पृष्ठम्:श्रीमद्भगवद्गीता.pdf/३६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ० १२क्ष्लो०१९-२०]
३६१
श्रीमद्भगवद्गीता।


तुल्यनिन्दास्तुतिर्मौनी संतुष्टो येन केनचित् ॥
अनिकेतः स्थिरमतिर्भक्तिमान्मे प्रियो नरः ॥ १९ ॥

 निन्दा दोषकथनम् । स्तुतिर्गुणकथनम् । ते दुःखसुखाजनकतया तुल्ये यस्य स तथा । मौनी संयतवाक् । ननु शरीरयात्रानिर्वाहाय वाग्व्यापारोऽपेक्षित एवं नेत्याह- संतुष्टो येन केनचित् । स्वप्रयत्नमन्तरेणैव बलवत्प्रारब्धकर्मोपनीतेन शरीरस्थितिहेतुमात्रेणाशनादिना संतुष्टो निवृत्तस्पृहः । किं च-अनिकेतो नियतनिवासरहितः । स्थिरा परमार्थवस्तुविषया मतिर्यस्य स स्थिरमतिः । ईदृशो यो भक्तिमान्स मे प्रियो नरः । अत्र पुनः पुनर्भक्तरुपादानं भक्तिरेवापवर्गस्य पुष्कलं कारणमिति द्रढयितुम् ॥ १९ ॥

 श्री०टी०-तुल्येति । तुल्ये निन्दास्तुती यस्य, मौनी संयतवाक् । येन केनचिद्यथालब्धेन संतुष्टः । अनिकेतो नियतवासशून्यः । स्थिरमतिर्व्यवस्थितचित्तः । एवंभूतो भक्तिमान्मे प्रियो नरः ॥ १९ ॥

 म०टी०-अद्वेष्टेत्यादिनाऽक्षरोपासकादीनां जीवन्मुक्तानां संन्यासिनां लक्षण- भूतं स्वभावसिद्धं धर्मजातमुक्तम् । यथोक्तं वार्तिके-

उत्पन्नात्मावबोधस्य ह्यद्वेष्टुत्वादयो गुणाः ।
अयत्नतो भवन्त्येव न तु साधनरूपिणः " इति ॥

 एतदेव च पुरा स्थितप्रज्ञलक्षणरूपेणाभिहितम् । तदिदं धर्मजातं प्रयत्नेन संपाद्य- मानं मुमुक्षोर्मोक्षसाधनं भवतीति प्रतिपादयन्नुपसंहरति-

ये तु ध [१] र्मामृतमिदं यथोक्तं पर्युपासते ॥
श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रियाः ॥२०॥

इति श्रीमहाभारते शतसाहस्यां संहितायां वैयासिक्यां

भीष्मपर्वणि श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां

योगशास्त्रे श्रीकृष्णार्जुनसंवादे भक्ति-
योगो नाम द्वादशोऽध्यायः ॥ १२ ॥

 ये तु संन्यासिनो मुमुक्षवो धर्मामृतं ध[२]र्मरूपममृतत्वसाधनत्वादमृतवदास्वाद्यत्वाद्वेद यथोक्तमद्वेष्टा सर्वभूतानामित्यादिना प्रतिपादितं पर्युपासतेऽनुतिष्ठन्ति प्रयत्नेन श्रद्द-


+ श्रीधरटीकामूलपुस्तकेषु च. छ. ज, झ. संशितेषु धामृतमिति पाठः ।


  1. ग. घ. ज. धामृ ।
  2. म. घ. ज. धामृ ।