पृष्ठम्:श्रीमद्भगवद्गीता.pdf/३७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३६४
[अ०१३क्ष्लो०२-३]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


 इति पूर्व प्रतिज्ञातम् । न चाऽऽत्मज्ञानं विना संसारादुद्धरणं संभवतीति तत्त्वज्ञानोपदेशार्थं प्रकृतिपुरुषविवेकाध्याय आरभ्यते । तत्र यत्सप्तमेऽध्यायेऽपरा परा चेति प्रकृतिद्वयमुक्तं तयोरविवेकाज्जीवभावमापन्नस्य चिदंशस्यायं संसारः । याभ्यां च जीवोपभोगार्थमीश्वरः सृष्ट्यादिषु प्रवर्तते तदेव प्रकृतिद्वयं क्षेत्रक्षेत्रज्ञशब्दवाच्यं परस्परं विविक्तं तत्त्वतो निरूपयिष्यश्रीभगवानुवाच-इदमिति । इदं भोगायतनं शरीरं क्षेत्रमित्यभिधीयते संसारस्य प्ररोहभूमित्वात् । एतद्यो वेत्ति अहं ममेति मन्यते तं क्षेत्रज्ञ इति प्राहुः कृषीवलवत्तत्फलभोक्तत्वात्तद्विदः क्षेत्रक्षेत्रज्ञयोर्विवेकज्ञाः ॥ १ ॥

 म०टी०- एवं देहेन्द्रियादिविलक्षणं स्वप्रकाशं क्षेत्रज्ञमभिधाय तस्य पारमार्थिकं तत्त्वमसंसारिपरमात्मनैक्यमाह-

क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत ॥
क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम ॥२॥

 सर्वक्षेत्रेधु य एकः क्षेत्रज्ञः स्वप्रकाशचैतन्यरूपो नित्यो विभुश्च तमविद्याध्यारोपितकर्तृत्वभोक्तृत्वादिसंसारधर्मं क्षेत्रज्ञमाविद्यकरूपपरित्यागेन मामीश्वरमसंसारिणमद्वितीयब्रह्मानन्दरूपं विद्धि जानीहि हे भारत । एवं च क्षेत्रं मायाकल्पितं मिथ्या । क्षेत्रज्ञश्च परमार्थसत्यस्त[१] द्भ्रमाधिष्ठानमिति क्षेत्रक्षेत्रज्ञयोर्यज्ज्ञानं तदेव मोक्षसाधनत्वाज्ज्ञानमविद्याविरोधिप्रकाशरूपं मम मतमन्यत्त्वज्ञानमेव तदविरोधित्वादित्यभिप्रायः । अत्र जीवेश्वरयोराविद्यको भेदः पारमार्थिकस्त्वभेद इत्यत्र युक्तयो माध्यकृद्भिर्वर्णिताः । अस्माभिस्तु ग्रन्थविस्तरभयात्प्रागेव बहुधोक्तत्वाच्च नोपन्यस्ताः ॥२॥

 श्री०टी०-तदेवं संसारिस्वरूपमुक्तम् । इदानीं तस्यैव पारमार्थिकमसंसारिस्वरूपमाह-क्षेत्रमिति । तं च क्षेत्रज्ञं संसारिणं वस्तुतः सर्वक्षेत्रेष्वनुगतं मामेव विद्धि तत्त्वमसीतिश्रुत्या लक्षितेन चिदंशेन मद्रूपस्योक्तत्वात् । आदरार्थमेव तज्ज्ञानं स्तौतिक्षेत्रक्षेत्रज्ञयोर्यदेवं वैलक्षण्येन ज्ञानं तदेव मोक्षहेतुत्वान्मम ज्ञानं मतम् । अन्यत्तु वृथा पाण्डित्यं बन्धहेतुत्वादित्यर्थः । तदुक्तं- " तत्कर्म यन्न बन्धाय सा विद्या या विमुक्तये। आयासायापरं कर्म विद्याऽन्या शिल्पनैपुणम् ” इति ॥ १॥

 म०टी०-संक्षेपेणोक्तमर्थं विवरीतुमारभते-

तत्क्षेत्रं यच्च यादृक्च यदिकारि यतश्च यत् ॥
स च यो यत्प्रभावश्च तत्समासेन मे शृणु ॥३॥


  1. छ. स्तद्धर्माधि।