पृष्ठम्:श्रीमद्भगवद्गीता.pdf/४१२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ०१५ क्ष्लो३-४]
४०७
श्रीमद्भगवदीता।


अश्वत्थमेनं सुविरूढमूल-
मसङ्गशस्त्रेण दृढेन छित्त्वा ॥३॥

 इह संसा[१]रे स्थितैः प्राणिभिरस्य संसारवृक्षस्य यथा वर्णितमूर्ध्वमूलत्वादि तथा तेन प्रकारेण रूपं नोपलभ्यते स्वप्नमरीच्युदकमायागन्धर्वनगरवमृषात्वेन दृष्टनष्ट स्वरूपत्वात्तस्य । अत एव तस्यान्तोऽवसानं नोपलभ्यते । एतावता कालेन समाप्तिं गमिष्यतीति अपर्यन्तत्वात् । न चास्याऽऽदिरुपलभ्यते । इत आरभ्य प्रवृत्त इति अनादित्वात् । न च संप्रतिष्ठा स्थितिमध्यमस्योपलभ्यते । आद्यन्तप्रतियोगिकत्वात्तस्य । यस्मादेवंभूतोऽयं संसारवृक्षो दुरुच्छेदः सर्वानर्थकरश्च तस्मादनाद्यज्ञानेन सुविरूदमूलमत्यन्तबद्धमूलं प्रागुक्तमश्वत्थमेनमसङ्गशस्त्रेण सङ्गः स्पृहाऽसङ्गः सङ्गविरोधि वैराग्यं पुत्रवित्तलोकेषणात्यागरूपं तदेव शस्त्रं रागद्वेषमयसंसारविरोधित्वात् , तेनासङ्गशस्त्रेण दृढेन परमात्मज्ञानौत्सुक्यदृढीकृतेन पुनःपुनर्विवेकाभ्यासनिशितेन च्छित्त्वा समूलमुद्धृत्य वैराग्यशमदमादिसंपत्त्या सर्वकर्मसंन्यासं कृत्वेत्येतत् ॥ ३ ॥

 श्री०टी०---किं च-न रूपमस्येति । इह संसारे स्थितैः प्राणिभिरस्य संसारवृक्षस्य तथोर्ध्वमूलत्वादिप्रकारेण रूपं नोपलभ्यते । न चान्तोऽवसान[२]मपर्यन्तत्वात् । नचाऽऽदिरनादित्वात् । न च संप्रतिष्ठा स्थितिः कथं तिष्ठतीति न चोपलभ्यते । यस्मादेवभूतत्वादयं संसारवृक्षो दुरुच्छेद्योऽनर्थकरश्च तस्मादेनं दृढेन वैराग्येण शस्त्रेण च्छित्त्वा तत्त्वज्ञाने यतेतेत्याह-अश्वत्थमेनमिति सार्धेन । एनमश्वत्थं सुविरूढमूलमत्यन्तं बद्धमूलं सन्तमसङ्गः सङ्गराहित्यमहंममतात्यागस्तेन शस्त्रेण दृढेन सम्यग्वि चारवता छित्त्वा पृथक्कृत्य ॥ ३ ॥

ततः पदं तत्परिमार्गितव्यं
 यस्मिन्गता न निवर्तन्ति भूयः ॥
तमेव चाऽऽद्य पुरुषं प्रपद्ये
 यतः प्रवृत्तिः प्रसूता पुराणी ॥४॥

 म०टी०-ततो गुरुमुपसृत्य ततोऽश्वत्थादूर्ध्वं व्यवस्थितं तद्वैष्णवं पदं वेदान्तवाक्यविचारेण परिमार्गितव्यं मार्गयितव्यमन्वेष्टव्यं “सोऽन्वेष्टव्यः स विजिज्ञासितव्यः" इति श्रुतेः । तत्पदं श्रवणादिना ज्ञातव्यमित्यर्थः । किं तत्पदं यस्मिन्पदे गताः प्रविष्टा ज्ञानेन न निवर्तन्ति नाऽऽवर्तन्ते भूयः पुनः संसाराय । कथं तत्परिमा[३]र्गयितव्यमित्याह-~-यः पदशब्देनोक्तस्तमेव चाऽऽद्यमादौ भवं पुरुषं येनेदं सर्वं पूर्णं तं


  1. ज. 'सारवृक्षे स्थि ।
  2. ख, य. मनन्तत्वा ।
  3. क. ख. घ. 'मागित।