पृष्ठम्:श्रीमद्भगवद्गीता.pdf/३६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३५८
[अ०१२क्ष्लो०१३-१४]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


" निर्विशेषं परं ब्रह्म साक्षात्कर्तुमनीश्वराः ।
ये मन्दास्तेऽनुकम्प्यन्ते सविशेषनिरूपणैः ॥
वशीकृते मनस्येषां सगुणब्रह्मशीलनात् ।
तदेवाऽऽविवेत्साक्षादपेतोपाधिकल्पनम्" इति ॥

 भगवता पतञ्जलिना चोक्तं-" समाधिसिद्धिरीश्वरप्रणिधानात् " इति । " ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभावश्च " इति च । तत इतीश्वरप्रणिधानादित्यर्थः । तदेवमक्षरोपासननिन्दा सगुणोपासनस्तुतये न तु हेयतया, उदितहोमविधावनुदितहोमनिन्दावत् , “ न हि निन्दा निन्धं निन्दितुं प्रवर्ततेऽपि तु विधेयं स्तोतुम् " इति न्यायात् । तस्मादक्षरोपासका एव परमार्थतो योगवित्तमाः।

"प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः ।
उदाराः सर्व एवैते ज्ञानी त्वात्मैव मे मतम् ॥

 इत्यादिना पुनः पुनः प्रशस्ततमतयोक्तास्तेषामेव ज्ञानं धर्मजातं चानुसरणीयमधिकारमासाद्य त्वयेत्यर्जुनं बुवोधयिषुः परमहितैषी भगवानभेददर्शिनः कृतकृत्यानक्षरोपासकान्प्रस्तौति सप्तमिः-

अद्देष्टा सर्वभूतानां मैत्रः करुण एव च ॥
निर्ममो निरहंकारः समदुःखसुखः क्षमी ॥ १३ ॥

 सर्वाणि भूतान्यात्मत्वेन पश्यन्नात्मनो दुःखहेतावपि प्रतिकूलबुद्ध्यभावान्न द्वेष्टा सर्वभूतानां किं तु मैत्रो मैत्री स्निग्धता तद्वान् । यतः करुणः करुणा दुःखितेषु दया तद्वान्सर्वभूताभयदाता परमहंसपरिव्राजक इत्यर्थः । निर्ममो देहेऽपि ममेतिप्रत्ययरहितः । निरहंकारो वृत्तस्वाध्यायादिकृताहंकारान्निष्क्रान्तः । द्वेषरागयोरप्रवर्तकत्वेन समे दुःखसुखे यस्य सः । अत एव क्षमी, आक्रोशनताडनादिनाऽपि न विक्रियामापद्यते ॥ १३ ॥

 श्री० टी०एवंभूतस्य भक्तस्य क्षिप्रमेव परमेश्वरप्रसादहेतून्धर्मानाह---अद्वेष्टेत्यष्टमिः--सर्वभूतानां यथायथमद्वेष्टा मैत्रः करुणश्च, उत्तमेषु द्वेषशून्यः, समेषु मित्रतया वर्तत इति मैत्रः, हीनेषु कृपालुरित्यर्थः । निर्ममो निरहंकारश्च । कृपालुत्वादेवान्यैः सह समे सुखदुःखे यस्य सः । क्षमी क्षमावान् ॥ १३ ॥

 म०टी०-तस्यैव विशेषणान्तराणि-

संतुष्टः सततं योगी यतात्मा दृढनिश्चयः ॥
मय्यर्पितमनोबुद्धिर्यो मद्भक्तः स मे प्रियः ॥ १४ ॥

 सततं शरीरस्थितिकारणस्य लाभेऽलाभे च संतुष्ट उत्पन्नालंप्रत्ययः । तथा गुणव-