पृष्ठम्:श्रीमद्भगवद्गीता.pdf/३५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३४४
[अ० ११ क्ष्लो०४३-४]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


 म०टी०-अचिन्त्यप्रभावतामेव प्रपञ्चयति-

पिताऽसि लोकस्य चराचरस्य
 त्वमस्य पूज्यश्च गुरुगरीयान्॥
न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो
 लोकत्रयेऽप्यप्रतिमप्रभाव ॥४३॥

 अस्य चराचरस्य लोकस्य पिता जनकस्त्वमसि पूज्यश्वासि सर्वेश्वरत्वात् । गुरुश्चासि शास्त्रोपदेष्टा । अतः सर्वैः प्रकारैर्गरीयान्गुरुतरोऽसि । अत एव न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो लोकत्रयेऽपि हेऽप्रतिमप्रभाव । यस्य समोऽपि नास्ति द्वितीयस्य परमेश्वरस्याभावात्तस्याधिकोऽन्यः कुतः स्यात्सर्वथा न संभाव्यत एवेत्यर्थः ॥४३॥

 श्री०टी०-अचिन्त्यप्रभावतामेवाऽऽह-पितेति । न विद्यते प्रतिमोपमा यस्य सोऽप्रतिमः । तथाविधः प्रभावो यस्य तव हेऽप्रतिमप्रभाव । त्वमस्य चराचरस्य लोकस्य पिता जनकोऽसि । अत एव पूज्यश्च गुरुश्च गुरोरपि गरीयान्गुरुतरः । अतो लोकत्रयेऽपि त्वत्सम एव तावदन्यो नास्ति परमेश्वरस्यान्यस्याभावात्, त्वत्तोऽभ्यधिकः पुनः कुतः स्यात् ॥ ४३ ॥

 म०टी०-यस्मादेवम् --

तस्मात्प्रणम्य प्रणिधाय कायं
 प्रसादये त्वामहमीशमीड्यम् ॥
पितव पुत्रस्य सखेव सख्युः
 प्रियः प्रियायाऽर्हसि देव सोढुम् ॥ ४४ ॥

 तस्मात्प्रणम्य नमस्कृत्य त्वां प्रणिधाय प्रकर्षेण नीचैर्धृत्वा कायं दण्डवद्भूमौ पतितेति यावत् । प्रसादये त्वामीशमीड्यं सर्वस्तुत्यमहमपराधी । अतो हे देव पितेव पस्यापराधं सखेव सख्युरपराधं प्रियः पतिरिव प्रियायाः पतिव्रताया अपराध ममापुत्राधं त्वं सोढुं सन्तुमर्हसि अनन्यशरणत्वान्मम । प्रियायार्हसीत्यत्रेवशब्दलोपः संधिश्च च्छान्दसः ॥ ४४ ॥

 श्री०टी०-यस्मादेवम्-तस्मादिति । तस्मात्त्वामीशं जगतः स्वामिनमीड्यं स्तुत्यं प्रसादये प्रसादयामि । कथं, कायं प्रणिधाय दण्डवन्निपात्य प्रणम्य प्रकर्षेण नत्वा । अतस्त्वं ममापराधं सोढुं क्षन्तुमर्हसि । कस्य क इव पुत्रस्यापराधं कृपया पिता यथा सहते, सख्युमित्रस्यापराध सखा निरुपाधिबन्धुर्यथा, प्रियश्च प्रियाया अपराध तत्प्रियार्थं यथा तद्वत् ॥ ४४ ॥