पृष्ठम्:श्रीमद्भगवद्गीता.pdf/३५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३४६
[अ० ११क्ष्लो ०४७-४८]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-

यद्वा-एतावन्तं कालं ये त्वां किरीटिनं गदिनं चक्रिणं च सुप्रसन्नमपश्यं तमेवेदानीं तेजोराशिं दुर्निरीक्ष्यं पश्यामीत्येवं तत्र वचनव्यक्तिरित्यविरोधः ॥ ४६ ॥

 म० टी०-एवमर्जुनेन प्रसादितो भयबाधितमर्जुनमुपलभ्योपसंहृत्य विश्वरूपमुचितेन वचनेन तमाश्वासयंस्त्रिभिः-

श्रीभगवानुवाच-
  मया प्रसन्नेन तवार्जुनेदं
   रूपं परं दर्शितमात्मयोगात् ॥
  तेजोमयं विश्वमनन्तमाद्यं
   यन्मे त्वदन्येन न दृष्टपूर्वम् ॥४७॥

 हेऽर्जुन मा भैषीः । यतो मया प्रसन्नेन त्वद्विषयकृपातिशयवतेदं विश्वरूपात्मकं परं श्रेष्ठं रूपं तव दर्शितमात्मयोगादसाधारणान्निजसामर्थ्यात् । परत्वं विवृणोति तेजोमयं तेजःप्रचुरं विश्वं समस्तमनन्तमाय च यन्मम रूपं त्वदन्येन केनापि न दृष्टपूर्वं पूर्वं न दृष्टम् ॥ ४७ ॥

 श्री० टी०-एवं प्रार्थितः संस्तमाश्वासयश्रीभगवानुवाच मयेति त्रिभिः-हेऽर्जुन किमिति त्वं बिभेषि यतो मया प्रसन्नेन कृपया तवेदं परमुत्तमं रूपं दर्शितम् , आत्मनो मम योगाद्योगमायासामर्थ्यात् । परत्वमेवाऽऽह तेजोमयं विश्वं विश्वात्मकमनन्तमाद्यं च यन्मम रूपं त्वदन्येन त्वादृशाद्भक्तादन्येन न पूर्वं दृष्टं तत् ॥ ४७ ॥

 म० टी०-एतद्रूपदर्शनात्मकमतिदुर्लभं मत्प्रसादं लब्ध्वा कृतार्थ एवासि त्वमित्याह--

न वेदयज्ञाध्ययनैर्न दानै-
 र्न च क्रियाभिर्न तपोभिरूग्रैः॥
एवंरूपः शक्य अहं नृलोके
 द्रष्टुं त्वदन्येन कुरुप्रवीर ॥ ४८॥

 वेदानां चतुर्णामपि अध्ययनैरक्षरग्रहणरूपैः, तथा मीमांसाकल्पसूत्रादिद्वारा यज्ञानां वेदबोधितकर्मणामध्ययनैरर्थविचाररूपैर्वेदयज्ञाध्ययनैः, दानस्तुलापुरुषादिभिः, क्रियाभिरग्निहोत्रादिश्रौतकर्मभिः, तपोभिः कृच्छ्रचान्द्रायणादिभिरुग्रैः कायेन्द्रियशोषकत्वेन दुष्करैरेवंरूपोऽहं न शक्यो नृलोके मनुष्यलोके द्रष्टुं त्वदन्येन मदनुग्रहहीनेन हे कुरुप्रवीर । शक्योऽहमिति वक्तव्ये विसर्गलोपश्छान्दसः । प्रत्येकं नकाराभ्यासो निषेधदार्ढ्याय । न च क्रियाभिरित्यत्र चकारानुक्तसाधनान्तरसमुच्चयः ॥ ४८ ॥