पृष्ठम्:श्रीमद्भगवद्गीता.pdf/४०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३९६
[अ०१क्ष्लो०१७-१८]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


सुखं फलमाहुः कपिलादयः । रजस इति राजसस्य कर्मण इत्यर्थः, कर्मफलकथनस्य प्रकृतत्वात् । तस्य दुःखं फलमाहुः । तमस इति तामसस्य कर्मण इत्यर्थः । तस्याज्ञानं मूढत्वं फलमाहुः । सात्त्विकादिकर्मलक्षणं च नियतं सङ्गरहितमित्यादिनाऽष्टादशे वक्ष्यति ॥ १६॥

 म० टी०-एतादृशफलवैचित्र्ये पूर्वोक्तमेव हेतुमाह----

सत्त्वात्संजायते ज्ञानं रजसो लोभ एव च ॥
प्रमादमोहौ तमसो भवतोऽज्ञानमेव च ॥ १७ ॥

 सर्वकरणद्वारकं प्रकाशरूपं ज्ञानं सत्त्वात्संजायते । अतस्तदनुरूपं सात्त्विकस्य कर्मणः प्रकाशबहुलं सुखं फलं भवति । रजसो लोभो विषयकोटिप्राप्त्याऽपि निवर्त. यितुमशक्योऽभिलाषविशेषो जायते । तस्य च निरन्तरमुपचीयमानस्य पूरयितुमशक्यस्य सर्वदा दुःखहेतुत्वात्तत्पूर्वकस्य राजसस्य कर्मणो दुःखं फलं भवति । एवं प्रमादमोहौ तमसः सकाशाद्भवतो जायेते । अज्ञानमेव च भवति । एवकारः प्रकाशप्रवृत्तिव्यावृत्त्यर्थः । अतस्तामसस्य कर्मणस्तामसमज्ञानादिप्रायमेव फलं भवतीति युक्तमेवेत्यर्थः । अत्र चाज्ञानमप्रकाशः । प्रमादो मोहश्चाप्रकाशोऽप्रवृत्तिश्चेत्यत्र व्याख्यातौ ॥ १७ ॥

 श्री०टी०--तत्रैव हेतुमाह-सत्वादिति । सत्त्वाज्ज्ञानं संजायते । अतः सात्त्विकस्य कर्मणः प्रकाशबहुलं सुखं फलं भवति । रजसो लोभो जायते । तस्य च दुःखहेतुत्वात्तत्पूर्वकस्य कर्मणो दुःखं फलं भवति । तमसस्तु प्रमादमोहाज्ञानानि भवन्ति । ततस्तामसस्य कर्मणोऽज्ञानप्रापकं फलं भवतीति युक्तमेवेत्यर्थः ॥ १७ ॥

 म० टी०-इदानीं सत्त्वादिवृत्तस्थानां प्रागुक्तमेव फलमूर्ध्वमध्याधोभावेनाऽऽह-

ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः ॥
जघन्यगुणवृत्तस्था अधो गच्छन्ति तामसाः॥१८॥

 अत्र तृतीये गुणे वृत्तशब्दप्रयोगादाययोरपि वृत्तमेव विवक्षितम् । तेन सत्त्वस्थाः सत्त्ववृत्ते शास्त्रीय ज्ञाने कर्मणि च निरता उर्ध्वं सत्यलोकपर्यन्तं देवलोकं गच्छन्ति ते देवेषूत्पद्यन्ते ज्ञानकर्मतारतम्येन । तथा मध्ये मनुष्यलोके पुण्यपापमिश्रे तिष्ठन्ति न तूर्ध्वं गच्छन्त्यधो वा मनुष्येषूत्पद्यन्ते राजसा रजोगुणवृत्ते लोभादिपूर्वके राजसे कर्माण निरताः । अन्यगुणवृत्तस्था जघन्यस्य गुणद्वयापेक्षया पश्चाद्भाविनो निकृष्टस्य तमसो गुणस्य वृत्ते निद्रालस्यादौ स्थिता अधो गच्छन्ति पश्वादिषूत्पद्यन्ते । कदाचि-


+ श्रीधरटीकामूले जघन्यगुणवृत्तिस्था इति पाठः ।