पृष्ठम्:श्रीमद्भगवद्गीता.pdf/४१७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४१२
[अ० १५क्ष्लो०१०-११]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


 श्री०टी०-तान्येवेन्द्रियाणि दर्शयन्यदर्थं गृहीत्वा गच्छति तदाह-श्रोत्रमिति । श्रोत्रादीनि बाह्येन्द्रियाणि मनश्चान्तःकरणमधिष्ठायाऽऽश्रित्य शब्दादीन्विषयानयं जीव उपभुङ्क्ते ॥९॥

 म०टी०--एवं देहगतं दर्शनयोग्यमपि देहात्-

उत्क्रामन्तं स्थितं वाऽपि भुञ्जानं वा गुणान्वितम् ॥
विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः ॥ १०॥

 उत्क्रामन्तं देहान्तरं गच्छन्तं पूर्वस्मात् , स्थितं वाऽपि तस्मिन्नेव देहे, भुञ्जानं वा शब्दादीन्विषयान् , गुणान्वितं सुखदुःखमोहात्मकैर्गुणैरन्वितम् । एवं सर्वास्ववस्थासु दर्शनयोग्यमप्येनं विमूढा दृष्टादृष्टविषयभोगवासनाकृष्टचेतस्तयाऽऽत्मानात्मविवेकायोग्या नानुपश्यन्ति । अहो कष्टं वर्तत इत्यज्ञाननुक्रोशति भगवान् । ये तु प्रमाणजनितज्ञानचक्षुषो विवेकिनस्त एव पश्यन्ति ॥ १० ॥

 श्री०टी०-ननु च कार्यकारणसंघातव्यतिरेकेणैवंभूतमात्मानं सर्वेऽपि किं न पश्यन्ति तत्राऽऽह-उत्क्रामन्तमिति । उत्क्रामन्तं देहादेहान्तरं गच्छन्तं तस्मिन्नेव देहे स्थितं वा विषयान्भुञ्जानं वा गुणान्वितमिन्द्रियादियुक्तं जीवं विमूढा नानुपश्यन्ति नाऽऽलोकयन्ति । ज्ञानमेव चक्षुर्येषां ते विवेकिनः पश्यन्ति ॥ १० ॥

 म० टी०- पश्यन्ति ज्ञानचक्षुष इत्येतद्विवृणोति-

यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम् ॥
यतन्तोऽप्यकृतात्मानो नैनं पश्यन्यचेतसः ॥ ११॥

 आत्मनि स्वबुद्धाववस्थितं प्रतिफलितमेनमात्मानं यतन्तो ध्यानादिभिः प्रयतमाना योगिन एव पश्यन्ति । चोऽवधारणे । यतमाना अप्यकृतात्मानो यज्ञादिभिरशोधितान्तःकरणा अत एवाचेतसो विवेकशून्या नैनं पश्यन्तीति विमूढा नानुपश्यन्तीत्येतद्विवरणम् ॥ ११॥

 श्री० टी०-दुर्ज्ञेयश्चायं यतो विवेकिष्वपि केचिदेव पश्यन्ति केचिन्न पश्यन्तीत्याह-यतन्त इति । यतन्तो ध्यानादिभिः प्रयतमाना योगिनः केचिदेनमात्मानमात्मनि देहेऽवस्थितं विविक्तं पश्यन्ति । शास्त्राभ्यासादिभिः प्रयत्नं कुर्वाणा अपि अकृतात्मानोऽविशुद्धचित्ता अत एवाचेतसो मन्दमतय एनं न पश्यन्ति ॥ ११ ॥

 म०टी०-इदानीं यत्पदं सर्वावभासनक्षमा अप्यादित्यादयो भासयितुं न क्षमन्ते यत्प्राप्ताश्च मुमुक्षवः पुनः संसाराय नाऽऽवर्तन्ते । यस्य च पदस्योपाधिभेदमनु विधीयमाना जीवा घटाकाशादय इवाऽऽकाशस्य कल्पितांशा मृषैव संसारमनुभवन्ति तस्य