श्री० टी०- एवमुक्त्वा प्राक्तनमेव रूपं दर्शितवानिति संजय उवाच-इतीति ।
श्रीवासुदेवोऽर्जुनमेवमुक्त्वा यथा पूर्वमासीत्तथैव किरीटादियुक्तं चतुर्भुजं स्वीयं रूपं
पुनर्दर्शयामास । एनमर्जुनं भीतमेवं प्रसन्नवपुर्भूत्वा पुनरप्याश्वासितवान् । महात्मा
विश्वरूपः कृपालुरिति वा ॥५०॥
म०टी०-ततो निर्भयः सन्-
अर्जुन उवाच- |
इदानीं सचेता भयकृतव्यामोहाभावेनान्याकुलचित्तः संवृत्तोऽस्मि तथा प्रकृतिं भयकृतव्यथाराहित्येन स्वास्थ्यं गतोऽस्मि । स्पष्टमन्यत् ॥ ५१ ॥
श्री० टी०-ततो निर्भयः सन्नर्जुन उवाच-दृष्ट्वेति । सचेताः प्रसन्नचित्त इदानी संवृत्तो जातोऽस्मि । प्रकृति स्वास्थ्यं च प्राप्तोऽस्मि । शेषं स्पष्टम् ॥ ११ ॥
म० टी०स्वकृतस्यानुग्रहस्यातिदुर्लभत्वं दर्शयंश्चतुर्भिः-
श्रीभगवानुवाच- |
मम यद्रूपमिदानीं त्वं दृष्टवानसि, इदं विश्वरूपं सुदुर्दर्शमत्यन्तं द्रष्टुमशक्यम् । यतो देवा अप्यस्य रूपस्य नित्यं सर्वदा दर्शनकाङ्क्षिणो न तु त्वमिव पूर्वं दृष्टवन्तो न वाऽग्रे द्रक्ष्यन्तीत्यभिप्रायः । दर्शनाकाङ्क्षाया नित्यत्वोक्तेः ॥ ५२ ॥
श्री० टी-स्वकृतस्यानुग्रहस्यातिदुर्लभत्वं दर्शयञ्श्रीभगवानुवाच-सुदुर्दर्शमिति । यन्मम विश्वरूपं त्वं दृष्टवानसि, इदं सुदुर्दर्शमत्यन्तं द्रष्टुमशक्यम् । यतो देवा अप्यस्य रूपस्य सर्वदा दर्शनमिच्छन्ति केवलं न पुनरिदं पश्यन्ति ॥ ५२ ॥
म०. टी०.---कस्माद्देवा एतद्रूपं न दृष्टवन्तो न वा द्रक्ष्यन्ति मद्भक्तिशू-
न्यत्वादित्याह- |
न वेदयज्ञाध्ययनैरित्यादिना गतार्थः श्लोकः परमदुर्लभत्वख्यापना[१]याभ्यस्तः ॥५३॥
- ↑ क. ख. ‘नाय पुनरभ्य।