पृष्ठम्:श्रीमद्भगवद्गीता.pdf/३९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३९२
[अ०१ क्ष्लो०८-९]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


स्वरूपं यस्य धर्मधर्मिणोस्तादात्म्यात्तद्रागात्मकं रजो विद्धि । अत एवाप्राप्ताभिलाषस्तृष्णा, प्राप्तस्योपस्थितेऽपि विनाशे संरक्षणाभिलाष आसङ्गस्तयोस्तृष्णासङ्गयोः संभवो यस्मात्तद्रजो निबध्नाति हे कौन्तेय कर्मसङ्गेन कर्मसु दृष्टादृष्टार्थेषु अहमिदं करोस्येतत्फलं भोक्ष्य इत्यभिनिवेशविशेषेण देहिनं वस्तुतोऽकर्तारमेव कर्तृत्वाभिमानिनं रजसः प्रवृत्तिहेतुत्वात् ॥ ७ ॥

 श्री०टी०-रजसो लक्षणं बन्धकत्वं चाऽऽह-रजो रागेति । रजःसंज्ञकं गुणं रागात्मकमनुरञ्जनरूपं विद्धि । अत एव तृष्णासङ्गसमुद्भवं तृष्णाऽप्राप्तेर्थेऽभिलाषः सङ्गः प्राप्तेऽर्थे प्रीतिर्विशेषेणाऽऽसक्तिस्तयोस्तृष्णासङ्गयोः समुद्भवो यस्मात्तद्रजो देहिनं दृष्टादृष्टार्थेषु कर्मसु सङ्गेनाऽऽसक्त्या नितरां बध्नाति । तृष्णासङ्गाभ्यां हि कर्मस्वासक्तिर्भवति[१] ॥ ७॥

तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम् ॥
प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत ॥ ८ ॥

 म०टी०-तुशब्दः सत्त्वरजोपेक्षया विशेषद्योतनार्थः । अज्ञानादावरणशक्तिरूपादुद्रूतमज्ञानजं तमो विद्धि । अतः सर्वेषां देहिनां मोहनमविवेकरूपत्वेन भ्रान्तिजनकम् । प्रमादेनाऽऽलस्येन निद्रया च तत्तमो निबध्नाति, देहिनमित्यनुषज्यते, हे भारत । प्रमादो वस्तुविवेकासामर्थ्यं सत्त्वकार्यप्रकाशविरोधी । आलस्यं प्रवृत्त्यसामर्थ्य रजःकार्यप्रवृत्तिविरोधि । उभयविरोधिनी तमोगुणालम्बना वृत्तिर्निद्रेति विवेकः ॥ ८॥

 श्री०टी०-तमसो लक्षणं बन्धकत्वं चाऽऽह-तम इति । तमस्तु अज्ञानाजातमावरणशक्तिप्रधानात्प्रकृत्यंशादुद्भुतं विद्धीत्यर्थः । अतः सर्वेषां देहिनां मोहनं भ्रान्तिजनकम् । अत एव प्रमादेनाऽऽलस्येन निद्रया च तत्तमो देहिनं निबध्नाति । तत्र प्रमादोऽनवधानम् । आलस्यमनुद्यमः । निद्रा चित्तस्यावासादाल्लयः ॥ ८ ॥

 म०टी०-उक्तानां मध्ये कस्मिन्कार्ये कस्य गुणस्योत्कर्ष इति तत्राऽऽह-

सत्त्वं सुखे सञ्जयति रजः कर्मणि भारत ॥
ज्ञानमावृत्य तु तमः प्रमादे सञ्जयत्युत ॥ ९॥

 सत्त्वमुत्कृष्टं सत्सुखे सञ्जयति दुःखकारणमभिभूय सुखे संश्लेषयति । सर्वत्र देहिनमित्यनुषज्यते । एवं रज उत्कृष्टं सत्सुखकारणमभिभूय कर्मणि, सञ्जयतीत्यनुषज्यते । तमस्तु प्रमादबलेनोत्पद्यमानमपि सत्त्वकार्यं ज्ञानमावृत्याऽऽच्छाद्य प्रमादे प्राप्तज्ञायमानताकस्याप्यज्ञाने सञ्जयति उतापि प्राप्तकर्तव्यताकस्याप्यकरण आलस्ये तामस्यां च निद्रायां सञ्जयतीत्यर्थः ॥ ९ ॥


  1. घ. झ. 'बतीत्यर्थः ॥ ७ ॥