पृष्ठम्:श्रीमद्भगवद्गीता.pdf/३६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३६२
[अ० १२क्ष्लो०२०]
मधुमदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


धानाः सन्तो मत्परमा अहं भगवानक्षरात्मा वासुदेव एव परमः प्राप्तव्यो निरतिशया गतिर्येषां ते मत्परमा भक्ता मां निरुपाधिकं ब्रह्म भजमानास्तेऽतीव मे प्रियाः । "प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः" इति पूर्वसूचितस्यायमुपसंहारः । यस्मा [१]द्धर्मामृतमिदं श्रद्धयाऽनुतिष्ठन्भगवतो विष्णोः परमेश्वरस्यातीव प्रियो भवति तस्मादिदं ज्ञानवतः स्वभावसिद्धतया लक्षणमपि मुमुक्षुणाऽऽत्मतत्त्वजिज्ञासुनाऽऽत्मज्ञानोपायत्वेन यत्नादनुष्ठेयं विष्णोः परमं पदं जिगमिषुणेति वाक्यार्थः । तदेवं सोपाधिकब्रह्मामिध्यानपरिपाकान्निरुपाधिकं ब्रह्मानुसंदधानस्याद्वेष्ट्रवादिधर्मविशिष्टस्य मुख्यस्याधिकारिणः श्रवणमनननिदिध्यासनान्यावर्तयतो वेदान्तवाक्यार्थतत्त्वसाक्षात्कारसंभवात्ततो मुक्त्युपपत्तेर्मुक्तिहेतुवेदान्तमहावाक्यार्थान्वययोग्यस्तत्पदार्थोऽनुसंधेय इति मध्यमेन षट्केन सिद्धम् ॥ २० ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीविश्वेश्वरसरस्वतीपादशिष्यश्रीमधुसूदन-

सरस्वती विरचितायां श्रीमद्भगवद्गीतागूढार्थदीपिकायां भक्ति-

योगो नाम द्वादशोऽध्यायः ॥ १२ ॥

उपासनाकाण्डं द्वितीयं तत्पदार्थप्रतिपादनप्रधानं समाप्तम् ॥

 श्री०टी०-उक्तं धर्मजातं सफलमुपसंहरति-ये त्विति । यथोक्तमुक्तप्रकार धर्म एवामृतममृतत्वसाधनत्वात् । धर्म्यामृतमिदमिति केचित्पठन्ति । तद्य उपासतेऽनुतिष्ठन्ति श्रद्धा कुर्वन्तो मत्परमाश्च सन्तो मद्भक्तास्तेऽतीव मे प्रिया इति ॥ २० ॥

दुःखमव्यक्तवर्त्मैतद्बहुविघ्नमतो बुधः ।
सुखं कृष्णपदाम्भोजभक्तिसत्पथमा[२] ;भजेत् ॥ १ ॥

इति श्रीसुबोधिन्यां टीकायां श्रीधरस्वामिविरचितायां भक्ति-

योगो नाम द्वादशोऽध्यायः ॥ १२ ॥

अथ त्रयोदशोऽध्यायः

म०टी०-ध्यानाभ्यासवशीकृतेन मनसा तन्निर्गुणं निष्क्रियं
  ज्योतिः किंचन योगिनो यदि परं पश्यन्ति पश्यन्तु ते ॥
  अस्माकं तु तदेव लोचनचमत्काराय भूयाच्चिरं
  कालिन्दीपुलिनेषु यत्किमपि तन्नीलं महो धावति ॥


  1. ग. प्र. ज. दम्यादें !
  2. झः ’माक्ष्रयेत्