पृष्ठम्:श्रीमद्भगवद्गीता.pdf/४०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ० १४क्ष्लो०२६-२७]
४०१
श्रीमद्भगवद्गीता।


मां च योऽव्यभिचारेण भक्तियोगेन सेवते ॥
स गुणासमतीत्यैतान्ब्रह्मभूयाय कल्पते ॥ २६ ॥

 चस्त्वर्थः । मामेवेश्वरं नारायणं सर्वभूतान्तर्यामिणं मायया क्षेत्रज्ञतामागतं परमानन्दधनं भगवन्तं वासुदेवाव्यभिचारेण परमप्रेमलक्षणेन भक्तियोगेन द्वादशाध्यायोक्तेन यः सेवते सदा चिन्तयति स मद्भक्त एतान्प्रागृतान्गुणान्समतीत्व सम्यगतिक्रम्याद्वैतदर्शनेन बाधित्वा ब्रह्मभूयाय ब्रह्मभवनाय मोक्षाय कल्पते समर्थो भवति । सर्वदा भगवच्चिन्तनमेव गुणातीतत्वोपाय इत्यर्थः ॥ २६ ॥

 श्री०टी०-कथं चैतान्गुणानतिवर्तत इत्यस्य प्रश्नस्योत्तरमाह-~-मां चेति । चशब्दोऽवधारणार्थः । मामेव परमेश्वरं श्रीनारायणमव्यभिचारेणैकान्तभक्तियोगेन यः सेवते स एतान्गुणान्समतीत्य सम्यगतिक्रम्य ब्रह्मभूयाय ब्रह्मभावाय मोक्षाय कल्पते योग्यो भवति ॥ २६ ॥

 म०टी०-अत्र हेतुमाह-

ब्रह्मणो हि प्रतिष्ठाऽहममृतस्याव्ययस्य च ॥
शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च ॥२७॥

इति श्रीमहाभारते शतसाहस्यां संहितायां वैयासिक्यां

भीष्मपर्वणि श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां

योगशास्त्रे श्रीकृष्णार्जुनसंवादे गुणत्रय-

विभागयोगो नाम चतुर्दशोऽ-

ध्यायः ॥ १४॥

ब्रह्मणस्तत्पदवाच्यस्य सोपाधिकस्य जगदुत्पत्तिस्थितिलयहेतोः प्रतिष्ठा पारमार्थिकं निर्विकल्प[१]क सच्चिदानन्दात्मकं निरुपाधिकं तत्पदलक्ष्यमहं निर्विकल्पको वासुदेवः प्रतितिष्ठत्यत्रेति प्रतिष्ठा कल्पितरूपरहितमकल्पितं रूपम् । अतो यो मामनुपाधिकं ब्रह्म सेवते स ब्रह्मभूयाय कल्पत इति युक्तमेव । कीदृशस्य ब्रह्मणः प्रतिष्ठाऽहमित्याकाक्षायां विशेषणानि-अमृतस्य विनाशरहितस्य, अव्ययस्य विपरिणामरहितस्य च, शाश्वतस्यापक्षयरहितस्य च, धर्मस्य ज्ञाननिष्ठालक्षणधर्मप्राप्यस्य, सुखस्य परमानन्दरूपस्य । सुखस्य विषयेन्द्रियसंयोगज्ञत्वं वारयति-ऐकान्तिकस्याव्यभिचारिणः सर्वस्मिन्देशे काले च विद्यमानस्यैकान्तिकसुखरूपस्येत्यर्थः । एतादृशस्य ब्रह्मणो


  1. ख, ग, घ. छ. ज. झ, ल्पकस'।