पृष्ठम्:श्रीमद्भगवद्गीता.pdf/३८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ०.१३क्ष्लो०१४]
३७५
श्रीमद्भगवद्गीता।


ज्जगतः स्थितिलयोत्पत्तिकारणं ब्रह्म तदेव क्षेत्रज्ञं प्रतिदेहमेकं ज्ञेयं न ततोऽन्यदित्यर्थः ॥ १६ ॥

 श्री०टी०-किं च-अविभक्तमिति । भूतेषु स्थावरजङ्गमात्मकेषु अविभक्तं कारणात्मनाऽभिन्न कार्यात्मना विभक्तं भिन्नमिवावस्थितं च । तत्पूर्वोक्तं ज्ञेयं भूतानां भर्तृ च पोषकं स्थितिकाले । प्रलयकाले च असिष्णु ग्रसनशीलम् । सृष्टिकाले च प्रभविष्णु नानाकार्यात्मना प्रभवनशीलम् ॥ १६ ॥

 म०. टी०.-ननु सर्वत्र विद्यमानमपि तन्नोपलभ्यते चेत्तर्हि जडमेव स्यात्, न स्यात्स्वयंज्योतिषोऽपि तस्य रूपादिहीनत्वेनेन्द्रियाद्यग्राह्यत्वोपपत्तेरित्याह-

ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते ॥
ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठि [१]तम् ॥ १७॥

 तज्ज्ञेयं ब्रह्म ज्योतिषामवभासकानामादित्यादीनां बुद्धयादीनां च बाह्यानामान्तराणामपि ज्योतिरवभासकं चैतन्यज्योतिषो जडज्योतिरवमासकत्वोपपत्तेः । “ येन सूर्यस्तपति तेजसेद्धः।" " तस्य मासा सर्वमिदं विभाति " इत्यादिश्रुतिभ्यश्च । वक्ष्यति च---- "यदादित्यगतं तेजः" इत्यादि । स्वयंजडत्वाभावेऽपि जडसंसृष्टं स्यादिति नेत्याह-तमसो जडवर्गात्परमविद्यातत्कार्याभ्यामपारमार्थिकाभ्यामसंस्पृष्टं पारमार्थिकं तम सदसतोः संबन्धायोगात्। उच्यते "अक्षरात्परतः परः" इत्यादिश्रुतिभिर्ब्रह्मवादिभिश्च । तदुक्तम्-

"निःसङ्गस्य ससङ्गेन कूटस्थस्य विकारिणा ।
आत्मनोऽनात्मना योगो वास्तवो नोपपद्यते " ॥

 " आदित्यवर्ण तमसः परस्तात्" इति श्रुतेश्च । आदित्यवर्णमिति स्वभाने प्रकाशान्तरानपेक्षं सर्वस्य प्रकाशकमित्यर्थः । यस्मात्तत्स्वयंज्योतिर्जडासंस्पृष्टमत एव तज्ज्ञानं प्रमाणजन्यचेतोवृत्त्यभिव्यक्तसंविद्रूपम् । अत एव तदेव ज्ञेयं ज्ञातुमर्हमज्ञातत्वाज्जडस्याज्ञातत्वाभावेन ज्ञातुमनर्हत्वात् । कथं तर्हि सर्वैन ज्ञायते तत्राऽऽह-ज्ञानगम्यं पूर्वोक्तेनामानित्वादिना तत्त्वज्ञानार्थदर्शनान्तेन साधनकलापेन ज्ञानहेतुतया ज्ञानशब्दितेन गम्यं प्राप्यं न तु तद्विनेत्यर्थः । ननु साधनेन गम्यं चेत्तत्किं देशान्तरव्यवहितं नेत्याह-ह्रदि सर्वस्य [२]विष्ठितं सर्वस्य प्राणिजातस्य त्दृदि. बुद्धौ [३]विष्ठितं सर्वत्र सामान्येन स्थितमपि विशेषरूपेण तत्र स्थितमभिव्यक्तं जीवरूपेणान्तर्यामिरू-


  • श्रीधरटीकामूलपुस्तकेषु ख. ग. घ. छ. च. छ. ज. झ. संज्ञितेषु धिष्ठितमिति पाठः ।

  1. क. ग. घ. छ. ज. ञ, विष्ठितम् ।
  2. क. ग. घ. छ. ज. न. धिष्ठितं ।
  3. क. ग, घ, छ, ज.अ. धिष्ठितं।