पृष्ठम्:श्रीमद्भगवद्गीता.pdf/३८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ०१३०क्ष्लो२४-२५]
३८१
श्रीमद्भगवद्गीता।

ध्यानेनाऽऽत्मनि पश्यन्ति केचिदात्मानमात्मना ॥
अन्ये सांख्येन योगेन कर्मयोगेन(ण) चापरे ॥२४॥

 इह हि चतुर्विधा जनाः केचिनुत्तमाः केचिन्मध्यमाः केचिन्मन्दाः केचिन्मन्दतरा इति । तत्रोत्तमानामात्मज्ञानसाधनमाह-ध्यानेन विजातीयप्रत्ययानन्तरितेन सजातीयप्रत्ययप्रवाहेण श्रवणमननफलभूतेनाऽऽत्मचिन्तनेन निदिध्यासनशब्दोदितेनाऽऽत्मनि बुद्धौ पश्यन्ति साक्षात्कुर्वन्ति आत्मानं प्रत्यक्चेतनमात्मना ध्यानसंस्कृतेनान्तःकरणेन केचिदुत्तमा योगिनः । मध्यमानामात्मज्ञानसाधनमाह-अन्ये मध्यमाः सांख्येन योगेन निदिध्या- सनपूर्वभाविना श्रवणमननरूपेण नित्यानित्यविवेकादिपूर्वकेणेमे गुणत्रयपरिणामा अनात्मानः सर्वे मिथ्याभूतास्तत्साक्षिभूतो नित्यो विभुर्निर्विकारः सत्यः समस्तजडसंबन्धशून्य आत्माऽहमित्येवं वेदान्तवाक्यविचारजन्येन चिन्तनेन, पश्यन्त्यात्मानमात्मनीति वर्तते । ध्यानोत्पत्तिद्वारेणेत्यर्थः । मन्दानां ज्ञानसाधनमाह-कर्मयोगेने(णे)श्वरार्पणबुद्ध्या क्रियमाणेन फलाभिसंधिरहितेन तत्तद्वर्णाश्रमोचितेन वेदविहितेन कर्मकलापेन चापरे मन्दाः, पश्यन्त्यात्मानमात्मनीति वर्तते । सत्त्वशुद्धया श्रवणमननध्यानोत्पत्तिद्वारेणेत्यर्थः॥२४॥

 श्री० टी०-एवंभूतविविक्तात्मज्ञाने साधनविकल्पानाह ध्यानेनेति द्वाभ्याम्- ध्यानेनाऽऽत्माकारप्रत्ययावृत्त्याऽऽत्मनि देह आत्मना मनसैनमात्मानं केचित्पश्यन्ति । अन्ये तु सांख्येन प्रकृतिपुरुषवैलक्षण्यालोचनेन, योगेनाष्टाङ्गेनापरे, अपरे च कर्मयोगेन(ण) पश्यन्तीति सर्वत्रानुषङ्गः। एतेषां च ध्यानादीनां यथायोग्यं क्रमसमुच्चये सत्यपि तत्तन्निष्ठाभेदाभिप्रायेण विकल्पोक्तिः ॥ २४ ॥

 म०टी०-मन्दतराणां ज्ञानसाधनमाह-

अन्ये त्वेवमजानन्तः श्रुत्वाऽन्येभ्य उपासते ॥
तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः ॥ २५ ॥

 अन्ये तु मन्दतराः, तुशब्दः पूर्व श्लोकोक्तत्रिविधाधिकारिवैलक्षण्यद्योतनार्थः । एषूपायेवन्यतरेणाप्येवं यथोक्तमात्मानमजानन्तोऽन्येभ्यः कारुणिकेभ्य आचार्येभ्यः श्रुत्वेदमेवं चिन्तयतेत्युक्ता उपासते श्रद्दधानाः सन्तश्चिन्तयन्ति तेऽपि चातितरन्त्येव मृत्युं संसारं श्रुतिपरायणाः स्वयं विचारासमर्था अपि श्रध्धानतया गुरूपदेशश्रवणमात्रपरायणाः । तेऽपीत्यपिशब्दाद्ये स्वयं विचारसमर्थान्ते मृत्युमतितरन्तीति किमु वक्तव्यमित्यभिप्रायः ॥ २५ ॥

 श्री०टी०-अतिमन्दाधिकारिणां निस्तारोपायमाह-अन्य इति । अन्ये तु सांख्ययोगादिमार्गेणैवंभूतमुपद्रष्टुत्वादिलक्षणमात्मानं साक्षात्कर्तुमजानन्तोऽन्येभ्य आचार्येभ्य उपदेशेन श्रुत्वोपासते ध्यायन्ति । ते च श्रद्धयोपदेशश्रवणपरायणाः सन्तो मृत्युं संसारं शनैरतितरन्त्येव ॥ २५ ॥