पृष्ठम्:श्रीमद्भगवद्गीता.pdf/३७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ०१३क्ष्लो०१२]
३७१
श्रीमद्भगवद्गीता।


 मोक्षस्तस्य दर्शनमालोचनम् । तत्त्वज्ञानफलालोचने हि तत्साधने प्रवृत्तिः स्यात् । एतदमानित्वादितत्त्वज्ञानार्थदर्शनान्तं विंशतिसंख्याकं ज्ञानमिति प्रोक्तं ज्ञानार्थत्वात् । अतोऽन्यथाऽस्माद्विपरीतं मानित्वादि यत्तदज्ञानमिति प्रोक्तं ज्ञानविरोधित्वात् । तस्मादज्ञानपरित्यागेन ज्ञानमेवोपादेयमिति भावः ॥ ११॥

 श्री०टी०-किं च-अध्यात्मेति । आत्मानमधिकृत्य वर्तमानं ज्ञानमध्यात्मज्ञानं तस्मिन्नित्यत्वं नित्यभाव[१] स्तत्त्वंपदार्थशुद्धिनिष्ठत्वमित्यर्थः । तत्त्वज्ञानस्यार्थः प्रयोजनं मोक्षस्तस्य दर्शनं मोक्षस्य सर्वोत्कृष्टतालोचनमित्यर्थः । एतदमानित्वमदम्मित्वमित्यादिविंशतिसंख्याकं यदुक्तमेतज्ज्ञानमिति प्रोक्तं ज्ञानसाधनत्वात् । अतोऽन्यथाऽस्माद्विपरीतं मानित्वादि यदेतदज्ञानमिति प्रोक्तं वसिष्ठादिभिर्ज्ञानविरोधित्वात् । अतः सर्वथा त्याज्यमित्यर्थः ॥ ११॥

 म०टी०-एभिः साधनैर्ज्ञानशब्दितैः किं ज्ञेयमित्यपेक्षायामाह ज्ञेयं यत्तदित्यादिषभिः-

ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वाऽमृतमश्रुते ॥
अनादिमत्परं ब्रह्म न सत्तनासदुच्यते ॥ १२ ॥

 यज्ज्ञेयं मुमुक्षुणा तत्प्रवक्ष्यामि प्रकर्षेण स्पष्टतया वक्ष्यामि । श्रोतुरभिमुखीकरणाय फलेन स्तुवन्नाह-यद्वक्ष्यमाणं ज्ञेयं ज्ञात्वाऽमृतममृतत्वमश्नुते संसारान्मुच्यत इत्यर्थः । किं तत् , अनादिमत्, आदिमन्न भवतीत्यनादिमत् । परं निरतिशयं ब्रह्म सर्वतोऽनवच्छिन्नं परमात्मवस्तु । अत्रानादीत्येतावतैव बहुव्रीहिणाऽर्थलाभेऽप्यतिशायने नित्ययोगे वा मतुपः प्रयोगः । अनादीति च मत्परमिति च पदं केचिदिच्छन्ति । मत्सगुणाब्रह्मणः परं निर्विशेषरूपं ब्रह्मेत्यर्थः । अहं वासुदेवाख्या परा शक्तिर्यस्येति त्वपव्याख्यानं, निर्विशेषस्य ब्रह्मणः प्रतिपाद्यत्वेन तत्र शक्तिमत्त्वस्यावक्तव्यत्वात् । निर्विशेषत्वमेवाऽऽह-न सत्तन्नासदुच्यते । विधिमुखेन प्रमाणस्य विषयः सच्छब्देनोच्यते । निषेधमुखेन प्रमाणस्य विषयस्त्वसच्छब्देन । इदं तु तदुभयविलक्षणं निर्विशेषत्वात्स्वप्रकाशचैतन्यरूपत्वाच्च "यतो वाचो निवर्तन्ते । अप्राप्य मनसा सह ।" इत्यादिश्रुतेः। यस्मात्तद्ब्रह्म न सद्भावत्वाश्रयः, नासदभावत्वाश्रयः, अतो नोच्यते केनापि शब्देन मुख्यया वृत्त्या शब्दप्रवृत्तिहेतूनां तत्रासंभवात् । तद्यथा गौरश्व इति वा जातितः, पचति पठतीति वा क्रियातः, शुक्लः कृष्ण इति वा गुणतः, धनी गोमानिति वा संबन्धतोऽयं प्रत्याययति शब्दः । अत्र क्रियागुणसंबन्धेभ्यो विलक्षणः सर्वोऽपि धर्मो जातिरूप उपाधिरूपो वा जातिपदेन संगृहीतः । यदृच्छाशब्दोऽपि डित्थड-


  1. क. अ. अ. ज. वस्त्वंप।