पृष्ठम्:श्रीमद्भगवद्गीता.pdf/३८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ०१३क्ष्लो०२२]
३७९
श्रीमद्भगवद्गीता।


प्रकृतितादात्म्याभिमान एव कारणम् । न त्वसङ्गस्य तस्य स्वतः संसार इत्यर्थः । अथवा गुणसङ्गो गुणेषु शब्दादिषु सुखदुःखमोहात्मकेषु सङ्गोऽभिलाषः काम इति यावत् । स एवास्य सदसद्योनिजन्मसु कारणं " स यथाकामो भवति तत्क्रतुर्भवति यत्क्रतुर्भवति तत्कर्म कुरुते यत्कर्म कुरुते तदभिसंपद्यते " इति श्रुतेः। अस्मिन्नपि पक्षे मूलकारणत्वेन प्रकृतितादात्म्याभिमानो द्रष्टव्यः ॥ २१ ॥

 श्री०टी०-तथाऽप्यविकारिणो जन्मरहितस्य[१] च भोक्तृत्वं कथमित्यत आह----- पुरुष इति । हि यस्मात्प्रकृतिस्थस्तत्कार्ये देहे तादात्म्येन स्थितः पुरुषोऽतस्तज्जनितान्सुखादीन्भुङ्के । अस्य च पुरुषस्य सतीषु देवादियोनिषु असतीषु च तिर्यगादियोनिषु यानि जन्मानि तेषु गु[२] णसङ्गो गुणैः शुभाशुभकर्मकारिभिरिन्द्रियैः सङ्गः कारणमित्यर्थः ॥ २१॥

 म०टी०-तदेवं प्रकृतिमिथ्यातादात्म्यात्पुरुषस्य संसारो न स्वरूपेणेत्युक्तं, कीदृशं पुनस्तस्य स्वरूपं यत्र न संभवति संसार इत्याकाङ्क्षायां तस्य स्वरूपं साक्षान्निर्दिशन्नाह-

उपद्रष्टाऽनुमन्ता च भर्ता भोक्ता महेश्वरः ॥ परमात्मति चाप्युक्तो देहेऽस्मिन्पुरुषः परः ॥ २२॥

 अस्मिन्प्रकृतिपरिणामे देहे जीवरूपेण वर्तमानोऽपि पुरुषः परः प्रकृति गुणासंसृष्टः परमार्थतोऽसंसारी स्वेन रूपेणेत्यर्थः । यत उपद्रष्टा यथविग्यजमानेषु यज्ञकर्मव्यापृतेषु तत्समीपस्थोऽन्यः स्वयमव्यापृतो यज्ञविद्याकुशलत्वादृत्विग्यजमानव्यापारगुणदोषाणामीक्षिता त[३] द्वत्कार्यकरणव्यापारेषु स्वयमव्यापृतो विलक्षणस्तेषां [४] कार्यकरणानां सव्यापाराणां समीपस्थो द्रष्टा न तु कर्ता पुरुषः "स यत्तत्र किंचित्पश्यत्यनन्वागतस्तेन भवत्यसङ्गो ह्ययं पुरुषः" इति श्रुतेः । अथवा देहचक्षुर्मनोबुद्ध्यात्मसु द्रष्टृषु मध्ये बाह्यान्देहादीनपेक्ष्यात्यव्यवहितो द्रष्टाऽऽत्मा पुरुष उपद्रष्टा । उपशब्दस्य सामीप्यार्थत्वात्तस्य चाव्यवधानरूपस्य प्रत्यगात्मन्येव पर्यवसानात् । अनुमन्ता च कार्य[५]करणप्रवृत्तिषु स्वयमप्रवृत्तोऽपि प्रवृत्त इव संनिधिमात्रेण तदनुकूलत्वादनुमन्ता । अथवा स्वव्यापारेषु प्रवृत्तान्देहेन्द्रियादीन्न निवारयति कदाचिदपि तत्साक्षिभूतः पुरुष इत्यनुमन्ता, "साक्षी चेता" इति श्रुतेः। भर्ता देहेन्द्रियमनोबुद्धीनां संहतानां चैतन्याभासविशिष्टानां स्वसत्तया स्फुरणेन च धारयिता पोषयिता च । भोक्ता बुद्धेः सुखदुःखमोहात्मकान्प्रत्ययान्स्वरूपचैतन्येन प्रकाशयतीति निर्विकार एवोपलब्धा । महेश्वरः सर्वात्मत्वात्स्वतन्त्रत्वाच्च


  1. क. च.स्य भो ।
  2. ख. ग. घ. ङ. च. छ. ज. झ. सङ्गः शु।
  3. क. ख. ग. घ. E. ज. श. यकार ।
  4. ग, घ, ङ. च. ज. झ. यकार।
  5. ख. घ. इ. ज. "यकार'।