पृष्ठम्:श्रीमद्भगवद्गीता.pdf/४१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ१५क्ष्लो०६]
४०९
श्रीमद्भगवद्गीता।



 यद्वैष्णवं पदं गत्वा योगिनो न निवर्तन्ते तत्पदं सर्वावभासनशक्तिमानपि सूर्यो न भासयते । सूर्यास्तमयेऽपि चन्द्रो भासको दृष्ट इत्याशङ्कयाऽऽह-न शशाङ्कः । सूर्याचन्द्रमसोरुभयोरप्यस्तमयेऽग्निः प्रकाशको दृष्ट इत्याशङ्कयाऽऽह न पावकः भासयत इत्युभयत्राप्यनुषज्यते । कुतः सूर्यादीनां तत्र प्रकाशनासामर्थ्यमित्यत आह-तद्धाम ज्योतिः वयंप्रकाशमादित्यादिसकलजडज्योतिरवभासकं परमं प्रकृष्टं मम विष्णोः स्वरूपात्मकं पदम् । न हि यो यद्भास्यः स स्वभासकं तं भासयितुमीष्टे । तथा च श्रुतिः-

" न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः ।
तमेव भान्तमनुमाति सर्वं तस्य भासा सर्वमिदं विभाति" इति ॥

 एतेन तत्पदं वेद्यं न वा, आद्ये वेद्यभिन्नवेदितृसापेक्षत्वेन द्वैतापत्तिर्द्वितीये त्वपुरुषार्थत्वापत्तिरित्यपास्तम् । अवेद्यत्वे सत्यपि स्वयमपरोक्षत्वात् । तत्रावेद्यत्वं सूर्याद्यभास्यत्वेनात्रोक्तं, सर्वभासकत्वेन तु स्वयमपरोक्षत्वं यदादित्यगतं तेज इत्यत्र वक्ष्यति । एवमुभाभ्यां श्लोकाभ्यां श्रुतेर्दलद्वयं व्याख्यातमिति द्रष्टव्यम् ॥ ६ ॥

 श्री०टी०-तदेव गन्तव्यं पदं विशिनष्टि-न तदिति । तत्पदं सूर्यादयो न प्रकाशयन्ति । यत्प्राप्य न निवर्तन्ते योगिनस्तद्धाम स्वरूपं परमं मम । सूर्यादिप्रकाशाविषयत्वेन जडत्वशीतोष्णादिदोषप्रसङ्गो निरस्तः ॥१॥

 म० टी०-ननु यद्गत्वा न निर्वतन्त इत्ययुक्तं यदि गच्छन्ति तर्ह्यावर्तन्त एवं स्वर्गवत् । अथ नाऽऽवर्तन्ते तर्हि न गच्छन्ति । तेन गत्वेति न निवर्तन्त इति च परस्परविरुद्धम् ।

" सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छूयाः।
संयोगा विप्रयोगान्ता मरणान्तं हि जीवितम् "

 इति हि शास्त्रे लोके च प्रसिद्धम् । अनात्मप्राप्तिः पुनरावृत्तिपर्यवसाना न त्वात्मप्राप्तिरिति चेत्, न, सुषुप्तौ " सता सो[१]म्य तदा संपन्नो भवतीतिश्रुतिप्रतिपादिताया अप्यात्मप्राप्तेः पुनरावृत्तिपर्यन्तत्वदर्शनात् । अन्यथा सुषुप्तस्य मुक्तत्वेन पुनरुत्थानं न स्यात् । तस्मादात्मप्राप्तौ गत्वेति नोपपद्यते । तस्यौपचारिकत्वेऽप्यनिवृत्तिर्नोपपद्यत इत्येवं प्राप्ते ब्रूमः । गन्तुर्जीवस्य गन्तव्यब्रह्माभिन्नत्वादत्वेत्यौपचारिकम् । अज्ञानमात्रव्यवहितस्य तस्य ज्ञानमात्रेणैव प्राप्तिव्यपदेशात् । यदि ब्रह्मणः प्रतिबिम्बो जीवस्तदा यथा जलप्रतिबिम्बितसूर्यस्य जलापाये बिम्बभूतसूर्यगमनं ततोऽनावृत्तिश्च, यदि च बुद्ध्यवच्छिन्नो ब्रह्मभागो जीवस्तदा यथा घटाकाशस्य घटापाये महाकाशं प्रति गमनं ततोऽनावृत्तिश्च, तथा जीवस्याप्युपाध्यपाये निरुपाधिस्वरूपगमनं ततोऽनावृत्तिश्वेत्युपचारादुच्यते । एकस्वरूपत्वाद्भेदभ्रमस्य चोपाधिनिवृत्त्या निवृत्तेः । सुषुप्तौ तु


  1. ख. ग, ड, त्र. सौम्य ।