पृष्ठम्:श्रीमद्भगवद्गीता.pdf/३४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ० ११क्ष्लो०२९-३०]
३३५
श्रीमद्भगवद्गीता।


 यथा नदीनामनेकमार्गप्रवृत्तानां बहवोऽम्बूनां जलानां वेगा वेगवन्तः प्रवाहाः समुद्राभिमुखाः सन्तः समुद्रमेव द्रवन्ति विशन्ति तथा तवामी नरलोकवीरा विशन्ति वक्त्राण्यभितः सर्वतो ज्वलन्ति । अभिविज्वलन्तीति वा पाठः ॥ २८ ॥

 श्री०टी०-प्रवेशमेव दृष्टान्तेनाऽऽह-यथेति । नदीनामनेकमार्गप्रवृत्तानां बहवोऽम्बूनां वारीणां वेगाः प्रवाहाः समुद्राभिमुखाः सन्तो यथा समुद्रमेव द्रवन्ति प्रविशन्ति तथाऽमी ये नरलोकवीरास्तेऽभिविज्वलन्ति सर्वतः प्रदीप्यमानानि तव वक्त्राणि प्रविशन्ति ॥ २८ ॥

 म०टी०-अबुद्धिपूर्वकप्रवेशे नदीवेगं दृष्टान्तमुक्त्वा बुद्धिपूर्वकप्रवेशे दृष्टान्तमाह-

यथा प्रदीप्तं ज्वलनं पतङ्गा
 विशन्ति नाशाय समृद्धवेगाः॥
तथैव नाशाय विशन्ति लोका-
 स्तवापि वक्त्राणि समृद्धवेगाः ॥२९॥

 यथा पतङ्गाः शलभाः समृद्धवेगाः सन्तो बुद्धिपूर्वं प्रदीप्तं ज्वलनं विशन्ति नाशाय मरणायैव तथैव नाशाय विशन्ति लोका एते दुर्योधनप्रभृतयः सर्वेऽपि तव वक्त्राणि समृद्धवेगा बुद्धिपूर्व[१]मनायत्या ॥ २९ ॥

 श्री०टी०-अवशत्वेन प्रवेशे नदी[२]वेगो दृष्टान्त उक्तः । बुद्धिपूर्वकप्रवेशे दृष्टान्तमाह-यथेति । प्रदीप्तं ज्वलनमग्निं पतङ्गाः [३]शलभा बुद्धिपूर्वक समृद्धो वेगो येषां ते यथा नाशाय मरणायैव विशन्ति तथैव लोका एते जना अपि तव मुखानि प्रविशन्ति ॥ २९ ॥

 म० टी०-योद्धुकामानां राज्ञां भगवन्मुखप्रवेशप्रकारमुक्त्वा तदा भगवतस्तद्भासां च प्रवृत्तिप्रकारमाह-

लेलिह्यसे ग्रसमानः समन्ता-
 लोकान्समग्रान्वदनैर्ज्वलद्भिः ॥
तेजोभिरापूर्य जगत्समग्रं
 भासस्तवोग्राः प्रतपन्ति विष्णो ॥३०॥

 एवं वेगेन प्रविशतो लोकान्दुर्योधनादीन्समग्रान्सर्वान्ग्रसमानोऽन्तः प्रवेशयज्वलद्भिर्वदनैः समन्तात्सर्वतस्त्वं लेलिह्यस आस्वादयसि तेजोभिर् भाभिरापूर्य जगत्समग्रं


  1. ग. 'वैकमित्याशयः ॥ २९ ॥
  2. ख, ग, घ, ङ, च. छ. ज, झ. 'वेग' ।
  3. क. भ. सक्ष्मपक्षिविशेषा।