पृष्ठम्:श्रीमद्भगवद्गीता.pdf/४१०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ०१५क्ष्लो०१]
४०५
श्रीमद्भगवद्गीता।


तिदृढज्ञानखड्गेन समूलं निकृत्येत्यर्थः । आत्मरूपां गतिं प्राप्य तस्मादात्मरूपान्मोक्षानाऽऽवर्तत इत्यर्थः । स्पष्टमितरत् । अत्र च गङ्गातरङ्ग [१]नुद्यमानोत्तुङ्गतत्तीरतिर्यङ्निपतित[२]मर्धोन्मूलितं मारुतेन महान्तमश्वत्थमुपमानीकृत्य जीवन्तमियं रूपककल्पनेति द्रष्टव्यम् । तेन नोर्ध्वमूलत्वाधःशाखत्वाद्यनुपपत्तिः । यस्य मायामयस्याश्वत्थस्य च्छन्दांसि च्छादनात्तत्त्ववस्तुप्रावरणात्संसारवृक्षरक्षणाद्वा कर्मकाण्डानि ऋग्यजुःसामलक्षणानि पर्णानीव पर्णानि, यथा वृक्षस्य परिरक्षणार्थानि पर्णानि भवन्ति तथा संसारवृक्षस्य परिरक्षणानि कर्मकाण्डानि धर्माधर्मतद्धेतुफलप्रकाशनार्थत्वात्तेषाम् । यस्तं यथाव्याख्यातं समूलं संसारवृक्षं मायामयमश्वत्थं वेद जानाति स वेदवित्कर्मब्रह्माख्यवेदार्थवित्स एवेत्यर्थः । संसारवृक्षस्य हि मूलं ब्रह्म हिरण्यगर्भादयश्च जीवाः शाखास्थानीयाः । स च संसारवृक्षः स्वरूपेण विनश्वरः प्रवाहरूपेण चानन्तः । स च वेदोक्तैः कर्मभिः सिच्यते ब्रह्मज्ञानेन च च्छिद्यत इत्येतावानेव हि वेदार्थः । यश्च वेदार्थवित्स एव सर्वविदिति समूलवृक्षज्ञानं स्तौति स वेदविदिति ॥ १ ॥

श्री०टी०-वैराग्येण विना ज्ञानं न च भक्तिरतः स्फुटम् ।
  वैराग्योपस्कृतं ज्ञानमीशः पञ्चदशेऽदिशत् ॥

 पूर्वाध्यायान्ते “ मां च योऽव्यभिचारेण भक्तियोगेन सेवते ” इत्यादिना परमेश्वरमेकान्तभक्त्या भजतस्तत्प्रसादलब्धज्ञानेन . ब्रह्मभावो भवतीत्युक्तम् । न चैकान्तभक्तिर्ज्ञानं [३]चाविरक्तस्य संभवतीति वैराग्यपूर्वकं ज्ञानमुपदेष्टुकामः प्रथमं तावत्सार्ध श्लोकाभ्यां संसारस्वरूपं वृक्षरूपकालंकारेण वर्णयञ् श्रीभगवानुवाच-उर्ध्वमूलमिति । ऊर्ध्वमुत्तरः क्षराक्षराभ्यामुत्कृष्टः पुरुषोत्तमो मूलं यस्य तम् । अध इति ततोऽर्वाचीनाः कार्योपाधयो हिरण्यगर्भादयो गृह्यन्ते । ते तु शाखा इव शाखा यस्य तम् । विनश्वरत्वेन श्वः प्रभातपर्यन्तमपि न स्थास्यतीति विश्वासानहत्वादश्वत्थं प्राहुः । प्रवाहरूपेणाविच्छेदादव्ययं च प्राहुः । “ ऊर्ध्वमूलोऽर्वाक्शाख एषोऽश्वत्थः सनातनः ” इत्याद्याः श्रुतयः । छन्दांसि वेदा यस्य पर्णानि धर्माधर्मप्रतिपादनद्वारेण च्छायास्थानीयैः कर्मफलैः संसारवृक्षस्य सर्वजीवाश्रयणीयत्वापादनात्पर्णस्थानीया वेदाः । यस्तमेवंभूतमश्वत्थं वेद स एव वेदार्थवित् । संसारवृक्षस्य मूलमीश्वरः श्रीनारायणः । ब्रह्मादयस्तदंशाः शाखास्थानीयाः । स च संसारवृक्षो विनश्वरः प्रवाहरूपेण नित्यश्च । वेदोक्तैः कर्मभिः सेव्यतामापादितश्चेत्येतावानेव हि वेदार्थः । अत एव विद्वान्वेदविदिति स्तूयते ॥ १ ॥

 म०. टी०.-तस्यैव संसारवृक्षस्यावयवसंबन्धिन्यपरा कल्पनोच्यते--


  1. क. ख. च. छ. झ. ङ्गतुद्य ।
  2. ङ तमूर्वोन्मू ।
  3. क. नं वाऽवि' ।