पृष्ठम्:श्रीमद्भगवद्गीता.pdf/४०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४००
[अ०१४क्ष्लो०२४]
'मधुसूदनसरस्वतीश्रीधरस्वामिऋतटीकाभ्यां समेता-

प्र[१]च्याव्यते । अपि तु गुणा एव स्वकार्येषु वर्तन्ते । एतैर्मम संबन्ध एव नास्तीति विवेकज्ञानेन यस्तूष्णीमवतिष्ठति । परस्मैपदमार्षम् । नेङ्गते न चलति ॥ २३ ॥

समदुःखसुखः स्वस्थः समलोष्टाश्मकाञ्चनः ॥
तुल्यप्रियाप्रियो धीरस्तुल्यनिन्दात्मसंस्तुतिः ॥ २४ ॥

 म०टी०–समे दुःखसुखे द्वेषरागशून्यतयाऽनात्मधर्मतयाऽनृततया च यस्य स समदुः- खसुखः । कस्मादेवं यस्मात्स्वस्थः स्वस्मिन्नात्मन्येव स्थितो द्वैतदर्शनशून्यत्वात् । अत एव समानि हेयोपादेयभावरहितानि लोष्टाश्मकाञ्चनानि यस्य स तथा । लोष्टः पांसुपिण्डः अत एव तुल्ये प्रियाप्रिये सुखदुःखसाधने यस्य हितसाधनत्वाहितसाधनत्वबुद्धिविषयत्वाभावेनोपेक्षणीयत्वात् । धीरो धीमान्धृतिमान्वा । अत एव तुल्ये निन्दात्मसंस्तुती दोषकीर्तनगुणकीर्तने यस्य स गुणातीत उच्यत इति द्वितीयगतेनान्वयः ॥ २४ ॥

 श्री०टी०-अपि च-समेति । समे सुखदुःखे यस्य । यतः स्वस्थः स्वरूप एव स्थितोऽत एव समानि लोष्टाश्मकाञ्चनानि यस्य । तुल्ये प्रियाप्रिये सुखदुःखहेतुभूते यस्य । धीरो धीमान् । तुल्या निन्दा चाऽऽत्मसंस्तुतिश्च यस्य सः ॥ २४ ॥

मानापमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयोः ॥
सर्वारम्भपरित्यागी गुणातीतः स उच्यते ॥ २५ ॥

 म० टी० -मानः सत्कार आदरापरपर्यायः । अपमानस्तिरस्कारोऽनादरापरपर्यायः । तयोस्तुत्यो हर्षविषादशून्यः । निन्दास्तुती शब्दरूपे मानापमानौ तु शब्दमन्तरेणापि कायमनोव्यापारविशेषाविति भेदः । अत्र पकारवकारयोः पाठविकल्पेऽप्यर्थः स एव । तुल्यो मित्रारिपक्षयोः, मित्रपक्षस्येवारिपक्षस्यापि द्वेषाविषयः स्वयं तयोरनुग्रहनिग्रहशून्य इति वा । सर्वारम्भपरित्यागी, आरभ्यन्त इत्यारम्भाः कर्माणि तान्सर्वान्परित्यक्तुं शीलं यस्य स तथा, देहयात्रामात्रव्यतिरेकेण सर्वकर्मपरित्यागीत्यर्थः । उदासीनवदासीन इत्याद्युक्तप्रकाराचारो गुणातीतः स उच्यते । यदुक्तमुपेक्षकत्वादि तद्विद्योदयात्पूर्वं यत्नसाध्यं विद्याधिकारिणा साधनत्वेनानुष्ठेयमुत्पन्नायां तु विद्यायां जीवन्मुतस्य गुणातीतस्योक्तं धर्मजातमयत्नसिद्धं लक्षणत्वेन तिष्ठतीत्यर्थः ॥ २५ ॥

 श्री०टी०-अपि च-मानापमानयोरिति । मानेऽपमाने च तुल्यः । मित्रपक्षेऽरिपक्षे च तुल्यः सर्वान्दृष्टादृष्टार्थानारम्भानुद्यमान्परित्यक्तुं शीलं यस्य स एवंभूताचारयुक्तो गुणातीत उच्यते ॥ २५ ॥

 म० टी०-अधुना कथमेतान्गुणानतिवर्तत इति तृतीयप्रश्नस्य प्रतिवचनमाह-


  1. ख. ग, घ. च. छ, प्रचाल्यते।