पृष्ठम्:श्रीमद्भगवद्गीता.pdf/३७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३६६
[अ० १३ क्ष्लो ०५]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-



कर्मधारयः । तत्र विद्यासूत्राणि “आत्मेत्येवोपासीत" इत्यादीनि अविद्यासूत्राणि "न स वेद यथा पशुः” इत्यादीनि तैर्गीतमिति ॥ ४ ॥

 श्री०टी०-कैर्विस्तरेणोक्तस्यायं संक्षेप इत्यपेक्षायामाह-ऋषिभिरिति । ऋषिभिर्वसिष्ठादिमियोगशास्त्रेषु ध्यानधारणाविषयत्वेन वैराजादिरूपेण बहुधा गीतं निरूपितम् । विविधैश्च नित्यनैमित्तिककाम्यकर्मादिविषयैश्छन्दोभिर्दैर्नानायजनीयदेवतादिरूपेण बहुधा गीतम् । ब्रह्मणः सूत्रैः पदैश्च ब्रह्म सूत्र्यते सूच्यत एभिरिति ब्रह्मसूत्राणि “यतो वा इमानि भूतानि जायन्ते' इत्यादीनि तटस्थलक्षणपराण्युपनिषद्वाक्यानि । तथा च ब्रह्म पद्यते गम्यते साक्षाज्ज्ञायत एभिरिति पदानि स्वरूपलक्षणपराणि "सत्यं ज्ञानमनन्तं ब्रह्म' इत्यादीनि तैश्च बहुधा गीतम् । किं च हेतुमद्भिः “सदेव सोम्येदमग्र आसीत्कथमसतः सज्जायेत" इति, तथा "को ह्येवान्यात्कः प्राण्यात् , यदेष आकाश आनन्दो न स्यात, एष ह्येवाऽऽनन्दयाति" इत्यादियुक्तिमद्भिः, अन्यादपानचेष्टां कः कुर्यात्, प्राण्यात्प्राणानां व्यापारं को वा कुर्यादिति श्रुतिपदयोरर्थः । विनिश्चितैरुपक्रमोपसंहारैकवाक्यतयाऽसंदिग्धार्थप्रतिपादकैरित्यर्थः । तदेवमेतैर्विस्तरेणोक्तं दुःसंग्रहं संक्षेपतस्तुभ्यं कथयिष्यामि तच्छृण्वित्यर्थः । यद्वा, “अथातो ब्रह्मजिज्ञासा" इत्यादीनि ब्रह्मसूत्राणि गृह्यन्ते तान्येव ब्रह्म पद्यते निश्चीयत एभिरिति पदानि तैर्हेतुमद्भिः “ईक्षतेनाशब्दम्" " आनन्दमयोऽभ्यासात्" इत्यादिभियुक्तिमद्भिर्विनिश्चितार्थैः । शेष समानम् ॥ ४ ॥

 म०टी०-एवं प्ररोचितायार्जुनाय क्षेत्रवरूपं तावदाह द्वाभ्याम्-

महाभूतान्यहंकारो बुद्धिरव्यक्तमेव च ॥
इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः ॥५॥

 महान्ति भूतानि भूम्यादीनि पञ्च । अहंकारस्तत्कारणभूतोऽभिमानलक्षणः । बुद्धिरहंकारकारणं महत्तत्त्वमध्यवसायलक्षणम् । अव्यक्तं तत्कारणं सत्त्वरजस्तमोगुणात्मकं प्रधानं सर्वकारणं न कस्यापि कार्यम् । एवकारः प्रकृत्यवधारणार्थः । एतावत्येवाष्टधा प्रकृतिः । चशब्दो भेदसमुच्चयार्थः । तदेवं सांख्यमतेन व्याख्यातम् । औपनिषदानां तु अव्यक्तमव्याकृतमनिर्वचनीयं मायाख्या पारमेश्वरी शक्तिः । मम माया दुरत्ययेत्युक्तम् । बुद्धिः सर्गादौ तद्विषयमीक्षणम् । अहंकार ईक्षणानन्तरमहं बहु स्यामिति संकल्पः । तत. आकाशादिक्रमेण पञ्चभूतोत्पत्तिरिति । न ह्यव्यक्तमहदहंकाराः सांख्यसिद्धा औपनिषदैरुपगम्यन्तेऽशब्दत्वादिहेतुभिरिति स्थितम् । " मायां तु प्रकृति विद्यान्मायिनं तु महेश्वरम् ॥ " ते ध्यानयोगानुगता अपश्यन्देवात्मशक्तिं स्वगुणैर्निगूढाम्" इतिश्रुतिप्रतिपादितमव्यक्तम् । तदैक्षत" इतीक्षणरूपा बुद्धिः । " बहु स्यां प्रजायेय " इतिबहुभवनसंकल्परूपोऽहंकारः । " तस्माद्वा एतस्मादात्मन आकाशः