्तात्सनातनः ॥
यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति ॥२०॥



 तस्माच्चराचरस्थूलप्रपञ्चकारणभूताद्धिरण्यगर्भाख्यादव्यक्तात्परो व्यतिरिक्तः श्रेष्ठो वा तस्यापि कारणभूतः । व्यतिरेकेऽपि सालक्षण्यं स्यादिति नेत्याह-अन्योऽत्यन्तविलक्षणः न तस्य प्रतिमा अस्ति" इति श्रुतेः । अव्यक्तो रूपादिहीनतया चक्षुराद्यगोचरो भावः कल्पितेषु सर्वेषु कार्येषु सद्रूपेणानुगतः । अत एव सनातनो नित्यः । तुशब्दो हेयादनित्यादव्यक्तादुपादेयत्वं नित्यस्याव्यक्तस्य वैलक्षण्यं सूचयति । एतादृशो यो भावः स हिरण्यगर्भ इव सर्वेषु भूतेषु नश्यत्स्वपि न विनश्यति उत्पद्यमानेष्वपि नोत्पद्यत इत्यर्थः । हिरण्यगर्भस्य तु कार्यस्य भूताभिमानित्वात्तदुत्पत्तिविनाशाभ्यां युक्तावेवोत्पत्तिविनाशौ न तु तदनभिमानिनोऽकार्यस्य परमेश्वरस्येति भावः ॥ २० ॥

 श्री०टी०-लोकानामनित्यत्वं प्रपञ्चय परमेश्वरस्वरूपस्य नित्यत्वं प्रपञ्चयति पर इति द्वाभ्याम्-तस्माच्चराचरकारणभूतादव्यक्तात्परस्तस्यापि कारणभूतो योऽन्यस्तद्विलक्षणोऽव्यक्तश्चक्षुराद्यगोचरो भावः सनातनोऽनादिः स तु सर्वेषु कार्यकारणलक्षणेषु भूतेषु नश्यत्स्वपि न विनश्यति ॥ २० ॥

अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परमां गतिम् ॥ यं प्राप्य न निवर्तन्ते तद्धाम परमं मम ॥ २१ ॥

 म०टी०-यो भाव इहाव्यक्त इत्यक्षर इति चोक्तोऽन्यत्रापि श्रुतिषु स्मृतिषु च तं भावमाहुः श्रुतयः स्मृतयश्च “ पुरुषान्न परं किंचित्सा काष्ठा सा परा गतिः" इत्याद्याः परमामुत्पत्तिविनाशशून्यस्वप्रकाशपरमानन्दरूपां गतिं पुरुषार्थविश्रान्तिम् । यं भावं प्राप्य न पुनर्निवर्तन्ते संसाराय तद्धाम स्वरूपं मम विष्णोः परमं सर्वोत्कृष्टम् । मम धामेति राहोः शिर इतिवद्भेदकल्पनया पष्ठी। अतोऽहमेव परमा गतिरित्यर्थः॥२१॥

 श्री०टी०-अविनाशे प्रमाणं दर्शयन्नाह-अव्यक्त इति । यो भावोऽव्यतोऽतीन्द्रियोऽक्षरः प्रदेशनाशशून्य इति तथाऽक्षरात्संभवतीह[३८०] विश्वमित्यादिश्रुतिष्वक्षर इत्युक्तस्तं परमां गतिं गम्यं पुरुषार्थमाहुः "पुरुषा[३८१]न्न परं किंचित्सा काष्ठा सा परा गतिः” इत्यादिश्रुतयः । परमगतित्वमेवाऽऽह-यं प्राप्य पुनर्न निवर्तन्त इति । तच्च ममैव धाम स्वरूपम् । ममेत्युपचारे षष्ठी राहोः शिर इतिवत् । अतोऽहमेव परमा गतिरित्यर्थः ॥ २१॥

 म० टी०-इदानीम्----

" अनन्यचेताः सततं यो मां स्मरति नित्यशः ।
तस्याहं सुलभः

 इति प्रागुक्तं भक्तियोगमेव तत्प्राप्त्युपायमाह-


पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया ॥
यस्यान्तःस्थानि भूतानि येन सर्वमिदं ततम् ॥२२॥

 स परो निरतिशयः पुरुषः परमात्माऽहमेवानन्यया न विद्यतेऽन्यो विषयो यस्यां तया प्रेमलक्षणया भक्त्यैव लभ्यो नान्यथा । स क इत्यपेक्षायामाह-यस्य पुरुषस्यान्तःस्थान्यन्तर्वर्तीनि भूतानि सर्वाणि कार्याणि कारणान्तर्वतित्वात्कार्यस्य । अत एव येन पुरुषेण सर्वमिदं कार्यजातं ततं व्याप्तं-

" यस्मात्परं नापरमस्ति किंचिद्यस्मान्नाणीयो न ज्यायोऽस्ति कश्चित् ।
वृक्ष एव स्तब्धो दिवि तिष्ठत्येकस्तेनेदं पूर्ण पुरुषेण सर्वम् ।।
यच्च किंचिज्जग[३८२]त्सर्वं दृश्यते श्रूयतेऽपि वा।
अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः " ॥

 "स पर्यगाच्छुक्रम् " इत्यादिश्रु[३८३]तिभ्यश्च ॥ २२ ॥

 श्री०टी०---तत्प्राप्तौ च भक्तिरन्तरकोपाय इत्युक्तमेवेत्याह-पुरुष इति । स चाहं परः पुरुषोऽनन्यया न विद्यतेऽन्यः शरणत्वेन यस्यां तयैकान्तभक्त्यैव लभ्यो नान्यथा । परत्वमेवाऽऽह-यस्य कारणभूतस्यान्तर्मध्ये भूतानि स्थितानि । येन च कारणभूतेन सर्वमिदं जगत्ततं व्याप्तम् ॥ २२ ॥

 म०टी०-~-सगुणब्रह्मोपासकास्तत्पदं प्राप्य न निवर्तन्ते किं तु क्रमेण मुच्यन्ते । तत्र तल्लोकभोगात्प्रागनुत्पन्नसम्यग्दर्शनानां तेषां मार्गापेक्षा विद्यते न तु सम्यग्दर्शिनामिव तदनपेक्षेत्युपासकानां तल्लोकप्राप्तये देवयानमार्ग उपदिश्यते। पितृयान(ण)मार्गोपन्यासस्तु तस्य स्तुतये-

यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः ॥
प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ ॥२३॥

 प्राणोत्क्रमणानन्तरं यत्र यस्मिन्काले कालाभिमानिदेवतोपलक्षिते मार्गे प्रयाता योगिनो ध्यायिनः कर्मिणश्चानावृत्तिमावृत्तिं च यान्ति देवयाने पथि प्रयाता ध्यायिनोऽनावृत्तिं यान्ति पितृयाने(णे) पथि प्रयाताश्च कर्मिण आवृत्तिं यान्ति । यद्यपि देवयानेऽपि पथि प्रयाताः पुनरावर्तन्त इत्युक्तम् “आब्रह्मभुवनाल्लोकाः पुनरावर्तिनः" इत्यत्र, तथाऽपि पितृयाणे पथि गता आवर्तन्त एव न केऽपि तत्र क्रममुक्तिभाजः । देवयाने पथि गतास्तु यद्यपि केचिदावर्तन्ते प्रतीकोपासकास्तडिल्लोकपर्यन्तं गता हिरण्यगर्भपर्यन्तममानवपुरुषनीता अपि पञ्चाग्निविद्याद्युपासका अतत्क्रतवो


भोगान्ते निवर्तन्त एव तथाऽपि दहराद्युपासकाः क्रमेण मुच्यन्ते भोगान्त इति न सर्व

एवाऽऽवर्तन्ते । अत एव पितृयानः(णः) पन्था नियमेनाऽऽवृत्तिफलत्वान्निकृष्टः । अयं तु देवयानः पन्था अनावृत्तिफलत्वादतिप्रशस्त इति स्तुतिरुपपद्यते केषांचिदावृत्तावप्यनावृत्तिफलत्वस्यानपायात् । तं देवयानं पितृयाणं च कालं कालाभिमानिदेवतोपलक्षितं मार्ग वक्ष्यामि हे भरतर्षभ । अत्र कालशब्दस्य मुख्यार्थत्वेऽग्निज्योतिधूमशब्दानामनुपपत्तिर्गतिसृतिशब्दयोश्चेति तदनुरोधेनैकस्मिन्कालपद एव लक्षणाऽऽश्रिता कालाभिमानिदेवतानां मार्गद्वयेऽपि बाहुल्यात् । अग्निधूमयोस्तदितरयोः सतोरपि अग्निहोत्रशब्दवदेकदेशेनाप्युपलक्षणं कालशब्देन । अन्यथा प्रातरग्नि देवताया अभावात्तत्प्रख्यं चान्यशास्त्रमित्यनेन तस्य नामधेयता न स्यात् । आम्रवणमिति च लौकिको दृष्टान्तः ॥ २३ ॥

 श्री०टी०-~-तदेवं परमेश्वरोपासकास्तत्पदं प्राप्य न निवर्तन्ते, अन्ये त्वावर्तन्त इत्युक्तम् । तत्र केन मार्गेण गता नाऽऽवर्तन्ते केन वा गताश्चाऽऽवर्तन्त इत्यपेक्षायामाह-योति । यत्र यस्मिन्काले प्रयाता योगिनोऽनावृत्तिं यान्ति यस्मिंश्च काले प्रयाता आवृत्तिं यान्ति तं कालं वक्ष्यामीत्यन्वयः । अत्र च "रश्म्यनुप्सारी, " अतश्चायनेऽपि दक्षिणे" इतिसूत्रितन्यायेनोत्तरायणादिकालविशेषमरणस्याविवक्षित. त्वात्कालशब्देन कालाभिमानिनीभिरातिवाहिकीभिर्देवतामिः प्राप्यो मार्ग उपलक्ष्यते । अतोऽयमर्थः-यस्मिन्कालाभिमानिदेवतोपलक्षिते मार्गे प्रयाता योगिन उपासकाः कर्मिणश्च यथाक्रममनावृत्तिमावृत्तिं च यान्ति तं कालाभिमानिदेवतोपलक्षितं मार्ग कथयिष्यामीति । अग्निज्योतिषोः कालाभिमानित्वाभावेऽपि भूयसामहरादिशब्दोक्तानां कालाभिमानित्वात्तत्साहचर्यादाम्रवणमित्यादिवत्कालशब्देनोपलक्षणमविरुद्धम् ॥ २३ ॥

 म०टी०-तत्रोपासकानां देवयानं पन्धानमाह-

अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम् ॥
तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः॥ २४ ॥

 अग्निर्ज्योतिरित्यर्चिरभिमानिनी देवता लक्ष्यते, अहरित्यहरभिमानिनी, शुक्लपक्ष इति शुक्लपक्षाभिमानिनी, षण्मासा उत्तरायणमिति उत्तरायणरूपषण्मासाभिमानिनी देवतैव लक्ष्यते " आतिवाहिकास्तल्लिङ्गात्" इति न्यायात् । एतच्चान्यासामपि श्रुत्युक्तानां देवतानामुपलक्षणार्थम् । तथा च श्रुतिः-" तेऽर्चिरभिसंभवन्त्यर्चिऽहरह्न आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान्डुदङ्डेति मासांस्तान्मासेभ्यः संवत्सरं संवत्सरादादित्यमादित्याचन्द्रमसं चन्द्रमसो विद्युतं तत्पुरुषोऽमानवः स एनान्ब्रह्म गमयत्येष देवपथो ब्रह्मपथ एतेन प्रतिपद्यमाना इमं मानवमावर्त नाऽऽवर्तन्ते" इति। अत्र श्रुत्यन्तरानुसारात्संवत्सरानन्तरं देवलोकदेवता ततो वायुदेवता तत आदित्य इत्याकरे निर्णीतम् । एवं विद्युतोऽनन्तरं वरुणेन्द्रप्रजापतयस्तावता मार्गपर्वपूर्तिः । तत्रार्चिरहःशुक्लपक्षोत्तरायणदेवता इहोक्त संवत्सरो देवलोको वायुरादित्यश्चन्द्रमा विद्युद्वरुण इन्द्रः प्रजापतिश्चेत्यनुक्ता अ द्रष्टव्याः । तत्र देवयानमार्गे प्रयाता गच्छन्ति ब्रह्म कार्योपाधिकं " कार्य वादरिरस गत्युपपत्तेः" इति न्यायात् । निरुपाधिकं तु ब्रह्म तद्वारैव क्रममुक्तिफलत्वात् । ब्रह्म विदः सगुणब्रह्मोपासका जनाः । अत्र " एतेन प्रतिपद्यमाना इमं मानवमावर्त नाऽऽवर्तन्ते " इति श्रुताविममिति विशेषणात्कल्पान्तरे केचिदावर्तन्त इति प्रतीयते । अत एवात्र भगवतोदासितं श्रौतमार्गकथनेनैव व्याख्यानात् ॥ २४ ॥

 श्री०टी०-तत्रानावृत्तिमार्गमाह-अग्निरिति । अग्निज्योतिःशब्दाभ्यां तेऽर्चिषमभिसंभवन्तीतिश्चुत्युक्तार्चिरभिमानिनी देवतोपलक्ष्यते । अहरिति दिवसाभिमानिनी । शुक्ल इति शुक्लपक्षाभिमानिनी। उत्तरायणरूपाः षण्मासा इत्युत्तरायणाभिमानिनी । एतच्चान्यासामपि श्रुत्युक्तानां संवत्सरदेवलोकादिदेवतानामुपलक्षणार्थम् । एवंभूतो यो मार्गस्तत्र प्रयाता गता भगवदुपासका जना ब्रह्म प्राप्नुवन्ति[३८४] । यतस्ते ब्रह्मविदः । तथाच श्रुति:--"तेऽर्चिषिमभिसंभवन्ति अर्चिषोऽहरहु आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान्षण्मासानुदङ्डादित्य [३८५]एति मासेभ्यो देवलोकमित्यादिः[३८६] ॥ २४ ॥

 म०. टी०.-देवयानमार्गस्तुत्यर्थं पितृयाणमार्गमाह-

धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम् ॥
तत्र चान्द्रमसं ज्योतियोगी प्राप्य निवर्तते ॥२५॥

 अत्रापि धूम इति धूमाभिमानिनी देवता, रात्रिरिति रात्र्यभिमानिनी, कृष्ण इति कृष्णपक्षाभिमानिनी, षण्मासा दक्षिणायनमिति दक्षिणायनाभिमानिनी लक्ष्यते । एतदप्यन्यासां श्रुत्युक्तानामुपलक्षणम् । तथाहि श्रुतिः-" ते धूममभिसंभवन्ति धूमाद्रात्रिं रात्रेरपरपक्षमपरपक्षाद्यान्षड्दक्षिणैति मासांस्तान्नैते संवत्सरमभिप्राप्नुवन्ति मासेम्यः पितृलोकं पितृलोकादाकाशमाकाशाच्चन्द्रमसमेष सोमो राजा तद्देवानामन्नं तं देवा मक्षयन्ति तस्मिन्यावत्संपातमुषित्वाऽथैतमेवाध्वानं पुनर्निवर्तन्ते" इति । तत्र धूमरात्रिकृष्णपक्षदक्षिणायनदेवता इहोक्ताः । पितृलोक आकाशश्चन्द्रमा इत्यनुक्ता अपि द्रष्टव्याः । तत्र तस्मिन्पथि प्रयाताश्चान्द्रमसं ज्योतिः फलं योगी कर्मयोगीष्टापूर्तदत्तकारी प्राप्य यावत्संपातमुषित्वा निवर्तते । संपतत्यनेनेति संपातः कर्म । तस्मादेतस्मादावृत्तिमार्गादनावृत्तिमार्गः श्रेयानित्यर्थः ॥ २५ ॥


 श्री०टी०- आवृत्तिमार्गमाह-धूम इति धूमाभिमानिनी देवता । रात्र्यादिशब्दैश्च पूर्ववदेव रात्रिकृष्णपक्षदक्षिणायनरूपषण्मासाभिमानिन्यस्तित्रो देवता उपलक्ष्यन्ते । एताभिर्देवताभिरुपलक्षितो यो मार्गस्तत्र प्रयातः कर्मयोगी चान्द्रमसं ज्योतिस्तदुपलक्षितं स्वर्गलोकं प्राप्य तत्रेष्टापूर्तकर्मफलं भुक्त्वा पुनरावर्तते । अत्रापि श्रुतिः- "ते धूममभिसंभ[३८७]वन्ति" इत्यादिः। तदेवं निवृत्तिकर्मसहितोपासनया क्रममुक्तिः काम्यकर्मभिश्च स्वर्गभोगानन्तरमावृत्तिः । निषिद्धकर्मभिस्तु नरकभोगानन्तरमावृत्तिः । क्षुद्रकर्मणां तु जन्तूनामत्रैव पुनः पुनर्जन्मेति द्रष्टव्यम् ॥ २५ ॥

 म०टी०--उक्तौ मार्गावुपसंहरति--

शुक्लकृष्णे गती येते जगतः शाश्वते मते ॥
एकया यात्यनावृत्तिमन्ययाऽऽवर्तते पुनः ॥ २६ ॥

 शुक्लाऽर्चिरादिगतिर्ज्ञानप्रकाशमयत्वात् । कृष्णा धूमादिगतिर्ज्ञानहीनत्वेन तमोमय- त्वात् । ते एते शुक्लकृष्णे गती मार्गौ हि प्रसिद्धे सगुणविद्याकर्माधिकारिणोः, जगतः सर्वस्यापि शास्त्रज्ञस्य शाश्वते अनादी मते संसारस्यानादित्वात् । तयोरेकया शुक्लया यात्यनावृत्ति कश्चित् , अन्यया कृष्णया पुनरावर्तते सर्वोऽपि ॥ २६ ॥

 श्री०टी०-उक्तौ मार्गावुपसंहरति-- शुक्लेति । शुक्लाऽचिरादिगतिः प्रकाशमयत्वात् । कृष्णा धूमादिगतिस्तमोमयत्वात् । एते गती मार्गौ ज्ञानकर्माधिकारिणो जगतः शाश्वते अनादी संमते संसारस्थानादित्वात् । तयोरेकया शुक्लया नि(sना)वृत्तिं मोक्षं याति अन्यया कृष्णया तु पुनरावर्तते ॥ २६ ॥

 म०. टी०-~गतेरूपास्यत्वाय तद्विज्ञानं स्तौति-

नैते सृती पार्थ जानन्योगी मुह्यति कश्चन ॥
तस्मात्सर्वेषु कालेषु योगयुक्तो अवार्जुन ॥२७॥

 एते सृती मार्गों हे पार्थ जानन्क्रममोक्षायैका पुनः संसारायापरेति निश्चिन्वन्योगी ध्याननिष्ठो न मुह्यति केवलं कर्म धूमादिमार्गप्रापकं कर्तव्यत्वेन न प्रत्येति कश्चन कश्चिदपि । तस्माद्योगस्यापुनरावृत्तिफलत्वात्सर्वेषु कालेषु योगयुक्तः समाहितचित्तो भवापुनरावृत्तये हेऽर्जुन ॥ २७ ॥

 श्री० टी०-मार्गज्ञानफलं दर्शयन्भक्तियोगमुपसंहरति-नैते इति । एते सृती


मार्गौ हे पार्थ मोक्षसंसारप्रापकौ जानन्कश्चिदपि योगी न मुह्यति, सुखबुद्धया स्वर्गादिफलं न कामयते, किंतु परमेश्वरनिष्ठ एव भवतीत्यर्थः । स्पष्टमन्यत् ॥ २७ ॥

 म०टी०-पुनः श्रद्धावृद्धयर्थ योग.स्तौति-

वेदेषु यज्ञेषु तपःसु चैव
 दानेषु यत्पुण्यफलं प्रदिष्टम् ॥
अत्येति तत्सर्वमिदं विदित्वा
 व्योगी परं स्थानमुपैति चाऽऽद्यम् ॥२८॥

इति श्रीमहाभारते शतसाहस्यां संहितायां वैयासिक्यां

भीष्मपर्वणि श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां

योगशास्त्रे श्रीकृष्णार्जुनसंवादेऽक्षरपरब्रह्म-

योगो नामाष्टमोऽध्यायः ॥ ८ ॥

 वेदेषु दर्भपवित्रपाणित्वप्राङ्मुखत्वगुर्वधीनत्वादिभिः सम्यगधीतेषु, यज्ञेष्वङ्गोपाङ्गसाहित्येन श्रद्धया सम्यगनुष्ठितेषु, तपःसु शास्त्रोक्तेषु मनोबुद्ध्यायैकाग्र्येण श्रद्धया सुतप्तेषु, दानेषु तुलापुरुषादिषु देशे काले पात्रे च श्रद्धया सम्यग्दत्तेषु यत्पुण्यफलं पुण्यस्य धर्मस्य फलं स्वर्गस्वाराज्यादि प्रदिष्टं शास्त्रेण, अत्येत्यतिक्रामति तत्सर्वमिदं पूर्वोक्तसप्तप्रश्ननिरूपणद्वारेणोक्तं विदित्वा सम्यगनुष्ठानपर्यन्तमवधार्यानुष्ठाय च योगी ध्याननिष्ठः। न केवलं तदतिक्रामति परं सर्वोत्कृष्टमैश्वरं स्थानमाद्यं सर्वकारणमुपैति च प्रतिपद्यते च सर्वकारणं ब्रह्मैव प्राप्नोतीत्यर्थः। तदनेनाध्यायेन ध्येयत्वेन तत्पदार्थो व्याख्यातः ॥२८॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीविश्वेश्वरसरस्वतीपादशिष्यश्रीमधु-

सूदनसरस्वतीविरचितायां श्रीमद्भगवद्गीतागूढार्थदीपिकाया-

मधिकारिभेदेनाक्षरपरब्रह्मविवरणं नामा-

ष्टमोऽध्यायः ॥ ८॥

 श्री०टी०-अध्यायार्थमष्टप्रश्नार्थनिर्णय सफलमुपसंहरति-वेदेष्विति । वेदेष्वध्ययनादिभिर्यज्ञेष्वनुष्ठानादिभिस्तपःसु कायशोषणादिभिर्दानेषु च सत्पात्रार्पणादिभिर्यत्पुण्यफलमुपदिष्टं शास्त्रेषु तत्सर्वमत्येति ततोऽपि श्रेष्ठं योगैश्वर्यं प्राप्नोति । किं कृत्वा, इदमष्टप्रश्नार्थनिर्णयेनोक्तं तत्त्वं विदित्वा । ततश्च योगी ज्ञानी भूत्वा परमुत्कृष्टमाद्यं जगन्मूलभूतं स्थानं विष्णोः परमं पदं प्राप्नोति ॥ २८ ॥

अष्टमेऽष्टविशिष्टेष्टसंपृष्टार्थाष्टनिर्णयैः ।
आक्लिष्टमिष्टधामाप्तिः स्पष्टिताऽष्टमवर्त्मना ॥ १ ॥

इति श्रीसुबोधिन्या टीकायां श्रीधरस्वामिविरचितायां महापुरु.

षयोगो नामाष्टमोऽध्यायः ॥ ८ ॥

अथ नवमोऽध्यायः ।

 म० टी०-पूर्वाध्याये मूर्धन्यनाडीद्वारकेण हृदयकण्ठभ्रूमध्यादिधारणासहितेन सर्वेन्द्रियद्वारसंयमगुणकेन योगेन स्वेच्छयोत्क्रान्तप्राणस्याचिरादिमार्गेण ब्रह्मलोकं प्रयातस्य तत्र सम्यग्ज्ञानोदयेन कल्पान्ते परब्रह्मप्राप्तिलक्षणा क्रममुक्तिर्व्याख्याता । तत्र चानेनैव प्रकारेण मुक्तिलभ्यते नान्यथेत्याशङ्कय----

" अनन्यचेताः सततं यो मां स्मरति नित्यशः।
तस्याहं सुलभः"

 इत्यादिना भगवत्तत्त्वविज्ञानात्साक्षान्मोक्षप्राप्तिरभिहिता । तत्र चानन्या भक्तिरसाधारणो हेतुरित्युक्तं " पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया" इति । तत्र पूर्वोक्तयोगधारणापूर्वकप्राणोत्क्रमणार्चिरादिमार्गगमनकालविलम्बादिक्लेशमन्तरेणैव साक्षान्मोक्षप्राप्तये भगवत्तत्त्वस्य तद्भक्तेश्च विस्तरेण ज्ञापनाय नवमोऽध्याय आरम्यते । अष्टमे ध्येयब्रह्मनिरूपणेन तद्ध्याननिष्ठस्य गतिरुक्ता । नवमे तु ज्ञेयब्रह्मनिरूपणेन ज्ञाननिठस्य गतिरुच्यत इति संक्षेपः । तत्र वक्ष्यमाणज्ञानस्तुत्यस्त्रिीक्ष्लोकान्-

श्रीभगवानुवाच-
 इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे ॥
 ज्ञान विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥१॥

 इदं प्राग्बहुधोक्तमग्रे च वक्ष्यमाणमधुनोच्यमानं ज्ञानं शब्दप्रमाणकं ब्रह्मतत्त्वविषयक ते तुभ्यं प्रवक्ष्यामि । तुशब्दः पूर्वाध्यायोक्ताद्धयानाज्ज्ञानस्य वैलक्षण्यमाह-इदमेव सम्यग्ज्ञानं साक्षान्मोक्षप्राप्तिसाधनं न तु ध्यानं तस्याज्ञानानिवर्तकत्वात् । तत्त्वन्तःकरणशुद्धिद्वा[३८८]रेदमेव ज्ञानं संपाद्य क्रमेण मोक्षं जनयतीत्युक्तम् । कीदृशं ज्ञानं गुह्यतमं गोपनीयतममतिरहस्यत्वात् । यतो विज्ञानसहित ब्रह्मानुभवपर्य-


न्तम् । ईदृशमतिरहस्यमप्यहं शिष्यगुणाधिक्यावक्ष्यामि तुभ्यमनसूयवे । असूया गुणेषु दोषदृष्टिस्तदाविष्करणादिफला । सर्वदाऽयमात्मैश्वर्यख्यापनेनाऽऽत्मानं प्रशंसति मत्पुरस्तादित्येवंरूपा तदहिताय । अनेनाऽऽर्जवसंयमावपि शिष्यगुणौ व्याख्यातौ । पुनः कीदृशं ज्ञानं यज्ज्ञात्वा प्राप्य मोक्ष्यसे सद्य एव संसारबन्धनादशुभात्सर्वदुः- खहेतोः ॥ १॥

श्री०टी०-परेशः प्राप्यते शुद्धभक्त्येति स्थितमष्टमे ।
  नवमे तु तदैश्वर्यमत्याश्चर्य प्रपञ्च्यते ॥

 एवं तावत्सप्तमाष्टमयोः स्वीयं पारमेश्वरं तत्त्वं भक्त्यैव सुलभं नान्यथेत्युक्त्वेदानीमचिन्त्यं स्वकीयमैश्वर्यं भक्तेश्वासाधारणप्रभाव प्रपञ्चयिष्यञ्श्रीभगवानुवाच- इदं त्विति । विशेषेण ज्ञायतेऽनेनेति विज्ञानमुपासनं तत्सहितं ज्ञानमीश्वरविषयमिदं तु अनसूयवे पुनः पुनः स्वमाहात्म्यमेवोपदिशतीत्येवं परमकारुणिके मयि दोषदृष्टिरहिताय ते तुभ्यं वक्ष्यामि । तुशब्दो वैशिष्ट्ये । तदेवाऽऽह-गुह्यतममित्यादिना । गुह्यं धर्मज्ञानं ततो देहादिव्यतिरिक्तात्मज्ञानं गुह्यतरं ततोऽपि परमात्मज्ञानमतिरहस्यवाद्गुह्यतमम् । यज्ज्ञात्वाऽशुभात्संसारान्मोक्ष्यसे सद्य एव मुक्तो भविष्यसि ॥ १ ॥

 म० टी०-पुनस्तदाभिमुख्याय तज्ज्ञानं स्तौति-

राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् ॥
प्रत्यक्षावगमं धर्म्यं सुमुखं कर्तुमव्ययम् ॥२॥

 राजविद्या सर्वासां विद्यानां राजा सर्वाविद्यानाशकत्वात् , विद्यान्तरस्याविद्यैकदेशविरोधित्वात् । तथा राजगुह्यं सर्वेषां गुह्यानां राजा, अनेकजन्मकृतसुकृतसाध्यत्वेन बहुभिरज्ञातत्वात् । राजदन्तादित्वादुपसर्जनस्य परनिपातः । पवित्रमिदमुत्तमं, प्रायश्चितैर्हि किंचिदेकमेव पापं निवय॑ते । निवृत्तं च तत्स्वकारणे सूक्ष्मरूपेण तिष्ठत्येव । यतः पुनस्तत्पापमुपचिनोति पुरुषः । इदं तु अनेकजन्मसहस्रसंचितानां सर्वेषामपि पापानां स्थूलसूक्ष्मावस्थानां तत्कारणस्य चाज्ञानस्य सद्य एवोच्छेदकम् । अतः सर्वोत्तमं पावनमिदमेव । न चातीन्द्रिये धर्म इवात्र कस्यचित्संदेहः स्वरूपतः फलतश्च प्रत्यक्षत्वादित्याह-प्रत्यक्षावगममवगम्यतेऽनेनेत्यवगमो मानमवगम्यते प्राप्यत इत्यवगमः फलं, प्रत्यक्षमवगमो मानमस्मिन्निति स्वरूपतः साक्षिप्रत्यक्षत्वं, प्रत्यक्षोऽवगमोऽस्येति फलतः साक्षिप्रत्यक्षत्वम् । मयेदं विदितमतो नष्टमिदानीमत्र ममाज्ञानमिति हि सार्वलौकिकः साक्ष्यनुभवः । एवं लोकानुभवसिद्धत्वेऽपि तज्ज्ञानं धर्म्यं धर्मादनपेतमनेकजन्मसंचितनिष्कामधर्मफलम् । तर्हि दुःसंपादं स्यान्नेत्याह-सुसुखं कर्तुं गुरूपदर्शितविचारसहकृतेन वेदान्तवाक्येन सुखेन कर्तुं शक्यं न देशकालादिव्यवधानमपेक्षते प्रमाणवस्तुपरतन्त्रत्वाज्ज्ञानस्य । एवमनायाससाध्यत्वे

स्वल्पफलत्वं स्यादत्यायाससाध्यानामेव कर्मणां महाफलत्वदर्शनादिति नेत्याह-अव्य- यम् , एवमनायाससाध्यस्याप्यस्य फलतो व्ययो नास्तीत्यव्ययमक्षयफलमित्यर्थः । कर्मणां त्वतिमहतामपि क्षयिफलत्वमेव “ यो वा एतदक्षरं गार्ग्यविदित्वाऽस्मिल्लोके जुहोति यजते तपस्तप्यते बहूनि वर्षसहस्राण्यन्तवदेवास्य तद्भवति" इति श्रुतेः । तस्मात्सर्वोत्कृष्टत्वाच्छ्रद्धेयमेवाऽऽत्मज्ञानम् ॥ २ ॥

 श्री०टी०-किं च-राजविद्येति । इदं ज्ञानं राजविद्या विद्यानां राजा गुह्यानां च राजा विद्यासु गोप्येषु चातिश्रेष्ठमित्यर्थः । राजदन्तादित्वादुपसर्जनस्य परत्वम् [३८९]। उत्तम पवित्रमिदमत्यन्तपावनमिदम् । प्रत्यक्षावगमं च दृष्टफलं, धर्म्यं च धर्मादनपेतं सर्वधर्मफलत्वात् । कर्तुं सुसुखं च सुखेन कर्तुं शक्यमित्यर्थः । अव्ययं चाक्षयफलत्वात् ॥ २॥

 म०टी०-एवमस्य सुकरत्वे सर्वोत्कृष्टत्वे च सर्वेऽपि कुतोऽत्र न प्रवर्तन्ते, तथा चन कोऽपि संसारी स्यादित्यत आह--

अश्रद्दधानाः पुरुषा धर्मस्यास्य परतप ॥
अप्राप्य मां निवर्तन्ते मृत्युसंसारवमनि ॥ ३ ॥

 अस्याऽऽत्मज्ञानाख्यस्य धर्मस्य स्वरूपे साधने फले च शास्त्रप्रतिपादितेऽपि अश्रदधाना वेदविरोधिकुहेतुदर्शनदूषितान्तःकरणतया प्रामाण्यममन्यमानाः पापकारिणोऽसुरसंपदमारूढाः स्वमतिकल्पितेनोपायेन कथंचिद्यतमाना अपि शास्त्रविहितोपायाभावादप्राप्य मां मत्प्राप्तिसाधनमप्यलब्ध्वा निवर्तन्ते निश्चयेन वर्तन्ते । क्व मृत्युयुक्त संसारवर्मनि, सर्वदा जननमरणप्रबन्धनेन नारकितिर्यगादियोनिष्वेव भ्रमन्तीत्यर्थः ॥ ३ ॥

 श्री०टी०- नन्वेवमस्यातिसुकरत्वे के नाम संसारिणः स्युस्तत्राऽऽह-अश्रद्दधाना इति । अस्य भक्तिसहितज्ञानलक्षणस्य धर्मस्येति कर्मणि [३९०]षष्ठ्यौ । इमं धर्ममश्रद्दधाना आस्तिक्येनास्वीकुर्वन्त उपायान्तरेण मत्प्राप्तये कृतप्रयत्ना अपि मामप्राप्य मृत्युयुक्ते संसारवर्त्मनि निमित्ते निवर्तन्ते मृत्युव्याप्ते संसारमार्गे परिभ्रमन्तीत्यर्थः॥ ३ ॥

 म०टी०-~तदेवं वक्तव्यतया प्रतिज्ञातस्य ज्ञानस्य विधिमुखेनेतरनिषेधमुखेन च स्तुत्याऽभिमुखीकृतमर्जुनं प्रति तदेवाऽऽह द्वाभ्याम् -

मया ततमिदं सर्व जगदव्यक्तमूर्तिना ॥
मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः ॥४॥

 इदं जगत्सर्वं भूतभौतिकतत्कारणरूपं दृश्यजातं मदज्ञानकल्पितं मयाऽधिष्ठानेन परमार्थसता सद्रूपेण स्फुरणरूपेण च ततं व्याप्तं रज्जुखण्डेनेव तदज्ञानकल्पितं सर्प-


धारादि । त्वया वासुदेवेन परिच्छिन्नेन सर्व जगत्कथं व्याप्तं प्रत्यक्षविरोधादिति

नेत्याह-अव्यक्ता सर्वकरणागोचरीभूता स्वप्रकाशाद्वय चैतन्यसदानन्दरूपा मूर्तिर्यस्य तेन मया व्याप्तमिदं सर्वं न त्वनेन देहेनेत्यर्थः । अत एव सन्तीव स्फुरन्तीव मद्रूपेण स्थितानि मत्स्थानि सर्वभूतानि स्थावराणि जङ्गमानि च । परमार्थतस्तु न च नैवाहं तेषु कल्पितेषु भूतेष्ववस्थितः कल्पिताकल्पितयोः संबन्धायोगात् । अत एवोक्तं यत्र यदध्यस्तं तत्कृतेन गुणेन दोषेण वाऽणुमात्रेणापि न स संबध्यत इति ॥ ४ ॥

 श्री०टी०-तदेवं वक्तव्यतया प्रस्तुतस्य ज्ञानस्य स्तुत्या श्रोतारमभिमुखीकृत्य तदेव ज्ञानं कथयति मयेति द्वाभ्याम् । अव्यक्ताऽतीन्द्रिया मूर्तिः स्वरूपं यस्य तादृशेन मया कारणभूतेन सर्वमिदं जगत्ततं व्याप्त[३९१]म् । “तत्सृष्ट्वा तदेवानुप्राविशत्" इति श्रुतेः । अत एव कारणभूते मयि तिष्ठन्तीति मत्स्थानि सर्वाणि चराचराणि भूतानि । एवमपि घटादिषु कार्येषु मृत्तिकेव तेषु भूतेषु नाहमवस्थित आकाशवदसङ्गत्वात् ॥ ४ ॥

 म०टी०-अत एव-

न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम् ॥
भूतभृन्न च भूतस्थो ममाऽऽत्मा भूतभावनः ॥५॥

 दिविष्ठ इवाऽऽदित्ये कल्पितानि जलचलनादीनि मयि कल्पितानि भूतानि परमार्थतो मयि न सन्ति । त्वमर्जुनः प्राकृतीं मनुष्यबुद्धिं हित्वा पश्य पर्यालोचय मे योगं प्रभावमैश्वरमघटनघटनाचातुर्यं मायाविन इव ममावलोकयेत्यर्थः । नाहं कस्यचिदाधेयो नापि कस्यचिदाधारस्तथाऽप्यहं सर्वेषु भूतेषु मयि च सर्वाणि भूतानीति महतीयं माया । यता भूतानि सर्वाणि कार्याण्युपादानतया बिभर्ति धारयति पोषयतीति च भूतभृत् । भूतानि सर्वाणि कर्तृतयोत्पादयतीति भूतभावनः । एवमभिन्ननिमित्तोपादानभूतोऽपि ममाऽऽत्मा मम परमार्थस्वरूपभूतः सच्चिदानन्दघनोऽसङ्गाद्वितीयस्वरूपत्वान्न भूतस्थः परमार्थतो न भूतसंबन्धी स्वप्नदृगिव न परमार्थतः स्वकल्पितसंबन्धीत्यर्थः । ममाऽऽत्मेति राहोः शिर इतिवत्कल्पनया षष्ठी ॥ ५ ॥

 श्री०टी०-किंच-न चेति । न च मयि स्थितानि भूतानि असङ्गत्वादेव मम । नन तर्हि व्यापकत्वमाश्रयत्वं च पूर्वोक्तं विरुद्धमित्याशङ्कयाऽऽह-पश्येति । म ऐश्वरमसाधारणं योगं युक्तिमघटितघटनाचातुर्य पश्य मदीययोगमायावैभवस्थावितर्क्यत्वान्न विरुद्धं किंचिदित्यर्थः । अन्यदप्याश्चर्यं पश्येत्याह-~भूतेति । भूतानि विभर्ति धारयतीति भूतभृत् । भूतानि भावयति पालयतीति भूतभावनः । एवंभूतोऽपि ममाऽऽत्मा परं स्वरूपं भूतस्थो न भवति । अयं भावः-यथा जीवो देहं बिभ्रत्पालयंश्चाहंका-


रेण तत्संश्लिष्टस्तिष्ठति एवमहं भूतानि धारयन्पालयन्नपि न तेषु तिष्ठामि निरहंकारत्वादिति ॥ ५ ॥

 म०टी०-असंश्लिष्टयोरप्याधाराधेयभावं दृष्टान्तेनाऽऽह-

यथाऽऽकाशस्थितो नित्यं वायुः सर्वत्रगो महान् ॥
तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय ॥६॥

 यथैवासङ्गस्वभाव आकाशे स्थितो नित्यं सर्वदोत्पत्तिस्थितिसंहारकालेषु वातीति वायुः सर्वदा चलनस्वभावः । अत एव सर्वत्र गच्छतीति सर्वत्रगः, महान्परिमाणतः । एतादृशोऽपि न कदाऽप्याकाशेन सह संसृज्यते । तथैवासङ्गस्वभावे मयि संश्लेषमन्तरेणैव सर्वाणि भूतान्याकाशादीनि महान्ति सर्वत्रगानि(णि) च स्थितानीत्युपधारय विमृश्यावधारय ॥ ६ ॥

 श्री०टी०-असंश्लिष्टयोरप्याधाराधेयभावं दृष्टान्तेनाऽऽह-यथेति । अवकाशं विनाऽवस्थानानुपपत्तेर्नित्यमाकाशे स्थितो वायुः सर्वगतोऽपि महानपि नाऽऽकाशेन संश्लिष्यते निरवयवत्वेन संश्लेषायोगात्, तथा सर्वाणि भूतानि मयि स्थितानीति जानीहि ॥६॥

 म० टी०-एवमुत्पत्तिकाले स्थितिकाले च कल्पितेन प्रपञ्चेनासस्याऽऽत्मनोऽसंश्लेषमुक्त्वा प्रलयेऽपि तमाह-

सर्वभूतानि कौन्तेय प्रकृति यान्ति मामिकाम् ॥ कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् ॥ ७॥

 सर्वाणि भूतानि कल्पक्षये प्रलयकाले मामिकां मच्छक्तित्वेन कल्पितां प्रकृति त्रिगुणात्मिकां मायां स्वकारणभूतां यान्ति तत्रैव सूक्ष्मरूपेण लीयन्त इत्यर्थः । हे कौन्तेयेत्युक्तार्थम् । पुनस्तानि कल्पादौ सर्गकाले विसृजामि प्रकृतावविभागापन्नानि विमागेन व्यनज्मि अहं सर्वज्ञः सर्वशक्तिरीश्वरः ॥ ७ ॥

 श्री०टी०-तदेवमसङ्गस्यैव योगमायया स्थितिहेतुत्वमुक्तम् । त[३९२]यैव सृष्टिप्रलयहेतुत्वं चाऽऽह-सर्वेति । कल्पक्षये प्रलयकाले सर्वाणि भूतानि मदीयां प्रकृतिं यान्ति त्रिगुणात्मिकायां मायायां लीयन्ते । पुनः कल्पादौ सृष्टिकाले तानि विसृजामि विशेषेण सृजामि ॥ ७॥

 म० टी०-किंनिमित्ता परमेश्वरस्येयं सृष्टिर्न तावत्स्वभोगार्था तस्य सर्वसाक्षिभूतचैतन्यमात्रस्य भोक्तृत्वाभावात्तथात्वे वा संसारित्वेनेश्वरत्वव्याघातात् । नाप्यन्यो भोक्ता यदथेयं सृष्टिः, चेतनान्तराभावात् , ईश्वरस्यैव सर्वत्र जीवरूपेण स्थितत्वात् ,


अचेतनस्य चाभोक्तृत्वात् । अत एव नापवर्गार्थाऽपि सृष्टिः, बन्धाभावादपवर्गविरोधित्वाच्चेत्याद्यनुपपत्तिः सृष्टेर्मायामयत्वं साधयन्ती नास्माकं प्रतिकूलेति न परिहर्तव्येत्यभिप्रेत्य मायामयत्वान्मिथ्यात्वं प्रपञ्चस्य वक्तुमारमते त्रिभिः-

प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः ॥
भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात् ॥ ८ ॥

 प्रकृति मायाख्यामनिर्वचनीयां खां स्वस्मिन्कल्पितामवष्टभ्य स्वसत्तास्फूर्तिभ्यां. दृढीकृत्य तस्याः प्रकृतेर्मायाया वशादविद्यास्मितारागद्वेषाभिनिवेशकारणावरणविक्षेपात्मकशक्तिप्रभावाज्जायमानमिमं सर्वप्रमाणसंनिधापितं भूतग्राममाकाशादिभूतसमुदायमहं मायावीव पुनः पुनर्विसृजामि विविधं सृजामि कल्पनामात्रेण स्वप्नदृगिव च स्वप्नप्रपञ्चम् ॥ ८॥

 श्री० टी०-नन्वसङ्गो निर्विकारश्च त्वं कथं सृजसीत्यपेक्षायामाह-प्रकृतिमिति । खां स्वीयां स्वाधीनां प्रकृतिमवष्टम्याधिष्ठाय प्रलये लीनं सन्तं चतुर्विधमिमं सर्वं भूतग्रामं कर्मादिपरवशं पुनः पुनर्विविधं सृजामि । कथं प्रकृतेर्वशात्प्राचीनकर्मनिमित्ततत्तत्स्वभा[३९३]वबलात् ॥ ८ ॥

 म०टी०-[३९४]अतः-

न च मां तानि कर्माणि निबध्नन्ति धनंजय ॥
उदासीनवदासीनमसक्तं तेषु कर्मसु ॥ ९ ॥

 न च नैव सृष्टिस्थितिप्रलयाख्यानि तानि मायाविनेव स्वप्नदृशेव च मया क्रियमाणानि मां निबध्नन्ति अनुग्रहनिग्रहाभ्यां न सुकृतदुष्कृतभागिनं कुर्वन्ति मिथ्याभूतत्वात् , हे धनंजय युधिष्ठिरराजसूयार्थं सर्वान्राज्ञो जित्वा धनमाहृतवानिति महान्प्रभावः सूचितः प्रोत्साहनार्थम् । तानि कर्माणि कुतो न बध्नन्ति तत्राऽऽह-उदासीनवदासीनं, यथा कश्चिदुपेक्षको द्वयोर्विवदमानयोर्जयपराजयासंसर्गी तत्कृतहर्षविषादाभ्यामसंसृष्टो निर्विकार आस्ते तद्वन्निर्विकारतयाऽऽसीनम् । द्वयोर्विवदमानयोरिहाभावादुपेक्षकत्वमात्रसाधर्म्येण वतिप्रत्ययः । अत एव निर्विकारत्वात्तेषु सृष्ट्यादिकर्मस्वसक्तमहं करोमीत्यभिमानलक्षणेन सङ्गेन रहितं मां न निबध्नन्ति कर्माणीति युक्तमेव । अन्यस्यापि हि कर्तृत्वाभावे फलसङ्गाभावे च कर्माणि न बन्धकारणानीत्युक्तमनेन, तदुभयसत्त्वे तु कोशकार इव कर्मभिर्बध्यते मूढ इत्यभिप्रायः ॥ ९ ॥

 श्री० टी०-ननु एवं नानाविधानि कर्माणि कुर्वतस्तव जीववद्वन्धः कथं न स्यादित्याशङ्कयाऽऽह-न चेति । तानि सृष्ट्यादीनि कर्माणि मां न निबध्नन्ति ।


कर्मासक्तिर्हि बन्धहेतुः । सा चाऽऽप्तकामत्वान्मम नास्ति । अत उदासीनवर्तमानस्य

मे बन्धं नाऽऽपादयन्ति । उदासीनत्वे कर्तृत्वानुपपत्तेः कर्तृत्वे चोदासीनत्वानुपपत्तेरुदासीनवस्थितमित्युक्तम् ॥ ९॥

 म०टी०-भूतग्राममिमं विसृजाम्युदासीनवदासीनमिति च परस्परविरुद्धमितिशङ्कापरिहारार्थं पुनर्मायामयत्वमेव प्रकटयति-

मयाऽध्यक्षेण प्रकृतिः सूयते सचराचरम् ॥
हेतुनाऽनेन कौन्तेय जगद्दिपरिवर्तते ॥ १०॥

 मया सर्वतोदृशिमात्रस्वरूपेणाविक्रियेणाध्यक्षेण नियन्त्रा भासकेनावभासिता प्रकृतिस्त्रिगुणात्मिका सत्त्वासत्त्वादिभिरनिर्वाच्या माया सूयत उत्पादयति सचराचरं जगन्मायाविनाऽधिष्ठितेव माया कल्पितगजतुरगादिकम् । न त्वहं सकार्यमायामासनमन्तरेण करोमि व्यापारान्तरम् । हेतुना निमित्तेनानेनाध्यक्षत्वेन हे कौन्तेय जगत्सचराचरं विपरिवर्तते विविधं परिवर्तते जन्मादिविनाशान्तं विकारजातमनवरतमासादयतीत्यर्थः । अतो भासकत्वमात्रेण व्यापारेण विसृजामीत्युक्तं तावता चाऽऽदित्यादेरिव कर्तृत्वाभावादुदासीनवदासीनमित्युक्तमिति न विरोधः । तदुक्तम्-

“ अस्य द्वैतेन्द्रजालस्य यदुपादानकारणम् ।
अज्ञानं तदुपाश्रित्य ब्रह्म कारणमुच्यते " इति ॥

 श्रुतिस्मृतिवादाश्चात्रार्थे सहस्रश उदाहार्याः ॥ १० ॥

 श्री० टी०-तदेवोपपादयति-मयेति । मयाऽध्यक्षेणाधिष्ठात्रा निमित्तभूतेन प्रकृतिः सचराचरं विश्वं सूयते जनयति । अनेन मदधिष्ठानेन हेतुनेदं जगद्विपरिवर्तते पुनः पुनर्जायते । संनिधिमात्रेणाधिष्ठातृत्वात्कर्तृत्वमुदासीनत्वं चाविरुद्धमिति भावः॥१०॥

 म०टी०-एवं नित्यशुद्धबुद्धमुक्तस्वभावं सर्वजन्तूनामात्मानमानन्दघनमनन्तमपि सन्तम्-

अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् ॥
परं भावमजानन्तो मम भूतमहेश्वरम् ॥ ११ ॥

 अवजानन्ति मां साक्षादीश्वरोऽयमिति नाऽऽद्रियन्ते निन्दन्ति वा मूढा अविवेकिनो जनाः । तेषामवज्ञाहेतुं भ्रमं सूचयति मानुषीं तनुमाश्रितं, मनुष्यतया प्रतीयमानां मूर्तिमात्मेच्छया भक्तानुग्रहार्थं गृहीतवन्तं मनुष्यतया प्रतीयमानेन देहेन व्यवहरन्तमिति यावत् । ततश्च मनुष्योऽयमिति भ्रान्त्याऽऽच्छादितान्तःकरणा मम परं भावं प्रकृष्टं पारमार्थिकं तत्त्वं सर्वभूतानां महान्तमीश्वरमजानन्तो यन्नाऽऽद्रियन्ते निन्दन्ति वा तदनुरूपमेव मूढत्वस्य ॥ ११॥  श्री० टी०-नन्वेवंभूतं परमेश्वरं त्वां किमिति केचिन्नाऽऽद्रियन्ते तत्राऽऽह---- अवजानन्तीति द्वाभ्याम् -सर्वभूतमहेश्वररूपं मदीयं परं भावं तत्त्वमजानन्तो मूढा मूर्खा मामवजानन्त्यवमन्यन्ते । अवज्ञाने हेतुः-शुद्धसत्त्वमयीमपि तनुं[३९५] भक्तेच्छावशान्मनुष्याकारामाश्रितवन्तम् ॥ ११ ॥

 म०टी०-ते च भगवदवज्ञाननिन्दनजनितमहादुरितप्रतिबद्धबुद्धयो निरन्तरं निरयनिवासार्हा एव-

मोघाशा मोधकर्माणो मोघज्ञाना विचेतसः॥
राक्षसीमासुरीं चैव प्रकृति मोहिनीं श्रिताः ॥ १२ ॥

 ईश्वरमन्तरेण कर्माण्येव नः फलं दास्यन्तीत्येवंरूपा मोघा निष्फलैवाऽऽशा फलप्रार्थना येषां ते । अत एवेश्वरविमुखत्वान्मोघानि श्रममात्ररूपाण्याग्निहोत्रादीनि कर्माणि येषां ते । तथा मोघमीश्वराप्रतिपादककुतर्कशास्त्रजनितं ज्ञानं येषां ते । कुत एवं यतो विचेतसो भगवदवज्ञानजनितदुरितप्रतिबद्धविवेकविज्ञानाः । किं च ते भगवदवज्ञानवशादाक्षसीं तामसीमविहितहिंसाहेतुद्वेषप्रधानामासुरीं च राजसीं शास्त्रानभ्यनुज्ञातविषयभोगहेतुरागप्रधानां च मोहिनीं शास्त्रीयज्ञानभ्रंशहेतुं प्रकृतिं स्वभावमाश्रिता एव भवन्ति । ततश्च----

"त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः ।
कामः क्रोधस्तथा लोमः"

 इत्युक्तनरकद्वारभागितया नरकयातनामेव ते सततमनुभवन्तीत्यर्थः ॥ १२ ॥

 श्री०टी०-किं च-मोघाशा इति । मत्तोऽन्यद्देवतान्तर( दैवतं) क्षिप्रं फलं दास्यतीत्येवंभूता मोघा निष्फलैवाऽऽशा येषां ते । अत एव मद्विमुखत्वान्मोघानि व्यर्थानि कर्माणि येषां ते । मोघमेव नानाकुतर्काश्रितं शास्त्रज्ञानं येषां ते । अत एव विचेतसो विक्षिप्तचित्ताः । सर्वत्र हेतुः--राक्षसीं तामसीं हिंसादिप्रचुराम् , आसुरीं च राजसीं कामदर्पादिबहुलां मोहिनी बुद्धिभ्रंशकरी प्रकृति स्वभावं श्रिता आश्रिताः सन्तो मामवजानन्तीति पूर्वेणान्वयः ॥ १२ ॥

 म०टी०-भगवद्विमुखानां फलकामनायास्तत्प्रयुक्तस्य नित्यनैमित्तिककाम्यकर्मानुष्ठानस्य तत्प्रयुक्तस्य शास्त्रीयज्ञानस्य च वैयर्थ्यात्पारलौकिकफलतत्साधनशून्यास्ते । नाप्यैहलौकिकं किंचित्फलमस्ति तेषां विवेकविज्ञानशून्यतया विचेतसो हि ते । अतः सर्वपुरुषार्थबाह्याः शोच्या एव सर्वेषां ते वराका इत्युक्तम् । अधुना के सर्वपुरुषार्थभाजोऽशोच्या ये भगवदेकशरणा इत्युच्यते---


महात्मानस्तु मां पार्थ दैवी प्रकृतिमाश्रिताः ॥
अजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् ॥ १३ ॥

 महाननेकजन्मकृतसुकृतैः संस्कृतः क्षुद्रकामाद्यनभिभूत आत्माऽन्तःकरणं येषां तेऽत एव "अभयं सत्त्वसंशुद्धिः" इत्यादिवक्ष्यमाणां दैवीं सात्त्विकीं प्रकृतिमाश्रिताः । अत एवान्यस्मिन्मद्वयतिरिक्ते नास्ति मनो येषां ते भूतादिं सर्वजगत्कारणमव्ययमविनाशिनं च मामीश्वरं ज्ञात्वा भजन्ति सेवन्ते ॥ १३ ॥

 श्री. टी. - के तर्हि त्वामाराधयन्तीत्यत आह-महात्मानस्त्विति । महात्मानः कामाद्यनभिभूतचित्ता यतः "अभयं सत्त्वसंशुद्धिः” इत्यादिना वक्ष्यमाणां दैवीं प्रकृतिं स्वभावमाश्रिता अत एव मद्व्यतिरेकेण नास्त्यन्यस्मिन्मनो येषां ते तु भूतादिं जगत्कारणमव्ययं नित्यं च मां ज्ञात्वा भजन्ति ॥ १३ ॥

 म०टी०-ते केन प्रकारेण भजन्तीत्युच्यते द्वाभ्याम्-

सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः॥
नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते ॥१४॥

 सततं सर्वदा ब्रह्मनिष्ठं गुरुमुपसृत्य वेदान्तवाक्यविचारेण गुरूपसदनेतरकाले च प्रणवनपोपनिषदावर्तनादिभिर्मा सर्वोपनिषत्प्रतिपाद्यं ब्रह्मस्वरूपं कीर्तयन्तो वेदान्तशास्त्राध्ययनरूपश्रवणव्यापारविषयीकुर्वन्त इति यावत् । तथा यतन्तश्च गुरुसंनिधावन्यत्र वा वेदान्ताविरोधितर्कानुसंधानेनाप्रामाण्यशङ्कानास्कन्दितगुरूपदिष्टमत्स्वरूपावधारणाय यतमानाः श्रवणनिर्धारितार्थबाधशङ्कापनोदकतर्कानुसंधानरूपमननपरायणा इति यावत् । तथा दृढव्रता दृढानि प्रतिपक्षैश्वालयितुमशक्यानि अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहादीनि व्रतानि येषां ते शमदमादिसाधनसंपन्ना इति यावत् । तथा चोक्तं पतञ्जलिना “ अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः" ते तु "जातिदेशकालसमयानवच्छिन्नाः सार्वभौमा महाव्रतम् " इति । जात्या ब्राह्मणत्वादिकया देशेन तीर्थादिना कालेन चतुर्दश्यादिना समयेन यज्ञाद्यन्यत्वेनानवच्छिन्ना अहिंसादयः सार्वभौमाः क्षिप्तमूढविक्षिसभूमिष्वपि भाव्यमानाः कस्यामपि जातौ कस्मिन्नपि देशे कस्मिन्नपि काले यज्ञादिप्रयोजनेऽपि हिंसां न करिष्यामीत्येवंरूपेण किंचिदप्यपर्युदस्य सामान्येन प्रवृत्ता एते महाव्रतमित्युच्यन्त इत्यर्थः । तथा नमस्यन्तश्च मां कायवाङ्मनोभिर्नमस्कुर्वन्तश्च मां भगवन्तं वासुदेवं सकलकल्याणगुणनिधानमिष्टदेवतारूपेण गुरुरूपेण च स्थितम् । चकारात्

" श्रवणं कीर्तनं विष्णोः स्मरणं पादसेवनम् ।
अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम् "

 इति वन्दनसहचरितं श्रवणाद्यपि बोद्धव्यम् । अर्चनं पादसेवनमित्यपि गुरुरूपे तस्मिन्सुकरमेव । अत्र मामिति पुनर्वचनं सगुणरूपपरामर्शार्थम् । अन्यथा वैयर्थ्यप्रसङ्गात् । तथा भक्त्या मद्विषयेण परेण प्रेम्णा नित्ययुक्ताः सर्वदा संयुक्ताः । एतेन सर्वसाधनपौष्कल्यं प्रतिबन्धकाभावश्च दर्शितः ।

यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ ।
तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः " इति श्रुतेः ॥

 पतञ्जलिना चोक्तं " ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभावश्च " इति । तत ईश्वरप्रणिधानात्प्रत्युक्चेतनस्य त्वंपदलक्ष्यस्याधिगमः साक्षात्कारो भवति, अन्तरायाणां विघ्नानां चाभावो भवतीति सूत्रस्यार्थः । तदेवं शमदमादिसाधनसंपन्ना वेदान्तश्रवणमननपरायणाः परमेश्वरे परमगुरौ प्रेम्णा नमस्कारादिना च विगतविघ्नाः परिपूर्णसर्वसाधनाः सन्तो मामुपासते विजातीयप्रत्ययानन्तरितेन सजातीयप्रत्ययप्रवाहेण श्रवणमननोत्तरभाविना सततं चिन्तयन्ति महात्मानः । अनेन निदिध्यासनं चरमसाधनं दर्शितम् । एतादृशसाधनपौष्कल्ये सति यद्वेदान्तवाक्यजमखण्डगोचरं साक्षात्काररूपमहं ब्रह्मास्मीति ज्ञानं तत्सर्वशङ्काकलङ्कास्पृष्टं सर्वसाधनफलभूतं स्वोत्पत्तिमात्रेण दीप इव तमः सकलमज्ञानं तत्कार्यं च नाशयतीति निरपेक्षमेव साक्षान्मोक्षहेतुर्न तु भूमिजयक्रमेण भ्रूमध्ये प्राणप्रवेशनं मूर्धन्यया नाड्या प्राणोत्क्रमणमचिरादिमार्गेण ब्रह्मलोकगमनं तद्भोगान्तकालविलम्ब वा प्रतीक्षते । अतो यत्प्राक्प्रतिज्ञातम् " इदं तु ते गुह्यतमं प्रवक्ष्याभ्यनसूयवे । ज्ञानम्" इति तदेतदुक्तम् । फलं चास्याशुभान्मोक्षणं प्रागुक्तमेवेतीह पुनर्नोक्तम् । एवमत्रायं गम्भीरो भगवतोऽभिप्रायः । उत्तानार्थस्तु प्रकट एवं ॥ १४ ॥

 श्री०टी०- तेषां भजनप्रकारानाह-सततमिति द्वाभ्याम् । सततं सर्वदा स्तोत्रमन्त्रादिभिः कीर्तयन्तः केचिन्मामुपासते सेवन्ते दृढानि व्रतानि नियमा येषां तादृशाः सन्तो यतन्तश्चेश्वरपूनादिषु इन्द्रियोपसंहारादिषु च प्रयत्नं कुर्वन्तश्च । केचि. द्भक्त्या नमस्यन्तः प्रणमन्तश्चान्ये नित्ययुक्ता अनवरतमवहिताः सेवन्ते । भक्त्येति नित्ययुक्ता इति च कीर्तनादिष्वपि द्रष्टव्यम् ॥ १४ ॥

 म० टी० --- इदानीं य एवमुक्तश्रवणमन- ननिदिध्यासनासमर्थास्तेऽपि त्रिविधा उत्तमा मध्यमा मन्दाश्चेति सर्वेऽपि स्वानुरूप्येण मामुपासत इत्याह-

ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते ॥
एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् ॥ १५॥

 अन्ये पूर्वोक्तसाधनानुष्ठानासमर्था ज्ञानयज्ञेन "त्वं वा अहमस्मि भगवो देवते, अहं वै त्वमसि' इत्यादिश्रुत्युक्तमहंग्रहोपासनं ज्ञानं स एव परमेश्वरयजनरूपत्वाद्यज्ञस्तेन । चकार एवार्थे । अपिशब्दः साधनान्तरत्यागार्थः । केचित्साधनान्तरनिस्पृहाः सन्त

उपास्योपासकाभेदचिन्तारूपेण ज्ञानयज्ञेनैकत्वेन भेदव्यावृत्त्या मामेवोपासते चिन्तयन्त्युत्तमाः । अन्ये तु केचिन्मध्यमाः पृथक्त्वेनोपास्योपासकयोर्भेदेन "आदित्यो ब्रह्मेत्यादेशः" इत्यादिश्रुत्युक्तेन प्रतीकोपासनरूपेण ज्ञानयज्ञेन मामेवोपासते । अन्ये त्वहंग्रहोपासने प्रतीकोपासने वाऽसमर्थाः केचिन्मन्दाः कांचिदन्यां देवतां चोपासीनाः कानिचित्कर्माणि वा कुर्वाणा बहुधा तैस्तैर्बहुभिः प्रकारैर्विश्वरूपं सर्वात्मानं मामेवोपासते । तेन तेन ज्ञानयज्ञेनेति उत्तरोत्तराणां क्रमेण पूर्वपूर्वभूमिलाभः ॥ १५ ॥

 श्री० टी०-किं च-ज्ञानेति । वासुदेवः सर्वमित्येवं सर्वात्मत्वदर्शनं ज्ञानं तदेव यज्ञस्तेन ज्ञानयज्ञेन मां यजन्तः पूजयन्तोऽन्येऽप्युपासते । तत्रापि केचिदेकत्वे[३९६]नाभेदभावनया, केचित्पृथक्त्वेन दासोऽहमिति[३९७], केचित्तु विश्वतोमुखं सर्वात्मकं मा बहुधा ब्रह्मरुद्रादिरूपेणोपासते ॥ १५ ॥

 म०टी०-यदि बहुधोपासते तर्हि कथं त्वामेवेत्याशङ्कयाऽऽत्मनो विश्वरूपत्वं प्रपञ्चयति चतुर्भिः-

अहं क्रतुरहं यज्ञः स्वधाऽहमहमौषधम् ॥
मन्त्रोऽहमहमेवाऽऽज्यमहमग्निरहं हुतम् ॥ १६ ॥

 सर्वस्वरूपोऽहमिति वक्तव्ये तत्तदेकदेशकथनमवयुत्यानुवादेन वैश्वानरे द्वादशकपालेऽष्टाकपालत्वादिकथनवत् । क्रतुः श्रौतोऽग्निष्टोमादिः । यज्ञः स्मार्तों वैश्वदेवादिर्महायज्ञत्वेन श्रुतिस्मृतिप्रसिद्धः । स्वधाऽन्नं पितृभ्यो दीयमानम् । औषधमोषधिप्रभवमन्नं सर्वैः प्राणिभिर्भुज्यमानं भेषजं वा । मन्त्रो याज्यापुरोनुवाक्यादिर्येनोद्दिश्य हविर्दीयते देवेभ्यः । आज्यं धृतं, सर्वहविरुपलक्षणमिदम् । अग्निराहवनीयादिर्हविष्प्रक्षेपाधिकरणम् । हुतं हवनं हविष्प्रक्षेपः । एतत्सर्वमहं परमेश्वर एव । एतदेकैकज्ञानमपि भगवदुपासनमिति कथयितुं प्रत्येकमहंशब्दः । क्रियाकारकफलजातं किमपि भगवदतिरिक्तं नास्तीति समुदायार्थः ॥ १६ ॥

 श्री० टी०.-सर्वात्मतां प्रपञ्चयति अहमिति चतुर्भि:-क्रतुः श्रौतोऽग्निष्टोमादिः । यज्ञस्तु स्मार्तः पञ्चमहायज्ञादिः । स्वधा पित्रर्थे श्राद्धादिः । औषधमोषधिप्रभवमन्नं भेषजं वा । मन्त्रो याज्यापुरोनुवाक्यादिः । आज्यं होमादिसाधनम् । अग्निराहवनीयादिः । हुतं होमः । एतत्सर्वमहमेव ॥ १६ ॥

 म०टी०-किं च-

पिताऽहमस्य जगतो माता धाता पितामहः ॥
वेद्यं पवित्रमोंकार ऋक्साम यजुरेव च ॥ १७ ॥



 अस्य जगतः सर्वस्य प्राणिजातस्य पिता जनयिता, माता जनयित्री, धाता पोषयिता तत्तत्कर्मफलविधाता वा । पितामहः पितुः पिता, वेद्यं वेदितव्यं वस्तु, पूयतेऽनेनेति पवित्रं पावनं शुद्धिहेतुर्गङ्गास्नानगायत्रीजपादि । वेदितव्ये ब्रह्मणि वेदनसाधनमोंकारः । नियताक्षरपादा, ऋक् । गीतिविशिष्टा सैव साम । सामपदं तु गीतिमात्रस्यैवाभिधायकमित्यन्यत् । गीतिरहितमनियताक्षरं यजुः । एतत्त्रिविधं मन्त्रजातं कर्मों. पयोगि । चकारादथर्वाङ्गिरसोऽपि गृह्यन्ते । एवकारोऽहमेवेत्यवधारणार्थः ॥ १७ ॥

 श्री० टी०-किंच-पितेति । धाता कर्मफलविधाता । वेद्यं ज्ञेयं वस्तु । पवित्रं शोध[३९८]कम् । ओंकारः प्रणव ऋग्वेदादयो वेदाश्चाहमेव । स्पष्टमन्यत् ॥ १७ ॥

 म०टी०-किं च-

गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुत्दृत् ॥
प्रभवः प्रलयः स्थानं निधानं बीजमव्ययम् ॥ १८॥

 गम्यत इति गतिः कर्मफलं,

ब्रह्मा विश्वसृजो धर्मो महानव्यक्तमेव च ।
उत्तमां सात्त्विकीमेतां गतिमाहुर्मनीषिणः " इत्येवं मन्वाद्युक्तम् ॥

 भर्ता पोष्टा सुखसाधनस्यैव दाता । प्रभुः स्वामी मदीयोऽयमिति स्वीकर्ता । साक्षी सर्वप्राणिनां शुभाशुभद्रष्टा । निवसन्त्यस्मिन्निति निवासो भोगस्थानम् । शीर्यते दुःखमस्मिन्निति शरणं प्रपन्नानामार्तिह्रत् । सुहृत्प्रत्युपकारानपेक्षः सन्नुपकारी । प्रभव उत्पत्तिः । प्रलयो विनाशः। स्थानं स्थितिः । यद्वा प्रकर्षण भवन्त्यनेनेति प्रभवः स्रष्टा । प्रकर्षेण लीयन्तेऽनेनेति प्रलयः संहर्ता । तिष्ठन्त्यस्मिन्निति स्थानमाधारः । निधीयते निक्षिप्यते तत्कालभोगायोग्यतया कालान्तरोपभोग्य वस्त्वस्मिन्निति निधानं सूक्ष्मरूपसर्ववस्त्वधिकरणं प्रलयस्थानमिति यावत् । शङ्खपद्मादिनिधिर्वा । बीजमुत्पत्तिकारणम् । अव्ययमविनाशि न तु ब्रीह्यादिवद्विनश्वरम् । तेनानाद्यनन्तं यत्कारणं तद्रूप्यहमेवेति पूर्वेणैव संबन्धः ॥ १८ ॥

 श्री०टी०-किं च-गतिरिति । गम्यत इति गतिः फलम् । भर्ता पोषणकर्ता । प्रभुः, नियन्ता । साक्षी शुभाशुभद्रष्टा । निवासो भोगस्थानम् । शरणं रक्षकः । सुहृद्धितकर्ता । प्रकर्षेण भवत्यनेनेति प्रभवः स्रष्टा । प्रलीयतेऽनेनेति प्रलयः संहर्ता । तिष्ठत्यस्मिन्निति स्थानमाधारः । निधीयतेऽस्मिन्निति निधानं लयस्थानम् । बीजं कारणं, तथाऽप्यव्ययमविनाशि न तु ब्रीह्यादिबोजवन्नश्वरमित्यर्थः ॥ १८ ॥

 म०टी०-किं च-


तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च ॥
अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन ॥ १९ ॥

 तपाम्यहमादित्यः सन् । ततश्च तापवशादहं वर्ष पूर्ववृष्टिरूपं रसं पृथिव्या निगृह्णाम्याकर्षामि कैश्चिद्रश्मिभिरष्टसु मासेषु । पुनस्तमेव निगृहीतं रसं चतुर्षु मासेषु कैश्चिद्रश्मिभिरुत्सृजामि च वृष्टिरूपेण प्रक्षिपामि च भूमौ । अमृतं च देवानां सर्वप्राणिनां जीवनं वा । एवकारस्याहमित्यनेन संबन्धः । मृत्युश्च मर्त्यानां सर्वप्राणिनां विनाशो वा । सत्, यत्संबन्धितया यद्विद्यते तत्तत्र सत् । असच्च यत्संबन्धितया यन्न विद्यते तत्तत्रासत् । एतत्सर्वमहमेव हेऽर्जुन । तस्मात्सर्वात्मानं मां विदित्वा स्वस्वाधिकारानुसारेण बहुभिः प्रकारैर्मामेवोपासत इत्युपपन्नम् ॥ १९॥

 श्री०टी०-किं च-तपामीति । आदित्यात्मना स्थित्वा निदाघसमये तपामि जगतस्तापं करोमि । वृष्टिसमये च वर्षमुत्सृजामि विमुञ्चामि । कदाचित्तु वर्ष निगृह्णामि आकर्षामि । अमृतं जीवनं, मृत्युश्च नाशः, सत्स्थूलं दृश्यम् , असञ्च सूक्ष्ममदृश्यम् । एतत्सर्वमहमेवेति मत्वा मामेव बहुधोपासत इति पूर्वेणैवान्वयः ॥ १९ ॥

 म०टी०--एवमेकत्वेन पृथक्त्वेन बहुधा चेति त्रिविधा अपि निष्कामाः सन्तो भगवन्तमुपासीनाः सत्त्वशुद्धिज्ञानोत्पत्तिद्वारेण क्रमेण मुच्यन्ते । ये तु सकामाः सन्तो न केनापि प्रकारेण भगवन्तमुपासते किं तु स्वस्वकामसाधनानि काम्यान्येव काण्यनुतिष्ठन्ति ते सत्त्वशोधकाभावेन ज्ञानसाधनमनधिरूढाः पुनः पुनर्जन्ममरणप्रबन्धेन सर्वदा संसारदुःखमेवानुभवन्तीत्याह द्वाभ्याम्----

त्रैविद्या मां सोमपाः पूतपापा
 यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते ॥
ते पुण्यमासाद्य सुरेन्द्रलोक-
 मश्नन्ति दिव्यान्दिवि देवभोगान् ॥ २० ॥

 ऋग्वेदयजुर्वेदसामवेदलक्षणा हौत्राध्वर्यवौद्गात्रप्रतिपत्तिहेतवस्तिस्रो विद्या येषां ते त्रिविद्यास्त्रिविद्या एव स्वार्थिकतद्धितेन त्रैविद्यास्तिस्त्रो विद्या विदन्तीति वा वेदत्रयविदो याज्ञिका यज्ञैरग्निष्टोमादिभिः क्रमेण सवनत्रये वसुरुद्रादित्यरूपिणं मामीश्वरमिष्ट्या तद्रूपेण मामजानन्तोऽपि वस्तुवृत्तेन पूजयित्वाऽभिषुत्य हुत्वा च सोमं पिबन्तीति सोमपाः सन्तस्तेनैव सोमपानेन पूतपापा निरस्तस्वर्गभोगप्रतिबन्धकपापाः सकामतया स्वर्गतिं प्रार्थयन्ते न तु सत्त्वशुद्धिज्ञानोत्पत्त्यादि । ते दिवि स्वर्गे लोके पुण्यं पुण्यफलं सर्वोत्कृष्टं सुरेन्द्रलोकं शतक्रतोः स्थानमासाद्य दिव्यान्मनुष्यैरलभ्यान्देवभोगान्देवदेहोपभोग्यान्कामानश्नन्ति भुञ्जते ॥ २० ॥

 श्री०टी०-तदेवमवजानन्ति मां मूढा इत्यादिश्लोकद्वयेन क्षिप्रफलाशया देवतान्तरं भजन्तो मां नाऽऽद्रियन्त इत्यभक्ता दर्शिताः । महात्मानस्तु मां पार्थेत्यादिना च मद्भक्ता उक्ताः । तत्रैकत्वेन पृथक्त्वेन वा परमेश्वरं श्रीवासुदेवं ये न भजन्ति तेषां जन्ममृत्युप्रवाहो दुर्वार इत्याह द्वाभ्याम्-त्रैविद्या मामिति । ऋग्यजुःसामलक्षणास्तिस्रो विद्या येषां ते त्रिविद्याः । त्रिविद्या एव विद्याः । स्वार्थे तद्धितः । तिस्रो विद्या अधीयते जानन्तीति वा त्रैविद्या वेदत्रयोक्तक[३९९]र्मपरा इत्यर्थः । वेदत्रयविहितैर्यज्ञैर्मामिष्ट्वा ममैव रूपं देवतान्तरमित्यजानन्तोऽपि वस्तुत इन्द्रादिरूपेण मामेवेष्ट्वा संपूज्य यज्ञशेषं सोमं पिबन्तीति सोमपास्तेनैव पूतपापाः शोधितकल्मषाः सन्तः स्वर्गतिं स्वर्गं प्रति गति ये प्रार्थयन्ते ते पुण्यफलरूपं सुरेन्द्रस्य लोकं स्वर्गमासाद्य प्राप्य दिवि स्वर्गे दिव्यानुत्तमान्देवानां भोगानश्नन्ति भुञ्जते ॥ २० ॥

 म०टी०-ततः किमनिष्टमिति तदाह-

ते तं भुक्त्वा स्वर्गलोकं विशालं
 क्षीणे पुण्ये मर्त्यलोकं विशन्ति ॥
एवं[४००] त्रयीधर्ममनुप्रपन्ना
 गतागतं कामकामा लभन्ते ॥ २१ ॥

  ते सकामास्तं काम्येन पुण्येन प्राप्तं विशालं विस्तीर्ण वर्गलोकं भुक्त्वा तद्भोगजनके पुण्ये क्षीणे सति । तद्देहनाशात्पुनर्देहग्रहणाय मर्त्यलोकं विशन्ति पुनर्गर्भवासादियातना अनुभवन्तीत्यर्थः । पुनः पुनरेवमुक्तप्रकारेण । हिः प्रसिद्ध्यर्थः । त्रैधर्म्यं हौत्राध्वर्यवौद्गात्रधर्मत्रयाहं ज्योतिष्टोमादिकं काम्यं कर्म । त्रयीधर्ममिति पाठेऽपि त्रय्या वेदत्रयेण प्रतिपादितं धर्ममिति स एवार्थः । अनुप्रपन्ना अनादौ संसारे पूर्वप्रतिपत्त्यपेक्षयाऽनुशब्दः, पूर्वप्रतिपत्त्यनन्तरं मनुष्यलोकमागत्य पुनः प्रतिपन्नाः, कामकामा दिव्यान्भोगान्कामयमाना एवं गतागतं लभन्ते कर्म कृत्वा स्वर्गं यान्ति तत आगत्य पुनः कर्म कुर्वन्तीत्येवं गर्भवासादियातनाप्रवाहस्तेषामनिशमनुवर्तत इत्यभिप्रायः ॥ २१ ॥

 श्री० टी०- ततश्च-ते तं भुक्त्वेति । ते स्वर्गकामास्तं प्रार्थितं विपुलं स्वर्गलोकं तत्सुखं भुक्त्वा भोगप्रापके पुण्ये क्षीणे सति मर्त्यलोकं विशन्ति । पुनरप्येवमेव वेदत्रय्या विहितं धर्ममनुसृताः कामकामा भोगान्कामयमाना गतागतं यातायातं लभन्ते ॥ २१॥

 म० टी०-निष्कामाः सम्यग्दर्शिनस्तु-


अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते ॥
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥ २२॥

 अन्यो भेददृष्टिविषयो न विद्यते येषां तेऽनन्याः सर्वाद्वैतदर्शिनः सर्वभोगनिःस्पृहाः। अहमेव भगवान्वासुदेवः सर्वात्मा न मद्वयतिरिक्तं किंचिदस्तीति ज्ञात्वा तमेव प्रत्यञ्चं सदा चिन्तयन्तो मां नारायणमात्मत्वेन ये जनाः साधनचतुष्टयसंपन्नाः संन्यासिनः परि सर्वतोऽनवच्छिन्नतया पश्यन्ति ते मदनन्यतया कृतकृत्या एवेति शेषः। अद्वैतदर्शननिष्ठानामत्यन्तनिष्कामाना(णां) तेषां स्वयमप्रयतमानानां कथं योगक्षेमौ स्यातामित्यत आह-तेषां नित्याभियुक्तानां नित्यमनवरतमादरेण ध्याने व्यापृतानां देहयात्रामात्रार्थमप्यप्रयतमानानां योगं च क्षेमं च, अलब्धस्य लामं लब्धस्य परिरक्षणं च शरीरस्थित्यर्थं योगक्षेममकामयमानानामपि वहामि प्रापयाम्यहं सर्वेश्वरः ।

"प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः ।
उदाराः सर्व एवैते ज्ञानी त्वात्मैव मे मतम् "

 इति युक्तम् । यद्यपि सर्वेषामपि योगक्षेमं वहति भगवांस्तथाऽप्यन्येषां प्रय. त्नमुत्पाद्य तद्वारा वहति ज्ञानिनां तु तदर्थ प्रयत्नमनुत्पाद्य वहतीति विशेषः ॥ २२ ॥

 श्री०टी०-मद्भक्तास्तु मत्प्रसादेन कृतार्था भवन्तीत्याह-अनन्या इति । अनन्या नास्ति मव्ध्यतिरेकेणान्यत्का[४०१]भ्यं येषां तथाभूता ये जना मां चिन्तयन्तः सेवन्ते तेषां नित्याभियुक्तानां सर्वदा मदेकनिष्ठानां योगं धनादिलाभं क्षेमं च तत्पालनं मोक्षाख्यं च तैरप्रार्थितमप्यहमेव वहामि प्रापयामि ॥ २२ ॥

 म०टी०-नन्वन्या अपि देवतास्त्वमेव त्वद्वयतिरिक्तस्य वस्त्वन्तरस्याभावात् । तथा च देवतान्तरभक्ता अपि त्वामेव भजन्त इति न कोऽपि विशेषः स्यात् , तेन गतागतं कामकामा वसुरुद्रादित्यादिभक्ता लभन्ते । अनन्याश्चिन्तयन्तो मां तु कृतकृत्या इति कथमुक्तं तत्राऽऽह-

येऽप्यन्यदेवताभक्ता यजन्ते श्रद्धयाऽन्विताः ॥
तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् ॥ २३ ॥

 यथा मद्भक्ता मामेव यजन्ति तथा येऽन्यदेवतानां वस्वादीनां भक्ता यजन्ते ज्योतिष्टोमादिभिः श्रद्धयाऽऽस्तिक्यबुद्धयाऽन्विताः, तेऽपि मद्भक्ता इव हे कौन्तेय तत्तद्देवतारूपेण स्थितं मामेव यजन्ति पूजयन्ति अविधिपूर्वकमविधिरज्ञानं तत्पूर्वकं सर्वात्मत्वेन मामज्ञात्वा मद्भिन्नत्वेन वस्वादीन्कल्पयित्वा यजन्तीत्यर्थः ॥ २३ ॥

 श्री०टी०-ननु च त्वयतिरेकेण वस्तुतो देवतान्तरस्याभावादिन्द्रादिसेविनोऽपि त्वद्भक्ता एवेति कथं ते गतागतं लभेरंस्तत्राऽऽह-येऽपीति । श्रद्धयोपेता भक्ताः



सन्तो येऽपि जना यज्ञेनान्यदेवता इन्द्रादिरूपा यजन्ते तेऽपि मामेव यजन्तीति सत्यम् । किं तु अविधिपूर्वकं मोक्षप्रापर्क विधि विना यजन्ति अतस्ते पुनरावर्तन्ते ॥ २३ ॥

 म० टी०-अविधिपूर्वकत्वं विवृण्वन्फलप्रच्युतिमीषामाह-

अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च ॥
न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते ॥ २४ ॥

 अहं भगवान्वासुदेव एव सर्वेषां यज्ञानां श्रौतानां स्मार्तानां च तत्तद्देवतारूपेण भोक्ता च स्वेनान्तर्यामिरूपेणाधियज्ञत्वात्प्रभुश्च फलदाता चेति प्रसिद्धमेतत् । देवतान्तरयाजिनस्तु मामीदृशं तत्त्वेन भोक्तृत्वेन प्रभुत्वेन च भगवान्वासुदेव एव वस्वादिरूपेण यज्ञानां भोक्ता स्वेन रूपेण च फलदाता न तदन्योऽस्ति कश्चिदाराध्य इत्येवंरूपेण न जानन्ति । अतो मत्स्वरूपापरिज्ञानान्महताऽऽयासेनेष्ट्वाऽपि मय्यनर्पितकर्माणस्तत्तदेवलोकं धूमादिमार्गेण गत्वा तद्भोगान्ते च्यवन्ति प्रच्यवन्ते तद्भोगजनककर्मक्षयात्तदेहादिवियुक्ताः पुनर्देहग्रहणाय मनुष्यलोकं प्रत्यावर्तन्ते । ये तु तत्तद्देवतासु भगवन्तमेव सर्वान्तर्यामिणं पश्यन्तो यजन्ते ते भगवदर्पितकर्माणस्तद्विद्यासहितकर्मवशादर्चिरादिमार्गेण ब्रह्मलोकं गत्वा तत्रोत्पन्नसम्यग्दर्शनास्तद्भोगान्ते मुच्यन्त इति विवेकः ॥२४॥

 श्री०टी०-एतदेव विवृणोति-अहं हीति । सर्वेषां यज्ञानां तत्तद्देवतारूपेणाहमेव भोक्ता प्रभुश्च स्वामी फलदाताऽपि चाहमेवेत्यर्थः । एवंभूतं मां ते तत्त्वेन यथावन्नाभिजानन्ति । अतश्चयवन्ति प्रच्यवन्ते पुनरावर्तन्ते ये तु सर्वदेवतासु मामेवान्तर्यामिणं पश्यन्तो यजन्ति ते तु नाऽऽवर्तन्ते ॥ २४ ॥

 म०टी०----देवतान्तरयाजिनामनावृत्तिफलाभावेऽपि तत्तद्देवतायागानुरूपक्षुद्रफलावाप्तिर्ध्रुवेति वदन्भगवद्याजिनां तेभ्यो वैलक्षण्यमाह-

यान्ति देवव्रता देवान्पितॄन्यान्ति पितृव्रताः ॥
भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम् ॥२५॥

 अविधिपूर्वकयाजिनो हि त्रिविधा अन्तःकरणोपाधिगुणत्रयभेदात् । तत्र सात्त्विका देवव्रताः, देवा वसुरुद्रादित्यादयस्तत्संबन्धि व्रतं बल्युपहारप्रदक्षिणप्रह्वाभावादिरूपं पूजनं येषां ते तानेव देवान्यान्ति " तं यथा यथोपासते तदेव भवति" इति श्रुतेः । राजसास्तु पितृव्रताः श्राद्धादिक्रियाभिरग्निप्वात्तादीनां पितॄणामाराधकास्तानेव पितून्यान्ति । तथा तामसा भूतेज्या यक्षरक्षोविनायकमातृगणादीनां भूतानां पूजकास्तान्येव भूतानि यान्ति । अत्र देवपितृभूतशब्दानां तत्संबन्धिलक्षणयोष्ट्रमुखन्यायेन समासः । मध्यमपदलोपिसमासानङ्गीकारात्प्रकृतिविकृतिभावाभावेन च तादर्थ्यचतुर्थीसमासायोगात् । अन्ते च पूजावाचीज्याशब्दप्रयोगात्पूर्वपर्यायद्वयेऽपि व्रतशब्दः पूजापर एव । एवं देवतान्तराराधनस्य तत्तद्देवतारूपत्वमन्तवत्फलमुक्त्वा भगवदाराधनस्य भगवद्रूपत्वमनन्तं फलमाह-मां भगवन्तं यष्टुं पूजयितुं शीलं येषां ते मद्याजिनः सर्वासु देवतासु भगवद्भावदर्शिनो भगवदाराधनपरायणा मां भगवन्तमेव यान्ति । समानेऽप्यायासे भगवन्तमन्तर्यामिणमनन्तफलदमनाराध्य देवतान्तरमाराध्यान्तवत्फलं यान्तीत्यहो दुर्दैववैभवमज्ञानामित्यभिप्रायः ॥२५ ॥

श्री०टी०-तदेवोपपादयति-यान्तीति । देवेषु इन्द्रादिषु व्रतं नियमो येषां तेऽन्त[४०२]वतो देवान्यान्ति[४०३] । पितृषु व्रतं येषां श्राद्धादिक्रियापराणां ते पितॄन्यान्ति । भूतेषु विनायकमातृकादिषु इज्या पूजा येषां ते भूतानि यान्ति। मां यष्टुं शीलं येषां ते मद्याजिनस्ते तु मामेवाक्षयं परमानन्दरूपं नारायणं यान्ति ॥ २५ ॥

 म०टी०--तदेवं देवतान्तराणि परित्यज्यानन्तफलत्वाद्भगवत एवाऽऽराधनं कर्तव्यमतिसुकरत्वाच्चेत्याह-

पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति ॥
तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः ॥ २६ ॥

 पत्रं पुष्पं फलं तोयमन्यद्वाऽनायासलभ्यं यत्किंचिद्वस्तु यः कश्चिदपि नरो मे मह्यमनन्तमहाविभूतिपतये परमेश्वराय भक्त्या "न वासुदेवात्परमस्ति किंचित्" इतिबुद्धिपूर्विकया प्रीत्या प्रयच्छतीश्वराय भृत्यवदुपकल्पयति मत्स्वत्वानास्पदद्रव्याभावात्सर्वस्यापि जगतो मयैवार्जितत्वात् । अतो मदीयमेव सर्वं मह्यमर्पयति जनः । तस्य प्रीत्या प्रयच्छतः प्रयतात्मनः शुद्धबुद्धेस्तत्पत्रपुष्पादि तुच्छमपि वस्तु अहं सर्वेश्वरोऽश्नामि अशनवत्प्रीत्या स्वीकृत्य तृष्यामि । अत्र वाच्यस्यात्यन्ततिरस्कारादशनलक्षितेन स्वीकारविशेषेण प्रीत्यतिशयहेतुत्वं व्यज्यते । “न ह वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं दृष्ट्वा तृष्यन्ति " इति श्रुतेः । कस्मात्तुच्छमाप [४०४]तदश्नांसि यस्माद्भक्त्युपद्धतं भक्त्या प्रीत्या समर्पितं, तेन प्रीत्या समर्पणं मत्स्वीकारनिमित्तमित्यर्थः । अत्र भक्त्या प्रयच्छतीत्युक्त्वा पुनर्भक्त्युपहृतमिति वद[४०५]न्नभक्तस्य ब्राह्मणत्वतपस्वित्वादि मत्स्वीकारनिमित्तं न भवतीति परिसंख्यां सूचयति । श्रीदामब्राह्मणानीततण्डुलकणभक्षणवत्प्रीतिविशेषप्रतिबद्धभक्ष्याभक्ष्यविज्ञानो बाल इव मात्राद्यर्पतं पत्रपुष्पादि [४०६]भक्तार्पितं साक्षादेव भक्षयामीति वा । तेन भक्तिरेव मत्परितोषनिमित्तं न तु देवतान्तरवह्वल्युपहारादि बहुवित्तव्ययायाससाध्यं किंचिदिति देवतान्तरमपहाय मामेव भजेतेत्यभिप्रायः[४०७] ॥ २६ ॥


 श्री०टी०-तदेवं स्वभक्तानामक्षयफलत्वमुक्तम् । अनायासत्वं च स्वभक्तेर्दर्शयति-पत्रमिति । पत्रपुष्पादिमात्रमपि मह्यं भक्त्या प्रीत्या यः प्रयच्छति तस्य प्रयतात्मनः शुद्धचित्तस्य निष्कामभक्तस्य तत्पत्रपुष्पादिकं तेन भक्त्योपहृतं समर्पितमहमश्नामि प्रीत्या गृह्णामि । न हि महाविभूतिपतेः परमेश्वरस्य मम क्षुद्रदेवतानामिव बहुवित्तसाध्ययागादिमिः परितोषः स्यात् । किं तु भक्तिमात्रेण । अतो भक्तेन समर्पित यत्किंचित्पत्रादिमात्रमपि तदनुग्रहार्थमेवानामीति भावः ॥ २६ ॥

 म०टी०-कीदृशं ते भजनं तदाह-

यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् ॥
यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ॥ २७ ॥

 यत्करोषि शास्त्रादृतेऽपि रागात्प्राप्तं गमनादि यदश्नासि स्वयं तृप्त्यर्थं कर्मसिद्ध्यर्थं वा । तथा यज्जुहोषि शास्त्रबलान्नित्यमग्निहोत्रादिहोमं निर्वतयसि । श्रौतस्मार्तसर्वहोमोपलक्षणमेतत् । तथा यद्ददासि अतिथिब्राह्मणादिभ्योऽन्नहिरण्यादि । तथा यत्तपस्यसि प्रतिसंवत्सरमज्ञातप्रामादिकपापनिवृत्तये चान्द्रायणादि चरति उच्छृङ्खलप्रवृत्तिनिरासाय शरीरेन्द्रियसंघातं संयमयसीति वा । एतच्च सर्वेषां नित्यनैमित्तिककर्मणामुपलक्षणम् । तेन यत्तव प्राणिस्वभाववशाद्विनाऽपि शास्त्रमवश्यंमावि गमनाशनादि, यच्च शास्त्रवशादवश्यंभावि होमदानादि हे कौन्तेय तत्सर्वं लौकिकं वैदिकं च कर्मान्येनैव निमित्तेन क्रियमाणं मदर्पणं मय्यर्पितं यथा स्यात्तथा कुरुष्व । आत्मनेपदेन समर्पकनिष्ठमेव समर्पणफलं न तु मयि किंचिदिति दर्शयति । अवश्यंभाविनां कर्मणां मयि परमगुरौ समर्पणमेव मद्भजनं न तु तदर्थं पृथग्व्यापारः कश्चित्कर्तव्य इत्यभिप्रायः ॥ २७ ॥

 श्री० टी०-न च पत्रपुष्पादिकमपि यज्ञार्थं पशुसोमादिद्रव्यवन्मदर्थमेवोधमैरापाद्य समर्पणीयम् , किं तर्हि-यदिति । स्वभावतो वा शास्त्रतो वा यत्किंचित्कर्म करोषि, तथा यदश्नासि यज्जुहोषि यद्ददासि यत्तपस्यसि तपः करोषि तत्सर्वं मय्यर्पितं यथा भवत्येवं कुरुष्व ॥ २७ ॥

 म०. टी०-एतादृशस्य भजनस्य फलमाह-

शुभाशुभफलेरेवं मोक्ष्यसे कर्मबन्धनैः ॥
संन्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि ॥ २८ ॥

 एवमनायाससिद्धेऽपि सर्वकर्मसमर्पणरूपे मद्भजने सति शुभाशुभे इष्टानिष्टे फले येषां तैः कर्मबन्धनैर्बन्धरूपैः कर्मभिर्मोक्ष्यसे मयि समर्पितत्वात्तव तत्संबन्धानुपपत्तेः कर्मभिस्तत्फलैश्च न संस्रक्ष्यसे । ततश्च संन्यासयोगयुक्तात्मा संन्यासः सर्वकर्मणां भगवति समर्पणं स एव योग इव चित्तशोधकत्वाद्योगस्तेन युक्तः शोधित आत्माऽन्त:- करणं यस्य स त्वं त्यक्तसर्वकर्मा वा कर्मबन्धनैर्जीवन्नेव विमुक्तः सन्सम्यग्दर्शनेनाज्ञानावरणनिवृत्त्या मामुपैष्यसि साक्षात्करिष्यस्यहं ब्रह्मास्मीति । ततः प्रारब्धकर्मक्षयात्पतितेऽस्मिञ्शरीरे विदेहकैवल्यरूपं मामुपैयसि, इदानीमपि मद्रूपः सन्सर्वोपाधिनिवृत्त्या मायिकभेदव्यवहारविषयो न भविष्यसीत्यर्थः ॥ २८ ॥

 श्री० टी०- एवं च यत्फलं प्राप्स्यसि तच्छृणु-शुभेति । एवं कुर्वन्कर्मबन्धनैः कर्मनिमित्तैरिष्टानिष्टैः फलैर्मुक्तो भविष्यसि कर्मणां मयि समर्पितत्वेन . तव तत्फलसंबन्धानुपपत्तेः । तैश्च विमुक्तः सन्संन्यासयोगयुक्तात्मा संन्यासः कर्मणां मदर्पणं स एवं योगस्तेन युक्त आत्मा चित्तं यस्य तथाभूतस्त्वं मां प्राप्स्यसि ॥ २८ ॥

 म०टी०-यदि भक्तानेवानुगृह्णासि नाभक्तान् , ततो रागद्वेषवत्त्वेन कथं परमेश्वरः स्या इति नेत्याह-

समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः ॥
ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम्॥२९॥

 सर्वेषु प्राणिषु समस्तुल्योऽहं सद्रूपेण स्फुरणरूपेणाऽऽनन्दरूपेण च स्वाभाविकेनौपाधिकेन चान्तर्यामित्वेन । अतो न मम द्वेषविषयः प्रीतिविषयो वा कश्चिदस्ति सावित्रस्येव गगनमण्डलव्यापिनः प्रकाशस्य । तर्हि कथं भक्ताभक्तयोः फलवैषम्यं तत्राऽऽह-ये भजन्ति तु ये तु भजन्ति सेवन्ते मां सर्वकर्मसमर्पणरूपया भक्त्या । अभक्तापेक्षया भक्तानां विशेषद्योतनार्थस्तुशब्दः । कोऽसौ, मयि ते ये मदर्पितैर्निष्कामैः कर्मभिः शोधितान्तःकरणास्ते निरस्त समस्तरजस्तमोमलस्य सत्त्वोद्रेकेणातिस्वच्छस्यान्तःकरणस्य सदा मदाकारां वृत्तिमुपनिषन्मानेनोत्पादयन्तो मयि वर्तन्ते । अहमप्यतिस्वच्छायां तदीयचित्तवृत्तौ प्रतिबिम्बितस्तेषु वर्ते । चकारोऽवधारणार्थस्त एव मयि तेष्वेवाहमिति । स्वच्छस्य हि द्रव्यस्यायमेव स्वभावो येन संबध्यते तदाकारं गृह्णातीति । स्वच्छद्रव्यसंबद्धस्य च वस्तुन एष एव स्वभावो यत्तत्र प्रतिफलतीति । तथाऽस्वच्छद्रव्यस्याप्येष एव स्वभावो यत्स्वसंबद्धस्याप्याकारं न गृह्णातीति । अस्वच्छद्रव्यसंबद्धस्य च वस्तुन एष एव स्वभावो यत्तत्र न प्रतिफलतीति । यथा हि सर्वत्र विद्यमानोऽपि सावित्रः प्रकाशः स्वच्छे दर्पणादावेवाभिव्यज्यते न त्वस्वच्छे घटादौ । तावता न दर्पणे रज्यति न वा द्वेष्टि घटम् । एवं सर्वत्र समोऽपि स्वच्छे भक्तचित्तेऽभिव्यज्यमानोऽस्वच्छे चाभक्तचित्तेऽनभिव्यज्यमानोऽहं न रज्यामि कुत्रचित्, न वा द्वेष्मि कंचित् , सामग्रीमर्यादया जायमानस्य कार्यस्यापर्यनुयोज्यत्वात् । वह्निवत्कल्पतरुवच्चावैषम्यं व्याख्येयम् ॥ २९ ॥

 क्ष्री० टी०-यदि भक्तेभ्य एव मोक्षं ददासि नाभक्तेभ्यस्तर्हि तवापि किं रागद्वेषादिकृतं वैषम्यमस्ति नेत्याह-सम इति । समोऽहं सर्वेष्वपि भूतेषु अतो मे मम प्रियश्च द्वेष्यश्च नास्त्येव । एवं सत्यपि ये मां भजन्ति ते भक्ता मयि वर्तन्ते । अहमपि तेषु अनुग्राहकतया वर्ते । अयं भावः-यथाऽग्नेः स्वसेवकष्वेव तमाशीतादिदुःखमपाकुर्वतोऽपि न वैषम्यं, यथा वा कल्पवृक्षस्य, तथैव भक्तपक्षपातिनोऽपि मम नास्त्येव वैषम्यं किं तु मद्भक्तेरेवायं महिमेति ॥ २९ ॥

 म०. टी०.-किं च मद्भक्तेरेवायं महिमा यत्समेऽपि वैषम्यमापादयति, शृणु तन्महिमानम्-

अपि चेत्सुदुराचारो भजते मामनन्यभाक् ॥
साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः ॥३०॥

 यः कश्चित्सुदुराचारोऽपि चेदनामिलादिरिवानन्यभाक्सन्मां भजते कुतश्विद्भाग्योदयात्सेवते स प्रागसाधुरपि साधुरेव मन्तव्यः। हि यस्मात्सम्यग्व्यवसितः साधुनिश्चयवान्सः ॥ ३०॥

 श्री०टी०-अपि च मद्भक्तेरवितर्क्यः प्रभाव इति दर्शयन्नाह-अपि चेदिति । अत्यन्त दुराचारोऽपि नरो यदि पृथक्त्वेन देवतान्तरभक्तिमकुर्वन्मामेव श्रीनारायणं भजते तर्हि साधुः श्रेष्ठ एव स मन्तव्यः । यतोऽसौ सम्यग्व्यवसितः[४०८] परमेश्वरभजनेनैव कृतार्थो भविष्यामीति शोभनमध्यवसायं कृतवान् ॥ ३० ॥

 म०टी०-अस्मादेव सम्यग्व्यवसायात्स हित्वा दुराचारताम्-

क्षिप्रं भवति धर्मात्मा शश्वच्छान्ति निगच्छति ॥
कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति ॥३१॥

 चिरकालमधर्मात्माऽपि मद्भजनमहिम्ना क्षिप्रं शीघ्रमेव भवति धर्मात्मा धर्मानुगतचित्तो दुराचारत्वं झटित्येव त्यक्त्वा सदाचारो भवतीत्यर्थः । किं च शश्वन्नित्यं शान्तिं विषयभोगस्पृहानिवृत्तिं निगच्छति नितरां प्राप्नोत्यतिनिर्वेदात् । कश्चित्त्वद्भक्तः प्रागभ्यस्तं दुराचारत्वमत्यजन्न भवेदपि धर्मात्मा, तथा च स नश्येदेवेति नेत्याह भक्तांनुकम्पापरवशतया कुपित इव भगवान्-नैतदाश्चर्यं मन्वीथा हे कौन्तेय निश्चितमेवेदृशं मद्भक्तेर्माहात्म्यम् । अतो विप्रतिपन्नानां पुरस्तादपि त्वं प्रतिजानीहि सावज्ञं सगर्व च प्रतिज्ञां कुरु न मे वासुदेवस्य भक्तोऽतिदुराचारोऽपि प्राणसंकटमापन्नोऽपि सुदुर्लभमयोग्यः सन्प्रार्थयमानोऽपि अतिमूढोऽशरणोऽपि न प्रणश्यति किं तु कृतार्थ एव


भवतीति । दृष्टान्ताश्चाजामिलप्रह्लादधुवगजेन्द्रादयः प्रसिद्धा एव । शास्त्रं च-"न वासुदेवभक्तानामशुभं विद्यते क्वचित् " इति ॥ ३१ ॥

 श्री० टी०-ननु कथं समीचीनाध्यवसायमात्रेण साधुमन्तव्यस्तत्राऽऽह- क्षिप्रमिति । दुराचारोअपि मां भजञ्शीघ्रं धर्माचित्तो भवति । ततश्च शश्वच्छान्तिं शाश्वतीमुपशान्तिं[४०९] परमेश्वरनिष्ठां नितरां गच्छति प्राप्नोति । कुतर्ककर्कशवादिनो नैतन्मन्येन्नितिशङ्काव्याकुलम[४१०]र्जुनं प्रोत्साहयति हे कौन्तेय पटहकाहलादिमहाघोषपूर्वकं विवदमानानां सभां गत्वा बाहुमुक्षिप्य निःशङ्कं प्रतिजानीहि प्रतिज्ञां कुरु । कथं, मे परमेश्वरस्य भक्तः सुदुराचारोऽपि न प्रणश्यति । अपि तु कृतार्थ एव भवतीति । ततश्च ते त्वत्प्रौढिविजृम्भविध्वंसितकुतर्का निःसंशयं त्वामेव गुरुत्वे. नाऽऽश्रयेरन् ॥ ३१ ॥

 म०. टी०-एवमागन्तुकदोषेण दुष्टानां भगवद्भक्तिप्रभावान्निस्तारमुक्त्वा स्वाभाविकदोषेण दुष्टानामपि तमाह-

मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः ॥
स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् ॥३२॥

हि निश्चितं हे पार्थ मां व्यपाश्रित्य शरणमागत्य येऽपि स्युः पापयोनयोऽन्त्यजास्तिर्यञ्चो वा जातिदोषेण दुष्टाः। तथा वेदाध्ययनादिशून्यतया निकृष्टाः स्त्रियो वैश्याः कृष्यादिमात्ररताः । तथा शूद्वा जातितोऽध्ययनाद्यभावेन च परमगत्ययोग्यास्तेऽपि यान्ति परां गतिम् । अपिशब्दात्मागुक्तदुराचारा अपि ॥ ३२ ॥

 श्री०टी०-आचारभ्रष्टं मद्भक्तिः पवित्री करोतीति किमत्र चित्रम् , यतो मद्भक्तिर्दुष्कुलानप्यनधिकारिणोऽपि संसारान्मोचयतीत्याह-मां हीति । येऽपि पापयोनयः स्युनिकृष्टजन्मानोऽन्त्यजादयो भवेयुः। येऽपि वैश्याः केवलं कृष्यादिनिरताः स्त्रियः शूद्रादयश्चाध्ययनादिरहितास्तेऽपि मां व्यपाश्रित्य संसेव्य परां गतिं यान्ति हि निश्चितम् ॥ ३२॥

 म० टी०-एवं चेत्-

किं पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा ॥
अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम् ॥३३॥

 पुण्याः सदाचारा उत्तमयोनयश्च ब्राह्मणास्तथा राजर्षयः सूक्ष्मवस्तुविवेकिनः क्षत्रिया मम भक्ताः परां गति यान्तीति किं पुनर्वाच्यमत्र कस्यचिदपि संदेहाभावादित्यर्थः ।


यतो मद्भक्तेरीदृशो महिमाऽतो महता प्रयत्नेनेमं लोकं सर्वपुरुषार्थसाधनयोग्यमतिदुर्लभं च मनुष्यदेहमनित्यमाशुविनाशिनमसुखं गर्भवासाद्यनेकदुःखबहुलं लब्ध्वा यावदयं न नश्यति तावदतिशीघ्रमेव भजस्व मां शरणमाश्रयस्व, अनित्यत्वादसुखत्वाञ्चास्य विलम्बं सुखार्थमुद्यमं च मा कार्षीस्त्वं च राजर्षिरतो मद्भजनेनाऽऽत्मानं सफलं कुरु । अन्यथा ह्येतादृशं जन्म निष्फलमेव ते स्यादित्यर्थः ॥ ३३ ॥

 श्री०टी०-यदैवं तदा सत्कुलाः सदाचाराश्च मद्भक्ताः परां गतिं यान्तीति किं वक्तव्यमित्याह-किमिति । पुण्याः सुकृतिनो ब्राह्मणाः । तथा राजानश्च त ऋषयश्च क्षत्रिया एवंभूताः परां गतिं यान्तीति किं पुनर्वक्त[४११]व्यम् । अतस्त्वमिमं राजर्षिरूपं लोकं देहं प्राप्य लब्ध्वा मां भजस्व । किंच, अनित्यमध्रुवमसुखं सुखरहितं च लोकं देह प्राप्यानित्यत्वाद्विलम्बमकुर्वन्नसुखत्वाच्च सुखार्थोद्यमं हित्वा मामेव भजस्वेत्यर्थः ॥ ३३ ॥

 म०टी०-भजनप्रकारं दर्शयन्नपसंहरति-

मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ॥
मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः ॥ ३४ ॥

इति श्रीमहाभारते शतसाहस्यां संहितायां वैयासिक्यां

भीष्मपर्वणि श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां

योगशास्त्रे श्रीकृष्णार्जुनसंवादे राजविद्यारा-

जगुह्ययोगो नाम नवमोऽध्यायः ॥ ९ ॥

 राजभक्तस्यापि राजभृत्यस्य पुत्रादौ मनस्तथा स तन्मना अपि न तद्भक्त इत्यत उक्तं मन्मना भव मद्भक्त इति । तथा मद्याजी मत्पूजनशीलो मां नमस्कुरु मनोवाक्कायैः । एवमेभिः प्रकारैर्मत्परायणो मदेकशरणः सन्नात्मानमन्तःकरणं युक्त्वा मयि समाधाय मामेव परमानन्दघनं स्वप्रकाशं सर्वोपद्रवशून्यमभयमेष्यसि प्राप्स्यसि ॥३४॥

श्रीगोविन्दपदारविन्दमकरन्दास्वादशुद्धाशयाः
 संसाराम्बुधिमुत्तरन्ति सहसा पश्यन्ति पूर्ण महः ॥
वेदान्तैरवधारयन्ति परमं श्रेयस्त्यजन्ति भ्रमं
 द्वैतं स्वप्नसमं विदन्ति विमलां विन्दन्ति चाऽऽनन्दताम् ॥ १॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीविश्वेश्वरसरस्वतीपादशिष्यश्रीमधुसूदन-

सरस्वतीविरचितायां श्रीमद्भगवद्गीतागूढार्थदीपिकायामधिकारिभेदेन

राजविद्याराजगुह्ययोगो नाम नवमोऽध्यायः ॥९॥


 श्री० टी०-भजनप्रकारं दर्शयन्नुपसंहरति-मन्मना इति । मय्येव मनो यस्य स मन्मनास्त्वं भव । तथा मद्भक्तो मत्सेवको भव । मद्याजी मद्यजनशीलो भव । मामेव च नमस्कुरु । एवमेभिः प्रकारैर्मत्परायणः सन्नात्मानं मनो मयि युक्त्वा समाधाय मामेव परमानन्दरूपमेष्यसि प्राप्स्यसि ॥ ३४ ॥

निजमैश्वर्यमाश्चर्यं भक्तेश्चाद्भुतवैभवम् ।
नवमे राजगुह्याख्ये कृपयाऽवोचदच्युतः ॥ १ ॥

इति श्रीसुबोधिन्यां टीकायां श्रीधरस्वामिविरचितायां राजविद्यारा.

जगुह्ययोगो नाम नवमोऽध्यायः ॥ ९॥

अथ दशमोऽध्यायः।

 म०टी०-एवं सप्तमाष्टमनवमैस्तत्पदार्थस्य भगवतस्तत्त्वं सोपाधिकं निरुपाधिकं च दर्शितम् । तस्य च विभूतयः सोपाधिकस्य ध्याने निरुपाधिकस्य ज्ञाने चोपायभूता रसोऽहमप्सु कौन्तेयेत्यादिना सप्तमे, अहं ऋतुरहं यज्ञ इत्यादिना नवमे च संक्षेपेणोक्ताः । अथेदानीं तासां विस्तरो वक्तव्यो भगवतो ध्यानाय तत्त्वमपि दुर्विज्ञेयत्वात्पुनस्तस्य वक्तव्यं ज्ञानायेति दशमोऽध्याय आरभ्यते । तत्र प्रथममर्जुनं प्रोत्साहयितुम् -

श्रीभगवानुवाच-

भूय एव महाबाहो शृणु मे परमं वचः ॥
यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया ॥१॥

 भूय एव पुनरपि हे महाबाहो शृणु मे मम परमं प्रकृष्टं वचः । यत्ते तुभ्यं प्रीयमाणाय मदचनादमृतपानादिव प्रीतिमनुभवते वक्ष्याम्यहं परमाप्तस्तव हितकाम्ययेष्टप्राप्तीच्छया ॥ १ ॥

श्री०टी०- उक्ताः संक्षेपतः पूर्व सप्तमादौ विभूतयः ।
  दशमे ता वितन्यन्ते सर्वत्रेश्वरदृष्टये ॥

 एवं तावत्सप्तमादिभिस्त्रिभिरध्यायैर्भजनीयं परमेश्वररूपं निरूपितम् । तद्विभूतयश्च सप्तमे “ रसोऽहमप्सु कौन्तेय " इत्यादिना संक्षेपतो दर्शिताः । अष्टमे “कि तद्ब्रह्म किमध्यात्मम्" इत्यादिनाऽर्जुनाय(नेन) सप्त पदार्था उपन्यस्तास्ताः परमेश्वरस्य विभूतय एव साधिभूताधिदैवमित्युक्तत्वात् । नवमे च "अहं क्रतुरहं यज्ञः" इत्यादिना

तद्विभूतयो दर्शिताः । अथेदानी ता एव विभूतीः प्रपञ्चयिष्यन्वभक्तेश्वावश्यकरणीयत्वं वर्णयिष्यश्रीभगवानुवाच-भूय एवेति । महान्तौ युद्धादिस्वधर्मानुष्ठाने महत्परिचर्यायां च कुशलौ बाहू यस्य हे महाबाहो भूय एव पुनरपि मे वचः शृणु । कथंभूतम्, परमं परमार्थनिष्ठं, मद्वचसाऽमृतेनेव प्रीतिं प्राप्नुवते ते तुभ्यं हितकाम्यया हितेच्छया यदहं वक्ष्यामि तत् ॥ १ ॥

 म० टी०-प्रान्बहुधोक्तमेव किमर्थं पुनर्वक्ष्यसीत्यत आह-

न मे विदुः सुरगणाः प्रभवं न महर्षयः ॥
अहमादिर्हि देवानां महर्षीणां च सर्वशः॥२॥

 प्रभवं प्रभावं प्रभुशक्त्यातिशयं प्रभवनमुत्पत्तिमनेकविभूतिभिराविर्भाव वा सुरगणा इन्द्रादयो महर्षयश्च भृग्वादयः सर्वज्ञा अपि न मे विदुः । तेषां तदज्ञाने हेतुमाह- अहं हि यस्मात्सर्वेषां देवानां महर्षीणां च सर्वशः सर्वैः प्रकारैरुत्पादकत्वेन बुद्ध्यादिप्रवर्तकत्वेन च निमित्तत्वेनोपादानत्वेन चेति वाऽऽदिः कारणम् । अतो मद्विकारास्ते मत्प्रभाव न जानन्तीत्यर्थः ॥ २ ॥

 श्री०टी०-उक्तस्यापि पुनर्वचने दुर्जेयत्वं हेतुमाह-न म इति । मे मम प्रकृष्टं भवं जन्मरहितस्यापि नानाविभूतिभिराविर्भावं सुरगणा अपि महर्षयो भृग्वादयोऽपि न जानन्ति । तत्र हेतु:--अहं हि देवानां महर्षीणां चाऽऽदिः कारणं सर्वशः सर्वप्रकारैरुत्पादकत्वेन बुद्धयादिप्रवर्तकत्वेन च । अतो मदनुग्रहं विना मां केऽपि न जानन्तीत्यर्थः ॥ २ ॥

 म०टी०-महाफलत्वाच्च कश्चिदेव भगवतः प्रभाव वेत्तीत्याह-

यो मामजमनादिं च वेत्ति लोकमहेश्वरम् ॥
असंमूढः स मर्त्येषु सर्वपापैः प्रमुच्यते ॥३॥

 सर्वकारणत्वान्न विद्यत आदिः कारणं यस्य तमनादिमनादित्वादजं जन्मशून्यं लोकानां महान्तमीश्वरं च मां यो वेत्ति स मर्त्येषु मनुष्येषु मध्येऽसंमूढः संमोहवर्जितः सर्वैः पापैर्मतिपूर्वकृतैरपि प्रमुच्यते प्रकर्षेण कारणोच्छेदात्तत्संस्काराभावरूपेण मुच्यते मुक्तो भवति ॥ ३॥

  श्री०टी०-एवंभूतात्मज्ञाने फलमाह-यो मामिति । सर्वकारणत्वादेव न विद्यत आदिः कारणं यस्य तमनादिम् । अत एवाजं जन्मशून्यं लोकानां महेश्वरं च मां यो वेत्ति स मनुष्येषु असंमूढः संमोहरहितः सन्सर्वपापैः प्रमुच्यते ॥ ३ ॥

 म०टी०-आत्मनो लोकमहेश्वरत्वं प्रपञ्चयति

बुद्धिर्ज्ञानमसंमोहः क्षमा सत्यं दमः शमः ॥
सुखं दुःखं भवो भावो भयं चाभयमेव च ॥४॥

 बुद्धिरन्तःकरणस्य सूक्ष्मार्थविवेकसामर्थ्यं, ज्ञानमात्मानात्मसर्वपदार्थावबोधः, असंमोहः प्रत्युत्पन्नेषु बोद्धव्येषु कर्तव्येषु वाऽव्याकुलतया विवेकेन प्रवृत्तिः, क्षमाऽऽक्रुष्टस्य ताडितस्य वा निर्विकारचित्तता, सत्यं प्रमाणेनावबुद्धस्यार्थस्य तथैव भाषणं, दमो बाह्येन्द्रियाणां स्वविषयेभ्यो निवृत्तिः, शमोऽन्तःकर[४१२]णस्य[४१३] सा, सुखं धर्मासाधारणकारणकमनुकूलवेदनीयं, दुःखमधर्मासाधारणकारणकं प्रतीकूलवेदनीयं, भव उत्पत्तिः, भावः सत्ताऽभावोऽसत्तेति वा । भयं च त्रासस्तद्विपरीतमभयम् । एव च, एकश्चकार उक्तसमुच्च. यार्थः । अपरोऽनुक्ताबुद्धयज्ञानादिसमुच्चयार्थः । एवेत्येते सर्वलोकप्रसिद्धा एवेत्यर्थः । मत्त एव भवन्तीत्युत्तरेणान्वयः ॥ ४ ॥

 श्री०टी०-लोकमहेश्वरतामेव स्फुटयति बुद्धिरिति त्रिभिः-बुद्धिः सारासारविवेकनैपुण्यम् , ज्ञानमात्मविषयम् , असंमोहो व्याकुलत्वाभावः, क्षमा सहिष्णुत्वम् , सत्यं यथार्थभाषणम् , दमो बाह्येन्द्रियसंयमः, शमोऽन्तःकरणसंयमः, सुखमनुकूलसंवेदनीयम् , दुःखं तद्विपरीतं, भव उद्भवः, अमावस्तद्विपरीतः, भयं त्रासः, अभयं तद्विपरीतम् । अस्य श्लोकस्योत्तरेण मत्त एव भवन्तीत्यनेनान्वयः ॥ ४ ॥

अहिंसा समता तुष्टिस्तपो दानं यशोऽयशः॥
भवन्ति भावा भूतानां मत्त एव पृथग्विधाः ॥ ५॥

 म०टी०-अहिंसा प्राणिनां पीडाया निवृत्तिः । समता चित्तस्य रागद्वेषादिरहितावस्था । तुष्टिर्भोग्येष्वेतावताऽलमिति बुद्धिः । तपः शास्त्रीयमार्गेण कायेन्द्रियशोषणम् । दानं देशे काले श्रद्धया यथाशक्त्यर्थानां सत्पात्रे समर्पणम् । यशो धर्मनिमित्ता [४१४]लोकक्ष्ला[४१५]घारूपा[४१६] प्रसिद्धिः । अयशस्त्वधर्मनिमित्ता [४१७]लोकनिन्दारूपा[४१८] प्रसिद्धिः । एते बुद्धयादयो भावाः कार्यविशेषाः सकारणकाः पृथग्विधा धर्माधर्मादिसाधनवैचित्र्येण नानाविधा भूतानां सर्वेषां प्राणिनां मत्तः परमेश्वरादेव भवन्ति नान्यस्मात्तस्मात्किं वाच्यं मम लोकमहेश्वरत्वमित्यर्थः ॥ ५ ॥

 श्री०टी०-किंच-अहिंसेति । अहिंसा परपीडानिवृत्तिः, समता रागद्वेषादिराहि[४१९]त्यं, तुष्टिर्दैवलब्धेन संतोषः, तपः शारीरादि वक्ष्यमाणम् , दानं न्यायाजितधनादेः


सत्पात्रेऽर्पणम् , यशः सत्कीर्तिः । अयशो दुष्कीर्तिः । एते बुद्धिर्ज्ञानमित्यादयस्तद्विपरीताश्चाबुद्ध्यादयो नानाविधा भावाः प्राणिनां मत्तः सकाशादेव भवन्ति ॥ ५ ॥

 म० टी०-इतश्चैतदेवम् -

महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा ॥
मद्भावा मानसा जाता येषां लोक इमाः प्रजाः॥६॥

 महर्षयो वेदतदर्थद्रष्टारः सर्वज्ञा विद्यासंप्रदायप्रवर्तका भृग्वाद्याः सप्त पूर्वे सर्गाद्यकालाविभूताः । तथा च पुराणं-

भृगुं मरीचिमत्रिं च पुलस्त्यं पुलहं क्रतुम् ।
 वसिष्ठं च महातेजाः सोऽसृजन्मनसा सुतान् ।
सप्त ब्रह्माण इत्येते पुराणे निश्चयं गताः " इति ॥

 तथा चत्वारो मनवः सावर्णा इति प्रसिद्धाः । अथवा महर्षयः सप्त भृग्वाद्याः, तेभ्योऽपि पूर्व प्रथमाश्चत्वारः सनकाद्या महर्षयः । मनवस्तथा स्वायंभुवाद्याश्चतुर्दश मयि परमेश्वरे भावो भावना येषां ते मद्भावा मच्चिन्तनपरा मद्भावनावशादाविर्भूतमदीयज्ञानेश्वर्यशक्तय इत्यर्थः । मानसा मनसः संकल्पादेवोत्पन्ना न तु योनिजाः । अतो विशुद्धजन्मत्वेन सर्वप्राणिश्रेष्ठा मत्त एव हिरण्यगर्भात्मनो जाताः सर्गाद्यकाले प्रादुर्भूताः । येषां महर्षीणां सप्तानां भृग्वादीनां चतुर्णां च सनकादीनां मनूनां च चतुर्दशानामस्मिल्लोके जन्मना च विद्यया च संततिभूता इमा ब्राह्मणाद्याः सर्वाः प्रजाः ॥६॥

 श्री०टी०-किं च-महर्षय इति । सप्त महर्षयो भृग्वादयः "सप्त [४२०]ब्रह्माण इत्येते पुराणे निश्चयं गताः" इत्यादिपुराणप्रसिद्धाः। तेभ्योऽपि पूर्वेऽन्ये चत्वारो महर्षयः सनकादयः । तथा मनवः स्वायंभुवादयो मद्भावा मदीयो भावः प्रभावो येषु ते हिरण्यगर्भात्मनो ममैव मनसः संकल्पमात्राज्जाताः । प्रभावमेवाऽऽह-येषामिति । येषां भृग्वादीनां सनकादीनां मनूनां चेमा ब्राह्मणाद्या लोके वर्धमाना यथायथं पुत्रपौत्रादिरूपाः शिष्यप्रशिष्यादिरूपाश्च प्रजा जाताः प्रवर्तन्ते ॥ ६ ॥

 म०टी०-एवं सोपाधिकस्य भगवतः प्रभावमुक्त्वा तज्ज्ञानफलमाह-

एतां विभूति योगं च मम यो वेत्ति तत्वतः ॥
सोऽविकम्पेन योगेन युज्यते नात्र संशयः ॥ ७ ॥

 एता प्रागुक्ता बुद्ध्यादिमहर्ष्यादिरूपां विभूतिं विविधभावं तत्तद्रूपेणावस्थितिं योगं च तत्तदर्थनिर्माणसामर्थ्यं परमैश्वर्यमिति यावत् । मम यो वेत्ति तत्त्वतो यथावत्सोऽ-


विकम्पेनाप्रचलितेन योगेन सम्यग्ज्ञानस्थैर्यलक्षणेन समाधिना युज्यते नात्र संशयः प्रतिबन्धः कश्चित् ॥ ७ ॥

 श्री०टी०~-यथोक्तविभूत्यादितत्त्वज्ञानस्य फलमाह-एतामिति । एतां भृग्वा- दिलक्षणां मम विभूतिं योगं चैश्चर्यलक्षणं तत्त्वतो यो वेत्ति सोऽविकम्पेन निःसंशयेन योगेन सम्यग्दर्शनेन युक्तो भवति । नास्त्यत्र संशयः ॥ ७ ॥

 'म० टी०-यादृशेन विभूतियोगयोर्ज्ञानेनाविकम्पयोगप्राप्तिस्तदर्शयति चतुर्भिः-

अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते ॥
इति मत्वा भजन्ते मां बुधा भावसमन्विताः॥ ८॥

 अहं परं ब्रह्म वासुदेवाख्यं सर्वस्य जगतः प्रभव उत्पत्तिकारणमुपादानं निमित्तं च स्थितिनाशादि च सर्व मत्त एव प्रवर्तते भवति । मयैवान्तर्यामिणा सर्वज्ञेन सर्वशक्तिना प्रेर्यमाणं स्वस्वमर्यादामनतिक्रम्य सर्वं जगत्प्रवर्तते चेष्टत इति वा । इत्येवं मत्वा बुधा विवेकेनावगततत्त्वा भावेन परमार्थतत्त्वग्रहणरूपेण प्रेम्णा समन्विताः सन्तो मां भजन्ते ॥ ८॥

 श्री० टी०-यथा च विभूतियोगयोर्ज्ञानेन सम्यग्ज्ञानावाप्तिस्तद्दर्शयति अहमित्यादिचतुर्भि:-~-अहं सर्वस्य जगतः प्रभवो भृग्वादिरूपविभूतिद्वारेणोत्पत्तिहेतुः । मत्त एव चास्य सर्वस्य बुद्धिर्ज्ञानमसंमोह इत्यादि सर्व प्रवर्तत इति एवं मत्वाऽवबुध्य बुधा विवेकिनो भावसमन्विताः प्रीतियुक्ता मां भजन्ते ॥ ८ ॥

 म०टी०-प्रेमपूर्वकं भजनमेव विवृणोति-

मच्चित्ता मद्तप्राणा बोधयन्तः परस्परम् ॥
कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च ॥ ९॥

 मयि भगवति चित्तं येषां ते मच्चित्ताः । तथा मद्ता मां प्राप्ताः प्राणाश्चक्षुरादयो येषां ते मद्तप्राणा मद्भजननिमित्तचक्षुरादिव्यापारा मय्युपसंहृतसर्वकरणा वा । अथवा मद्गतप्राणा मद्भजनार्थजीवना मद्भजनातिरिक्तप्रयोजनशून्यजीवना इति यावत् । विद्धद्गोष्ठीषु 'परस्परमन्योन्यं श्रुतिभिर्युक्तिभिश्च मामेव बोधयन्तस्तत्त्वबुभुत्सुकथया ज्ञापयन्तः । तथा स्वशिष्येभ्यश्च मामेव कथयन्त उपदिशन्तश्च । मयि चित्तार्पणं तथा बाह्यकरणार्पणं तथा जीवनार्पणमेवं समानामन्योन्यं मद्बोधनं स्वन्यूनेभ्यश्च मदुपदेशनमित्येवंरूपं यन्मद्भजनं तेनैव तुष्यन्ति च, एतावतैव लब्धसर्वार्था वयमलमन्येन लब्धव्येनेत्येवंप्रत्ययरूपं संतोषं प्राप्नुवन्ति च । तेन संतोषेण रमन्ति च रमन्ते च प्रियसंगमेनेवोत्तमं सुखमनुभवन्ति च । तदुक्तं पतञ्जलिना--" संतोषादनुत्तमः सुखलाभः " इति । उक्तं च पुराणे

यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम् ।
तृष्णाक्षयसुखस्यैते नार्हतः षोडशी कलाम् " इति ॥

 तृष्णाक्षयः संतोषः ॥९॥

 श्री० टी०-प्रीतिपूर्वकं भजनमेवाऽऽह-मच्चित्ता इति । मय्येव चित्तं येषां ते मच्चित्ताः । मामेव गताः प्राप्ताः प्राणा इन्द्रियाणि येषां ते मद्गतप्राणा मद्र्पितजीवना इति वा । एवंभूतास्ते बुधा अन्योन्यं मां न्यायोपेतैः श्रुत्यादिप्रमाणैर्बोधयन्तो बुद्ध्वा च मां कथयन्तः संकीर्तयन्तः सन्तो नित्यं तुष्यन्ति अनुमोदनेन तुष्टिं यान्ति रमन्ति च निर्वृति यान्ति ॥ ९॥

 म०टी०-ये यथोक्तेन प्रकारेण भजन्ते माम्-

तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् ॥
ददामि बुद्धियोगं तं येन मामुपयान्ति ते ॥ १० ॥

 सततं सर्वदा युक्तानां भगवत्येकाग्रबुद्धीनाम् । अत एव लाभपूजाख्यात्याद्यनभिसंधाय प्रीतिपूर्वकमेव भजतां सेवमानानां तेषामविकम्पेन योगेनेति यः प्रागुक्तस्तं बुद्धियोगं मत्तत्त्वविषयं सम्यग्दर्शनं ददामि उत्पादयामि । येन बुद्धियोगेन मामीश्वरमात्मत्वेनोपयान्ति ये मच्चित्तत्वादिप्रकारैर्मा भजन्ते ते ॥ १० ॥

 श्री० टी०-एवंभूतानां च सम्यग्ज्ञानमहं ददामीत्याह-तेषामिति । एवं सततयुक्तानां मय्यासक्तानां प्रीतिपूर्वकं भजतां तेषां तं बुद्धिरूपं योगमुपायं ददामि । तमिति कम् , येनोपायेन ते भक्ता मां प्राप्नुवन्ति ॥ १० ॥

 म० टी०-दीयमानस्य बुद्धियोगस्याऽऽत्मप्राप्तौ फले मध्यवर्तिनं व्यापारमाह-

तेषामेवानुकम्पार्थमहमज्ञानजं तमः ॥
नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता ॥ ११॥

 तेषामेव कथं श्रेयः स्यादित्यनुग्रहार्थमात्मभावस्थ आत्माकारान्तःकरणवृत्तौ विषयत्वेन स्थितोऽहं स्वप्रकाशचैतन्यानन्दाद्वयलक्षण आत्मा तेनैव मद्विषयान्तःकरणपरिणामरूपेण ज्ञानदीपेन दीपसदृशेन ज्ञानेन भास्वता चिदाभासयुक्तेनाप्रतिबद्धनाज्ञानजमज्ञानोपादानकं तमो मिथ्याप्रत्ययलक्षणं स्वविषयावरणमन्धकारं तदुपादानाज्ञाननाशेन नाशयामि सर्वभ्रमोपादानस्याज्ञानस्य ज्ञाननिवर्त्यत्वादुपादाननाशनिवर्त्यत्वाच्चोपादेयस्य । यथा दीपेनान्धकारे निवर्तनीये दीपोत्पत्तिमन्तरेण न कर्मणोऽभ्यासस्य वाऽपेक्षा विद्यमानस्यैव च वस्तुनोऽभिव्यक्तिस्ततो नानुत्पन्नस्य कस्यचिदुत्पत्तिस्तथा ज्ञानेनाज्ञाने निवर्तनीये न ज्ञानोत्पत्तिमन्तरेणान्यस्य कर्मणोऽभ्यासस्य वाऽपेक्षा विद्यमानस्यैव च ब्रह्मभावस्य मोक्षस्याभिव्यक्तिस्ततो नानुत्पन्नस्योत्पत्तिर्येन क्षयित्वं कर्मादिसापेक्षत्वं वा

बुद्धिर्ज्ञानमसंमोहः क्षमा सत्यं दमः शमः ॥
सुखं दुःखं भवो भावो भयं चाभयमेव च ॥४॥

 बुद्धिरन्तःकरणस्य सूक्ष्मार्थविवेकसामर्थ्य, ज्ञानमात्मानात्मसर्वपदार्थावबोधः, असंमोहः प्रत्युत्पन्नेषु बोद्धव्येषु कर्तव्येषु वाऽव्याकुलतया विवेकेन प्रवृत्तिः, क्षमाऽऽक्रुष्टस्य ताडितस्य वा निर्विकारचित्तता, सत्यं प्रमाणेनावबुद्धस्यार्थस्य तथैव भाषणं, दमो बाह्येन्द्रियाणां स्वविषयेभ्यो निवृत्तिः, शमोऽन्तःकर[४२१]णस्य[४२२] सा, सुखं धर्मासाधारणकारणकमनुकूलवेदनीयं, दुःखमधर्मासाधारणकारणकं प्रतीकूलवेदनीयं, भव उत्पत्तिः, भावः सत्ताऽभावोऽसत्तेति वा । भयं च त्रासस्तद्विपरीतमभयम् । एव च, एकश्चकार उक्तसमुच्चयार्थः । अपरोऽनुक्ताबुद्धयज्ञानादिसमुच्चयार्थः । एवेत्येते सर्वलोकप्रसिद्धा एवेत्यर्थः । मत्त एव भवन्तीत्युत्तरेणान्वयः ॥ ४ ॥

 श्री०टी०-लोकमहेश्वरतामेव स्फुटयति बुद्धिरिति त्रिभिः---बुद्धिः सारासारविवेकनैपुण्यम् , ज्ञानमात्मविषयम् , असंमोहो व्याकुलत्वाभावः, क्षमा सहिष्णुत्वम् , सत्यं यथार्थभाषणम् , दमो बाह्येन्द्रियसंयमः, शमोऽन्तःकरणसंयमः, सुखमनुकूलसंवेदनीयम् , दुःखं तद्विपरीतं, भव उद्भवः, अमावस्तद्विपरीतः, मयं त्रासः, अमयं तद्विपरीतम् । अस्य श्लोकस्योत्तरेण मत्त एव भवन्तीत्यनेनान्वयः ॥ ४ ॥

अहिंसा समता तुष्टिस्तपो दानं यशोऽयशः॥
भवन्ति भावा भूतानां मत्त एव पृथग्विधाः ॥ ५॥

 म०टी०-अहिंसा प्राणिनां पीडाया निवृत्तिः । समता चित्तस्य रागद्वेषादिरहितावस्था । तुष्टि ग्येष्वेतावताऽलमिति बुद्धिः । तपः शास्त्रीयमार्गेण कायेन्द्रियशोषणम् । दानं देशे काले श्रद्धया यथाशक्त्यर्थानां सत्पात्रे समर्पणम् । यशो धर्मनिमित्ता [४२३]लोक[४२४]क्ष्लघरूपा[४२५] प्रसिद्धिः । अयशस्त्वधर्मनिमित्ता [४२६]लोकनिन्दारूपा[४२७] प्रसिद्धिः । एते बुद्धयादयो भावाः कार्यविशेषाः सकारणकाः पृथग्विधा धर्माधर्मादिसाधनवैचित्र्येण नानाविधा भूतानां सर्वेषां प्राणिनां मत्तः परमेश्वरादेव भवन्ति नान्यस्मात्तस्मारिक वाच्यं मम लोकमहेश्वरत्वमित्यर्थः ॥ ५ ॥

 श्री०टी०-किंच-अहिंसेति । अहिंसा परपीडानिवृत्तिः, समता रागद्वेषादि- राहि[४२८]त्य, तुष्टिदैवलब्धेन संतोषः, तपः शारीरादि वक्ष्यमाणम् , दानं न्यायाजितधनादेः


सत्पात्रेऽर्पणम् , यशः सत्कीर्तिः । अयशो दुष्कीर्तिः । एते बुद्धिर्ज्ञानमित्यादयस्तद्विपरीताश्चाबुद्ध्यादयो नानाविधा भावाः प्राणिनां मत्तः सकाशादेव भवन्ति ॥ ५ ॥

 म० टी०-इतश्चैतदेवम् -

महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा ॥
मद्भावा मानसा जाता येषां लोक इमाः प्रजाः॥६॥

 महर्षयो वेदतदर्थद्रष्टारः सर्वज्ञा विद्यासंप्रदायप्रवर्तका भृग्वाद्याः सप्त पूर्वे सर्गायकालाविर्भूताः । तथा च पुराणं-

" भृगु मरीचिमत्रिं च पुलस्त्यं पुलहं क्रतुम् ।
पसिष्ठं च महातेजाः सोऽसृजन्मनसा सुतान् ।
सप्त ब्रह्माण इत्येते पुराणे निश्चयं गताः " इति ॥

 तथा चत्वारो मनवः सावर्णा इति प्रसिद्धाः । अथवा महर्षयः सप्त भृगवायाः, तेभ्योऽपि पूर्व प्रथमाश्चत्वारः सनकाद्या महर्षयः । मनवस्तथा स्वायंभुवाद्याश्चतुर्दश मयि परमेश्वरे भावो भावना येषां ते मद्भावा मच्चिन्तनपरा मद्भावनावशादाविर्भूतमदीयज्ञानेश्वर्यशक्तय इत्यर्थः । मानसा मनसः संकल्पादेवोत्पन्ना न तु योनिभाः । अतो विशुद्धजन्मत्वेन सर्वप्राणिश्रेष्ठा मत्त एवं हिरण्यगर्भात्मनो जाताः सर्गायकाले प्रादुभूताः । येषां महर्षीणां सप्तानां भृग्वादीनां चतुर्णां च सनकादीनां मनूनां च चतुर्दशानामस्मिल्लोके जन्मना च विद्यया च संततिभूता इमा ब्राह्मणाबाः सर्वाः प्रजाः ॥६॥

 श्री०टी०-किं च-महर्षय इति । सप्त महर्षयो भृग्वादयः "सप्त [४२९]ब्रह्माण इत्येते पुराणे निश्चयं गताः" इत्यादिपुराणप्रसिद्धाः। तेभ्योऽपि पूर्वेऽन्ये चत्वारो महर्षयः सनकादयः । तथा मनवः स्वायंभुवादयो मद्भावा मदीयो भावः प्रभावो येषु ते हिरण्यगर्भात्मनो ममैव मनसः संकल्पमात्राजाताः । प्रभावमेवाऽऽह-येषामिति । येषां भृग्वादीनां सनकादीनां मनूनां चेमा ब्राह्मणाद्या लोके वर्धमाना यथायथं पुत्रपौत्रादिरूपाः शिष्यप्रशिष्यादिरूपाश्च प्रजा जाताः प्रवर्तन्ते ॥ ६ ॥

 म०टी०एवं सोपाधिकस्य भगवतः प्रमावमुक्त्वा तज्ज्ञानफलमाह-

एतां विभूति योगं च मम यो वेत्ति तत्वतः ॥
सोऽविकम्पेन योगेन युज्यते नात्र संशयः ॥ ७ ॥

 एतां प्रागुक्ता बुद्ध्यादिमहादिरूपां विभूति विविधभावं तत्तद्रूपेणावस्थिति योगं च तत्तदर्थनिर्माणसामर्थ्य परमैश्वर्यमिति यावत् । मम यो वेत्ति तत्त्वतो यथावत्सोऽ-


विकम्पेनाप्रचलितेन योगेन सम्यग्लानस्थैर्यलक्षणेन समाधिना युज्यते नात्र संशयः प्रतिबन्धः कश्चित् ॥ ७ ॥

 श्री०टी०-यथोक्तविभूत्यादितत्त्वज्ञानस्य फलमाह-एतामिति । एतां भृग्वादिलक्षणां मम विभूति योगं चैश्वर्यलक्षणं तत्त्वतो यो वेत्ति सोऽविकम्पेन निःसंशयेन योगेन सम्यग्दर्शनेन युक्तो भवति । नास्त्यत्र संशयः ॥ ७ ॥

 म० टी०-यादृशेन विभूतियोगयो नेनाविकम्पयोगप्राप्तिस्तदर्शयति चतुर्भिः-

अहं सर्वस्य प्रभवो मत्तः सर्व प्रवर्तते ॥
इति मत्वा अजन्ते मां बुधा भावसमन्विताः॥ ८॥

 अहं परं ब्रह्म वासुदेवाख्यं सर्वस्य जगतः प्रभव उत्पत्तिकारणमुपादानं निमित्तं च स्थितिनाशादि च सर्व मत्त एव प्रवर्तते भवति । मयैवान्तर्यामिणा सर्वज्ञेन सर्वशक्तिना प्रेर्यमाणं स्वस्वमर्यादामनतिक्रम्य सर्वं जगत्प्रवर्तते चेष्टत इति वा । इत्येवं मत्वा बुधा विवेकेनावगततत्त्वा भावेन परमार्थतत्त्वग्रहणरूपेण प्रेम्णा समन्विताः सन्तो मां भजन्ते ॥ ८॥

 श्री०टी०-यथा च विभूतियोगयोजीनेन सम्यग्ज्ञानावाप्तिस्तदर्शयति अहमित्यादिचतुर्भि:-अहं सर्वस्य जगतः प्रभवो भृग्वादिरूपविभूतिद्वारेणोत्पत्तिहेतुः । मत्त एवं चास्य सर्वस्य बुद्धिर्ज्ञानमसंमोह इत्यादि सर्व प्रवर्तत इति एवं मत्वाऽवबुध्य बुधा विवेकिनो भावसमन्विताः प्रीतियुक्ता मां भजन्ते ॥ ८ ॥

 म०टी०- प्रेमपूर्वकं भजनमेव विवृणोति-

मच्चित्ता मगतप्राणा बोधयन्तः परस्परम् ॥
कथयन्तश्च मां नियं तुष्यन्ति च रमन्ति च ॥९॥

 मयि भगवति चित्तं येषां ते मचित्ताः । तथा मद्ता मां प्राप्ताः प्राणाश्चक्षुरादयो येषां ते मद्गतप्राणा मद्भजननिमित्तचक्षुरादिव्यापारा मय्युपसंहृतसर्वकरणा वा । अथवा मद्गतप्राणा मद्भजनार्थजीवना मद्भजनातिरिक्तप्रयोजनशून्यजीवना इति यावत् । विद्वद्गोष्ठीषु ‘परस्परमन्योन्यं श्रुतिभियुक्तिभिश्च मामेव बोधयन्तस्तत्त्वबभुत्सुकथया ज्ञापयन्तः । तथा स्वशिष्येभ्यश्च मामेव कथयन्त उपदिशन्तश्च । मयि चित्तार्पणं तथा बाह्यकरणार्पणं तथा जीवनार्पणमेवं समानामन्योन्यं मद्बोधनं स्वन्यूनेभ्यश्च मदुपदेशनमित्येवरूपं यन्मद्भजनं तेनैव तुष्यन्ति च, एतावतैव लब्धप्तर्वार्था वयमलमन्येन लब्धव्येनेत्येवंप्रत्ययरूपं संतोष प्राप्नुवन्ति च । तेन संतोषेण रमन्ति च रमन्ते च प्रियसंगमेनेवोत्तमं सुखमनुभवन्ति च । तदुक्तं पतञ्जलिना--" संतोषादनुत्तमः सुखलाभः " इति । उक्तं च पुराणे

यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम् ।
तृष्णाक्षयसुखस्यैते नार्हतः षोडशी कलाम् " इति ॥

 तृष्णाक्षयः संतोषः ॥९॥

 श्री० टी०-प्रीतिपूर्वकं भजनमेवाऽऽहमचित्ता इति । मय्येव चित्तं येषां ते मचित्ताः । मामेव गताः प्राप्ताः प्राणा इन्द्रियाणि येषां ते मद्गतप्राणा मदर्पितजीवना इति वा । एवंभूतास्ते बुधा अन्योन्यं मां न्यायोपेतैः श्रुत्यादिप्रमाणैर्बोधयन्तो बुद्ध्वा चे मां कथयन्तः संकीर्तयन्तः सन्तो नित्यं तुष्यन्ति अनुमोदनेन तुष्टिं यान्ति रमन्ति च निवृति यान्ति ॥९॥

 म०टी०-ये यथोक्तेन प्रकारेण भजन्ते माम्-

तषा सततयुक्ताना भजतां प्रीतिपूर्वकम् ॥
ददामि बुद्धियोगं तं येन मामुपयान्ति ते ॥ १०॥

 सततं सर्वदा युक्तानां भगवत्येकाग्रबुद्धीनाम् । अत एव लाभपूजाख्यात्याधनभिसंधाय प्रीतिपूर्वकमेव भजतां सेवमानानां तेषामविकम्पेन योगेनेति यः प्रागुक्तस्तं बुद्धियोगं मत्तत्त्वविषयं सम्यग्दर्शनं ददामि उत्पादयामि । येन बुद्धियोगेन मामीश्वरमात्मत्वेनोपयान्ति ये मच्चित्तत्वादिप्रकारैर्मा भजन्ते ते ॥ १० ॥

 श्री. टी--एवंभूतानां च सम्यग्ज्ञानमहं ददामीत्याह-तेषामिति । एवं सततयुक्तानां मय्यासक्तानां प्रीतिपूर्वकं भजतां तेषां तं बुद्धिरूपं योगमुपायं ददामि । तमिति कम् , येनोपायेन ते भक्ता मां प्राप्नुवन्ति ॥ १० ॥

 म०टी०-दीयमानस्य बुद्धियोगस्याऽऽत्मप्राप्तौ फले मध्यवर्तिनं व्यापारमाह-

तेषामेवानुकम्पार्थमहमज्ञानजं तमः ॥
नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता ॥ ११॥

 तेषामेव कथं श्रेयः स्यादित्यनुग्रहार्थमात्मभावस्थ आत्माकारान्तःकरणवृत्तौ विषयत्वेन स्थितोऽहं स्वप्रकाशचैतन्यानन्दाद्वयलक्षण आत्मा तेनैव मद्विषयान्तःकरणपरिणामरूपेण ज्ञानदीपेन दीपसदृशेन ज्ञानेन भावता चिदाभासयुक्तेनाप्रतिबद्धनाज्ञानजमज्ञानोपादानकं तमो मिथ्याप्रत्ययलक्षणं स्वविषयावरणमन्धकारं तदुपादानाज्ञाननाशेन नाशयामि सर्वभ्रमोपादानस्याज्ञानस्य ज्ञाननिवर्त्यत्वादुपादाननाशनिवय॑त्वाच्चोपादेयस्य । यथा दीपेनान्धकारे निवर्तनीये दीपोत्पत्तिमन्तरेण न कर्मणोऽभ्यासस्य वाऽपेक्षा विद्यमानस्यैव च वस्तुनोऽभिव्यक्तिस्ततो नानुत्पन्नस्य कस्यचिदुत्पत्तिस्तथा ज्ञानेनाज्ञाने निवर्तनीये न ज्ञानोत्पत्तिमन्तरेणान्यस्य कर्मणोऽभ्यासस्य वाऽपेक्षा विद्यमानस्यैव च ब्रह्मभावस्य मोक्षस्याभिव्यक्तिस्ततो नानुत्पन्नस्योत्पत्तिर्येन क्षयित्वं कर्मादिसापेक्षत्वं वा

भवेदिति रूपकालंकारेण सूचितोऽर्थः । भास्वतेत्यनेन तीव्रपवनादेरिवासंभावनादेः प्रतिबन्धकस्यामावः सूचितः । ज्ञानस्य च दीपसाधर्म्यं स्वविषयावरणनिवर्तकत्वं स्वव्यवहारे सजातीयपरानपेक्षत्वं स्वोत्पत्त्यतिरिक्तसहकार्यनपेक्षत्वमित्यादि रूपकबीजं द्रष्टव्यम् ॥ ११॥

 श्री० टी०बुद्धियोगं दत्त्वा च तस्यानुभवपर्यन्ततामापाद्याविद्याकृत संसारं नाशयामीत्याह--तेषामिति । तेषामनुकम्पार्थमनुग्रहार्थमेवाज्ञानाज्जातं तमः संसाराख्यं नाशयामि। कुत्र स्थितः सन्केन वा साधनेन तमो नाशयसीत्यत आह-आत्मभावस्थो बुद्धिवृत्तौ स्थितः सन्भास्वता विस्फुरता ज्ञानलक्षणेन दीपेन नाशयामि ॥ ११ ॥

 म० टी०--एवं भगवतो विभूति योगं च श्रुत्वा परमोत्कण्ठितः-

 अर्जुन उवाच-

परं ब्रह्म परं धाम पवित्रं परमं भवान् ॥
पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम् ॥ १२ ॥

 परं ब्रह्म परं धाम, आश्रयः प्रकाशो वा, परमं पवित्रं पावनं च भवानेव । यतः पुरुष परमात्मानं शाश्वतं सर्वदैकरूपं दिवि परमे व्योम्नि स्वस्वरूपे भवं दिव्यं सर्वप्रपञ्चातीतमादि च सर्वकारणं देवं च द्योतनात्मकं स्वप्रकाशमादिदेवमत एवाजं विभुं सर्वगतं त्वामाहुरिति संबन्धः ॥ १२ ॥

आहुस्त्वामृषयः सर्वे देवर्षिनारदस्तथा ॥
असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे ॥ १३ ॥

 म.टी---आहुः कथयन्ति त्वामनन्तमहिमानमृषयस्तत्त्वज्ञाननिष्ठाः सर्वे भृगुवसिष्ठादयः । तथा देवर्षिनर्नारदोऽसितो देवलश्च धौम्यस्य ज्येष्ठो भ्राता, व्यासश्च भगवान्कृष्णद्वैपायनः । एतेऽपि त्वां पूर्वोक्तविशेषणं मे मह्यमाहुः साक्षात्किमन्यवक्तृभिः स्वयमेव त्वं च मह्यं ब्रवीषि । अत्र ऋषित्वेऽपि साक्षाद्वक्तॄणां नारदादीनामतिविशिष्टत्वात्पृथग्प्रहणम् ॥ १३ ॥

 श्री०टी०-संक्षेपेणोक्ता विभूतीविस्तरेण जिज्ञासुभगवन्तं स्तुवन्नर्जुन उवाच परं ब्रह्मेति सप्तभिः-परं ब्रह्म च परं धाम चाऽऽश्रयः परमं च पवित्रं भवानेव । कुत इत्यत आह-~-यतः शाश्वतं नित्यं पुरुषं, तथा दिव्यं द्योतनात्मकं स्वप्रकाशं च । आदिश्चासौ देवश्च तं देवानामादिभूतमित्यर्थः । तथाऽजमजन्मानं विभुं च व्यापकं त्वामेवाऽऽहुः । के, ऋषयो भग्वादयः सर्वे, देवर्षिश्च नारदः, असितश्च देवलश्च व्यासश्च स्वयं त्वमेव च साक्षान्मे मह्यं ब्रवीषि ॥ १२ ॥ १३ ॥

सर्वमेतदृतं मन्ये यन्मां वदसि केशव ॥
न हि ते भगवन्व्यक्तिं विदुर्देवा न दानवाः ॥ १४ ॥

 म०टी०-सर्वमेतदुक्तमृषिभिश्च त्वया च तदृतं सत्यमेवाहं मन्ये यन्मां प्रति वदसि केशव । नहि त्द्वचसि मम कुत्राप्यप्रामाण्यशङ्का, तच्च सर्वज्ञत्वात्त्वं जानासीति केशौ ब्रह्मरुद्रौ सर्वेशावप्यनुकम्प्यतया वात्यवगच्छतीति व्युत्पत्तिमाश्रित्य निरतिशयैश्वर्यप्रतिपादकेन केशवपदेन सूचितम् । अतो यदुक्तं " न मे विदुः सुरगणाः प्रभवं न महर्षयः" इत्यादि तत्तथैव । हि यस्मात् , हे भगवन्समग्रैश्वर्यादिसंपन्न ते तव व्यक्ति [४३०] प्रभावं ज्ञानातिशयशालिनोऽपि देवा न विदुर्नापि दानवा न महर्षय इत्यपि द्रष्टव्यम् ॥ १४ ॥

 श्री०टी०-अतो ममेदानीं त्वदैश्वर्येऽसंभावना निवृत्तेत्याह-सर्वमिति । एत- द्भवानेव परं ब्रह्मेत्यादि सर्वमपि ऋतं सत्यं मन्ये । यन्मां प्रति त्वं कथयसि " न मे विदुः सुरगणा इत्यादि " तदपि सत्यमेव मन्य इत्याह-न ह्रीति । हे भगवस्ते तव व्यक्तिं देवा न विदुरस्मदनुग्रहार्थमियमभिव्यक्तिरिति न जानन्ति । दानवाश्चास्मन्निग्रहार्थमिति न विदुरेव ॥ १४॥

 म०टी०-यतस्त्वं तेषां सर्वेषामादिरशक्यज्ञानश्चातः-

स्वयमेवाऽऽत्मनाऽऽत्मानं वेत्थ वं पुरुषोत्तम ॥
भूतभावन भूतेश देवदेव जगत्पते ॥ १५॥

 स्वयमेवान्योपदेशादिकमन्तरेणैव त्वमेवाऽऽत्मना स्वरूपेणाऽऽत्मानं निरुपाधिकं सोपाधिकं च, निरुपाधिकं प्रत्यक्त्वेनाविषयतया सोपाधिकं च निरतिशयज्ञानैश्वर्यादिशक्तिमत्त्वेन वेत्थ जानासि नान्यः कश्चित् । अन्यैर्ज्ञातमशक्यमहं कथं जानीयामित्याशङ्कामपनुदन्प्रेमौत्कण्ठ्येन बहुधा संबोधयति हे पुरुषोत्तम त्वदपेक्षया सर्वेऽपि पुरुषा अपकृष्टा एव । अतस्तेषामशक्यं सर्वोत्तमस्य तव शक्यमेवेत्यभिप्रायः । पुरुषोतमत्वमेव विवृणोति पुनश्चतुर्भिः संबोधनैः-~-भूतानि सर्वाणि भावयत्युत्पादयतीति हे भूतभावन सर्वभूतपितः । पिताऽपि कश्चिन्नेष्टस्तत्राऽऽह हे भूतेश सर्वभूतनियन्तः । नियन्ताऽपि कश्चिन्नाऽऽराध्यस्तत्राऽऽह हे देवदेव देवानां सर्वाराध्यानामप्याराध्यः । आराध्योऽपि कश्चिन्न पालयितृत्वेन पतिस्तत्राऽऽह हे जगत्पते हिताहितोपदेशकवेदप्रणेतृत्वेन सर्वस्य जगतः पालयितः । एतादृशसर्वविशेषणविशिष्टस्त्वं सर्वेषां पिता सर्वेषां गुरुः सर्वेषां राजाऽतः सर्वैः प्रकारैः सर्वेषामाराध्य इति किं वाच्यं पुरुषोत्तमत्व तवेति भावः ॥ १५ ॥


 श्री०टी०-कि तर्हि-स्वयमिति । स्वयमेव त्वमेवाऽऽत्मानं वेत्थ जानासि

नान्यः । तदप्यात्मना स्वेनैव वेत्थ न साधनान्तरेण । अत्यादरेण बहुधा संबोधयति हे पुरुषोत्तम पुरुषेषूत्तम पुरुषोत्तम । पुरुषोत्तमत्वे हेतुगर्भाणि विशेषणानि संबोधनानि हे भूतभावन भूतोत्पादक । भूतानामीश नियन्तः । देवानामादित्यादीनां देव प्रकाशक । जगत्पते विश्वपालक ॥ १५ ॥

 म०टी०-यस्मादन्येषां सर्वेषां ज्ञातुमशक्या अवश्यं ज्ञातव्याश्च तव विभूतयस्तस्मात्-

वक्तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतयः॥
याभिर्विभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठसि ॥१६॥

 याभिर्विभूतिभिरिमान्सर्वाल्लोकान्व्याप्य त्वं तिष्ठसि तास्तवासाधारणा विभूतयो दिव्या असर्वज्ञैर्ज्ञातुमशक्या हि यस्मात्तस्मात्सर्वज्ञस्त्वमेव ता अशेषेण वक्तुमर्हसि॥१६॥

 श्री०टी०-यस्मात्तवाभिव्यक्तिं त्वमेव वेत्सि न देवादयस्तस्मात्-वक्तुमर्हसीति । या आत्मनस्तव दिव्या अत्यद्भुता विभूतयस्ताः सर्वा वक्तुं त्वमेवार्हसि योग्यो[४३१] भवसि । याभिरिति विभूतीनां विशेषणं स्पष्टार्थम् ॥ १६ ॥

 म०टी०-कि प्रयोजनं तत्कथनस्य तदाह द्वाभ्याम् -

कथं विद्यामहं योगिस्त्वां सदा परिचिन्तयन् ॥
केषु केषु च भावेषु चिन्योऽसि भगवन्मया ॥ १७ ॥

 योगो निरतिशयैश्वर्यादिशक्तिः सोऽस्यास्तीति हे योगिन्निरतिशयैश्वर्यादिशक्तिशालिन्नहमतिस्थूलमतिस्त्वां देवादिभिरपि ज्ञातुमशक्यं कथं विद्यां जानीयां सदा परिचिन्तयन्सर्वदा ध्यायन् । ननु मद्विभूतिषु मां ध्यायज्ञास्यसि तत्राऽऽह-केषु केषु च भावेषु चेतनाचेतनात्मकेषु वस्तुषु त्वद्विभूतिभूतेषु मया चिन्त्योऽसि हे भगवन्॥१७॥

 श्री०टी०-कथनप्रयोजनं दर्शयन्प्रार्थयते कथमिति द्वाभ्याम् -हे योगिन्कथं कैर्विभूतिभेदैः सदा परचिन्तयन्नहं त्वां विद्यां जानीयाम् । विभूतिभेदेन चिन्त्योऽपि त्वं केषु केषु पदार्थेषु मया चिन्तनीयोऽसि ॥ १७ ॥

 म०टी०-अत:-

विस्तरेणाऽऽत्मनो योगं विभूतिं च जनार्दन ॥
भूयः कथय तृप्तिर्हि शृण्वतो नास्ति मेऽमृतम् ॥१८॥

आत्मनस्तव योगं सर्वज्ञत्वसर्वशक्तित्वादिलक्षणमैश्चर्यातिशयं विभूतिं च ध्यानालम्बनं विस्तरेण संक्षेपेण सप्तमे नवमे चोक्तमपि भूयः पुनः कथय सवैजनैर-


भ्युदयनिःश्रेयसप्रयोजनं याच्यस इति हे जनार्दन । अतो ममापि याच्या त्वय्युचितैव । उक्तस्य पुनः कथनं कुतो याचसे तत्राऽऽह-तृप्तिरलंप्रत्ययेनेच्छाविच्छित्तिर्नास्ति

हि यस्माच्छृण्वतः श्रवणेन पिबतस्त्वद्वाक्यममृतममृतवत्पदे पदे स्वादु स्वादु । अत्र त्वद्वाक्यमित्यनुक्तेरपह्नुत्यतिशयोक्तिरूपकसंकरोऽयं माधुर्यातिशयानुभवेनोत्कण्ठातिशयं व्यनक्ति ॥ १८ ॥

 श्री० टी०-तदेवं बहिर्मुखेऽपि चित्ते तत्र तत्र विभूतिभेदेन त्वचिन्तैव यथा भवेत्तथा विस्तरेण कथयेत्याह-विस्तरेणेति । आत्मनस्तव योग सर्वज्ञत्वसर्वशक्तित्वादिलक्षणं योगैश्वर्यं विभूतिं च विस्तरेण पुनः कथय । हि यस्मात्त्वद्वाक्यममृतरूपं शृण्वतो मम तृप्तिरलंबुद्धिर्नास्ति ॥ १८ ॥

 म०टी०-अत्रोत्तरम्-

श्रीभगवानुवाच-
 हन्त ते कथयिष्यामि दिव्या द्यात्मविभूतयः॥
 प्राधान्यतः कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे ॥१९॥

 हन्तेत्यनुमतौ, यत्त्वया प्रार्थितं तत्करिष्यामि मा व्याकुलो भूरित्यर्जुनं समाश्वास्य तदेव कर्तुमारमते । कथयिष्यामि प्राधान्यतस्ता विभूतीर्या दिव्या हि प्रसिद्धा आत्मनो ममासाधारणा विभूतयो हे कुरुश्रेष्ठ, विस्तरेण तु कथनमशक्यं, यतो नास्त्यन्तो विस्तरस्य मे विभूतीनाम् । अतः प्रधानभूताः काश्चिदेव विभूतीर्वक्ष्यामीत्यर्थः ॥ १९ ॥

 श्री० टी०-एवं प्रार्थितः सञ्श्रीभगवानुवाच हन्तेति । हन्तेत्यनुकम्पासंबोधने। दिव्या या मम विभूतयस्ताः प्राधान्येन ते तुभ्यं कथयिष्यामि । यतोऽवान्तरविभूतिविस्तरस्य मदीयस्यान्तो नास्ति अतः प्रधानभूताः कतिचिद्वर्णयिष्यामि ॥ १९ ॥

 म०टी०-तत्र प्रथमं तावन्मुख्यं चिन्तनीयं शृणु-

अहमात्मा गुडाकेश सर्वभूताशयस्थितः ॥
अहमादिश्च मध्यं च भूतानामन्त एव च ॥ २० ॥

 सर्वभूतानामाशये त्दृद्देशेऽन्तर्यामिरूपेण प्रत्यगात्मरूपेण च स्थित आत्मा चैतन्यानन्दधनस्त्वयाऽहं वासुदेव एवेति ध्येयः, हे गुडाकेश जितनिद्रेति ध्यानसामर्थ्य सूचयति । एवं ध्यानासामर्थ्ये तु वक्ष्यमाणानि ध्यानानि कार्याणि । तत्राप्यादौ ध्येयमाह--अहमेवाऽऽदिश्चोत्पत्तिर्भूतानां प्राणिनां चेतनत्वेन लोके व्यवह्रियमाणानां मध्यं च स्थितिरन्तश्च नाशः सर्वचेतनवर्गाणामुत्पत्तिस्थितिनाशरूपेण तत्कारणरूपेण चाहमेव ध्येय इत्यर्थः ॥ २० ॥

 श्री० टी०-तत्र प्रथममैश्वरं रूपं कथयति-अहमिति । हे गुडाकेश सर्वेषां भूतानामाशयेष्वन्तःकरणेषु सर्वज्ञत्वादिगुणैनियन्तृत्वेनावस्थितः परमात्माऽहम् । आदिजन्म, मध्य स्थितिः, अन्तः संहारः, सर्वभूतानां जन्मादिहेतुश्चाहमेवेत्यर्थः ॥ २० ॥

 म०टी०-एतदशक्तेन बाह्यानि ध्यानानि कार्याणीत्याह यावदध्यायसमाप्ति-

आदित्यानामहं विष्णुर्ज्यॊतिषां रविरंशुमान् ॥
मरीचिमरूतामस्मि नक्षत्राणामहं शशी ॥ २१ ॥

 आदित्यानां द्वादशानां मध्ये विष्णुर्विष्णुनामाऽऽदित्योऽहं वामनावतारो वा। ज्योतिषां प्रकाशकानां मध्येऽहं रविरंशुमान्विश्वव्यापी प्रकाशकः । मरुतां सप्तसप्तकानां मध्ये मरीचिनामाऽहं, नक्षत्राणामधिपतिरहं शशी चन्द्रमाः । निर्धारणे षष्ठी। अत्र प्रायेण निर्धारणे षष्ठी । क्वचित्संबन्धेऽपि । यथा भूतानामस्मि चेतनेत्यादौ । वामनरामादयश्चावताराः सर्वैश्वर्यशालिनोऽप्यनेन रूपेण ध्यानविवक्षया विभूतिषु पठ्यन्ते । वृष्णीनां वासुदेवोऽस्मीति तेन रूपेण ध्यानविवक्षया स्वस्यापि स्वविभूतिमध्ये पाठवत् । अतः परं च प्रायेणायमध्यायः स्पष्टार्थ इति क्वचित्किचिद्व्याख्यास्यामः ॥ २१ ॥

 श्री० टी-इदानीं विभूतीः कथयति आदित्यानामित्यादिना यावदध्यायसमाप्ति--आदित्यानां द्वादशानां मध्ये विष्णुर्वामनोऽहम् । ज्योतिषां प्रकाशकानां मध्येऽशुभान्विश्वव्यापकरश्मियुक्तो रविः सूर्योऽहम् । म[४३२]रुतां देव[४३३]विशेषाणां मध्ये मरीचिर्नामाहमस्मि । यद्वा सप्त मरुद्गणा[४३४] वायवस्तेषां [४३५]मध्य [४३६]इति । ते च-आवहः प्रवहो विवहः परावह उद्वहः संवहः परि[४३७]वह इति मरुद्गणाः(१)। नक्षत्राणां मध्ये चन्द्रोऽहम् । अत्र च-आदित्यानामहं विष्णुरित्यादिषु प्रायशो निर्धारणे षष्ठी । क्वचिच्च भूतानामस्मि चेतनेत्यादिषु संबन्धे षष्ठी । तच्च तत्र तत्रैव दर्शयिष्यामः । विष्णुरि[४३८]त्याद्यवतारेष्वपि प्रभावातिशयमात्रविवक्षया विभूतित्वेन निर्दिश्यते । अतः परं चाध्यायस्य स्पष्टार्थत्वेऽपि क्वचित्किंचिद्व्याख्यास्यामः ॥२१॥

वेदानां सामवेदोऽस्मि देवानामस्मि वासवः ॥
इन्द्रियाणां मनश्वास्मि भूतानामस्मि चेतना ॥२२॥

 म०टी०-चतुर्णा वेदानां मध्ये गानमाधुर्येणातिरमणीयः सामवेदोऽहमस्मि । वासव इन्द्रः सर्वदेवाधिपतिः । इन्द्रियाणामेकादशानां प्रवर्तकं मनः, भूतानां सर्वप्राणिसंबन्धिनां परिणामानां मध्ये चिदभिव्यञ्जिका बुद्धेर्वृत्तिश्चेतनाऽहमस्मि ॥ २२ ॥


 श्री० टी०-वेदानामिति । वासव इन्द्रः । भूतानां संबन्धिनी चेतना ज्ञानशक्तिरहमस्मि ॥ २२ ॥

रुद्राणां शंकरश्चास्मि वित्तेशो यक्षरक्षसाम् ॥
वसूनां पावकश्चास्मि मेरुः शिखरिणामहम् ॥ २३॥

 म०टी०-रुद्राणामेकादशानां मध्ये शंकरः । वित्तेशो धनाध्यक्षः कुबेरो यक्षरक्षसा यक्षानां राक्षसानां च। वसूनामष्टानां पावकोऽग्निः । मेरुः सुमेरुः शिखरिणां शिखरवतामत्युच्छ्रितानां पर्वतानाम् ॥ २३ ॥

 श्री. टी-रुद्राणामिति । यक्षरक्षसामिति राक्षसानामपि क्रूरत्वादिसाम्याद्यक्षैः सहैकीकृत्य निर्देशः । तेषां मध्ये वित्तेशः कुबेरोऽस्मि । पावकोऽग्निः । शिखरिणां शिखरवतामुच्छ्रितानां मध्ये मेरुः ॥ २३ ॥

पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम् ॥
सेनानीनामहं स्कन्दः सरसामस्मि सागरः ॥२४॥

 म० टी०-इन्द्रस्य सर्वराजश्रेष्ठत्वात्तत्पुरोधसं बृहस्पतिं सर्वेषां पुरोधसां राजपुरोहितानां मध्ये मुख्यं श्रेष्ठं मामेव हे पार्थ विद्धि जानीहि । सेनानीनां सेनापतीनां मध्ये देवसेनापतिः स्कन्दो गृहोऽहमस्मि । सरसां देवखातजलाशयानां मध्ये सागरः सगरपुत्रैः खातो जलाशयोऽहमस्मि ॥ २४ ॥

 श्री० टी०-पुरोधसामिति । पुरोधसां मध्ये देवपुरोहितत्वान्मुख्यं बृहस्पति मां विद्धि । सेनानीनां सेनापतीनां मध्ये देवसेनापतिः स्कन्दोऽहमस्मि । सरसां स्थिरजलाशयानां मध्ये समुद्रोऽस्मि ॥ २४ ॥

महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम् ॥
यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालयः ॥२५॥

 म०. टी०--महर्षीणां सप्तब्रह्मणां मध्ये भृगुरतितेजस्वित्वादहम् । गिरां वाचां पदलक्षणानां मध्य एकमक्षरं पदमोंकारोऽहमस्मि । यज्ञानां मध्ये जपयज्ञो हिंसादिदोषशून्यत्वेनात्यन्तशोधकोऽहमस्मि । स्थावराणां स्थितिमतां मध्ये हिमालयोऽहम् । शिखरवतां मध्ये हि मेरूरहमित्युक्तमतः स्थावरत्वेन शिखरवत्त्वेन चार्थभेदाददोषः ॥ २५ ॥

 श्री०टी०-~-महर्षीणामिति । गिरां वाचां पदात्मिकानां मध्य एकमक्षरमोंकाराख्यं पदमस्मि । यज्ञानां श्रौतस्मातानां मध्ये जपरूपो यज्ञोऽहम् ॥ २५ ॥

अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः ॥
गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः ॥२६॥

 म०टी०-सर्वेषां वृक्षाणां वनस्पतीनामन्येषां च । देवा एव सन्तो ये मन्त्रदर्शित्वेन ऋषित्वं प्राप्तास्ते देवर्षयस्तेषां मध्ये नारदोऽहमस्मि । गन्धर्वाणां गानधर्मणां देवगायकानां मध्ये चित्ररथोऽहमस्मि । सिद्धानां जन्मनैव विना प्रयत्नं धर्मज्ञानवैराग्यैश्वातिशयं प्राप्तानामधिगतपरमार्थानां मध्ये कपिलो मुनिरहम् ॥ २६ ॥

 श्री० टी०-अश्वत्थ इति । देवा एव सन्तो मन्त्रदर्शनेन य ऋषित्वं प्राप्तास्तेषां मध्ये नारदोऽस्मि । सिद्धानामुत्पत्तित एवाधिगतपरमार्थानां मध्ये कपिलाख्यो मुनिरस्मि ॥ २६ ॥

उच्चैःश्रवसमश्वानां विद्धि माममृतोद्भवम् ॥
ऐरावतं गजेन्द्राणां नराणां च नराधिपम् ॥ २७ ॥

 म०टी०-अश्वानां मध्य उच्चैःश्रवसममृतमथनोद्भवमश्वं मां विद्धि । ऐरावतं गजममृतमथनोद्भवं गजेन्द्राणां मध्ये मां विद्धि । नराणां च मध्ये नराधिपं राजानं मां विद्धीत्यनुषज्यते ॥ २७ ॥

 श्री० टी०-उच्चैःश्रवसमिति । अमृतार्थ क्षीराब्धिमथन उद्भूतमुच्चैःश्रवसं नामा[४३९] क्ष्वं मद्विभूतिं विद्धि । अमृतोद्भवमित्येतदैरावतेऽपि संवध्यते । नराधिपं राजानं मां विद्धि ॥ २७ ॥

आयुधानामहं वज्रं धेनूनामस्मि कामधुक् ॥
प्रजनश्चास्मि कंदर्पः सर्पाणामस्मि वासुकिः ॥ २८ ॥

 म०. टी०.-आयुधानामस्त्राणां मध्ये वज्रं दधीचेरस्थिसंभवमस्त्रमहमस्मि । धेनूनां दोग्ध्रीणां मध्ये कामं दोग्धिति कामधुक, समुद्रमथनोद्भवा वसिष्ठस्य कामधेनुरहमस्मि । कामानां मध्ये प्रजनः प्रजनयिता पुत्रोत्पत्त्यर्थो यः कंदर्पः कामः सोऽहमस्मि । चकारस्त्वर्थो रतिमानहेतुकामव्यावृत्त्यर्थः । सर्पाश्च नागाश्च जातिभेदाद्भिद्यन्ते । तत्र सर्पाणां मध्ये तेषां राजा वासुकिरहमस्मि ॥ २८ ॥

 श्री०. टी०-आयुधानामिति । आयुधानां मध्ये वज्रम्। कामान्दोग्धीति कामधुक् । प्रजनः प्रजोत्पत्तिहेतुः कंदर्पः कामोऽस्मि, न केवलं संभोगप्रधानः कामो मद्विभूतिः, अशास्त्रीयत्वात् । सर्पाणां सविषाणां राजा वासुकिरस्मि ॥ २८ ॥

अनन्तश्चास्मि नागानां वरुणो यादसामहम् ॥
पितॄणामर्यमा चास्मि यमः संयमतामहम् ॥ २९ ॥


 म०टी०-नागानां जातिभेदानां मध्ये तेषां राजाऽनन्तश्च शेषाख्योऽहमस्मि । यादसा जलचराणां मध्ये तेषां राजा वरुणोऽहमस्मि । पितृणां मध्येऽर्यमा नाम पितृराजश्चाहमस्मि । संयमतां संयम धर्माधर्मफलदानेनानुग्रहं निग्रहं च कुर्वतां मध्ये यमोऽहमस्मि ॥ २९ ॥

 श्री० टी०-अनन्त इति । नागानां निर्विषाणां राजाऽनन्तः शेषोऽस्मि । यादसां जलचराणां राजा वरुणोऽहमस्मि पितॄणां राजाऽर्यमाऽस्मि । संयमतां नियमन कुर्वतां मध्ये यमोऽहमस्मि ॥ २९ ॥

प्रह्लादश्वास्मि दैत्यानां कालः कलयतामहम् ॥
मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम् ॥ ३०॥

 म०टी०-दैत्यानां दितिवंश्यानां मध्ये प्रकर्षेण ह्लादयत्यानन्दयति परमसात्त्विकत्वेन सर्वानिति प्रह्लादश्वास्मि । कलयतां संख्यानं गणनं कुर्वतां मध्ये कालोऽहम् । मृगेन्द्रः सिंहो मृगाणां पशूनां मध्येऽहम् । वैनतेयश्च पक्षिणां विनतापुत्रो गरुडः ॥३०॥

 श्री०टी०- प्रह्लाद इति । दैत्यानां राजा प्रह्लादोऽस्मि । कलयतां वशीकुर्वतां गणयतां वा मध्ये कालोऽहम् । मृगेन्द्रः सिंहः। पक्षिणां मध्ये वैनतेयो गरुडोऽस्मि॥३०॥

पवनः पवतामस्मि रामः शस्त्रभृतामहम् ॥
झषाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी ॥३१॥

 म०. टी०.-पवतां पावयितॄणां वेगवतां वा मध्ये पवनो वायुरहमस्मि । शस्त्रभृतां शस्त्रधारिणां युद्धकुशलानां मध्ये रामो दाशरथिरखिलराक्षसकुलक्षयकरः परमवीरोऽहमस्मि । साक्षात्स्वरूपस्याप्यनेन रूपेण चिन्तनार्थं वृष्णीनां वासुदेवोऽस्मीतिवदत्र पाठ इति प्रागुक्तम् । झषाणां मत्स्यानां मध्ये मकरो नाम तज्जातिविशेषः । स्रोतसां वेगेन चलज्जलानां नदीनां मध्ये सर्वनदीश्रेष्ठा जाह्नवी गङ्गाऽहमस्मि ॥ ३१ ॥

 श्री०टी०-पवन इति । पवतां पावयितॄणां वेगवतां वा मध्ये वायुरस्मि । शस्त्रभृतां वीराणां रामो दाशरथिः । यद्वा परशुरामः । झपाणां मत्स्यानां मध्ये मकरो मत्स्यविशेषोऽहम् । स्रोतसां प्रवाहोदकानां मध्ये भागीरथी ॥ ३१ ॥

सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन ॥
अध्यात्मविद्या विद्यानां वादः प्रवदतामहम् ॥ ३२॥

 म०टी०-सर्गाणामचेतनसृष्टीनामादिरन्तश्च मध्यं चोत्पत्तिस्थितिलया अहमेव हेऽर्जुन ! भूतानां जीवाविष्टानां चेतनत्वेन प्रसिद्धानामेवाऽऽदिरन्तश्च मध्यं चेत्युक्तमु- पक्रमे, इह त्वचेतनसर्गाणामिति न पौनरुक्त्यम् । विद्यानां मध्येऽध्यात्मविद्या मोक्ष

हेतुरात्मतत्त्वविद्याऽहम् । प्रवदतां प्रवदत्संबन्धिनां कथाभेदानां वादजल्पवितण्डात्मकानां मध्ये वादोऽहम् । भूतानामस्मि चेतनेत्यत्र यथा भूतशब्देन तत्संबन्धिनः परिणामा लक्षितास्तथेह प्रवदच्छब्देन तत्संबन्धिनः कथाभेदा लक्ष्यन्ते । अतो निर्धारणोपपत्तिः । यथाश्रुते तूभयत्रापि संबन्धे षष्ठी । तत्र तत्त्वबुभुत्स्वोर्वीतरागयोः सत्रह्मचारिणोर्गुरुशिष्ययोर्वा प्रमाणेन तर्केण च साधनदूषणात्मा सपक्षप्रतिपक्षपरिग्रहस्तत्त्वनिर्णयपर्यन्तो वादः । तदुक्तं " प्रमाणतर्कसाधनोपालम्भः सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नः पक्षप्रतिपक्षपरिग्रहो वादः" इति । वादफलस्य तत्त्वनिर्णयस्य दुर्दुरूढ. वादिनिराकरणेन संरक्षणार्थं विजिगीषुकथे जल्पवितण्डे जयपराजयमात्रपर्यन्ते । तदुक्तं " तत्त्वाध्यवसायसंरक्षणार्थं जल्पवितण्डे बीजप्ररोहसंरक्षणार्थं कण्टकशाखाप्रावरणवत्" इति । छलजातिनिग्रहस्थानः परपक्षो दूष्यत इति जल्पे वितण्डायां च समानम् । तत्र वितण्डायामेकेन स्वपक्षः स्थाप्यत एव, अन्येन च स दूष्यत एव । जल्पे तूभाभ्यामपि स्वपक्षः स्थाप्यत उभाभ्यामपि परपक्षो दूष्यत इति विशेषः। तदुक्तं " यथोक्तोपपन्नच्छलजातिनिग्रहस्थानसाधनोपालम्भो जल्पः स प्रतिपक्षस्थापनाहीनो वितण्डा" इति । अतो वितण्डाद्वयशरीरत्वाज्जल्पो [४४०]नाम नैका कथा, किं तु शक्त्यतिशयज्ञानार्थं समयबन्धमात्रेण प्रव[४४१]र्तत इति खण्डनकाराः । तत्त्वाध्यवसायपर्यवसायित्वेन तु वादस्य श्रेष्ठत्वमुक्तमेव ॥ ३२ ॥

 श्री० टी०सर्गाणामिति । सृज्यन्त इति सर्गा आकाशादयस्तेषामादिरन्तश्च मध्यं चैवाहम् । अहमादिश्च मध्यं चेत्यत्र सृष्ट्यादिकर्तृत्वं पारमैश्वर्यमुक्तम् । अत्र तत्पत्तिप्रलयस्थितयो मद्विभूतित्वेन ध्येया इत्युच्यत इति विशेषः । अध्यात्मविद्याऽऽत्मविद्या। प्रवदतां वादिनां संबन्धिन्यो वादजल्पवितण्डाख्यास्तिस्रः कथाः प्रसिद्धाः । तासां मध्ये वादोऽहम् । यत्र द्वाभ्यामपि प्रमाणतस्तर्कतश्च स्वपक्षः स्थाप्यते परपक्षश्च च्छलनातिनिग्रहस्थानैर्दूष्यते स जल्पो नाम । यत्र त्वेकः स्वपक्षं स्थापयति अन्यस्तु च्छलजातिनिग्रहस्थानस्तत्पक्षं दूषयति न तु स्वपक्षं साधयति सा वितण्डा नाम कथा । तत्र जल्पवितण्डे विजिगीषमाणयोर्वादिनोः शक्तिपरीक्षामात्रफले । वादस्तु वीतरागयोः शिष्याचार्ययोरन्ययोर्वा तत्त्वनिर्णयफलः । अतोऽसौ श्रेष्ठत्वान्मद्विभूतिरित्यर्थः ॥ ३२ ॥

अक्षराणामकारोऽस्मि द्वंद्वः सामासिकस्य च ॥
अहमेवाक्षयः कालो धाताऽहं विश्वतोमुखः ॥ ३३ ॥

 म०टी०-अक्षराणां सर्वेषां वर्णानां मध्येऽकारोऽहमस्मि । “ अकारो वै सर्वा वाक्" इति श्रुतेस्तस्य श्रेष्ठत्वं प्रसिद्धम् । द्वंद्वः समास उभयपदार्थप्रधानः सामासिकस्य समाससमूहस्य मध्येऽहमस्मि । पूर्वपदार्थप्रधानोऽव्ययीभाव उत्तरपदार्थप्रधानस्तत्पुरुषोड-


न्यपदार्थप्रधानो बहुव्रीहिरिति तेषामुभयपदार्थसाम्याभावेनापकृष्टत्वात् । क्षयिकालाभिमान्यक्षयः परमेश्वराख्यः कालः "ज्ञः कालकालो गुणी सर्वविद्यः' इत्यादिश्रुतिप्रसिद्धोऽहमेव । कालः कलयतामहमित्यत्र तु क्षयी काल उक्त इति भेदः । कर्मफलविधातृणां मध्ये विश्वतोमुखः सर्वतोमुखो धाता सर्वकर्मफलदातेश्वरोऽहमित्यर्थः ॥ ३३ ॥

 श्री०टी०-अक्षराणामिति । अक्षराणां वर्णानां मध्येऽकारोऽस्मि तस्य सर्ववाङ्मयत्वेन श्रेष्ठत्वात् । तथाच श्रुतिः- "अकारो वै सर्वा वाक्सैषा स्पर्शोष्माभिर्व्यज्यमाना बह्वी नानारूपा भवति" इति। सामासिकस्य समाससमूहस्य मध्ये द्वंद्वो रामकृष्णावित्यादिसमासोऽस्मि उभयपदप्रधानत्वेन श्रेष्ठत्वात् । अक्षयःप्रवाहरूपः कालोऽहमेव । कालः कलयतामित्यत्राऽऽयुर्गणनात्मकः संवत्सरशताद्यायुःस्वरूपः काल उक्तः ।स च तस्मिन्नायुषि क्षीणे सति क्षीयते । अत्र तु प्रवाहात्मकोऽक्षयः काल उच्यत इति विशेषः । कर्मफलविधातॄणां मध्ये विश्वतोमुखो धाता सर्वकर्मफलविधाताऽहमित्यर्थः ॥३३॥

मृत्युः सर्वहरश्चाहमुद्भवश्च भविष्यताम् ॥
कीर्तिः श्रीर्वाक्च नारीणां स्मृतिर्मधा धृतिः क्षमा ॥३४॥

 म०टी०-संहारकारिणां मध्ये सर्वहरःसर्वसंहारकारी मृत्युरहम् ।मविष्यतां भाविकल्याणानां य उद्भव उत्कर्षः स चाहमेव । नारीणां मध्ये कीर्तिः श्रीर्वाक्स्मृतिर्मेधा धृतिः क्षमेति च सप्त धर्मपत्न्योऽहमेव । तत्र कीर्तिर्धार्मिकत्वनिमित्ता प्रशस्तत्वेन नानादिग्देशीयलोकज्ञानविषयतारूपा ख्यातिः । श्रीधर्मार्थकामसंपत्, शरीरशोभा वा कान्तिर्वा । वाक्सरस्वती सर्वस्यार्थस्य प्रकाशिका संस्कृता वाणी । चकारान्मूर्त्यादयोऽपि धर्मपत्न्यो गृह्यन्ते । स्मृतिश्चिरानुभूतार्थस्मरणशक्तिः । अनेकग्रन्थार्थधारणाशक्तिर्मेधा । धृतिरवसादेऽपि शरीरेन्द्रियसंघातोत्तम्मनशक्तिः, उच्छृङ्खलप्रवृत्तिकारणेन चापलप्राप्तौ तन्निवर्तनशक्तिर्वा । क्षमा हर्षविषादयोरविकृतचित्तता । यासामाभासमात्रसंबन्धेनापि जनः सर्वलोकादरणीयो भवति तासां सर्वस्त्रीषूत्तमत्वमतिप्रसिद्धमेव ॥ ३४ ॥

 श्री० टी०-मृत्युरिति । संहारकारिणां मध्ये सर्वहरो मृत्युरहम् । भविष्यतां भाविकल्याणानां प्राणिनामुद्भवोऽभ्युदयोऽहम् । नारीणां स्त्रीणां मध्ये कीर्त्याद्याः सप्त देवतारूपाः स्त्रियोऽहम् । वासामाभासमात्रयोगेन(ण) प्राणिनः श्लाघ्या भवन्ति ताः कीर्त्याद्याः स्त्रियो मद्विभूतयः ॥ ३४ ॥

बृहत्साम तथा साम्नां गायत्री छन्दसामहम् ॥
मासानां मार्गशीर्षोऽहमृतूनां कुसुमाकरः ॥ ३५ ॥

 म० टी०-वेदानां सामवेदोऽस्मीत्युक्तं तत्रायमन्यो विशेषः साम्नामृगक्षरारूढानां गीतिविशेषाणां मध्ये त्वामिद्धि हवामह इत्यस्यामृचि गीतिविशेषो बृहत्साम । तच्चा

तिरात्रे पृष्ठस्तोत्रं सर्वेश्वरत्वेनेन्द्रस्तुतिरूपमन्यतः श्रेष्ठत्वादहम् । छन्दसां नियताक्षरपादत्वरूपच्छन्दोविशिष्टानामृचां मध्ये द्विजातेर्द्वितीयजन्महेतुत्वेन प्रातःसवनादिसवनत्रयव्यापित्वेन त्रिष्टुब्जगतीम्यां सोमाहरणार्थं गताभ्यां सोमो न लब्धोऽक्षराणि च हारितानि अगत्या त्रीणि त्रिष्टुमैकमिति चत्वारि तैरक्षरैः सह सोमस्याऽऽहरणेन च सर्वश्रेष्ठा गायत्र्यृगहम् । “चतुरक्षराणि ह वा अग्रे छन्दास्यासुस्ततो जगती सोममच्छापतत्सा त्रीण्यक्षराणि हित्वा जगाम ततस्त्रिष्टुप्सोममच्छापतत्सैकमक्षरं हित्वाऽपतत्ततो गायत्री सोममच्छापतत्सा तानि चाक्षराणि हरन्त्यागच्छत्सोमं च तस्मादष्टाक्षरा गायत्री" इत्युपक्रम्य " तदाहुर्गायत्राणि वै सर्वाणि सवनानि गायत्री ह्येवैतदुपसृजमानैः"[४४२] इति शतपथश्रुतेः, " गायत्री वा इदं सर्व भूतम् " इत्यादिच्छान्दोग्यश्रुतेश्च । मासानां द्वादशानां मध्येऽभिनवशालिवास्तूकशाकादिशा [४४३]ली शीतातपशून्यत्वेन च सुखहेतुर्मार्गशीर्षोऽहम् । ऋतूनां षण्णां मध्ये कुसुमाकरः सर्वसुगन्धिकुसमानामाकरोऽतिरमणीयो वसन्तः, “वसन्ते ब्राह्मणमुपनयीत" " वसन्ते ब्राह्मणोऽग्नीनादधीत " " वसन्ते वसन्ते ज्योतिषा यजेत " " तद्वै वसन्त एवाम्यारमेत " " वसन्तो वै ब्राह्मणस्यर्तुः" इत्यादिशास्त्रप्रसिद्धोऽहमस्मि ॥ ३१ ॥

 श्री०टी०-बृहत्सामेति । त्वामिद्धि हवामह इत्यस्यामृचि गीयमानं बृहत्साम । तेन चेन्द्रः सर्वेश्वरत्वेन स्तूयत इति श्रेष्ठयम् । छन्दोविशिष्टानां मन्त्राणां मध्ये गायत्रीमन्त्रोऽहम् , द्विजत्वापादकत्वेन सोमाहरणेन च श्रेष्ठत्वात् । कुसुमाकरो वसन्तः ॥ ३५॥

द्यूतं छलयतामस्मि तेजस्तेजस्विनामहम् ॥
जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतामहम् ॥३६॥

 म० टी०-छलयतां छलस्य परवञ्चनस्य कर्तृणां संबन्धि द्यूतमक्षदेवनादिलक्षणं सर्वस्वापहारकारणमहमस्मि । तेजस्विनामत्युग्रप्रभावानां संबन्धि तेजोऽप्रतिहताज्ञत्वमहमस्मि । जेतृणां पराजितापेक्षयोत्कर्षलक्षणो जयोऽस्मि । व्यवसायिनां व्यवसायः फलाव्यभिचार्युद्यमोऽहमस्मि । सत्त्ववतां सात्त्विकानां धर्मज्ञानवैराग्यैश्चर्यलक्षणं सत्त्वकार्यमेवात्र सत्त्वमहम् ।। ३६ ॥

 श्री० टी०-द्युतमिति । छलयतामन्योन्यवञ्चनपराणां संबन्धि द्यूतमस्मि । तेजस्विनां प्रभाववतां तेजः प्रभावोऽस्मि । जेतृणां जयोऽस्मि । व्यवसायिनामुद्यमवतां व्यवसाय उद्यमोऽस्मि । सत्त्ववतां सात्त्विकानां सत्त्वमहम् ॥ ३६ ॥

वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनंजयः॥
मुनीनामप्यहं व्यासः कवीनामुशना कविः॥ ३७॥


 म० टी०-साक्षादीश्वरस्यापि विभूतिमध्ये पाठस्तेन रूपेण चिन्तनार्थ इति प्रागेवोक्तम् । वृष्णीनां मध्ये वासुदेवो वसुदेवपुत्रत्वेन प्रसिद्धस्त्वदुपदेष्टाऽयमहम् । तथा पाण्डवानां मध्ये धनंजयस्त्वमेवाहम् । मुनीनां मननशीलानामपि मध्ये वेदव्यासोऽहम् । कवीनां क्रान्तदर्शिनां सूक्ष्मार्थविवेकिनां मध्य उशना कविरिति ख्यातः शुकोऽहम् ॥ ३७॥

 श्री०टी०-वृष्णीनामिति । वासुदेवो योऽहं त्वामुपदिशामि । धनंजयस्त्वमेव मद्विभूतिः । मुनीनां वेदार्थमननशीलानां वेदव्यासोऽहमस्मि । कवी[४४४]नां क्रान्तदर्शिना मध्य उशना नाम कविः शुक्रः ॥ ३७ ॥

दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम् ॥
मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम् ॥ ३८॥

 म०टी०-दमयतामदान्तानुत्पथान्पथि प्रवर्तयतामुत्पथप्रवृत्तौ निग्रहहेतुर्दण्डोऽहमस्मि । जिगीषतां जेतुमिच्छतां नीतिर्न्यायो जयोपायस्य प्रकाशकोऽहमस्मि । गुह्यानां गोप्यानां गोपनहेतुमौंनं वाचंयमत्वमहमस्मि । नहि तूष्णीं स्थितस्याभिप्रायो ज्ञायते । गुह्यानां गोप्यानां मध्ये ससंन्यासश्रवणमननपूर्वकमात्मनो निदिध्यासनलक्षणं मौनं वाऽहमस्मि । ज्ञानवतां ज्ञानिनां यच्छ्वणमनननिदिध्यासनपरिपाकप्रभवमद्वितीयात्मसाक्षात्काररूपं सर्वाज्ञानविरोधि ज्ञानं तदहमस्मि ॥ ३८॥

 श्री० टी०-दण्ड इति । दमयतां दमनकर्तृणां संबन्धी दण्डोऽस्मि । येनासंयता अपि संयता भवन्ति स दण्डो मद्विभूतिः । जेतुमिच्छता संबन्धिनी सामाद्युपायरूपा नीतिरस्मि । गुह्यानां गोप्यानां गोपनहेतुर्मौनमवचनमहमस्मि । न हि तूष्णीं स्थितस्याभिप्रायो ज्ञायते । ज्ञानवतां तत्त्वज्ञानिनां यज्ज्ञानं तदहम् ॥ ३८ ॥

यच्चापि सर्वभूतानां बीजं तदहमर्जुन ॥
न तदस्ति विना यत्स्यान्मया भूतं चराचरम् ॥३९॥

 म०टी०-यदपि च सर्वभूतानां प्ररोहकारणं बीजं तन्मायोपाधिकं चैतन्यमहमेव हेऽर्जुन । मया विना यत्स्याद्भवेञ्चरमचरं वा भूतं वस्तु तन्नास्त्येव यतः सर्वं मत्कार्यमेवेत्यर्थः ॥ ३९॥

 श्री०टी०-यदिति । यदपि च सर्वभूतानां बीजं प्ररोहकारणं तदहम् । तत्र हेतुः-मया विना यत्स्याद्भवेत्तञ्चरमचरं वा भूतं नास्त्येवेति ॥ ३९ ॥

 'म०. टी०.---प्रकरणार्थमुपसंहरन्विभूतिं संक्षिपति-


नान्तोऽस्ति मम दिव्यानां विभूतीनां परंतप ॥
एष तूद्देशतः प्रोक्तो विभूतेर्विस्तरो मया ॥४०॥

 हे परंतप परेषां शत्रूणां कामक्रोधलोमादीनां तापजनक मम दिव्यानां विभूतीनामन्त इयत्ता नास्ति । अतः सर्वज्ञेनापि सा न शक्यते ज्ञातुं वक्तुं वा सन्मात्रविषयत्वासर्वज्ञतायाः । एष तु त्वां प्रत्युदेशत एकदेशेन प्रोक्तो विभूतेविस्तरो विस्तारो मया॥४०॥

 श्री०टी०-प्रकरणार्थमुपसंहरति-नान्त इति । अनन्तत्वाद्विभूतीनां ताः साकल्येन वक्तुं न शक्यन्ते । एष तु विभूतेर्विस्तर उद्देशतः संक्षेपतः प्रोक्तः ॥ ४० ॥

 म०. टी०-अनुक्ता अपि भगवतो विभूतीः संग्रहीतुमुपलक्षणमिदमुच्यते--

यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा ॥ तत्तदेवावगच्छ त्वं मम तेजोशसंभवम् ॥ ४१ ॥

 यद्यत्सत्त्वं प्राणि विभूतिमदैश्वर्ययुक्तं, तथा श्रीमत् , श्रीर्लक्ष्मीः संपत् , शोभा, कान्तिर्वा तया युक्तं, तथोर्जितं बलाद्यतिशयेन युक्तं तत्तदेव मम तेजसः शक्तेर्शेन संभूतं त्वम- वगच्छ जानीहि ॥ ४१॥

 श्री०टी०-पुनश्च साकाङ्क्ष प्रति कथंचित्साकल्येन कथयति-यद्यदिति । विभूतिमदैश्वर्ययुक्तम् । श्रीमत्संपत्तियुक्तम् । ऊजितं केनचित्प्रभावबलादिना गुणेनातिशयितम् । यद्यत्सत्त्वं वस्तुमात्रं तत्तदेव मम तेजसः प्रभावस्यांशेन संभूतं जानीहि॥४१॥

 म०टी०-एवमवयवशो विभूतिमुक्त्वा साकल्येन तामाह-

अथवा बहुनैतेन किं ज्ञातेन तवार्जुन ॥
विष्टभ्याहमिदं कृत्स्न्मेकांशेन स्थितो जगत् ॥ ४२ ॥

श्रीमहाभारते शतसाहस्यां संहितायां वैयासिक्या

भीष्मपर्वणि श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां

योगशास्त्रे श्रीकृष्णार्जुनसंवादे विभूतियोगो

नाम दशमोऽध्यायः ॥ १० ॥

 अथवेति पक्षान्तरे । बहुनैतेन सावशेषेण ज्ञातेन किं तव स्याद्धेऽर्जुन । इदं कृत्स्नं सर्वं जगदेकांशेनकदेशमात्रेण विष्टभ्य विधृत्य व्याप्य वाऽहमेव स्थितो न मद्व्यतिरिक्त किंचिदस्ति " पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि " इति श्रुतेः । तस्मात्किमनेन परिच्छिन्नदर्शनेन सर्वत्र मद्दृष्टिमेव कुर्वित्यभिप्रायः ॥ ४२ ॥

कुर्वन्ति केऽपि कृतिनः क्वचिदप्यनन्ते
 स्वान्तं विधाय विषयान्तरशान्तिमेव ॥
त्वत्पादपद्मविगलन्मकरन्दबिन्दु-
 मास्वाद्य मा[४४५]द्यति मुहुर्मधु[४४६]भिन्मनो मे ॥ १ ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीविश्वेश्वरसरस्वतीपादशिष्यश्रीमधुसूदन-

सरस्वतीविरचितायां श्रीमद्भगवद्गीतागूढार्थदीपिकायामधिकारिभेदेन

विभूतियोगो नाम दशमोऽध्यायः ॥ १० ॥

 श्री०टी०-अथवा किमनेन परिच्छिन्न[४४७]दर्शनेन सर्वत्र[४४८] मद्दृष्टिमेव कुर्वित्याह- अथवेति । बहुना पृथक्पृथाग्ज्ञातेन किं तव कार्यं, यस्मादिदं सर्वं जगदेकांशेनैकदेशमात्रेण विष्टभ्य धृत्वा व्याप्येति वा, अहमेव स्थितः । न मद्व्यतिरिक्तं किंचिदस्ति " पादोऽस्य विश्वा भूतानि ” इति श्रुतेः ॥ ४२ ॥

इन्द्रियद्वारतश्चित्ते बहिर्धावति सत्यपि ।
ईशदृष्टिविधानाय विभूतीर्दशमेऽब्रवीत् ॥ १॥

इति श्रीसुबोधिन्या टीकायां श्रीधरस्वामिविरचितायां विभूति-

योगो नाम दशमोऽध्यायः ॥ १० ॥

अथैकादशोऽध्यायः

 म०टी०-पूर्वाध्याये नानाविभूतीरुक्त्वा "विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत्" इति विश्वात्मकं पारमेश्वरं रूपं भगवताऽन्तेऽभिहितं श्रुत्वा परमोत्कण्ठितस्तत्साक्षात्कर्तुमिच्छन्पूर्वोक्तमभिनन्दन्-

अर्जुन उवाच-
 मदनुग्रहाय परमं गुह्यमध्यात्मसंज्ञितम् ॥
 यत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम ॥१॥

 मदनुग्रहाय शोकनिवृत्त्युपकाराय परमं निरतिशयपुरुषार्थपर्यवसायि गुह्यं गोप्यं यस्मै कस्मैचिद्वक्तुमनर्हमपि अध्यात्मसंज्ञितमध्यात्ममितिशब्दितमात्मानात्मविवेकविषयमशोच्यानन्वशोचस्त्वमित्यादिषष्ठाध्यायपर्यन्तं त्वंपदार्थप्रधानं यत्त्वया परमकारुणिकेन सर्वज्ञेनोक्तं वचो वाक्यं तेन वाक्येनाहमेषां हन्ता मयैते हन्यन्त इत्यादि-


विविधविपर्यासलक्षणो मोहोऽयमनुभवसाक्षिको विगतो विनष्टो मम, तत्रासकृदात्मनः सर्वविक्रियाशून्यत्वोक्तः ॥ १॥

 श्री०टी०-विभूतिवैभवं प्रोच्य कृपया परया हरिः ।
  दिदृक्षोरर्जुनस्याथ विश्वरूपमदर्शयत् ॥

 पूर्वाध्यायान्ते " विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् ” इति विश्वात्मकं पारमेश्वरं रूपमुपक्षिप्तं तद्दिदृशुः पूर्वोक्तमभिनन्दन्नर्जुन उवाच मदनुग्रहायेति चतुर्भि-ममानुग्रहाय शोकनिवृत्तये परमं परमार्थनिष्ठं गुह्यं गोप्यमपि अध्यात्ममितिसंज्ञितमात्मानात्मविवेकविषयं यत्त्वयोक्तं वचोऽशोच्यानन्वशोचस्त्वमित्यादिषष्ठाध्यायपर्यन्तं यद्वाक्यं तेन ममायं मोहोऽहं हन्तैते हन्यन्त इत्यादिलक्षणो भ्रमो विगतो विनष्ट आत्मनः कर्तृत्वाद्यभावोक्तेः ॥ १ ॥

 म० टी०-तथा सप्तमादारभ्य दशमपर्यन्तं तत्पदार्थनिर्णयप्रधानमपि भगवतो वचनं मया श्रुतमित्याह-

भवाप्ययो हि भूतानां श्रुतौ विस्तरशो मया ॥
त्वत्तः कमलपत्राक्ष माहात्म्यमपि चाव्ययम् ॥ २॥

 भूतानां भवाप्ययावुत्पत्तिप्रलयौ त्वत्त एव भ[४४९][४५०]न्तौ त्वत्त एव विस्तरशो मया श्रुतौ न तु संक्षेपे[४५१]णासकादित्यर्थः । कमलस्य पत्रे इव दीर्घे रक्तान्ते परममनोरमे अक्षिणी यस्य तव स त्वं हे कमलपत्राक्ष । अतिसौन्दर्यातिशयोल्लेखोऽयं प्रेमातिशयात् । न केवलं भवाप्ययौ त्वत्तः श्रुतौ महात्मनस्तव भावो माहात्म्यमनतिशयैश्वर्यं विश्वसृष्ट्यादिकर्तृत्वेऽप्यविकारित्वं शुभाशुभकर्मकारयितृत्वेऽप्यवैषयं बन्धमोक्षादिविचित्रफलदातृत्वेऽप्यसङ्गौदासीन्यमन्यदपि सर्वात्मत्वादि सोपाधिकं निरुपाधिकमपि चाव्ययम- क्षयं मया श्रुतमिति परिणतमनुवर्तते चकारात् ॥ २ ॥

 श्री० टी०-किं च-भवाप्ययाविति । भूतानां भवाप्ययौ सृष्टिप्रलयौ त्वत्तः सकाशादेव भवत इति श्रुतौ मया "अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा" इत्यादौ विस्तरशः पुनः पुनः। कमलपत्रे इव सुप्रसन्ने विशाले अक्षिणी यस्य तव हे कमलपत्राक्ष माहात्म्यमपि चाव्ययमक्षयं श्रुतम् , विश्वसृश्यादिकर्तृत्वेऽपि सर्वनियन्तृत्वेऽपि शुमाशुभकर्मकारयितृत्वेऽपि बन्धमोक्षादिविचित्रफलदातृत्वेऽपि अविकारावैषम्यासङ्गौदासीन्यादिलक्षणमपरिमितं महत्त्वं च श्रुतम् । अव्यक्तं व्यक्तिमापन्नं मन्यन्ते, मया ततमिदं सर्व, न च मां तानि कर्माणि निबध्नन्ति, समोऽहं सर्वभूतेषु, इत्यादिना । अतस्त्वत्परतन्त्रत्वादपि जीवानामहं कर्तेत्यादिर्मदीयो मोहो विगत इति भावः ॥२॥


एवमेतद्यथाऽऽत्थ त्वमात्मानं परमेश्वर ॥
द्रष्टुमिच्छामि ते रूपमैश्वरं पुरुषोत्तम ॥३॥

 म०टी०-हे परमेश्वर यथा येन प्रकारेण सोपाधिकेन निरुपाधिकेन च निरतिशयैश्वर्येणाऽऽत्मानं त्वमात्थ कथयसि त्वमेवमेतन्नान्यथा । त्वद्वचसि कुत्रापि ममाविश्वासशङ्का नास्त्येवेत्यर्थः । यद्यप्येवं तथाऽपि कृतार्थीबुभूषया द्रष्टुमिच्छामि ते तव रूपमैश्वरं ज्ञानेश्वर्यशक्तिबलवीर्यतेजोमिः संपन्नमद्भुतं हे पुरुषोत्तम । संबोधनेन त्वद्वचस्यविश्वासो मम नास्ति दिक्षा च महती वर्तत इति सर्वज्ञत्वात्त्वं जानासि सर्वान्तर्यामित्वाच्चेति सूचयति ॥ ३ ॥

 श्री०टी०-किं च-एवमिति । भवाप्ययौ हि भूतानामित्यादि मया श्रुतम् । यथा चेदानीमात्मानं त्वमात्थ विष्टभ्याहमिदं कृत्स्नमित्येवं कथयति हे परमेश्वरैवमेतत् । अत्राप्यविश्वासो मम नास्तीत्यर्थः । तथाऽपि हे पुरुषोत्तम तवैश्वरं ज्ञानैश्वर्यशक्तिबलवीर्यतेजोभिः संपन्नं त्वद्रूपं कौतूहलादहं द्रष्टुमिच्छामि ॥ ३ ॥

 म०टी०-द्रष्टुमयोग्ये कुतस्ते दिदृक्षेत्याशङ्कयाऽऽह-

मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो ॥
योगेश्वर ततो मे त्वं दर्शयाऽऽत्मानमव्ययम् ॥ ४॥

 प्रभवति सृष्टिस्थितिसंहारप्रवेशप्रशासनेष्विति प्रभुः, हे प्रभो सर्वस्वामिन् , तत्तवैश्वरं रूपं मयाऽर्जुनेन द्रष्टुं शक्यमिति यदि मन्यसे जानासीच्छसि वा हे योगेश्वर सर्वेषामणिमादिसिद्धिशालिनां योगानां योगिनामीश्वर ततस्त्वदिच्छावशादेव मे मह्यमत्यर्थमर्थिने त्वं परमकारुणिको दर्शय चाक्षुषज्ञानविषयी कारयाऽऽत्मानमैश्वररूपविशिष्टमव्ययमक्षयम् ॥ ४ ॥

 श्री०टी०-न चाहं द्रष्टुमिच्छामीत्येतावतैव त्वया तद्रूपं दर्शयितव्यम् , किं तर्हि-मन्यस इति । योगिन एव योगास्तेषामीश्वर मयाऽर्जुनेन तद्रूपं द्रष्टुं शक्यमिति यदि मन्यसे ततस्तर्हि तद्रूपवन्तमात्मानमव्ययं नित्यं मम दर्शय ॥ ४ ॥

 म०टी०-एवमत्यन्तभक्तेनार्जुनेन प्रार्थितः सन्-

श्रीभगवानुवाच-
 पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः ॥
 नानाविधानि दिव्यानि नानावर्णाकृतीनि च ॥५॥

 अत्र क्रमेण श्लोकचतुष्टयेऽपि पश्येत्यावृत्त्याऽत्यद्भुतरूपाणि दर्शयिष्यामि त्वं सावधानो भवेत्यर्जुनमभिमुखी करोति भगवान् । शतशोऽथ सहस्रश इत्यपरिमितानि ।

तानि च नानाविधान्यनेकप्रकाराणि दिव्यान्यत्यद्भुतानि नाना विलक्षणा वर्णा नीलपीतादिप्रकारास्तथाऽऽकृतयश्चावयवसंस्थानविशेषा येषां तानि नानावर्णाकृतीनि च मे मम रूपाणि पश्य । अर्हे लोट् । द्रष्टुमर्हो भव हे पार्थ ॥ ५ ॥

 श्री०टी०एवं प्रार्थितः सन्नत्यद्भुतं रूपं दर्शयिष्यन्सावधानो भवेत्ये[४५२]वं श्रीभगवानुवाच पश्येति चतुर्भिः-रूपस्यैकत्वेऽपि नानाविधत्वाद्रूपाणीति बहुवचनम् । अपरिमितान्यनेकप्रकाराणि दिव्यान्यलौकिकानि मम रूपाणि पश्य । वर्णाः शुक्लकृष्णादय आकृतयोऽवयवसंनिवेशविशेषा नानाऽनेके वर्णा आकृतयश्च येषां तानि नानावर्णाकृतीनि च ॥५॥

 म०टी०-दिव्यानि रूपाणि पश्येत्युक्त्वा तान्येव लेशतोऽनुक्रामति द्वाभ्याम्-

पश्याऽऽदित्यान्वसून्रुद्रानश्विनौ मरुतस्तथा ॥
बहून्यदृष्टपूर्वाणि पश्याऽऽश्चर्याणि भारत ॥ ६ ॥

पश्याऽऽदित्यान्द्वादश, वसूनष्टौ, रुद्रानेकादश, अश्विनौ द्वौ, मरुतः सप्तसप्तकानेकोनपञ्चाशत् । तथाऽन्यानपि देवानित्यर्थः । बहून्यन्यान्यदृष्टपूर्वाणि पूर्वमदृष्टानि मनुष्यलोके त्वया त्वत्तोऽन्येन वा केनचित्पश्याऽऽश्चर्याण्यद्भुतानि हे भारत । अत्र शतशोऽथ सहस्रशः । नानाविधानीत्यस्य विवरणं बहूनीति आदित्यानित्यादि चा ! अदृष्टपूर्वाणीति दिव्यानीत्यस्य, आश्चर्याणीति नानावर्णाकृतीनीत्यस्येति द्रष्टव्यम् ॥ ६ ॥

 श्री०टी०-तान्येवाऽऽह-पश्येति । आदित्यादीन्मम देहे पश्य । मरुत एकोनपञ्चाशद्देवविशेषान् । अदृष्टपूर्वाणि त्वया वाऽन्येन वा पूर्वमदृष्टानि रूपाणि । आश्चर्याण्यत्यद्भुतानि ॥ ६ ॥

 म०टी०--न केवलमेतावदेव, समस्तं जगदपि मद्देहस्थं द्रष्टुमर्हसीत्याह-

इहैकस्थं जगत्कृत्स्नं पश्याद्य सचराचरम् ॥
मम देहे गुडाकेश यच्चान्यद्रष्टुमिच्छसि ॥ ७ ॥

 इहास्मिन्मम देह एकस्थमेकस्मिन्नेवावयवरूपेण स्थितं जगत्कृत्स्नं समस्तं सचराचरं जङ्गमस्थावरसहितं तत्र तत्र परिभ्रमता वर्षकोटिसहस्रेणापि द्रष्टुमशक्यमद्याधुनैव पश्य हे गुडाकेश । यच्चान्यज्जयपराजयादिकं द्रष्टुमिच्छसि तदपि संदेहोच्छेदाय पश्य ॥ ७॥

 श्री० टी०-किंच-इहेति । तत्र तत्र परिभ्रमता वर्षकोटिभिरपि द्रष्टुमशक्यं कृत्स्नमपि चराचरसहितं जगदिहास्मिन्मम देहेऽवयवरूपेणैकत्रैव स्थितमद्याधुनैव


पश्य । यच्चान्यज्जगदाश्रयभूतं कारणस्वरूपं जगतश्चावस्थाविशेषादिकं जयपराजयादिकं च यदप्यन्यद्रष्टुमिच्छसि तत्सर्वं पश्य ॥ ७ ॥

 म० टी०-यत्तूक्तं "मन्यसे यदि तच्छक्यं मया द्रष्टुम्' इति तत्र विशेषमाह-

नतु मां शक्यसे द्रष्टुमनेनैव स्वचक्षुषा ॥
दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम् ॥ ८ ॥

 अनेनैव प्राकृतेन स्वचक्षुषा स्वभावसिद्धेन चक्षुषा मां दिव्यरूपं द्रष्टुं न तु शक्यसे न शक्नोषि तु एव । शक्ष्यस इति पाठे शक्तो न भविष्यसीत्यर्थः । सौवादिकस्यापि शक्नोतेर्दैवादिकः श्यंश्छान्दस इति वा । दिवादौ पाठो वेत्येव सांप्रदायिकम् । तर्हि त्वां द्रष्टुं कथं शक्नुयामत आह-दिव्यमप्राकृतं मम दिव्यरूपदर्शनक्षमं ददामि ते तुभ्यं चक्षुस्तेन दिव्येन चक्षुषा पश्य मे योगमघटनघटनासामर्थ्यातिशयमैश्वरमीश्वरस्य ममासाधारणम् ॥८॥

 'श्री० टी०-यदुक्तमर्जुनेन मन्यसे यदि तच्छक्यमिति तत्राऽऽह-न त्विति । अनेनैव तु स्वीयेन चर्मचक्षुषा मां द्रष्टुं न शक्यसे शक्तो न भविष्यसि । अतोऽहं दिव्यमलौकिकं ज्ञानात्मकं चक्षुस्तुभ्यं ददामि । ममैश्वरमसाधारणं योगं युक्तिमघटितघटनासामर्थ्यं पश्य ॥ ८॥

 म०टी०-भगवानर्जुनाय दिव्यं रूपं दर्शितवान् । स च तदृष्ट्वा विस्मयाविष्टो भगवन्तं विज्ञापितवानितीमं वृत्तान्तमेवमुक्त्वेत्यादिभिः षड्भिः श्लोकैर्धृतराष्ट्र प्रति-

संजय उवाच-
 एवमुक्त्वा ततो राजन्महायोगेश्वरो हरिः॥
 दर्शयामास पार्थाय परमं रूपमैश्वरम् ॥ ९ ॥

 एवं नतु मां शक्यसे द्रष्टुमनेन चक्षुषाऽतो दिव्यं ददामि ते चक्षुरित्युक्त्वा ततो दिव्यचक्षुःप्रदानादनन्तरं हे राजन्धृतराष्ट्र स्थिरो भव श्रवणाय । महान्सर्वोत्कृष्टश्चासौ योगेश्वरश्चेति महायोगेश्वरो हरिभक्तानां सर्वक्लेशापहारी भगवान्दर्शनायोग्यमपि दर्शयामास पार्थायैकान्तभक्ताय परमं दिव्यं रूपमैश्वरम् ॥ ९ ॥

 श्री०टी०-एवमुक्त्वा भगवानर्जुनाय रूपं दर्शितवान् । तच्च रूपं दृष्ट्वाऽर्जुनः श्रीकृष्णं विज्ञापितवानितीममर्थमेवमुक्त्वेत्यादिभिः षड्भिः श्लोकैर्धृतराष्ट्र प्रति संजय उवाच-~-एवमिति । हे राजन्धृतराष्ट्र महांश्वासौ योगेश्वरश्च हरिः परममैश्वरं रूपं दर्शितवान् ॥ ९॥

 म०टी०-तदेव रूपं विशिनष्टि

अनेकवक्त्रनयनमनेकाद्भुतदर्शनम् ॥
अनेकदिव्याभरणं दिव्यानेकोद्यतायुधम् ॥ १०॥

 अनेकानि वक्त्राणि नयनानि च यस्मिन्रूपे, अनेकानामद्भुतानां विस्मयहेतूनां दर्शनं यस्मिन् , अनेकानि दिव्यान्याभरणानि भूषणानि यस्मिन् , दिव्यान्यनेकान्युद्यतान्यायुधानि अस्त्राणि यस्मिंस्तत्तथारूपम् ॥ १० ॥

 श्री०टी०-कथंभूतं तदित्यत आह-अनेकेति । अनेकानि वक्राणि नयनानि च यस्मिंस्तत् । अनेकानामद्भुतानां दर्शन यस्मिंस्तत् । अनेकानि दिव्याभरणानि यस्मिंस्तत् । दिव्यान्यनेकानि उद्यतानि आयुधानि च यस्मिंस्तत् ॥ १० ॥

दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् ॥
सर्वाश्चर्यमयं देवमनन्तं विश्वतोमुखम् ॥ ११ ॥

 म० टी०-दिव्यानि माल्यानि पुष्पमयानि रत्नमयानि च तथा दिव्याम्बराणि वस्त्राणि च धियन्ते येन तद्दिव्यमाल्याम्बरधरं, दिव्यो गन्धोऽस्येति दिव्यगन्धस्तदनुलेपनं यस्य तत्, सर्वाश्चर्यमयमनेकाद्भुतप्रचुरं, देवं द्योतनात्मकम् , अनन्तमपरिच्छिन्नं, विश्वतः सर्वतो मुखानि यस्मिंस्तद्रूपं दर्शयामासेति पूर्वेण संबन्धः । अर्जुनो ददर्शेत्यध्याहारो वा ॥ ११ ॥

 श्री०टी०-किं च-दिव्येति । दिव्यानि माल्यान्यम्बराणि च धारयतीति तथा । दिव्यो गन्धो यस्य तादृशमनुलेपनं यस्य तत् । सर्वाश्चर्यमयमनेकाश्चर्यप्रायम् । देवं द्योतनात्मकम् । अनन्तमपरिच्छिन्नम् । विश्वतः सर्वतो मुखानि यस्मिंस्तत् ॥११॥

 म० टी०-देवमित्युक्तं विवृणोति-

दिवि सूर्यसहस्रस्य भवेयुगपदुत्थिता ॥
यदि भाः सदृशी सा स्यादासस्तस्य महात्मनः॥१२॥

 दिवि अन्तरिक्षे सूर्याणां सहस्रस्यापरिमितसूर्यसमूहस्य युगपदुदितस्य युगपदुत्थिता भाः प्रभा यदि भवेत्तदा सा तस्य महात्मनो विश्वरूपस्य भासो दीप्तेः सदृशी तुल्या यदि स्याद्यदि वा न स्यात्ततोऽपि नूनं विश्वरूपस्यैव भा अतिरिच्यतेत्यहं मन्ये, अन्या तूपमा नास्त्येवेत्यर्थः । अत्राविद्यमानाध्यवसायात्तदभावेनोपमाभावपरादभूतोपमारूपेयमतिशयोक्तिरुत्प्रेक्षां व्यञ्जयन्ती सर्वथा निरुपमत्वमेव व्यनक्ति उभौ यदि व्योम्नि पृथक्प्रवाहावित्यादिवत् ॥ १२ ॥

 श्री० टी०---विश्वरूपदीप्तेर्निरुपमत्वमाह-दिवीति । दिव्याकाशे सूर्यसहस्रस्य युगपदुत्थितस्य यदि युगपदुत्थिता भाः प्रभा भवेत्तर्हि सा तदा महात्मनो विश्वरूपस्य भासः प्रभायाः कथंचित्सदृशी स्यात् , नान्योपमाऽस्तीत्यर्थः । तथाभूतं रूपं दर्शयामासेति पूर्वेणैवान्वयः ॥ १२ ॥

 म० टी०- " इहैकस्थं जगत्कृत्स्नं पश्याद्य सचराचरम्" इति भगवदाज्ञप्तमप्यनुभूतवानर्जुन इत्याह-

तत्रैकस्थं जगत्कृत्स्नं प्रविभक्तमनेकधा ॥
अपश्यदेवदेवस्य शरीरे पाण्डवस्तदा ॥ १३॥

 एकस्थमेकत्र स्थितं जगत्कृत्स्नं प्रविभक्तमनेकधा देवपितृमनुष्यादिनानाप्रकारैरपश्यदेवदेवस्य भगवतः । तत्र विश्वरूपे शरीरे पाण्डवोऽर्जुनस्तदा विश्वरूपाश्चर्यदर्शनदशायाम् ॥ १३ ॥

 श्री०टी०-ततः किं वृत्तमित्यपेक्षायामाह संजयः-तत्रेति । अनेकधा प्रविभक्तं नानाविभागेनावस्थितं कृत्स्नं जगद्देवदेवस्य शरीरे तदवयवत्वेनैकत्रैव पृथक्पृथगवस्थितं तदा पाण्डवोऽर्जुनोऽपश्यत् ॥ १३ ॥

 म०टी०-एवमद्भुतदर्शनेऽप्यर्जुनो न बिभयांचकार, नापि नेत्रे संचचार, नापि संभ्रमात्कर्तव्यं विसस्मार, नापि तस्माद्देशादपसतार, किं त्वतिधीरत्वात्तत्कालोचितमेव व्यवहार महति चित्तक्षोभेऽपीत्याह-

ततः स विस्मयाविष्टो हृष्टरोमा धनंजयः ॥
प्रणम्य शिरसा देवं कृताञ्जलिरभाषत ॥ १४॥

 ततस्तद्दर्शनादनन्तरं विस्मयेनाद्भुतदर्शनप्रभावेनालौकिकचित्तचमत्कारविशेषेणाऽऽविष्टो व्याप्तः । अत एव दृष्टरोमा पुलकितः सन्स प्रख्यातमहादेवसङ्ग्रामादिप्रभावो धनंजयो युधिष्ठिरराजसूय उत्तरगोग्रहे च सर्वा[४५३]त्राज्ञो जित्वा धनमाहृतवानिति प्रथितमहापराक्रमोऽतिधीरः साक्षादाग्निरिति वा महातेजस्वित्वात् , देवं तमेव विश्वरूपधरं नारायणं शिरसा भूमिलग्नेन प्रणम्य प्रकर्षेण भक्तिश्रद्धातिशयेन नत्वा नमस्कृत्य कृताञ्जलिः संपुटीकृतहस्तयुगः सन्नभाषतोक्तवान् । अत्र विस्मयाख्यस्थायिभावस्यार्जुनगतस्याऽऽलम्बनविभावेन भगवता विश्वरूपेणोद्दीपनविभावेनासकृत्तदर्शनेनानुभावेन सात्त्विकरोमहर्षेण नमस्कारेणाञ्जलिकरणेन[४५४] च व्यभिचारिणा चानुभावाक्षिप्तेन[४५५] वा धृतिमतिहर्षवितर्कादिना परिपोषात्सवासनानां श्रोतॄणां तादृशश्चित्तचमत्कारोऽपि तद्भेदानध्यवसायात्परिपोषं गतः परमानन्दास्वादरूपेणाद्भुतरसो भवतीति सूचितम् ॥ १४ ॥


 श्री०टी-एवं दृष्ट्वा किं कृतवानित्यत आह-तत इति । ततो दर्शनानन्तरं

विस्मयेनाऽऽविष्टो व्याप्तः सन्दृष्टान्युत्पुलकितानि रोमाणि यस्य स धनंजयो देवं तमेव शिरसा प्रणम्य कृताञ्जलिः संपुटीकृतहस्तो भूत्वाऽभाषतोक्तवान् ॥ १४ ॥

 म०टी०-यद्भगवता दर्शितं विश्वरूपं तद्भगवद्दत्तेन दिव्येन चक्षुषा सर्वलोकादृश्यमपि पश्याम्यहो मम भाग्यप्रकर्ष इति स्वानुभवमाविष्कुर्वन्-

अर्जुन उवाच-
 पश्यामि देवांस्तव देव देहे
  सर्वास्तथा भूतविशेषसंघान् ॥
 ब्रह्माणमीशं कमलासनस्थ-
  मृषीश्च सर्वानुरगांश्च दिव्यान् ॥ १५॥

 पश्यामि चाक्षुषज्ञानविषयी करोमि हे देव तव देहे विश्वरूपे देवान्वस्वादीन्सर्वान्, तथा भूतविशेषाणां स्थावराणां जङ्गमानां च नानासंस्थानानां संवान्समूहान् , तथा ब्रह्माणं चतुर्मुखमीशमीशितारं सर्वेषां कमलासनस्थं पृथिवीपद्ममध्ये मेरुकर्णिकासनस्थं भगवन्नाभिकमलासनस्थमिति वा । तथा-ऋषींश्च सर्वान्वसिष्ठादीन्ब्रह्मपुत्रान् , उरगांश्च दिव्यानप्राकृतान्वासुकिप्रभृतीन्पश्यामीति सर्वत्रान्वयः ॥ १५ ॥

 श्री०टी०-भाषणमेवाऽऽह पश्यामीति सप्तदशभिः-हे देव तव देहे देवानादित्यादीन्पश्यामि । तथा सर्वान्भूतविशेषाणां जरायुजाण्डजादीनां संघांश्च । तथा दिव्यानृषीन्वसिष्ठादीनुरगांश्च तक्षकादीन् । तथा तेषां देवादीनामीशं स्वामिनं [४५६]ब्रह्माणम् । कथंभूतम् , कमलासनस्थं पृथ्वीपद्मकणिकायां मेरौ स्थितम् । यद्वा त्वन्नाभिपद्मासनस्थम् ॥ १५ ॥

 म० टी-यत्र भगवदेहे सर्वमिदं दृष्टवान् , तमेव विशिनष्टि-

 अनेकवाहूदरवक्त्रनेत्रं
  पश्यामि त्वा सर्वतोनन्तरूपम् ॥
 नान्तं न मध्यं न पुनस्तवाऽऽदि
  पश्यामि विश्वेश्वर विश्वरूप ॥ १६॥


  • श्रीधरटीकामूलादर्शपुस्तकेषु त्वामिति पाठः ।

 बाहव उदराणि वक्त्राणि नेत्राणि चानेकानि यस्य तमनेकबाहूदरवक्त्रनेत्रं

पश्यामि त्वा त्वां सर्वतः सर्वत्रानन्तानि रूपाणि यस्येति तम् । तव तु पुनर्नान्तमवसानं न मध्यं नाप्यादिं पश्यामि सर्वगतत्वात् , हे विश्वेश्वर हे विश्वरूप संबोधनद्वयमतिसंभ्रमात् ॥ १६ ॥

 श्री०टी०-किं च-अनेकेति । अनेकानि बाह्वादीनि यस्य तादृशं त्वां पश्यामि । अनन्तानि रूपाणि यस्य तं त्वां सर्वतः पश्यामि । तव तु अन्तं मध्यमादि च न पश्यामि सर्वगतत्वात् ॥ १६ ॥

 म०टी०-तमेव विश्वरूपं भगवन्तं प्रकारान्तरेण विशिनष्टि-

किरीटिनं गदिनं चक्रिणं च
 तेजोराशिं सर्वतोदीप्तिमन्तम् ॥
पश्यामि त्वां दुनिरी[४५७]क्षं+ समन्ता-
 द्दीप्तानलार्कद्युतिमप्रमेयम् ॥ १७ ॥

 किरीटगदाचक्रधारिणं च सर्वतोदीप्तिमन्तं तेजोराशिं च । अत एव दुर्निरीक्षं दिव्येन चक्षुषा विना निरीक्षितुमशक्यम् । सयकारपाठे दुःशब्दोऽपह्रववचनः । अनिरीक्ष्यमिति यावत् । दीप्तयोरनलार्कयोद्युतिरिव द्युतिर्यस्य तमप्रमेयमित्थमयमिति परिच्छेत्तुमशक्यं त्वां समन्तात्सर्वतः पश्यामि दिव्येन चक्षुषा । अतोऽधिकारिभेदादुर्निरीक्षं पश्यामीति न विरोधः ॥ १७ ॥

 श्री० टी०-किं च-किरीटिनमिति । किरीटिनं मुकुटवन्तं मदिनं गदावन्तं चक्रिणं चक्रवन्तं च । सर्वतोदीप्तिमन्तं तेजःपुञ्जरूपं च । तथा दुर्निरीक्ष्यं द्रष्टुमशक्यम् । तत्र हेतुः-दीप्तयोरनलार्कयोर्द्युतिरिव द्युतिस्तेजो यस्य तम् । अत एवाप्रमेयमेवंभूत इति निश्चेतुमशक्यं त्वां समन्ततः पश्यामि ॥ १७ ॥

 म० टी०--एवं तवातयनिरतिशयैश्वर्यदर्शनादनुमिनोमि--

त्वमक्षरं परमं वेदितव्यं
 त्वमस्य विश्वस्य परं निधानम् ॥
त्वमव्ययः शाश्वतधर्मगोप्ता
 सनातनस्त्वं पुरुषो मतो मे ॥ १८॥


+ श्रीधरटीकारले दुनिरीक्ष्यमिति पाठः ।


 त्वमेवाक्षरं परमं ब्रह्म वेदितव्यं मुमुक्षुभिर्वेदान्तश्रवणादिना । त्वमेवास्य विश्वस्य परं प्रकृष्टं निधीयतेऽस्मिन्निति निधानमाश्रयः । अत एव त्वमव्ययो नित्यः । शाश्वतस्य नित्यवेदप्रतिपाद्यतयाऽस्य धर्मस्य गोप्ता पालयिता । शाश्वतेति संबोधनं वा । तस्मिन्पक्षेऽव्ययो विनाशरहितः । अत एव सनातनश्चिरंतनः पुरुषो यः परमात्मा स एवं त्वं मे मतो विदितोऽसि ॥ १८ ॥

 श्री०टी०-यस्मादेवं तवातर्क्यमैश्वर्यं तस्मात्-त्वमिति । त्वमेवाक्षरं परमं ब्रह्म । कथंभूतं वेदितव्यं मुमुक्षुभिर्ज्ञातव्यम् । त्वमेवास्य विश्वस्य परं निधानं निधीयतेऽस्मिन्निति निधानं प्रकृष्ट आश्रयः । अत एव त्वमव्ययो नित्यः शाश्वतस्य नित्यस्य धर्मस्य गोप्ता पालकः सनातनश्चिरंतनः पुरुषो मम संमतोऽसि ॥ १८ ॥

 म०टी०-किंच-

अनादिमध्यान्तमनन्तवीर्य-
 मनन्तबाहुं शशिमूर्यनेत्रम् ॥
पश्यामि त्वा* दीप्तहुताशवक्त्रं
 स्वतेजसा विश्वमिदं तपन्तम् ॥ १९ ॥

 आदिरुत्पत्तिमध्यं स्थितिरन्तो विनाशस्तद्रहितमनादिमध्यान्तम् । अनन्तं वीर्यं प्रभावो यस्य तम् । अनन्ता बाहवो यस्य तम् । उपलक्षणमेतन्मुखादीनामपि । शशिसूर्यों नेत्रे यस्य तम् । दीप्तो हुताशो वक्त्रं यस्य वक्त्रेषु यस्येति वा तम् । स्वतेजसा विश्वमिदं तपन्तं संतापयन्तं त्वा त्वां पश्यामि ॥ १९ ॥

 श्री०टी०-किंच-अनादीति । अनादिमध्यान्तमुत्पत्तिस्थितिप्रलयरहितम् । अनन्तं वीर्यं प्रभावो यस्य तम् । अनन्तबाहुमनन्ता वीर्यवन्तो बाहवो यस्य तम् । शशिसूर्यौ नेत्रे यस्य तादृशं त्वां पश्यामि । तथा दीप्तो हुताशोऽग्निर्वक्रेषु यस्य तम् । स्वतेजसेदं विश्वं तपन्तं संतापयन्तं पश्यामि ॥ १९ ॥

 म० टी०-प्रकृतस्य भगवद्रूपस्य व्याप्तिमाह--

द्यावापृथिव्योरिदमन्तरं हि
 व्याप्तं त्वयैकेन दिशश्च सर्वाः॥
दृष्ट्वाऽद्भुतं 'रूप[४५८]मिदं तवोग्रं
 लोकत्रयं प्रव्यथितं महात्मन् ॥ २०॥

 * श्रीधरटीकामूले त्वामिति पाठः । + रूपमुग्रं तवेदमिति श्रीधरटीकामूलपाठः ।


 द्यावापृथिव्योरिदमन्तरमन्तरिक्षं हि एव त्वयै[४५९]वैकेन व्याप्तं दिशश्च सर्वा व्याप्ताः ।

दृष्ट्वाऽद्तभूतमत्यन्तविस्मयकरमिदमुग्रं दुरधिगमं महातेजस्वित्वात्तव रूपमुपलभ्य लोकत्रयं प्रव्यथितमत्यन्तभीतं जातं हे महात्मन्साधूनामभयदायक । इतः परभिदमुपसंहरेत्यभिप्रायः ॥ २० ॥

 श्री०टी०-किच-द्यावापृथिव्योरिति । द्यावापृथिव्योरिदमन्तरं हि अन्तरिक्षं त्वयैकेन व्याप्तम् । दिशश्च सर्वा व्याप्ताः । अद्भूतमदृष्टपूर्वं त्वदीयमिदमुग्रं घोरं रूपं दृष्ट्वा लोकत्रयं प्रव्यथितमतिभीतं पश्यामीति पूर्वस्यैवानुषङ्गः ॥ २० ॥

 म०टी०-अधुना भूभारसंहारकारित्वमात्मनः प्रकटयन्तं भगवन्तं पश्यन्नाह--

अमी हि त्वा+ सुरसंघा विशन्ति
 केचिद्गीताः प्राञ्जलयो गृणन्ति ॥
स्वस्तीत्युक्त्वा महर्षिसिद्धसंघाः
 स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः॥२१॥

 अमी हि सुरसंघा वस्वादिदेवगणा भूभारावतारार्थं मनुष्यरूपेणावती[४६०]र्णा युध्यमानाः सन्तस्त्वा त्वां विशन्ति प्रविशन्तो दृश्यन्ते । एवमसुरसंघा इति पदच्छेदेन भूमारभूता दुर्योधनादयस्त्वां विशन्तीत्यपि वक्तव्यम् । एवमुभयोरपि सेनयोः केचिद्भीताः पलायनेऽप्यशक्ताः सन्तः प्राञ्जलयो गृणन्ति स्तुवन्ति त्वाम् । एवं प्रत्युपस्थिते युद्ध उत्पातादिनिमित्तान्युपलक्ष्य स्वस्त्यस्तु सर्वस्य जगत इत्युक्त्वा महर्षिसिद्धसंघा नारदप्रभृतयो युद्धदर्शनार्थमागता विश्वविनाशपरिहाराय स्तुवन्ति त्वां स्तुतिभिर्गुणोत्कर्षप्रतिपादिकाभिर्वाग्भिः पुष्कलाभिः परिपूर्णार्थाभिः ॥ २१ ॥

 श्री०टी०-किंच-अमी हीति । अमी सुरसंघा भीताः सन्तस्त्वां विशन्ति शरणं प्रविशन्ति । तेषां मध्ये केचिदतिभीता दूरत एव स्थित्वा कृतसंपुटकरयुगुलाः सन्तो गृणन्ति जय जय रक्ष रक्षेति प्रार्थयन्ते । स्पष्टमन्यत् ॥ २१ ॥

 म०टी०-किं चान्यत्-

रुद्रादित्या वसवो ये च साध्या
 विश्वेऽश्विनौ मरुतश्वोष्मपाश्च ॥
गन्धर्वयक्षासुरसिद्धसंघा
 वीक्षन्ते त्वा* विस्मिताश्चैव सर्वे ॥ २२ ॥

 + श्रीधरटीकामूलस्थस्त्वामिति पाठः । * श्रीधरटीकामूलस्थस्त्वामिति पाठः


मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमद्भगवद्गीता.pdf/३३९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमद्भगवद्गीता.pdf/३४० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमद्भगवद्गीता.pdf/३४१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमद्भगवद्गीता.pdf/३४२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमद्भगवद्गीता.pdf/३४३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमद्भगवद्गीता.pdf/३४४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमद्भगवद्गीता.pdf/३४५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमद्भगवद्गीता.pdf/३४६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमद्भगवद्गीता.pdf/३४७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमद्भगवद्गीता.pdf/३४८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमद्भगवद्गीता.pdf/३४९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमद्भगवद्गीता.pdf/३५० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमद्भगवद्गीता.pdf/३५१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमद्भगवद्गीता.pdf/३५२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमद्भगवद्गीता.pdf/३५३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमद्भगवद्गीता.pdf/३५४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमद्भगवद्गीता.pdf/३५५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमद्भगवद्गीता.pdf/३५६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमद्भगवद्गीता.pdf/३५७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमद्भगवद्गीता.pdf/३५८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमद्भगवद्गीता.pdf/३५९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमद्भगवद्गीता.pdf/३६० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमद्भगवद्गीता.pdf/३६१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमद्भगवद्गीता.pdf/३६२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमद्भगवद्गीता.pdf/३६३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमद्भगवद्गीता.pdf/३६४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमद्भगवद्गीता.pdf/३६५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमद्भगवद्गीता.pdf/३६६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमद्भगवद्गीता.pdf/३६७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमद्भगवद्गीता.pdf/३६८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमद्भगवद्गीता.pdf/३६९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमद्भगवद्गीता.pdf/३७० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमद्भगवद्गीता.pdf/३७१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमद्भगवद्गीता.pdf/३७२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमद्भगवद्गीता.pdf/३७३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमद्भगवद्गीता.pdf/३७४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमद्भगवद्गीता.pdf/३७५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमद्भगवद्गीता.pdf/३७६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमद्भगवद्गीता.pdf/३७७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमद्भगवद्गीता.pdf/३७८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमद्भगवद्गीता.pdf/३७९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमद्भगवद्गीता.pdf/३८० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमद्भगवद्गीता.pdf/३८१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमद्भगवद्गीता.pdf/३८२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमद्भगवद्गीता.pdf/३८३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमद्भगवद्गीता.pdf/३८४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमद्भगवद्गीता.pdf/३८५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमद्भगवद्गीता.pdf/३८६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमद्भगवद्गीता.pdf/३८७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमद्भगवद्गीता.pdf/३८८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमद्भगवद्गीता.pdf/३८९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमद्भगवद्गीता.pdf/३९० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमद्भगवद्गीता.pdf/३९१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमद्भगवद्गीता.pdf/३९२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमद्भगवद्गीता.pdf/३९३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमद्भगवद्गीता.pdf/३९४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमद्भगवद्गीता.pdf/३९५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमद्भगवद्गीता.pdf/३९६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमद्भगवद्गीता.pdf/३९७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमद्भगवद्गीता.pdf/३९८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमद्भगवद्गीता.pdf/३९९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमद्भगवद्गीता.pdf/४०० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमद्भगवद्गीता.pdf/४०१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमद्भगवद्गीता.pdf/४०२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमद्भगवद्गीता.pdf/४०३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमद्भगवद्गीता.pdf/४०४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमद्भगवद्गीता.pdf/४०५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमद्भगवद्गीता.pdf/४०६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमद्भगवद्गीता.pdf/४०७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमद्भगवद्गीता.pdf/४०८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमद्भगवद्गीता.pdf/४०९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमद्भगवद्गीता.pdf/४१० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमद्भगवद्गीता.pdf/४११ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमद्भगवद्गीता.pdf/४१२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमद्भगवद्गीता.pdf/४१३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमद्भगवद्गीता.pdf/४१४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमद्भगवद्गीता.pdf/४१५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमद्भगवद्गीता.pdf/४१६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमद्भगवद्गीता.pdf/४१७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमद्भगवद्गीता.pdf/४१८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमद्भगवद्गीता.pdf/४१९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमद्भगवद्गीता.pdf/४२० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमद्भगवद्गीता.pdf/४२१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमद्भगवद्गीता.pdf/४२२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमद्भगवद्गीता.pdf/४२३
  1. क. ख. घ. ङ. छ. ज. अ. प्रत्यक्षरं ।
  2. ज. त्रयक' ।
  3. क. °ध्यायैर्गीता ।
  4. ज. झ.त्ति निरू' ।
  5. ख. च, छ. झ. 'स्वमिति ।
  6. क. छ. न त्यागा।
  7. ख, ज. 'भयसं।
  8. क. निनाई।
  9. क. "प्ताः प्रक्रिय” ।
  10. ख. घ. ङ. च. छ. ज. झ. °न द्रौद्द ।
  11. क. अ. ‘मात्राय ।
  12. ख. सेन्या ।
  13. के. ज्ञानेन वि” ।
  14. क. भीपमा ।
  15. क. ख. ङ. छ. ज. ञ. 'मितं, व” ।
  16. झ. तु किंचि ।
  17. ख. ग. घ. ङ. च. छ. ज. झ. च वचनमा. ।
  18. क. ख. ग. घ. च. छ. ज. झ. ञ. "नां प्" ।
  19. क. अ. “राः शौण क्षात्रधर्मेणोपेताः स ॥
  20. क. ख. ग. घ. च. ञ. 'त्तिस्तथैव च ॥ ८ ॥
  21. के. झ. °वाः । नि” ।
  22. क टः सिन्धुराजो जयद्रथः॥ ८ ॥
  23. क. ख. घ. ज. झ. ञ. च ।
  24. ख. ग. घ. ४. च. छ, ज. झ. अ. °दिर” ।
  25. ख. ग. घ. ङ. च. छ. ज. झे. “भः ॥ स्य' ।
  26. ग. घ. च. झ. °स्य ॥ १५ ॥ ख. ङ. छ. ज. °स्य सः ॥ १५ ॥
  27. ज . 'तेऽने ।
  28. क. ख. ग. घ. इ. च. छ. ज. झ. ञ. °न । किं ।
  29. क. ‘ति । न ।
  30. ख. ग. घ. ङ. छ. छ. ज. झ. व्याप्तः ॥ २७ ॥
  31. ग. घ. च. छ. न लोके ।
  32. क. “तै यात” ।
  33. क. “दारहरश्चैव ष।
  34. ख. ङ. छ. च. छ. ज. झ. ञ. "ष्ट्रान्सबा” ।
  35. ख. ग. घ. च. छ. ज. दारहरश्चैव च ।
  36. ग. घ. च. झ. शङ्कयामाह।
  37. ङ. छ. झ. प्रियतरं !
  38. क. ख. ग. ड. च. छ. ज. झ. ञ. "क्ष्रुमेत्याचा"
  39. ङ. छ. झ. प्रियतरं ।
  40. क. घ, छ. के. तत्र ।
  41. ग. छ. ‘में सङ्गामे सं° । च. में सङ्ग्रामस' !
  42. झ. *क सइग्राम ड"।
  43. ग. घ. ङ. च. छ. ज. झे. “त्य तुक°।
  44. ख. ग. घ. ङ. च. छ. ज. झ. “तरत्वेन यु ।
  45. ख. ग. इ. च. छ. ज. “चुनिषूदन । क. ञ. त्रुसदन ।
  46. क. ख. ग. घ. ङ. छ. ब. भैक्ष्यम” ।
  47. घ. “ज्यानाभस्माकं न” ।
  48. क. ख. ग. घ. ङ. ञ. मैक्ष्यम' ।
  49. ग. इ. ज. अ. अम्बैंपि ।
  50. क. ख. घ. छ. भैक्ष्ययु” ।
  51. क. ख. घ. छ. भैक्ष्यं ।
  52. क. ख. घ. ङ.
  53. क. ख. घ. भैक्ष्यम” ।
  54. क. ख, ग. छ. ज, वां ।
  55. च. 'क्तत्ववि' ।
  56. घ. अ. न तु स’ ।
  57. क. घ. झ. "भत्रित ।
  58. क. घ. झु. “यचितो।
  59. ख. ग. घ. च. छ. ज. झ. °पि पा” ।
  60. क. ख. ग. परंतुप ।
  61. ख. ग. °ति । परमार्थस्वरूपेण शो' ।
  62. ख. ग. घ. ङ. च. छ. ज. झ. “त्यत अहि ।
  63. ख. ग. °ति । परमार्थस्वरूपेण शो’ ।
  64. ख. "मितो देहपातादुप” ।
  65. ग. घ. ङ. छ. ज. झ. “पोदितं ।
  66. क. ख. ग. घ. चे. ज. झ. स्तनपा ।
  67. ख. ग. घ. ङ. छ. छ. ज. झ. अ. स्तन्यादौ ।
  68. झ. °व जातो मृतश्चे” ।
  69. क. छ. हसमत्वं । अ. हमभेदत्वं ।
  70. ग. ज. अ. 'वन्तोऽन्तः। झ“वन्तोऽतोऽन्तः ।
  71. क. ‘न्ते ज्ञायन्ते वि” ।
  72. ख. ग. घ. ङ. छ. ज. झ. ञ. न वर्धते कर्मणा नौ ।
  73. घ. ज. सदज्ञानो"।
  74. क. 'यस्य ज ।
  75. के. ग. घ. ङ. च. छ. ज. झ. अ. “कसा"
  76. झ. सदसद्भया ।
  77. क. ग. घ. ङ. च. छ. ज. झ. ञ. 'यसं° ।
  78. ङ. "रण्येन सत्स
  79. क. "ण्या सत्सदि
  80. ज. °भेदाय स्वस्वरूत्वस्य च ।
  81. क. ग. छ. स्वरूपस्य । घ. ङ. छ. स्वरूपत्वस्य । झ. स्वरूपात्वस्य स ।
  82. छ. त्वान्नास ।
  83. क सामान्यात् ॥
  84. क. अ. "चिद्देहना” ।
  85. क. च. छ. ज. झ. ञ. पत्वस्य ।
  86. च. ज. “स्य सत ।
  87. ख. °रः परस्पयिन्ताभावसमानाधिकरणयोरैकाधिकरण्यं सांकर्ये लौ।
  88. घ. इ. न. तद्भान' ।
  89. क. ख. ङ. चे. ज. “यो । ग. अ. °टपटयों।
  90. क. घ. ङ. छ. ज. “वव्य' ।
  91. ग. , सुमत्वात् ।
  92. ख. घ. ङ. छ. छ. ज. झ. ञ. 'क्यं चेति ।
  93. क. ञ. ‘दिभिर्वेदादिभि ।
  94. क. ग. घ. ङ. च. छ. ज. झ. ञ. “न्ति ॥ २३ ॥
  95. के. घ. छ. घटादेः ।
  96. छ. तो घटादे ।
  97. ख. 'रो यं पृथिवी न वेद यस्य पृथिवीम न्तरो यमिति एष त आत्माऽन्तर्याम्यमृत इत्याद्याश्च श्रुतयः स ।
  98. छ. ञ. °श्च न प ।
  99. ग . ज . झ . अ . 'पाद्यापाय° ।
  100. क. ख. घ. ङ. छ. ञ. तत्तद्दे ।
  101. के. ञ. “वसीस्यर्थः ॥ २७ ॥
  102. ज. नो म' ।
  103. ज. "त्र का ।
  104. क. ष्टवस्तुष्वि' ।
  105. ख. घ. च. झ. ञ. 'मिवार ।
  106. क. छ. “ति । यो य” ।
  107. क. ग. घ. ङ. च. छ. ज. अ. तत्रापि ।
  108. क. ख. घ. छ. ज. चैत्वं व्या' ।
  109. घ. "स्याप्यात्म” ।
  110. ख. घ. झ. “त् । जिघांसयिादिति जिघांसी सन्नीयादित्यर्थः । ना" ।
  111. घ. ङ. व. ज, झ. ञ. 'कूटायुधादि ।
  112. ग. °ढ़ इत्यादि । अ. “ण्ढविकला ।
  113. के. ग. च. छ. ज. ञ. संभवति ।
  114. क. ख. घ. झ. ण्यचित ।
  115. क. ख. घ. झ. "थचिता ।
  116. क. ख. ग. ङ. छ. ज. झ. ञ. 'गण्यापप' ।
  117. क. घ. च. छ. ज. ञ. 'दिमे ।
  118. क. ज. ञ. “र्म । अग्निहोत्रं जुहुयात्स्वर्गकामः, दक्षेन्द्रियकामो जुहुयात् । अ° ।
  119. ज. विशेषे प्र° ।
  120. ख. घ. ङ. च. छ, ज. झ. “भान्वि ' ।
  121. क. अ. 'वचन' ।
  122. ख. ग. ङ. च. ज” .झ. °कूपादि ।
  123. क. ख. ग. घ. ङ. छ. छ. ज. अ. °था स’ ।
  124. च. `रार्थमेव ।
  125. ख. ग. च. ज. “स्य च कु’ ।
  126. क. ख. घ. अ. °रिभ्रम ।
  127. ख. ग. घ. ङ. छ. झ. अ. वृत्त्याऽवि' ।
  128. के. “त्ताववि ।
  129. ख. ग. इ. छ. ज. छतीति ।
  130. ख. ध. व. छ. ज. झ. ह्मनि ।
  131. ग. “ह्मनिवणं ब्रह्मणि ।
  132. घ. तमा क्ष्रे ।
  133. ख. ज. द्ध्फलयोः ।
  134. घ. "तमाक्ष्रे ।
  135. ख. इत्यादिना ॥ ३ ॥
  136. क. ग. छ. झ. ञ. वेन ना।
  137. क. "शुद्ध्यर्थं ज्ञा ।
  138. ग. घ. छ. ज. झ. °ध्यति ।
  139. क. ङ. °ति वा ॥ ७ ॥
  140. ख. ग. घ. ङ. च. छ. ज. झ. विशिष्ट ।
  141. क. छ. झ. ञ. 'रामाभ” ।
  142. के. अ. “मैवान्नं प” ।
  143. झ. "वार्थ ।
  144. ख. ई. झ. ञ. °नि सर्वाणि नि ।
  145. ख. ग. घ. ङ. छ.°षु भू ।
  146. क. ज 'तार्थवादव्याख्या ।
  147. ख. च. झ. “च्छति ते ।
  148. क. छ. झ. ञ. *षां न ।
  149. क. ख. घ. च. छ. ज. ज्ञ. 'ति । हुने ।
  150. क. °तिपुराणप्र' ।
  151. क. ख. ग. च. छ. ज. झ. ञ. वर्तेयं ।
  152. ख. ध. ङ. च. छ. ज. झ. ञ. “ब को ।
  153. क. ज्ञ. 'यमेवेत्यु ।
  154. ज. र्मक्ष्र ।
  155. झ. 'र्ताऽस्मि क ।
  156. ख. ग. घ. ङ. च. छ. ज. झ. अत्र ।
  157. ख. ग. घ. ङ. छ. ज. अ.न्ते ता।
  158. क. छ. 'नैः कर्म कुर्वाणाः स' ।
  159. क. 'ये च य ।
  160. ख ग. घ. ङ. ज. च. छ. ज. 'ति । यस्मा ।
  161. ख. ग. घ. ङ. च. छ. ज. झ.बं च स ।
  162. ख.ग. घ.ड.च.छ.ज.झ.ञ. परस्य।
  163. ग. घ. कज्ञा' ।
  164. क. छ. ज. झ. 'तसु ।
  165. क. अ. दं तु वि।
  166. क. म. अपूर्यमाणः ।
  167. क. ग. घ. ङ. च. छ. म. शकम् ।
  168. ख. ग. घ. इ. च. छ. ज. झ. न. सनं त'।
  169. भ. 'धाय'।
  170. क. गोपायश्च मो'। ज्ञ. गोपायो मो।
  171. ख. ग. घ. रु. छ. ज. श. म. ज्यामिति ॥४॥
  172. छ. ञ. जाम्यहमिति नि।
  173. क. ग. 'न्दधनरू।
  174. क. छ. न मोक्ष प्रा ।
  175. ख. 'स्य च वि।
  176. क. त्वां न । २. क. प्राप्यत्वा ।
  177. क. ख. ब. न श्रमरहितं नाशादिर।
  178. ग. घ. ङ. च. छ. ज. न श्रमर ।
  179. ख. घ.. च. झ. पोत्यत आह ।
  180. ख. घ. ज. झ, कर।
  181. क. च. गोऽविहितव्या' ।
  182. घ. ज, ति कर्माध्या' ।
  183. ङ. च. छ. झ, धर्माध्या' ।
  184. क. इ. झ. म. ज्ञेयत्वं द ।
  185. क. श्येत्तस्य प्रत्य।
  186. क. ख. ङ. च. छ. 'वायोत्पाद।
  187. क. दोषाया।
  188. क. दोषायति ।
  189. क. 'र्थार्थापत्तिभ्यां ।
  190. क. ज. "तेच क। खग, घ, ङ, च. छ. ज. ते क।
  191. ख. घ. ह. छ. ज. "शात्फलाज।
  192. ख. ग. घ. इ. च. छ. ज. अ. रकव्य।
  193. ख. ग, घ, ङ. च, छ, ज. अ. व्यवायाच्च ।
  194. घ. ङ, जुह्वादि ।
  195. छ. ज. झ. वमेवेत्यादिभिरष्टभिः-दें ।
  196. क. च. अ. मित्सष्टभिः-दे ।
  197. ग. घ. ङ. "त्यादिभिरष्टभिः-दें।
  198. ख. घ. . ज. झ. 'पायेन ।
  199. क. ख. घ. ङ. ज. 'चित्तधा' । च.चित्ते वा ।
  200. ख. घ. ङ. च. ज. 'नानन्य।
  201. झ. रे ज्ञान ।
  202. ख. घ. ङ, ज. श. "नि प्रा।
  203. क. ख. ग. च, ज. अ. नांद।
  204. क. तादीनां ।
  205. क. ग. घ. ञ, शास्त्रनि ।
  206. झ. वेदन' ।
  207. झ. यई।
  208. क.नं तदेव ।
  209. क. इ. झ. वर्त्यमा ।
  210. झ. "नः । हंस हंसति मन्त्रेण जीवो जपति नित्यशः । प्रा।
  211. ख. घ. अ. ज. झ. वन्ति तन च ली ।
  212. घ. ङ. च. ज. झ. नस्या।
  213. घ. 'घाविजम्मिता।
  214. ख. ग. छ. ज.झ. इतश्च । ङ. ततश्च ।
  215. घ. ङ, च, छ. कल्पते ।
  216. क. कर्मभ्यो ।
  217. ख. हि कथय ॥१॥
  218. क. ग. घ. ङ, च. छ, ज, झ.ज. "शिष्टो।
  219. क. झ. सेव।
  220. क. सत्कृत्य।
  221. ख. ग. घ. छ. च.छ. झ ञ. 'दित्वेन मत्व।
  222. ख. "त्वा नचि।
  223. क. ख. घ. इ. च. छ. ज. अ. अ. ख्यातोऽयं क्ष्लोकः । य ।ख्याताविभौ श्लोकौ ।
  224. ग. ब. छ. 'वाद्यभि ।
  225. क. ख. घ. ङ. च. छ. ज. अ. त्तसत्वशु।
  226. ख. घ. उ. छ. ज... शी जित।
  227. घ. च. ज. झ. श्रुतिस्मृती लोक ।
  228. क. झ. तत्तत्पू।
  229. घ. च. झ. 'ते स्वाभावना ।
  230. क. ख. ग. छ. ज. अ. वना।
  231. क. ख. ग. घ. च. छ. ज. झ. भ. पूज्यत ।
  232. ङ. च. छ. ज. ज. अथाऽऽन।
  233. क. ख. ङ. च. छ. ज. ज, वं च दुः।
  234. क. ख. ग. घ, ङ. च. छ. ज. अ. भोगप्रयु।
  235. ज. चञ्चलं।
  236. ख. ग, घ, ङ. च. छ. ज. इ.ननं त ।
  237. क. ग. घ. ह. छ. ज. अ. अ. 'त्त्वमयेन ।
  238. ङ. छ. ञ. धर्माध्या।
  239. क. त्रीपुंसव्यं । अ. स्त्री'व्य ।
  240. छ. न दृष्टमिति ।
  241. क. ख. ग. ङ. च. ज. स. भ. दृष्टान्त ।
  242. क. नेत्रादिक्षोमल।
  243. ग, ङ. ज. झ. जीवानां ।
  244. क. ख. ग. छ. अ. 'न्तर ए।
  245. ङ, छ. अ, 'रेव भ।
  246. ख. च. झ. तनाऽऽह ।
  247. क. मद्भक्तैः । ग. प. ङ. च. छ. ज. झ. भ. स्वभक्तैः ।
  248. क. यदृच्छया।
  249. ख. ग. घ. ङ, च, ज. झ. ञ. हृदम' ।
  250. क. ख. सपदप्र ।
  251. क. छ. झ. वातिरेचयतीति ब्रा। ख. घ., अ. 'वातिरेचयतीति पु।
  252. च. ज, यदिति । पु
  253. ख. घ. ङ. च. ज. झ. ञ. ते ।
  254. ख. ग. घ. ङ. च. छ, ज. अ. 'लात्संन्य ।
  255. क. अ. म्यात्संन्यासात्सं।
  256. ख. ग. घ. ङ. च. छ. ज. भोगेषु ।
  257. क. ख. अ. 'झादुप।
  258. ख. इ. ज. अ. "यकार ।
  259. ख. ग. घ. ज. अ. तु शास्त्रा ।
  260. ख. घ. इ. छ. ज. "कारि'।
  261. ख. ङ. वर्तते ।
  262. झ. 'रमात्मेत्यत्र परमि।
  263. ख. ग. घ. ङ, छ. ज. चोपपायो ।
  264. क. म. मुपपाद्योप।
  265. ख, ग, घ, इ. च. छ. ज. झ. द्वेषशू।
  266. क. ग. म. ङ्को निराहारो वाऽप।
  267. क. अ. स्वकीयं ।
  268. ग. अ. अ. "तरक्षणेषु त्वधि ।
  269. ख. घ. ङ. छ. ज. झ. अ. प्रसोतुम । म. च. प्रसवितुम ।
  270. क. ख. घ. ङ. च. छ. कारं विवें । ज. स. 'कारविवे।
  271. क. ञ. रतिं प्रा।
  272. क. ङ, छ. ज. झ. अ.दनमः ।
  273. क. ख. घ. च. छ. ज.
  274. ग. ’ति । यतचितस्य भावो यतचित्तत्वं यतं च तम्चित्तं च यतचित्तं भां ।
  275. ख. ग. घ. छ. ज. झ. त्मतत्त्वान ।
  276. ख. घ. इ. च. छ. ज. झ. अ. 'यमात्म।
  277. च. छ. झ.लनमें ।
  278. ख. ग. घ, ङ, च. छ. ज. "मिश्रल
  279. ख. सर्वतः सवा'।
  280. क. ग. व जीवस्वरूपस्य सता सोम्य तदा संपन्नो भवतीतिश्रुतेः स्व।
  281. क. स. वत्सुखदुः।
  282. झ सुखदुः।
  283. ग. ज. झ.°माधिर्य ।
  284. छ. नुस्मृत्य प'।
  285. ङ, छ. तस्य तस्या ।
  286. ग. ज. विचेष्टेत ।
  287. ग. शित्व।
  288. छ. "णि सर्वोपद्रवरहिते स ।
  289. ख. ग. घ. ङ. च. छ, ज. स. भ. "नि च स्वात्म।
  290. ख. ग. घ. ङ. च. छ. ज. झ. अ. "माश्रित्य यो ।
  291. ख. च. छ. ज, झ.ते । एवं क्षीं ।
  292. ख. घ. ङ. च, छ. ज. झ. ज.ते-'एतद्यो वे ।
  293. छ. अ. दुःखम।
  294. ग. खित।
  295. क. छ. सर्वदा।
  296. क. ज. "ह स्ववों'।
  297. ख. झ. नाऽतिमा । घ. 'नाऽधिमा ।ज. ना धीमा ।
  298. अ. योगेना।
  299. ज. ग्योत्पाद ।
  300. ग. इ. छ. अ, पानं मैथुनमै ।
  301. ग. कित्सावशादि । ङ. छ. अ. 'कित्साव।
  302. क. घ. ञ. तु विषयाचिन्तनपूर्वकमभ्या' ।
  303. ग. अ. अ. प्राक्तनक । क. घ. छ. ज. प्राकृत ।
  304. क. घ. अ. च. ज. अ. तकरत्वा । ख. छ, झ. तकरणत्वा ।
  305. ख. ग. ङ, अ. श्रद्धाचित्तो । घ. समाहितो। च. छ. ज. श्रद्धावित्तो ।
  306. झ. द्धासं।
  307. क. 'दित्यर्थः ॥ ३८ ॥
  308. क. न्यस्त्वेतत्संदे।
  309. ख. ग. च. छ. ज, श्रद्धावित्तो । ङ. भ. श्रद्धाचित्तो।
  310. ग.ते-दिने दिने च वेदान्तश्रवणाद्भक्तिसंयुतात् । गुरुशश्रुषया लब्धात्कृच्छाशीतिफलं लभेत् । ए ।
  311. क. ख. ग. घ. ङ. छ. ज. श.न, तस्य ह वा एवं ।
  312. झ. 'न्यासयों ।
  313. ख. ग. घ. 6. च. ज. न. वा तत्सुखं ।
  314. क. ख. ग. ह. च. छ. ज. ज. हे स यों।
  315. ञ. ते सर्व ।
  316. क. ख. ग. ङ. व. छ. ज. झ. म. प्रारभाव ।
  317. ख. ज. अ. कात्रयम् ।
  318. ड. ञ याच लब्धैरने ।
  319. क. ख. झ. यान्ति ।
  320. झ. र्जुन शु।
  321. क, भ्योऽपि ज्ञा।
  322. ख. ग. घ. ङ, च. छ. ज. भ. पूर्तका' ।
  323. झ. 'दिका ।
  324. ज. परिहरता ।
  325. ख. ग. घ. रु. च. झ. "वेदिति ।
  326. ख. णं ज्ञानं स्तौ ।
  327. च. ह योगमा ।
  328. ङ. च. णां स।
  329. ख. ग. घ. छ. ज. अ. भ. च ।
  330. ज. झ, यतति ।
  331. ख, ग, घ, ङ. च. छ. ज, झ. ज. "तां मे ।
  332. ख. छ. झ. परमं ।
  333. क. अ. वेति भावः ॥६॥
  334. क. सन्मात्रात्स्व ।
  335. ख. ग. घ. ङ, च. झ. ज. मप्राप्ता म ।
  336. ग. घ. च. छ. ज. झ. त्याऽऽक्ष्र ।
  337. छ. दधिष्ठाना ।
  338. क, ख. घ. ङ. च. ज. झ. अ. न् ॥ १३ ॥ य ।
  339. क. ख. ग. घ. इ. च. ज. झ, अ. टान्तार्थः ।
  340. ख. ग. घ. कु. च. छ. ज. झ.भ. "न्द्रियसं।
  341. क. धपङ्कजशोभरधिकचरणकमलयुगुलप्रभमनवरतवेणुवादननिरतवृन्दावनक्रीडासक्तमानसहेलोद्धृतगोवर्धनाख्यमहीधरं गोपालं निषूदितशिशुपालकंसादिदुष्टसंघमभिनवज ।
  342. झ. र्थे शतशः प्र।
  343. ख. च. ज. अ. धाः । के त इत्यत आह-आ।
  344. क. ते ॥ १६ ॥ ननु न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमा इत्यनेन तद्विलक्षणाः सुकृतिनो मां भजन्त इत्यर्थात्प्राप्तेऽपि तेषां चातुर्विध्यं चतुर्विधा भजन्ते मामित्यनेन दर्शिताः । ततस्ते सर्वे सुकृतिन एव निर्विशेषादिति चेत्तत्राऽह च।
  345. क. ङ. छ. विचिन्वन्ति ।
  346. क. ग. ङ. छ. ज. अ. मामीश्व'।
  347. क. झ. ब. नातीवाऽऽदि ।
  348. क. म. नाचातुर्यमनया ।
  349. च. यस्त्वं तया ।
  350. ख. ग. घ. ह. छ. ज. झ. अ. वे त"।
  351. क. 'जन्तस्ते स ।
  352. च. ज. पदिष्टानां।
  353. क, ख, वादनायासेनैव सः
  354. ह, च, मतिवि' ।
  355. क. मू । ननु जीवोऽप्यक्षरस्तनाऽऽह प'।
  356. ङ. च. झ. 'देह एव या
  357. क, ग, च, झ. बलीय ।
  358. क. 'कालज्ञा ।
  359. ग.न्यमपि य कचि ।
  360. क. ख. घ. ङ, छ, ज.पि ये कंचि'।
  361. क. ख. ग. घ. छ.ज, वाऽपि ।
  362. ङ. सततं ।
  363. ज. 'देवम्-तस्मा।
  364. क. छ. 'स्मरानुचि ।
  365. ख. संभवति ।
  366. क. ग. घ. ङ. च. ज. झ. दुत्क्रम्य । अ. दुपक्रम्य ।
  367. क. "झं सर्वविद्यानिर्मातारं पु।
  368. क. सूक्ष्ममाकाशकालदिग्भ्योऽप्यतिसूक्ष्मतरम् । स ।
  369. ख. ग. घ. ङ. च. छ. ज. झ. ञ. 'रूपम् । आ ।
  370. क, तेः । सप्रपञ्चप्रकृति भित्त्वा यस्तिष्ठति ए'।
  371. क. 'न विक्षेपरहितेन म ।
  372. कषं परमात्मस्वरूपं दि।
  373. ख, ग. घ. 'येकाक्ष। च. श. "त्येतदक्ष।
  374. च. ज. झ. "यन्ते न ।
  375. च. ज. झ.र्तन्ते' अ।
  376. क.म् । तथा च-ब्रह्मणा सह ते सर्वे संप्राप्त प्रतिसंचरे । परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम् । परस्यान्तै ब्रह्मणः परमायुषोऽन्ते कृतात्मानो ब्रह्मभावापादितमनोवृत्तयः । कर्मद्वारेण येषां ब्रह्मलोकप्राप्तिस्तेषां न मोक्ष इति परिनिष्टितिः । मा।
  377. क. इति विष्णुप।
  378. क. मे ब्रह्मशयने त ।
  379. क. प्यते ।
  380. ख. ग. घ. छ. ज. "तीदं वि।
  381. ज. झ. पानाप ।
  382. ख. ङ. च. छ. ज. झ. अ. गत्यस्मिन्दृश्य ।
  383. क, ख. छ. ज. न, 'तिभ्यः ॥ २२॥
  384. ख. ग. घ. ङ. च. छ. ज. झ. अ. 'न्ति । त।
  385. झ. °ति आदित्याद्वैद्युतं वैद्युतः पुरुषो याति मा ।
  386. क. अ. दिः । नहि सद्योमुक्तिभाजां सम्यग्दर्शननिष्ठानां गतिर्वा क्वचिदस्ति न तस्य प्राणा उत्क्रामन्तीति श्रुतेः ॥ २४ ॥
  387. क. 'वन्ति धूमादात्रैरपक्षीयमाणपक्षमपक्षीयमाणपक्षाद्यान्षण्मासान्दक्षिणाऽऽदित्य एति मासेभ्यः पितृलोके पितृलोकाचन्द्रं ते चन्द्रं प्राप्यान्नं भवन्ति ।
  388. क. ख. रेणेद ।
  389. क, म् । राज्ञां विद्या राज्ञां गुह्यमिति वा । उ ।
  390. ख, ग, झ. षष्ठी ।
  391. ख. ग. घ. ङ, व. छ. ज. झ. ब. म् । अ ।
  392. ख. घ. ङ. च. छ. झ, ञ, तथैव ।
  393. घ. च. ववशात् ।
  394. घ, यतः ।
  395. झ. नुं त्यक्त्वा भ।
  396. क. 'वेनैकमेव परं ब्रह्मतिपरमार्थदर्शनरूपा ।
  397. क. 'ति पृथग्भावनया के ।
  398. क. धकं प्रायश्चित्तात्मकं वा, ओं।
  399. क. घ. अ. मतत्परा।
  400. ख. अ, च. छ. 'वं त्रैधय॑म ।
  401. क. 'म्यं भजनीयं देवतान्तरं यें।
  402. ख. ग. घ. च. छ. ज. झ. वन्तो दें।
  403. क. 'न्ति अतः पुनरावर्तन्ते पि ।
  404. ग, घ. च. नामि य ।
  405. ज. "दन्भक्त ।
  406. ख. ङ. छ. न. भक्त्याऽपि'।
  407. ज. यः । अतश्चानायासलम्चैकपत्रपुष्पादानेन भक्तवत्सलो भगवानात्मानं भक्तेभ्यो विक्रीणीत इति । तथा चोक्तम्----- तुलसीदलमात्रेण जलस्य चुलकेन च । विक्रीगीते स्वमात्मानं भफेभ्यो भक्तवत्सल इति ध्वनितम् ॥२६
  408. ख, ग. घ. डा, च, छ. ज. श. "तः शो।
  409. क.न्ति चित्तोपप्लवोपरमरूपां प'।
  410. क. अ. 'लचित्तम ।
  411. क. व्यमित्यर्थः । अ ।
  412. ख. 'रणान्यतो निवृत्तिः । सु ।
  413. ञ. 'स्य शमता । सु ।
  414. घ. लोके गुणकथनरू ।
  415. छ. 'घा गुणकथनरू ।
  416. ग. झ. 'पा गुणकथनरूपा वा लोकप्र ।
  417. घ. दोषकथनरूपा ।
  418. ग. झ.पा दोषकथनरूपा पा लोकप्र ।
  419. क. अ. सं मित्रामित्रतुल्यता च तु।
  420. क.ग. च. झ. ज. ब्राह्मणा।
  421. स्व. रणान्यतो निवृत्तिः । सु।
  422. अ. स्य शमता । सु ।
  423. घ लोके गुणकथनरूं ।
  424. छ. 'घा गुणकयनरू' ।
  425. ग. झ. 'पा गुणकथनरूपा वा लोकप्र।
  426. घ. दोषकथनरूपा ।
  427. ग. झ.पा दोषकथनरूपा वा लोकप्र ।
  428. क, म. सं मित्रामिनतुल्यता च तु।
  429. क.ग.च. झ.ज. ब्राह्मणा।
  430. ज. प्रभवं।
  431. ख, ग, ङ, च. छ. ज. अ. 'ग्योऽसि ।
  432. झ. रुताम् , आवहो विवहः प्रवहः परावह उद्वहः संवहः परिवह् इति सप्त मरुद्गणाः । मरुतां वायूनां म ।
  433. ख. ग. घ, ङ, च. छ. ज, वायूनां ।
  434. ख. ग. छ. च. छ. ज. झम. णा देवविशेषास्तें ।
  435. झ. मध्ये देवविशेष इति । न।
  436. ख. ग. ङ. च. ज. “ति । न । छ. ति । आ ।
  437. छ. वहः । न ।
  438. ख. ग, घ, ङ. च. छ, ज, झ. अ. त्यादिध्वव।
  439. ज्ञ. क्ष्व सप्तमुखं मं ।
  440. झ. नामैका ।
  441. ग. छ. झ.न्ति ।
  442. ख. मात्" इ ।
  443. झ. शालित्वेन शी।
  444. क. झ. ज. नां काव्यद।
  445. ङ. वृप्यति । अ. तिष्ठति ।
  446. ङ, ञ, धुलिग्मनो ।
  447. क. अ. नजाने ।
  448. क. ग. द. " समदृष्टि ।
  449. छ. भगवत ए।
  450. च. 'वत ए'।
  451. ज. 'पेण स ।
  452. क. ख. ग. घ. ह. अ. त्येवमर्जुनमभिमुखी करोति श्री । छ. ज. झ. 'त्येवमर्नुनमभिमुखी करोति ।
  453. क. वान्वीराञ्जित्वा । ख. प. उ. ज. अ. वञ्जित्वा ।
  454. क, छ. 'न चाव्य'।
  455. ख. घ, ङ, च. छ. ज. झ. ज, 'न धू ।
  456. क.ख. ग, ङ. च. छ. ज, झ. अ. झाणं च ।क।
  457. क, ग. स. अ. रीक्ष्यं स ।
  458. ख. ग. घ. ङ. च. छ. ज. झ, भ, “पमुग्रं तवेदं लो।
  459. ख. ग. घ. ङ. च. छ. झ. अ. 'यैके ।
  460. ज. 'तीर्णोऽसीत्यबुध्य' ।
  461. घ. झ. ’नि द्दष्ट्वा दं’ ।
  462. क. ना यत्पश्या । ड. ’ना यथा प’
  463. क, ख, ग, घ ङ च. छ. ज, ज, 'ति । ए।
  464. क, ग. घ. ङ. च. ज. झ. ज. "भिविज्व।
  465. ग. 'वैकमित्याशयः ॥ २९ ॥
  466. ख, ग, घ, ङ, च. छ. ज, झ. 'वेग' ।
  467. क. भ. सक्ष्मपक्षिविशेषा।
  468. च. ज. झ. "त्युत्कट: का।
  469. क. "तुं शरान्संधा ।
  470. ख. ग. घ. इ. च. छ. ज. झ. शीलमस्थे ।
  471. क. ख. ङ. छ.'धमुख्यान् ।
  472. क. ख. ग. घ, ङ. छ. भ. "दः ॥ ३६ ॥
  473. ङ. ञ. र सूक्ष्म। छ. र सूक्ष्मं मूं।
  474. क. ख. ग. घ. ङ. च. ज. न. मन्ती'।
  475. क. घ. 'स्यापि । द्वै ।
  476. क. झ. एकः केवलः।
  477. छ, वा ।
  478. क. ख. ग. घ. इ. च. ज. झ. च त्वा त्यां।
  479. ख. ग. घ. 3. च. छ. झ. ज.ग्रहश।
  480. क. ख. ‘नाय पुनरभ्य।
  481. ग. "तः, मद्विमुखेषु पु ।
  482. ज. यः पुमान्स मां।
  483. झ. संज्ञ वै ।
  484. ग. ज. श्रुतेः।
  485. ख, ग, घ. ङ. व. छ. ज. श. 'देश्यशब्देन व्यपदेष्टुं ।
  486. ख. ग. झ. अ. वेश्य स ।
  487. क. नी साधनातिरेकं वि।
  488. क. ख. ग. घ. ज. झ. बुद्धि मयव ।
  489. क. ज्ञ. देवस्तारकं परब्रह्म व्या । ख. देवस्तारकं परं ब्रह्म व्या।
  490. श. पुनरभ्यासेऽध्यसमर्थस्तार्ह मदर्थ कर्माणि कवित्याह-अ।
  491. ख. ग. घ. ङ. च. छ. ज. ज. सर्वथा ।
  492. ग. घ. ज. धामृ ।
  493. म. घ. ज. धामृ ।
  494. ग. प्र. ज. दम्यादें !
  495. झः ’माक्ष्रयेत्
  496. ग. घ. छ. ति विवेच ।
  497. ग. ङ. च. छ. ज. 'ब्देन द्वि।
  498. छ. स्तद्धर्माधि।
  499. ख. ग. इ. च. छ. तत्क्षेत्र ।
  500. ग. छ. सतः सङ्गो हि में। च. ज. झ. अ. सन्तः सङ्गाहिौं।
  501. क. ख. ग. ङ, च: छ. जसमा।
  502. क. अ. अ. ज. वस्त्वंप।
  503. ख. ग. घ. ङ. च. छ. ज. झ. भ. 'म ।
  504. क. ग. घ. छ. ज. ञ, विष्ठितम् ।
  505. क. ग. घ. छ. ज. न. धिष्ठितं ।
  506. क. ग, घ, छ, ज.अ. धिष्ठितं।
  507. क. ग, घ, छ, ज, ज. "म धिष्टि।
  508. क, ख. व, घ, ङ, च, छ. ज. झ. भ. र्यकार ।
  509. क. तचाचे।
  510. क. च.स्य भो ।
  511. ख. ग. घ. ङ. च. छ. ज. झ. सङ्गः शु।
  512. क. ख. ग. घ. E. ज. श. यकार ।
  513. ग, घ, ङ. च. ज. झ. यकार।
  514. ख. घ. इ. ज. "यकार'।
  515. ख. घ. ङ. छ. झ. स्थितत्वाद्रष्टा ।
  516. क. 'टा । त ।
  517. घ. छ. यः । यथा गगनेऽर्कः साक्षी द्रष्टैवमिति । त।
  518. क. घ. हित्वा ।
  519. क. ज. असुर्या ।
  520. ख. च. छ. ज, झ. पि नि ।
  521. घ. ङ, छ. क्षेत्री क्षेत्रं त ।
  522. क. "ण्डजस्वेदजो ।
  523. ग. इ. अ. "वतः स ।
  524. घ. झ. 'बतीत्यर्थः ॥ ७ ॥
  525. क, ख, ग, घ, ङ, च. छ. स. भ. श्चैव त ।
  526. च. ज. षयमुप ।
  527. क. ख.. छ, मल्पसु।
  528. ख. ग. ल. च. छ. र्यकर'।
  529. ख. ग. घ. छ. ज. रोऽस्य ।
  530. ख. घ. रु. धार्य प्र ।
  531. ग. व. छ. ज. न. 'नि सु ।
  532. ख. ग, घ. च. छ, प्रचाल्यते।
  533. ख, ग, घ. छ. ज. झ, ल्पकस'।
  534. ख. ’झभूयाय ।
  535. ङ, कल्पेत ।
  536. ग. ङ. भ. 'प्यत इत्य ।
  537. ङ. तजगढ़ ।
  538. ग, ङ, अ. 'दिना म ।
  539. झ. विष्टं प्रति भयालज्ज । ध. 'विष्टं मां ( भगवन्तं ) प्रति भयालज्ज' ।
  540. क. 'तिमया ।
  541. घ, ङ, च. छ. लोऽवाक्शा ।
  542. घ. अ. च, छ, अवाश्चो।
  543. क. घ. ङ, च. छ. 'त्यवाक्शा' ।
  544. क. च. घ. च. छ. ज. झ. चैव ।
  545. छ. 'व्यः सर्वभूतानां सकलपाणिनां जीवनो ब्र ।
  546. क. ख. च. छ. झ. ङ्गतुद्य ।
  547. ङ तमूर्वोन्मू ।
  548. क. नं वाऽवि' ।
  549. ज. 'सारवृक्षे स्थि ।
  550. ख, य. मनन्तत्वा ।
  551. क. ख. घ. 'मागित।
  552. ग. घ. ङ. च. छ. ज. झ क पा ।
  553. ख. राण्याह ।
  554. झ. यति-नि'।
  555. ख. ग, ड, त्र. सौम्य ।
  556. .क ग. घ. ह. च. छ ज. अ. र्तत इ।
  557. ज. वत उपभु।
  558. ख. ग. घ. ङ, च. छ. ज. झ, "णिनां भुक्तं ।
  559. क. न क्रमशो नि ।
  560. ख. ग. घ. ङ, चं. छ. श. ष्ट्राभिनि ।