पृष्ठम्:श्रीमद्भगवद्गीता.pdf/४२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ०१५ क्ष्लो १६]
४१५
श्रीमद्भगवद्गीता।


 सर्वस्य ब्रह्मादिस्थावरान्तस्य प्राणिजातस्याहमात्मा सन्हृदि बुद्धौ संनिविष्टः “स एष इह प्रविष्टः" इति श्रुतेः । “ अनेन जीवेनाऽऽत्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि " इति च । अतो मत्त आत्मन एव हेतोः प्राणिजातस्य यथानुरूपं स्मृतिरेतज्जन्मनि पूर्वानुभूतार्थविषया वृत्तिर्योगिनां च जन्मान्तरानुभूतार्थविषयाऽपि । तथा मत्त एव ज्ञानं विषयेन्द्रियसंयोगजं भवति । योगिनां च देशकालविप्रकृष्टविषयमपि । एवं कामक्रोधशोकादिव्याकुलचेतसामपोहनं च स्मृतिज्ञानयोरपायश्च मत्त एव भवति । एवं स्वस्य जीवरूपतामुक्त्वा ब्रह्मरूपतामाह-वेदैश्च सर्वैरिन्द्रादिदेवताप्रकाशकैरपि अहमेव वेद्यः सर्वात्मत्वात् ।

इन्द्र मित्रं वरुणमग्निमाहुरथो दिव्यः स सुपर्णो गरुत्मान् ।
एकं सद्विप्रा बहुधा वदन्त्यग्निं यमं मातरिश्वानमाहुः

 इति मन्त्रवर्णात् । " एष उ ह्येव सर्वे देवाः" इति च श्रुतेः । वेदान्तकृद्वेदान्तार्थसंप्रदायप्रवर्तको वेदव्यासादिरूपेण । न केवलमेतावदेव वेदविदेव चाहं कर्मकाण्डोपासनाकाण्डज्ञानकाण्डात्मकमन्त्रब्राह्मणरूपसर्ववेदार्थविच्चाहमेव । अतः साधूक्तं ब्रह्मणो हि प्रतिष्ठाऽहमित्यादि ॥ १५ ॥

 श्री०टी०-किंच-सर्वस्येति । सर्वस्य प्राणिजातस्य हृदि सम्यगन्तर्यामिरूपेण प्रविष्टोऽहम् । अतश्च मत्त एव हेतोः प्राणिमात्रस्य पूर्वानुभूतार्थविषया स्मृतिर्भवति । ज्ञानं च विषयेन्द्रियसंप्रयोगजं भवति । अपोहनं च तयोः प्रमोषो भवति । वेदैश्च सर्वैस्तत्तद्देवतादिरूपेणाहमेव वेद्यः । वेदान्तकृत्तसंप्रदायप्रवर्तकश्च ज्ञानदो गुरुरहमित्यर्थः । वेदविदेव च वेदार्थविदहमेव ॥ १५ ॥ म० टी०-एवं सोपाधिकमात्मानमुक्त्वा क्षराक्षरशब्दवाच्यकार्यकारणोपाधिद्वय- वियोगेन निरुपाधिकं शुद्धमात्मानं प्रतिपादयति कृपया भगवानर्जुनाय त्रिभिः क्ष्लोकै:-

ह्याविमौ पुरुषौ लोके क्षरश्चाक्षर एव च ॥
क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥ १६ ॥

 द्वाविमौ पृथग्राशीकृतौ पुरुषौ पुरुषोपाधित्वेन पुरुषशब्दव्यपदेश्यौ लोके संसारे । कौ तावित्याह-क्षरश्चाक्षर एव च क्षरतीति क्षरो विनाशी कार्यराशिरेकः पुरुषः । न क्षरतीत्यक्षरो विनाशरहितः क्षराख्यस्य पुरुषस्योत्पत्तिबीजं भगवतो मायाशक्तिद्वितीयः पुरुषः । तौ पुरुषौ व्याचष्टे स्वयमेव भगवान्क्षरः सर्वाणि भूतानि समस्तं कार्यजातमित्यर्थः । कूटस्थः कूटो यथार्थवस्त्वाच्छादनेनायथार्थवस्तुप्रकाशनं वञ्चनं मायेत्यनर्थान्तरम् । तेनाऽऽवरणविक्षेपशक्तिद्वयरूपेण स्थितः कूटस्थो भगवान्मायाशक्तिरूपः कारणोपाधिः संसारबीजत्वेनाऽऽनन्त्यादक्षर उच्यते । केचित्तु क्षरशब्देनाचेतनवर्ग- मुक्त्वा कूटस्थोऽक्षर उच्यत इत्यनेन जीवमाहुः । तन्न सम्यक् । क्षेत्रज्ञस्यैवेह पुरुषो.