पृष्ठम्:श्रीमद्भगवद्गीता.pdf/३३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३३२
[अ०११ क्ष्लो०२३-२४]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


 रुद्राश्वाऽऽदित्याश्च वसवो ये च साध्या नाम देवगणा विश्वे तुल्यविभक्तिकविश्वदेवशब्दाभ्यामुच्यमाना देवगणा अश्विनौ नासत्यदस्त्रौ मरुत एकोनपञ्चाशद्देवगणा ऊष्मपाश्च पितरो गन्धर्वाणां यक्षाणाममुराणां सिद्धानां च जातिभेदानां संघाः समूहा वीक्षन्ते पश्यन्ति त्वा त्वां तादृशाद्भुतदर्शनान्ते सर्व एव विस्मिताश्च विस्मयमलौकिकचमत्कारविशेषमापद्यन्ते च ॥ २२ ॥

 श्री०टी०-किं च-रुद्रेति । रुद्राश्वाऽऽदित्याश्व वसवश्व ये च साध्या नाम देवा विश्वे देवा अश्विनौ देवौ मरुतो मरुद्गणा उष्माणं पिबन्तीत्यूष्मपाः पितरः, ऊष्मभागा हि पितरः" इत्यादिश्रुतेः । स्मृतिश्च----

यावदुष्णं भवेदन्नं यावदश्नन्ति वाग्यताः ।
पितरस्तावदश्नन्ति यावन्नोक्ता हविर्गुणाः" इति ॥

 गन्धर्वाश्च यक्षाश्चासुराश्च विरोचनादयः सिद्धानां संघाश्च ते सर्व एव हि विस्मिताः सन्तस्त्वां वीक्षन्त इत्यन्वयः ॥ २२ ॥

 म०टी०-लोकत्रयं प्रव्यथितमित्युक्तमुपसंहरति-

रूपं महत्ते बहुवक्त्रनेत्रं
 महाबाहो बहुबाहूरुपादम् ॥
बहूदरं बहुदंष्ट्राकरालं
 दृष्ट्वा लोकाः प्रव्यथितास्तथाऽहम् ॥ २३॥

 मे महाबाहो ते तव रूपं दृष्ट्वा लोकाः सर्वेऽपि प्राणिनः प्रव्यथितास्तथाऽहं प्रव्यथितो भयेन । कीदृशं ते रूपं महदतिप्रमाणं, बहूनि वक्त्राणि नेत्राणि च यस्मिंस्तत् , बहवो बाहव ऊरवः पादाश्च यस्मिस्तत्, बहून्युदराणि यस्मिस्तत् , बहुभिर्दष्ट्राभिः करालमतिभयानकं दृष्ट्वैव मत्सहिताः सर्वे लोका भयेन पीडिता इत्यर्थः ॥ २३ ॥

 श्री०टी०-किंच-रूपमिति । हे महाबाहो महदत्यूजितं तव रूपं दृष्ट्वा लोकाः सर्वे प्रव्यथिता अतिभीताः । तथाऽहं च प्रव्यथितोऽस्मि । कीदृशं रूपं दृष्ट्वा बहूनि वक्त्राणि नेत्राणि च यस्मिंस्तत् । बहवो बाहव ऊरवः पादाश्च यस्मिंस्तत् । बहूनि उदराणि यस्मिंस्तत् । बहुभिर्दष्ट्राभिः करालं विकृतं रौद्रमित्यर्थः ॥ २३ ॥

 म०टी०-भयानकत्वमेव प्रपञ्चयति-

नभःस्पृशं दीप्तमनेकवर्णं
 व्यात्ताननं दीप्तविशालनेत्रम् ॥
दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा
 धृतिं न विन्दामि शमं च विष्णो ॥२४ ।।