श्री०टी०-अत्यन्तं भगवद्धर्मपरिनिष्ठायामशक्तस्य पक्षान्तरमाह-अथैतदपीति । यद्येतदपि कर्तुमशक्तोऽसि तर्हि मद्योगं मदेवशरणत्वमाश्रितः सन्सर्वेषां दृष्टार्थानामावश्यकानां चाग्निहोत्रादिकर्मणां फलानि नियतचित्तो भूत्वा परित्यज । एतदुक्तं भवति-मया तावदीश्वराज्ञया यथाशक्ति कर्माणि कर्तव्यानि फलं पुनदृष्टमदृष्टं वा परमेश्वराधीनमित्येवं मयि भारमारोप्य फलासक्तिं परित्यज्य वर्तमानो मत्प्रसादेन कृतार्थों भविष्यसीति ॥ ११ ॥
म०टी०-इदानीमत्रैव साधनविधानपर्यवसानादिमं सर्वकर्मफलत्यागं स्तौति-
श्रेयो हि ज्ञानमभ्यासाज्ज्ञानाद्धयानं विशिष्यते ॥ |
श्रेयः प्रशस्यतरं हि एव ज्ञानं शब्दयुक्तिभ्यामात्मनिश्चयोऽभ्यासाज्ज्ञानार्थश्रवणाभ्यासात्, ज्ञानाच्छ्रवणमननपरिनिष्पन्नादपि ध्यानं निदिध्यासनसंज्ञं विशिष्यतेऽतिशयितं भवति साक्षात्काराव्यवहितहेतृत्वात् । तदेवं सर्वसाधनश्रेष्ठं ध्यानं ततोऽप्यतिशयितत्वेनाज्ञकृतः कर्मफलत्यागः स्तूयते ध्यानाकर्मफलत्यागो विशिष्यत इत्यनुषज्यते । त्यागान्नियतचित्तेन पुंसा कृतात्सर्वकर्मफलत्यागाच्छान्तिरुपशमः सहेतुकस्य संसारस्यानन्तरमव्यवधानेन न तु कालान्तरमपेक्षते । अत्र-
" यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि स्थिताः । |
इत्यादिश्रुतिषु प्रजहाति यदा कामान्सर्वानित्यादिस्थितप्रज्ञलक्षणेषु च सर्वकामत्यागस्यामृतत्वसाधनत्वमवगतं, कर्मफलानि च कामास्तत्त्यागोऽपि कामत्यागत्वसामान्यात्सर्वकामत्यागफलेन स्तूयते । यथाऽगस्त्येन ब्राह्मणेन समुद्रः पीत इति, यथा वा जामदग्न्येन ब्राह्मणेन निःक्षत्रा पृथिवी कृतेति ब्राह्मणत्वसामान्यादिदानींतना अपि ब्राह्मणा अपरिमेयपराक्रमत्वेन स्तूयन्ते तद्वत् ॥ १२ ॥
श्री०टी०-तमिमं फलत्यागं स्तौति-श्रेयो हीति । सम्यग्ज्ञानरहितादभ्यासाद्युक्तिसहितोपदेशपूर्वकं ज्ञानं श्रेष्ठम् । तस्मादपि तत्पूर्वकं ध्यानं विशिष्टं "ततस्तु तं पश्यति निष्कलं ध्यायमानः" इति श्रुतेः। तस्मादपि उक्तलक्षणः कर्मफलत्यागः श्रेष्ठः । तस्मादेवभूतात्कर्मफलत्यागात्कर्मसु तत्फलेषु चाऽऽसक्तिनिवृत्या मत्प्रसादेन च समनन्तरमेव संसारशान्तिर्भवति ॥ १२ ॥
म० टी०–तदेवं मन्दमधिकारिणं प्रत्यतिदुष्करत्वेनाक्षरोपासननिन्दया सुकरं सगुणोपासनं विधायाशक्तितारतम्यानुवादेनान्यान्यपि साधनानि विदधौ भगवान्वासुदेवः कथं नु नाम सर्वप्रतिबन्धरहितः सन्नुत्तमाधिकारितया फलभूतायामक्षरविद्यायामवतरेदित्यभिप्रायेण साधनविधानस्य फलार्थत्वात् । तदुक्तम्-