यस्मात्क्षरं कार्यत्वेन विनाशिनं मायामयं संसारवृक्षमश्वत्थाख्यमतीतोऽतिक्रान्तोऽहं परमेश्वरोऽक्षरादाप मायाख्यादव्याकृतादक्षरात्परतः पर इति पञ्चम्यन्ताक्षरपदेन श्रुत्या प्रतिपादितात्संसारवृक्षवीजभूतात्सर्वकारणादपि चोत्तम उत्कृष्टतमः, अतः क्षराक्षराभ्यां पुरुषोपाधिभ्यामध्यासेन पुरुषपदव्यपदेश्याभ्यामुत्तमत्वादस्मि भवामि लोके वेदे च प्रथितः प्रख्यातः पुरुषोत्तम इति स उत्तमः पुरुष इति वेद उदाहृत एव लोके च कविकाव्यादौ "हरिर्यथैकः पुरुषोत्तमः स्मृतः" इत्यादि प्रसिद्धम् ।
कारुण्यतो नरवदाचरतः परार्थान्पार्थाय बोधितवतो निजमीश्वरत्वम् । |
श्री० टी०-एवंभूतं पुरुषोत्तमत्वमात्मनो नामनिर्वचनेन- दर्शयति-यस्मादिति । यस्मात्क्षरं जडवर्गमतिक्रान्तोऽहं नित्यमुक्तत्वात् । अक्षराच्चेतनवर्गादप्युत्तमश्च नियन्तृत्वात् । अतो लोके वेदे च पुरुषोत्तम इति प्रथितः प्रख्यातोऽस्मि । तथा च श्रुतिः-" स वा अयमात्मा सर्वस्य वशी सर्वस्येशानः सर्वस्याधिपतिः सर्वमिदं प्रशास्ति' इत्यादिः ॥ १८ ॥
म०टी०-एवं नामनिर्वचनज्ञाने फलमाह-
यो मामेवमसंमूढो जानाति पुरुषोत्तमम् ॥ |
यो मामीश्वरमेवं यथोक्तनामनिर्वचनेनासमूढो मनुष्य एवायं कश्चित्कृष्ण इतिसंमोहवर्जितो जानात्ययमीश्वर एवेति पुरुषोत्तमं प्राग्व्याख्यातं स मां भजति सेवते सर्वविन्मां सर्वात्मानं वेत्तीति स एव सर्वज्ञः सर्वभावेन प्रेमलक्षणेन भक्तियोगेन हे भारत । अतो यदुक्तम्-
“ मां च योऽव्यभिचारेण भक्तियोगेन सेवते । |
इति तदुपपन्नम् । यच्चोक्तं "ब्रह्मणो हि प्रतिष्ठाऽहम् " इति तदप्युपपन्नतरम् ।
चिदानन्दाकारं जलदरुचि सारं श्रुतिगिरां |
श्री०टी०-एवंभूतेश्वरस्य ज्ञातुः फलमाह-यो मामिति । एवमुक्तप्रकारेणा-