पृष्ठम्:श्रीमद्भगवद्गीता.pdf/३७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३७०
[अ० १३क्ष्लो०१०-११]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


अनभिष्वङ्गः पुत्रादीनां सुखे दुःखे चाहमेव सुखी दुःखी चेत्यध्यासातिरेकामावः । इष्टानिष्टयोरुपपत्तिषु प्राप्तिषु नित्यं सर्वदा समचित्तत्वम् ॥ ९ ॥

 म०टी०-किंच-

मयि चानन्ययोगेन भक्तिरव्यभिचारिणी ॥
विविक्तदेशसेवित्वमरतिर्जनसंसदि ॥ १० ॥

 मयि च भगवति वासुदेवे परमेश्वरे भक्तिः सर्वोत्कृष्टत्वज्ञानपूर्विका प्रीतिः । अनन्ययोगेन नान्यो भगवतो वासुदेवात्परोऽस्त्यतः स एव नो गतिरित्येवंनिश्चयेनाव्यभिचारिणी केनापि प्रतिकूलेन हेतुना निवारयितुमशक्या । साऽपि ज्ञानहेतुः “ प्रीतिर्न यावन्मपि वासुदेवे न मुच्यते देहयोगेन तावत् " इत्युक्तेः । विविक्तः स्वभावतः संस्कारतो वा शुद्धोऽशुचिभिः सर्पव्याघ्रादिभिश्च रहितः सुरधुनीपुलिनादिश्चित्तप्रसादकरो देशस्तत्सेवनशीलत्वं विविक्तदेशसेवित्वम् । तथा च श्रुतिः-

“समे शुचौ शर्करावह्निवालुकाविवजिते शब्दजलाश्रयादिभिः ।
मनोनुकूले न तु चक्षुपीडने गुहानिवाताश्रयणे न(प्र)योजयेत् " इति ॥

 जनानामात्मज्ञानविमुखानां विषयभोगलम्पटतोपदेशकानां संसदि समवाये तत्त्वज्ञानप्रतिकूलायामरतिररमणं साधूनां तु संसदि तत्त्वज्ञानानुकूलायां रतिरुचितैव । तथा चोक्तम्-

" सङ्गः सर्वात्मना हेयः स चेत्त्यक्तुं न शक्यते ।
स सद्भिः सह कर्तव्यः [१] सन्तः सङ्गस्य भेषजम् " इति ॥ १० ॥

 श्री०टी०-किं च-मयि चेति । मयि परमेश्वरेऽनन्ययोगेन सर्वात्मदृष्ट्या- व्यभिचारिण्येकान्तभक्तिः । विविक्तः शुद्धचित्तप्रसादकरः । तं देशं सेवितुं शीलं यस्य तस्य भावस्तत्त्वम् । प्राकृतानां जनानां संसदि सभायामरती रत्यभावः ॥ १० ॥

 म०टी०-किं च-

अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् ॥
एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा ॥ ११ ॥

 अध्यात्म [२]ज्ञानमात्मानमधिकृत्य प्रवृत्तमात्मानात्मविवेकज्ञानमध्यात्मज्ञान तस्मिन्नित्यत्वं तत्रैव निष्ठावत्त्वम् । विवेकनिष्ठो हि वाक्यार्थज्ञानसमर्थों भवति । तत्त्वज्ञानस्याहं ब्रह्मास्मीति साक्षात्कारस्य वेदान्तवाक्यकरणकस्यामानित्वादिसर्वसाधनपरिपाकफलस्यार्थः प्रयोजनमविद्यातत्कार्यात्मकनिखिलदुःखनिवृत्तिरूपः परमानन्दात्मावाप्तिरूपश्च


  1. ग. छ. सतः सङ्गो हि में। च. ज. झ. अ. सन्तः सङ्गाहिौं।
  2. क. ख. ग. ङ, च: छ. जसमा।