पृष्ठम्:श्रीमद्भगवद्गीता.pdf/३८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ० १३क्ष्लो०१९]
३७७
श्रीमद्भगवद्गीता।


 श्री०टी०-उक्त क्षेत्रादिकमधिकारिफलसहितमुपसंहरति-इतीति । इत्येवं क्षेत्रं महाभूतादिधृत्यन्तं तथा ज्ञानं चामानित्वादितत्त्वज्ञानार्थदर्शनान्त ज्ञेयं चानादिमत्परं ब्रह्मेत्यादिविष्ठितमित्यन्तं वसिष्ठादिभिर्विस्तरेणोक्तं सर्वमपि मया संक्षेपेणोक्तम् । एतच्च पूर्वाध्यायोक्तलक्षणो मद्भक्तो विज्ञाय मद्भावाय ब्रह्मत्वायोपपद्यते योग्यो भवति ॥ १८ ॥

 म०. टी०-तदनेन ग्रन्थेन तत्क्षेत्रं यच्च याक्चेत्येतद्वयाख्यातमिदानी "यद्विकार यतश्च यत् । स च यो यत्प्रभावश्च" इत्येतावद्वयाख्यातव्यम् । तत्र प्रकृतिपुरुषयोः संसारहेतुत्वकथनेन यद्विकारि यतश्च यदिति प्रकृतिमित्यादिद्वाभ्यां प्रपञ्चचते । स च यो यत्प्रभावश्चेति तु पुरुष इत्यादिद्वाभ्यामिति विवेकः । तत्र सप्तम ईश्वरस्य द्वे प्रकृती परापरे क्षेत्रक्षेत्रज्ञलक्षणे उपन्यस्यैतद्योनीनि भूतानीत्युक्तम्, तत्रापरा प्रकृतिः क्षेत्रलक्षणा परा तु जीवलक्षणेति तयोरनादित्वमुक्त्वा तदुभययोनित्वं भूतानामुच्यते-

प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि ॥
विकारांश्च गुणांश्चैव विद्धि प्रकृतिसंभवान् ॥ १९ ॥

 प्रकृतिर्मायाख्या त्रिगुणात्मिका पारमेश्वरी शक्तिः क्षेत्रलक्षणा या प्रागपरा प्रकृतिरित्युक्ता । या तु परा प्रकृतिर्जीवाख्या प्रागुक्ता स इह पुरुष इत्युक्त इति न पूर्वापरविरोधः । प्रकृतिं पुरुषं चोभावपि अनादी एव विद्धि, न विद्यत आदिः कारणं ययोस्तौ । तथा प्रकृतेरनादित्वं 'सर्वजगत्कारणत्वात् । तस्या अपि कारणसापेक्षत्वेऽनवस्थाप्रसङ्गात् । पुरुषस्यानादित्वं तद्धर्माधर्मप्रयुक्तत्वात्कृत्स्नस्य जगतः, जातस्य हर्षशोकभयसंप्रतिपत्तेः । अन्यथा कृतहान्यकृताभ्यागमप्रसङ्गात् । यतः प्रकृतिरनादिरतस्तस्या भूतयोनित्वमुक्तं प्रागुपपद्यत इत्याह-विकारांश्च षोडश पञ्च महाभूतान्येकादशेन्द्रियाणि च गुणांश्च सत्त्वरजस्तमोरूपान्सुखदुःखमोहान्प्रकृतिसंभवानेव प्रकृतिकारणकानेव विद्धि जानीहि ॥ १९ ॥

 श्री०टी०-तदेवं तत्क्षेत्रं यच्च यादृक्चेत्येतावत्प्रपञ्चितम् । इदानी तु “यद्विकारि यतश्च यत् । स च यो यत्प्रभावश्च" इत्येतत्पूर्व प्रतिज्ञातमेव प्रकृतिपुरुषयोः संसारहेतुत्वकथनेन प्रपञ्चयति प्रकृतिमिति पञ्चभिः-तत्र प्रकृतिपुरुषयोसदिमत्ते तयोरपि प्रकृत्यन्तरेण भाव्यमित्यनवस्थापत्तिः स्यात् । अतस्तावुभावनादी विद्धि । अनादेरीश्वरस्य शक्तित्त्वात्प्रकृतिरनादिः । पुरुषोऽपि तदंशत्वादनादिरेव । अत्र च परमेश्वरस्य तच्छत्तीनां चानादित्वं नित्यत्वं च श्रीमच्छंकरभगवद्भाष्यकृद्भिरतिप्रबन्धेनोपपादितमिति नास्माभिः प्रतन्यते । विकारांश्च देहेन्द्रियादीन्गुणांश्च गुणपरिणामान्सुखदुःखमोहादीन्प्रकृतेः संभूतान्विद्धि ॥ १९ ॥