पृष्ठम्:श्रीमद्भगवद्गीता.pdf/४००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ०१४क्ष्लो०१५-१६]
३९५
श्रीमद्भगवद्गीता।


 सत्त्वे प्रवृद्धे सति यदा प्रलयं मृत्युं याति प्राप्नोति देहमुद्देहाभिमानी जीवः, तदोत्तमा ये हिरण्यगर्भादयस्तद्विदां तदुपासकानां लोकान्देवसुखोपभोगस्थानविशेषानमलान्रजस्तमोमलरहितान्प्रतिपद्यते प्राप्नोति ॥ १४ ॥

 श्री०टी०-मरणसमय एव वृद्धानां सत्त्वादीनां फलविशेषमाह यदेति द्वाभ्याम्सत्त्वे प्रवृद्धे सति यदा जीवो मृत्यु प्राप्नोति तदोत्तमान्हिरण्यगर्भादीन्विदन्ति उपासत इत्युत्तमविदस्तेषां येऽमलाः प्रकाशमया लोकाः सुखोपभोगस्थानविशेषास्तान्प्रतिपद्यते प्राप्नोति ॥ १४ ॥

रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते ॥
तथा प्रलीनस्तमसि मूढयोनिषु जायते ॥ १५ ॥

 म० टी०-रजसि प्रवृद्धे सति प्रलयं मृत्युं गत्वा प्राप्य कर्मसङ्गिषु श्रुतिस्मृतिविहितप्रतिषिद्धकर्मफलाधिकारिषु मनुष्येषु जायते । तथा तद्वदेव तमसि प्रवृद्धे प्रलीनो मृतो मूढयोनिषु पश्वादिषु जायते ॥ १५ ॥

 श्री० टी०-किं च-रजसीति । रजसि प्रवृद्धे सति मृत्युं प्राप्य कर्मासक्तेषु मनुष्येषु जायते । तथा तमसि प्रवृद्धे सति प्रलीनो मृतो मूढयोनिषु पश्चादिषु जायते ॥ १५ ॥

 म०टी०-इदानीं स्वानुरूपकर्मद्वारा सत्त्वादीनां विचित्रफलतां संक्षिप्याऽऽह-

कर्मणः सुकृतस्याऽऽहुः सात्त्विकं निर्मलं फलम् ॥
रजसस्तु फलं दुःखमज्ञानं तमसः फलम् ॥ १६ ॥

 सुकृतस्य सात्त्विकस्य कर्मणो धर्मस्य सात्त्विकं सत्त्वेन निर्वृत्तं निर्मलं रजस्तमोमलामिश्रितं सुखं फलमाहुः परमर्षयः । रजसो राजसस्य तु कर्मणः पापमिश्रस्य पुण्यस्य फलं राजसं दुःखं दुःखबहुल[१]मल्पं सुखं कारणानुरूप्यात्कार्यस्य । अज्ञानमविवेकप्रायं दुःखं तामसं तमसस्तामसस्य कर्मणोऽधर्मस्य फलम् । आहुरित्यनुषज्यते । सात्त्विकादिकर्मलक्षणं च नियतं सङ्गरहितमित्यादिनाऽष्टादशे वक्ष्यति । अत्र रजस्तमः शब्दौ तत्कार्ये कर्मणि प्रयुक्तौ कार्यकारणयोरभेदोपचारात् । “ गोभिः श्रीणीत मत्सरम्" इत्यत्र यथा गोशब्दस्तत्प्रभवे पयसि, यथा वा “ धान्यमसि धिनुहि देवान् " इत्यत्र धान्यशब्दस्तत्प्रभवे तण्डुले तत्र पयस्तण्डुलयोरिवात्रापि कर्मणः प्रकृतत्वात् ॥ १६ ॥

 श्री० टी०-इदानीं सत्त्वादीनां स्वानुरूपकर्मद्वारेण विचित्रफलहेतुत्वमाह--कर्मण इति । सुकृतस्य सात्त्विककर्मणः सात्त्विकं सत्त्वप्रधानं निर्मलं प्रकाशबहुलं


  1. क. ख.. छ, मल्पसु।