पृष्ठम्:श्रीमद्भगवद्गीता.pdf/३५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ० १२ क्ष्लो०१-२]
३५१
श्रीमद्भगवद्गीता।


अर्जुन उवाच-
 एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते ॥
 ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः ॥१॥

 एवं मत्कर्मकृदित्याद्यनन्तरोक्तप्रकारेण सततयुक्ता नैरन्तर्येण भगवत्कर्मादौ सावधानतया प्रवृत्ता भक्ताः साकारवस्त्वेकशरणाः सन्तस्त्वामेवंविधं साकारं ये पर्युपासते सततं चिन्तयन्ति । ये चापि सर्वतो विरक्तास्त्यक्तसर्वकर्माणोऽक्षरं न क्षरत्यश्नुते वेत्यक्षरम् “ एतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्त्यस्थूलमनण्वह्रस्वमदीर्घम् " इत्यादिश्रुतिप्रतिषिद्धसर्वोपाधि निर्गुणं ब्रह्म । अत एवाव्यक्तं सर्वकरणागोचरं निराकारं त्वां पर्युपासते तेषामुभयेषां मध्ये के योगवित्तमा अतिशयेन योगविदः, योगं समाधिं विन्दन्ति विदन्तीति वा योगविद उभयेऽपि । तेषां मध्ये के श्रेष्ठा योगिनः केषां ज्ञानं मयाऽनुसरणीयमित्यर्थः ॥ १॥

श्री० टी०-निर्गुणोपासनस्यैवं सगुणोपासनस्य च ।
  श्रेयः कतरदित्येवं निर्णेतुं द्वादशोद्यमः ॥

 पूर्वाध्यायान्ते मत्कर्मकृन्मत्परम इत्येवं भक्तिनिष्ठस्य श्रेष्ठत्वमुक्तम् । कौन्तेय प्रतिजानीहीत्यादिना च तत्र तत्र तस्यैव श्रेष्ठत्वं वणितम् । तथा " तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते " इत्यादिना " सर्वं ज्ञानप्लवेनैव वृजिनं संतरिष्यसि " इत्यादिना च ज्ञाननिष्ठस्य श्रेष्ठत्वमुक्तम् । एवमुभयोः श्रैष्ठयेऽपि विशेषजिज्ञासया भगवन्तं प्रत्यर्जुन उवाच-एवमिति । एवं सर्वकर्मार्पणादिना सततं युक्तास्त्वन्निष्ठाः सन्तो ये भक्तास्त्वां विश्वरूपं सर्वज्ञं सर्वशक्तिं पर्युपासते ध्यायन्ति । ये चाप्यक्षरं ब्रह्माव्यक्तं निर्विशेषमुपासते तेषामुभयेषां मध्येऽतिशयेन के योगविदः श्रेष्ठा इत्यर्थः ॥ १ ॥

 म०टी०-तत्र सर्वज्ञो भगवानर्जुनस्य सगुणविद्यायामेवाधिकारं पश्यंस्तं प्रति तां विधास्यति यथाधिकारं तारतम्योपेतानि च साधनानि । अतः प्रथमं साकारब्रह्मविद्यां प्ररोचयितुं स्तुवन्प्रथमाः श्रेष्ठा इत्युत्तरम् -

श्रीभगवानुवाच-
 मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते ॥
 श्रद्धया परयोपेतास्ते मे युक्ततमा मताः॥२॥

 मयि भगवति वासुदेवे परमेश्वरे सगुणे ब्रह्मणि मन आवेश्यानन्यशरणतया निरतिशयप्रियतया च प्रवेश्य हिङ्गुलरङ्ग इव जतु तन्मयं कृत्वा ये मां सर्वयोगेश्वराणामीश्वरं सर्वज्ञं समस्तकल्याणगुणनिलयं साकारं नित्ययुक्ताः सततोयुक्ताः श्रद्धया परया प्रकृष्टया सात्त्विक्योपेताः सन्त उपासते सदा चिन्तयन्ति ते युक्ततमा मे मम .