पृष्ठम्:श्रीमद्भगवद्गीता.pdf/३४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३३४
[अ०११क्ष्लो ०२७-२८]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


 अमी च धृतराष्ट्रस्य पुत्रा दुर्योधनप्रभृतयः शतं सोदरा युयुत्सुं विना सर्वे त्वां त्वरमाणा विशन्तीत्यग्रेतनेनान्वयः । अतिभयसूचकत्वेन क्रियापदन्यूनत्वमत्र गुण एव । सहैवावनिपालानां शल्यादीनां राज्ञा सर्वैस्त्वां विशन्ति । न केवलं दुर्योधनादय एव विशन्ति किं तु अजेयत्वेन सर्वैः संभावितोऽपि भीष्मो द्रोणः सूतपुत्रः कर्णस्तथाऽसौ सर्वदा मम विद्वेष्टा सहास्मदीयैरपि परकीयैरिव धृष्टद्युम्नप्रभृतिभिर्योधमुख्यैस्त्वां विशन्तीति संबन्धः ॥ २६ ॥

 श्री०टी०-यच्चान्यद्रष्टुमिच्छसीत्यनेनास्मिन्सङ्ग्रामे भाविजयपराजयादिकं च मम देहे पश्येति यद्भगवतोक्तं तदिदानीं पश्यन्नाह-अमी चेति पञ्चभिः-अमी धृतराष्ट्रस्य पुत्रा दुर्योधनादयः सर्वेऽवनिपालानां जयद्रथादीनां राज्ञां संघैः सहैव तव वक्त्राणि विशन्तीत्युत्तरेणान्वयः । तथा भीष्मश्च द्रोणश्वासौ सूतपुत्रः कर्णश्च । न केवलं त एव विशन्ति अपि तु प्रतियोद्धारो येऽस्मदीया योधमुख्याः शिखण्डिधृष्टद्युम्नादयस्तैः सह ॥ २६ ॥

वक्त्राणि ते त्वरमाणा विशन्ति
 दंष्ट्राकरालानि भयानकानि ॥
केचिद्दिलग्ना दशनान्तरेषु
 संदृश्यन्ते चूर्णितैरुत्तमाङ्गैः ॥ २७ ॥

 म० टी०--अमी धृतराष्ट्रपुत्रप्रभृतयः सर्वेऽपि ते तव दंष्ट्राकरालानि भयानकानि वक्त्राणि त्वरमाणा विशन्ति । तत्र च केचिच्चूर्णितैरुत्तमाङ्गैः शिरोभिर्विशिष्टा दशनान्तरेषु विलग्ना विशेषेण संलग्ना दृश्यन्ते मया सम्यगसंदेहेन ॥ २७ ॥

 श्री० टी०-वक्राणीति [१] य एते सर्वे त्वरमाणा धावन्तस्तव दंष्ट्राभिर्विकृतानि भयंकराणि वक्राणि विशन्ति तेषां मध्ये केचिच्चृणीकृतैरुत्तमाङ्गैः शिरोभिरुपलक्षिता दन्तसंधिषु संश्लिष्टाः संदृश्यन्ते ॥ २७ ॥

 म०टी०-राज्ञां भगवन्मुखप्रवेशने निदर्शनमाह-

यथा नदीनां बहवोऽम्बुवेगाः
 समुद्रमेवाभिमुखा द्रवन्ति ॥
तथा तवामी नरलोकवीरा
 विशन्ति वक्त्राण्य[२]भितो* ज्वलन्ति ॥ २८॥


  • श्रीधरटीकामूले “अभिविज्वलन्ति" इति पाठः ।

  1. क, ख, ग, घ ङ च. छ. ज, ज, 'ति । ए।
  2. क, ग. घ. ङ. च. ज. झ. ज. "भिविज्व।