पृष्ठम्:श्रीमद्भगवद्गीता.pdf/३८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३८०
[अ० क्ष्लो१३० २१]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


महानीश्वरश्चेति महेश्वरः । परमात्मा देहादिबुद्ध्यन्तानामविद्ययाऽऽत्मत्वेन कल्पितानां परमः प्रकृष्ट उपद्रष्टत्वादिपूर्वोक्तविशेषणविशिष्ट आत्मा परमात्मा, इति अनेन शब्देनापि उक्तः कथितः श्रुतौ । चकारादुपद्रष्टेत्यादिशब्दैरपि स एव पुरुषः परः। "उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः" इत्यग्रेऽपि वक्ष्यते ॥ २२॥

 श्री०टी०-तदनेन प्रकारेण प्रकृत्यविवेकात्पुरुषस्य संसारो न तु स्वरूपत इत्याशयेन तस्य स्वरूपमाह-उपद्रष्टेति । अस्मिन्प्रकृतिकार्ये देहे वर्तमानोऽपि पुरुषः परो भिन्न एव न तद्गुणैर्युज्यत इत्यर्थः । तत्र हेतवः-यस्मादुपद्रष्टा पृथग्भूत एव समीपे [१] स्थित्वा द्रष्टा[२] साक्षीत्यर्थः[३] । तथाऽनुमन्ताऽनुमोदितेव संनिधिमात्रेणानुग्राहकः "साक्षी चेता केवलो निर्गुणश्च" इत्यादिश्रुतेः । तथैश्वरेण रूपेण भर्ता विधारक इति चोक्तो भोक्ता पालक इति च । महांश्चासावीश्वरश्च स ब्रह्मादीनामधिपतिरिति च परमात्माऽन्तर्यामीति चोक्तः श्रुत्या । तथा च श्रुतिः-"एष भूताधिपतिरेष लोकेश्वर एष लोकपालः" इत्यादिः ॥ २२ ॥

 म०टी०~-तदेवं स च यो यत्प्रभावश्चेति व्याख्यातमिदानीं यज्ज्ञात्वाऽमृतमश्नुत इत्युक्तमुपसंहरति-

य एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह ॥ सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते ॥ २३ ॥

 य एवमुक्तेन प्रकारेण वेत्ति पुरुषमयमहमस्मीति साक्षात्करोति प्रकृतिं चाविद्यां गुणैः स्वविकारैः सह मिथ्याभूतामात्मविद्यया बाधितां वेत्ति निवृत्ते ममाज्ञानतत्कार्ये इति, स सर्वथा प्रारब्धकर्मवशादिन्द्रवद्विधिमतिक्रम्य वर्तमानोऽपि भूयो न जायते पतितेऽस्मिन्विद्वच्छरोरे पुनर्देहग्रहणं न करोति । अविद्यायां विद्यया नाशिताया तत्कार्यासंभवस्य बहुधोक्तत्वात् “ तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशौ तव्द्यपदेशात् " इति न्यायात् । अपिशब्दाद्विधिमनतिक्रम्य वर्तमानः, स्ववृत्तस्थो भूयो न जायत इति किमु वक्तव्यमित्यभिप्रायः ॥ २३ ॥

 श्री०टी०-एवं प्रकृतिपुरुषविवेकज्ञानिनं स्तौति-य एवमिति । एवमुपद्रष्टुत्वादिरूपेण पुरुषं यो वेत्ति । प्रकृतिं च गुणैः सह सुखदुःखादिपरिणामैः सहितां यो वेत्ति स पुरुषः सर्वथा विधिमतिलङ्घ्येह वर्तमानोऽपि पुनर्नाभिजायते मुच्यत एवेत्यर्थः ॥२३॥

 म०टी०-अत्राऽऽत्मदर्शने साधनविकल्पा इमे कथ्यन्ते-


  1. ख. घ. ङ. छ. झ. स्थितत्वाद्रष्टा ।
  2. क. 'टा । त ।
  3. घ. छ. यः । यथा गगनेऽर्कः साक्षी द्रष्टैवमिति । त।