पृष्ठम्:श्रीमद्भगवद्गीता.pdf/३९९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३९४
[अ०१४श्लो०१२-१४]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


त्मकः प्रकाश उपजायत उत्पद्यते तदाऽनेन प्रकाशलिङ्गेन सत्त्वं विवृद्धं विद्याजानीयात् । उतशब्दात्सुखादिलिङ्गेनापि जानीयादित्युक्तम् ॥ ११ ॥

लोभः प्रवृत्तिरारम्भः कर्मणामशमः स्पृहा ॥
रजस्येतानि जायन्ते विवृद्वे भरतर्षभ ॥ १२॥

 म० टी०-~-महति धनागमे जायमानेऽप्यनुक्षणं वर्धमानस्तदभिलाषो लोभः स्वविषयप्राप्त्यनिवर्त्य इच्छाविशेष इति यावत् । प्रवृत्तिर्निरन्तरं प्रयतमानता । आरम्भः कर्मणां बहुवित्तव्ययायासकराणां काम्यनिषिद्धलौकिकमहागृहादिविषयाणां व्यापाराणामुद्यमः । अशम इदं कृत्वेदं करिष्यामीतिसंकल्पप्रवाहानुपरमः । स्पृहोच्चावचेषु परधनेषु दृष्टमात्रेषु येन केनाप्युपायेनोपादित्सा । रजासि रागात्मके विवृद्ध एतानि रागात्मकानि लिङ्गानि जायन्ते हे भरतर्षभ । एतैर्लिङ्गैर्विवृद्धं रजो जानीयादित्यर्थः ॥ १२॥

 श्री०टी०-किं च-लोभ इति । लोभो धनाद्यागमे बहुधा जायमानेऽपि पुनः पुनर्वर्धमानोऽभिलाषः । प्रवृत्तिर्नित्यं कुर्वद्रूपता । कर्मणामारम्भो गृहादिनिर्माणोद्यमः । अशम इदं कृत्वेदं करिष्यामीत्यादिसंकल्पविकल्पानुपरमः । स्पृहोच्चावचेषु दृष्टमात्रेषु वस्तुष्वितस्ततो जिघृक्षा । रजसि प्रवृद्धे सति एतानि लिङ्गानि जायन्ते । एतैर्लिङ्गैः रजोगुणस्य वृद्धिं विद्यादित्यर्थः ॥ १२ ॥

अप्रकाशोऽप्रतिश्च प्रमादो मोह एव च ॥
तमस्येतानि जायन्ते विवृद्धे कुरुनन्दन ॥ १३॥

 म०टी०-अप्रकाशः सत्यप्युपदेशादौ बोधकारणे सर्वथा बोधायोग्यत्वम् । अप्रवृत्तिश्च सत्यप्यग्निहोत्रं जुहुयादित्यादौ प्रवृत्तिकारणे जनितबोधेऽपि शास्त्रे सर्वथा तत्प्रवृत्त्ययोग्यत्त्वम् । प्रमादस्तत्कालकर्तव्यत्वेन प्राप्तस्यार्थस्यानुसंधानाभावः । मोह एव च मोहो निद्रा विपर्ययो वा । चौ समुच्चये । एवकारो व्यभिचारवारणार्थः । तमस्येव विवृद्ध एतानि लिङ्गानि जायन्ते हे कुरुनन्दन । अत एतैर्लिङ्गैरव्यभिचारिभिर्विवृद्धं तमो जानीयादित्यर्थः ॥ १३ ॥

 श्री० टी०-किं च-अप्रकाश इति । अप्रकाशो विवेकभ्रंशः । अप्रवृत्तिर- नुद्यमः | प्रमादः कर्तव्यार्थानुसंधानराहित्यम् । मोहो मिथ्याभिनिवेशः । तमसि प्रवृद्ध एतानि लिङ्गानि जायन्ते । एतैस्तमसो वृद्धिं जानीयादित्यर्थः ॥ १३ ॥

 म०टी०- इदानीं मरणप्तमये विवृद्धानां सत्त्वादीनां फलविशेषमाह द्वाभ्याम् ---

यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत् ॥
तदोत्तमविदां लोकानमलान्प्रतिपद्यते ॥ १४ ॥