उर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम् ॥ |
ऊर्ध्वमुत्कृष्टं मूलं कारणं स्वप्रकाशपरमानन्दरूपत्वेन नित्यत्वेन च ब्रह्म । अथवोर्ध्वं सर्वसंसारबाधेऽप्यबाधितं सर्वसंसारभ्रमाधिष्ठानं ब्रह्म तदेव मायया मूलमस्येत्यूर्ध्वमूलम् । अध इत्यर्वाचीनाः कार्योपाधयो हिरण्यगर्भाद्या गृह्यन्ते । ते नानादिक्प्रसृतत्वाच्छाखा इव शाखा अस्येत्यधःशाखम् । आशृविनाशित्वेन न श्वोऽपि स्थातेति विश्वासानहमश्वत्थं मायामयं संसारवृक्षमव्ययमनाद्यनन्तदेहादिसंतानाश्रयमात्मज्ञानमन्तरेणानुच्छेद्यमनन्तमव्ययमाहुः श्रुतयः स्मृतयश्च । श्रुतयस्तावत्-" ऊर्ध्वमूलो[१]ऽर्वाक्शाख एषोऽश्वत्थः सनातनः " इत्याद्याः कठवल्लीषु पठिताः । [२]अर्वाञ्चो निकृष्टाः कार्योपाधयो महदहंकारतन्मात्रादयो वा शाखा अस्येत्य[३]र्वाक्शाख इत्यधःशाखपदसमानार्थ, सनातन इत्यव्ययपदसमानार्थम् । स्मृतयश्च-
" अव्यक्तमूलप्रभवस्तस्यैवानुग्रहोत्थितः । |
अव्यक्तमव्याकृतं मायोपाधिकं ब्रह्म तदेव मूलं कारणं तस्मात्प्रभवो यस्य स तथा । तस्यैव मूलस्याव्यक्तस्यानुग्रहादतिदृढत्वादुत्थितः संवर्धितः । वृक्षस्य हि शाखाः स्कन्धाद्भवन्ति । संसारस्य च बुद्धेः सकाशान्नानाविधाः परिणामा भवन्ति । तेन साधर्म्येण बुद्धिरेव स्कन्धस्तन्मयस्तत्प्रचुरोऽयम् । इन्द्रियाणामन्तराणि च्छिद्राण्येव कोटराणि यस्य स तथा । महान्ति भूतान्याकाशादीनि पृथिव्यन्तानि विविधाः शाखा यस्य विशाखः स्तम्भो यस्येति वा । आजीव्य उपजीव्य:[५] । ब्रह्मणा परमात्मनाऽधिष्ठितो वृक्षो ब्रह्मवृक्षः । आत्मज्ञानं विना छेत्तुमशक्यतया सनातनः । एतद्ब्रह्मवनमस्य ब्रह्मणो जीवरूपस्य भोग्यं वननीयं संभजनीयमिति वनं ब्रह्म साक्षिवदाचरति न त्वेतत्कृतेन लिप्यत इत्यर्थः । एतद्ब्रह्मवनं संसारवृक्षात्मकं छित्त्वा च मित्त्वा चाहं ब्रह्मास्मीत्य-