पृष्ठम्:श्रीमद्भगवद्गीता.pdf/४२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४१६
[अ०१५क्ष्लो० १७-१८]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


त्तमत्वेन प्रतिपाद्यत्वात् । तस्मात्क्षराक्षरशब्दाम्यां कार्यकारणोपाधी उभावपि जडावेवोच्येते इत्येव युक्तम् ॥ १६ ॥

 श्री०टी०- इदानीं तद्धाम परमं ममेति यदुक्तं स्वकीयं सर्वोत्कृष्टं स्वरूपं तद्दर्शयति-द्वाविमाविति त्रिभिः । क्षरश्वाक्षरश्चेति द्वाविमौ पुरुषौ लोके प्रसिद्धौ । तावेवाऽऽह तत्र क्षरः पुरुषो नाम सर्वाणि भूतानि ब्रह्मादिस्थावरान्तानि शरीराणि अविवेकिलोकस्य शरीरेष्वेव पुरुषत्वप्रसिद्धः । कूटः शिलाराशिः पर्वत इव देहेषु नश्यत्स्वपि निर्विकारतया तिष्ठतीति कूटस्थश्चेतनो भोक्ता । स तु अक्षरः पुरुष इत्युच्यते विवेकिभिः ॥ १६ ॥

 म०टी०-आभ्यां क्षराक्षराम्यां विलक्षणः क्षराक्षरोपाधिद्वयदोषेणास्पृष्टो नित्य- शुद्धबुद्धमुक्तस्वभावः-

उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः ॥
यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ॥ १७ ॥

 उत्तम उत्कृष्टतमः पुरुषस्त्वन्योऽन्य एवात्यन्तविलक्षण आभ्यां क्षराक्षराभ्यां जङराशिम्यामुभयभासकस्तृतीयश्चेतनराशिरित्यर्थः । परमात्मेत्युदात्तोऽन्नमयप्राणमयमनोमयविज्ञानमयानन्दमयेभ्यः पञ्चभ्योऽविद्याकल्पितात्मभ्यः परमः प्रकृष्टोऽकल्पितो ब्रह्म पुच्छं प्रतिष्ठेत्युक्त आत्मा च सर्वभूतानां प्रत्यक्चेतन इत्यतः परमात्मेत्युक्तो वेदान्तेषु । यः परमात्मा लोकत्रयं भूर्भुवःस्वराख्यं सर्वं जगदिति यावत् । आविश्य स्वकीयया मायाशक्त्याऽधिष्ठाय विभर्ति सत्तास्फूर्तिप्रदानेन धारयति- पोषयति च । कीदृशः , अव्ययः सर्वविकारशून्य ईश्वरः सर्वस्य नियन्ता नारायणः स उत्तमः पुरुषः परमात्मेत्युदात्त इत्यन्वयः । स उत्तमः पुरुष इति श्रुतेः ॥ १७ ॥

 श्री०टी०-यदर्थमेतौ लक्षितौ तमाह--उत्तम इति । एताभ्यां क्षराक्षराम्यामन्यो विलक्षणस्तूत्तमः पुरुषः । वैलक्षण्यमेवाऽऽह-परमश्चासावात्मेति चोदाहृत उक्तः श्रुतिभिः । आत्मत्वेन क्षरादचेतनाद्विलक्षणः परमत्वेनाक्षराचेतनाभोक्तुर्विलक्षण इत्यर्थः । परमात्मत्वमेव दर्शयति-यो लोकत्रयमिति । य ईश्वर ईशनशीलोऽव्ययश्च निर्विकार एव सल्लोकत्रयं कृत्स्नमाविश्य बिभर्ति पालयति ॥ १७ ॥

 म०टी०-इदानीं यथाव्याख्यातेश्वरस्य क्षराक्षरविलक्षणस्य पुरुषोत्तम इत्येतत्प्रसिद्धनामनिर्वचनेनेदृशः परमेश्वरोऽहमेवेत्यात्मानं दर्शयति भगवान्ब्रह्मणो हि प्रतिष्ठाऽहं तद्धाम परमं ममेत्यादिप्रागुक्तनिजमहिमनिर्धारणाय-

यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः ॥
अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥ १८ ॥