पृष्ठम्:श्रीमद्भगवद्गीता.pdf/३४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३३८
[अ०११क्ष्लो०३]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


प्रायाः । तथाऽपि त्वं निमित्तमात्रं भव हे सव्यसाचिन्सव्येन वामेन हस्तेन सचितुं[१] संधातुं शी[२]लं यस्येति व्युत्पत्त्या वामेनापि बाणक्षेपात्सव्यसाचीत्युच्यते ॥ ३३ ॥

 म०टी०-ननु द्रोणो ब्राह्मणोत्तमो धनुर्वेदाचार्यों मम गुरुर्विशेषेण च दिव्यास्त्रसंपन्नस्तथा भीष्मः स्वच्छन्दमृत्युदिव्यास्त्रसंपन्नश्च परशुरामेण द्वंद्वयुद्धमुपगम्यापि न पराजितस्तथा यस्य पिता वृद्धक्षत्रस्तपश्चरति मम पुत्रस्य शिरो यो भूमौ पातयिष्यति तस्यापि शिरस्तत्कालं भूमौ पतिष्यतीति स जयद्रथोऽपि जेतुमशक्यः स्वयमपि महादेवाराधनपरो दिव्यास्त्रसंपन्नश्च तथा कर्णोऽपि स्वयं सूर्यसमस्तदाराधनेन दिव्यास्त्रसंपन्नश्च वासवदत्तया चैकपुरुषधातिन्या मोघीकर्तुमशक्यया शक्त्या विशिष्टस्तथा कृपाश्वत्थामभूरिश्रवःप्रभृतयो महानुभावाः सर्वथा दुर्जया एवैतेषु सत्सु कथं जित्वा शत्रून्राज्यं भोक्ष्ये कथं वा यशो लप्स्य इत्याशङ्कामर्जुनस्यापनेतुमाह तदाशङ्काविषयान्नामभिः कथयन्

द्रोणं च भीष्मं च जयद्रथं च
 कर्ण तथाऽन्यानपि योध[३]वीरान् ॥
मया हतांस्त्वं जहि मा व्यथिष्ठा
 युध्यस्व जेतासि रणे सपत्नान् ॥ ३४ ॥

 द्रोणादीस्त्वदाशङ्काविषयीभूतान्सर्वानेव योधवीरान्कालात्मना मया हतानेव त्वं जहि । हतानां हनने को वा परिश्रमः । अतो मा व्यथिष्ठाः कथमेवं शक्ष्यामीति व्यथां भयनिमित्तां पीडां मा गा भयं त्यक्त्वा युध्यस्व, जेतासि जेष्यस्यचिरेणैव रणे सङ्ग्रामे सपत्नान्सर्वानपि शत्रून् । अत्र द्रोणं च भीमं च जयद्रथं चेति चकास्ररयेण पूर्वोक्ताजेयत्वशङ्काऽनूद्यते । तथाशब्देन कर्णेऽपि । अन्यानपि योधवीरानित्यत्रापिशब्देन । तस्मात्कुतोऽपि स्वस्य पराजयं वधनिमित्तं पापं च मा शङ्किष्ठा इत्यभिप्रायः ।

" कथं भीष्ममहं संख्ये द्रोणं च मधुसूदन ।
इषुमिः प्रतियोत्स्यामि पूजार्हा

 इत्यत्रेवात्रापि समुदायान्वयानन्तरं प्रत्येकान्वयो द्रष्टव्यः ॥ ३४ ॥

 श्री० टी०-न चैतद्विद्मः कतरन्नो गरीयः" इत्यादिर्या शङ्का साऽपि न कार्यत्याह-द्रोणं चेति । येभ्यस्त्वं शङ्कसे तान्द्रोणादीन्मयैव हतांस्त्वं जहि घातय, मा व्यथिष्ठा भयं मा कार्षीः, सपत्ना शत्रून्रणे युद्धे निश्चितं जेतासि जेष्यसि ॥ ३४ ॥


  1. क. "तुं शरान्संधा ।
  2. ख. ग. घ. इ. च. छ. ज. झ. शीलमस्थे ।
  3. क. ख. ङ. छ.'धमुख्यान् ।