पृष्ठम्:श्रीमद्भगवद्गीता.pdf/३६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३५६
[अ० १२ क्ष्लो०९-११]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-~


 म०टी०-इदानीं सगुणब्रह्मध्यानाशक्तानामशक्तितारतम्येन प्रथमं प्रतिमादौ बाह्ये भगवद्ध्यानाभ्यासस्तदशक्तौ भागवतधर्मानुष्ठानं तदशक्तौ सर्वकर्मफलत्याग इति त्रीणि साधनानि त्रिभिः श्लोकैर्विधत्ते-

अथ चित्तं समाधातुं न शक्रोषि मयि स्थिरम् ॥
अभ्यासयोगेन ततो मामिच्छाऽऽप्तुं धनंजय ॥ ९ ॥

 अथ पक्षान्तरे स्थिरं यथा स्यात्तथा चित्तं समाधातुं स्थापयितुं मयि न शक्नोषि चेत्तत एकस्मिन्प्रतिमादावालम्बने सर्वतः समाहृत्य चेतसः पुनः पुनः स्थापनमभ्यासस्तत्पूर्वको योगः समाधिस्तेनाभ्यासयोगेन मामाप्नुमिच्छ यतस्व हे धनंजय बहुञ्शत्रूञ्जित्वा धनमाहृतवानसि राजसूयाद्यर्थमेकं मनः शत्रुं जित्वा तत्वज्ञानधनमाहरिष्यसीति न तवाऽऽश्चर्यमिति संबोधनार्थः ॥ ९ ॥

 श्री०टी०-अत्राशक्तं प्रति सुगमोपायमाह-अथेति । स्थिरं यथा भवत्येवं मयि चित्तं धारयितुं यदि शक्तो न भवसि तर्हि विक्षिप्तं चित्तं पुनः पुनः प्रत्याह्रत्य ममानुस्मरणलक्षणो योऽभ्यासयोगस्तेन मां प्राप्तुमिच्छ प्रयत्नं कुरु ॥ ९ ॥

अभ्यासेऽप्यसमर्थोऽसि मत्कर्मपरमो भव ॥
मदर्थमपि कर्माणि कुर्वन्सिद्धिमवाप्स्यसि ॥ १० ॥

 म०टी०- मत्प्रीणनार्थं कर्म मत्कर्म श्रवणकीर्तनादिभागवतधर्मस्तत्परमस्तदेकनिष्ठो भव । अभ्यासासामध्ये मदर्थं भागवतधर्मसंज्ञकानि कर्माण्यपि कुर्वन्सिद्धिं ब्रह्मभावलक्षणां सत्त्वशुद्धिज्ञानोत्पत्तिद्वारेणावाप्स्यसि ॥ १० ॥

 श्री०टी०-यदि पु[१]नः-अभ्यास इति । अभ्यासेऽपि यद्यशक्तोऽसि तर्हि मत्प्रीत्यर्थानि यानि कर्माणि एकादश्युपवासवतचर्या नामसंकीर्तनादीनि तदनुष्ठानमेव परमं यस्य तादृशो भव । एवं भूतानि कर्माण्यपि मदर्थं कुर्वन्मोक्ष प्राप्स्यसि ॥ १० ॥

अथैतदप्यशक्तोऽसि कर्तु मद्योगमाश्रितः ॥
सर्वकर्मफलयागं ततः कुरु यतात्मवान् ॥ ११ ॥

 म०टी०-अथ बहिर्विषयाकृष्टचेतस्त्वादेतन्मत्कर्मपरत्वमपि कर्तुं न शक्नोषि ततो मद्योगं मदेकशरणत्वमाश्रितो मयि सर्वकर्मसमर्पण मद्योगस्तं वाऽऽश्रितः सन्यतात्मवान्यतः संयतसर्वेन्द्रिय आत्मवान्विवेकी च सन्सर्वकर्मफलत्यागं कुरु फलाभिसंधिं त्यजेत्यर्थः ॥ ११ ॥


  1. श. पुनरभ्यासेऽध्यसमर्थस्तार्ह मदर्थ कर्माणि कवित्याह-अ।