पृष्ठम्:श्रीमद्भगवद्गीता.pdf/३९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ० १क्ष्लो०६-७]
३९१
श्रीमद्भगवद्गीता।


तादात्म्याध्यासापन्नं जीवं परमार्थतः सर्वविकारशून्यत्वेनाव्ययं निबध्नन्ति निर्विकारमेव सन्तं स्वविकारवत्तयोपदर्शयन्तीव भ्रान्त्या जलपात्राणीव दिवि स्थितमादित्यं प्रतिबिम्बाध्यासेन स्वकम्पादिमत्तया । यथा च पारमार्थिको बन्धो नास्ति तथा व्याख्यातं प्राक्---" शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते " इति ॥ ५ ॥

 श्री०टी०-तदेवं परमेश्वराधीनाभ्यां प्रकृतिपुरुषाभ्यां सर्वभूतोत्पत्तिं निरूप्येदानीं प्रकृतिसंयोगेन पुरुषस्य संसारं प्रपञ्चयति सत्त्वमित्यादिचतुर्दशभिः-सत्त्वं रजस्तम इत्येवंसंज्ञकास्त्रयो गुणाः प्रकृतिसंभवाः प्रकृतितः संभव उद्भवो येषां ते तथोक्ता गुणसाम्यं प्रकृतिस्तस्याः सकाशात्पृथक्त्वेनाभिव्यक्ताः सन्तः प्रकृति कार्ये देहे तादात्म्येन स्थितं देहिनं चिदंशं वस्तुतोऽव्ययं निर्विकारमेव सन्तं निबध्नन्ति स्वकार्यैः सुखदुःखमोहादिभिः संयोजयन्तीत्यर्थः ॥ ५ ॥

 म०टी०-तत्र को गुणः केन सङ्गेन बध्नातीत्युच्यते-

तत्र सत्त्वं निर्मलत्वात्प्रकाशकमनामयम् ॥
सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ ॥ ६॥

 तत्र तेषु गुणेषु मध्ये सत्त्वं प्रकाशकं चैतन्यस्य तमोगुणकृतावरणतिरोधायकं निर्मलत्वात्स्वच्छत्वाचिद्विम्बग्रहणयोग्यत्वादिति यावत् । न केवलं चैतन्याभिव्यञ्जकं किंतु अनामयम् । आमयो दुःखं तद्विरोधि सुखस्यापि व्यञ्जकमित्यर्थः । तद्बध्नाति सुखसङ्गेन ज्ञानसङ्गेन च देहिनं हेऽनवाव्यसन । सर्वत्र संबोधनानामभिप्रायः प्रागुक्तः स्मर्तव्यः । अत्र सुखज्ञानशब्दाभ्यामन्तःकरणपरिणामौ तद्वयञ्जकावुच्येते । “इच्छा द्वेषः सुखं दुःखं संघातश्चेतना धृतिः" इति सुखचेतनयोरपीच्छादिवत्क्षेत्रधर्मत्वेन पाठात् । तत्रान्तःकरणधर्मस्य सुखस्य ज्ञानस्य चाऽऽत्मन्यध्यासः सङ्गोऽहं सुख्यहं जान इति च । न हि विषयधर्मो विषयिणो भवति । तस्मादविद्यामात्रमेतदिति शतश उक्तं प्राक् ॥ ६ ॥

 श्री०टी०-तत्र सत्त्वस्य लक्षणं बन्धकत्वप्रकारं चाऽऽह-तत्रेति । तत्र तेषां गुणानां मध्ये सत्त्वं निर्मलत्वात्स्वच्छत्वात्स्फटिकमणिरिव प्रकाशकं भास्वरमनामयं च निरुपद्रवं शान्तमित्यर्थः । अतः शान्तत्वात्स्वकार्येण सुखेन यः सङ्गस्तेन बध्नाति । प्रकाशकत्वाच्च स्वकार्येण ज्ञानेन यः सङ्गस्तेन च बध्नाति हेऽनघ निष्पाप । अहं सुखी ज्ञानी चेति मनोधर्मास्तदभिमानिनि क्षेत्रज्ञे संयोजयतीत्यर्थः ॥ ६ ॥

रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम् ॥
तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम् ॥ ७ ॥

 म०टी०- रज्यते विषयेषु पुरुपोऽनेनेति रागः कामो गर्धः स एवाऽऽत्मा