पृष्ठम्:श्रीमद्भगवद्गीता.pdf/३५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ०११क्ष्लो०४१-४२]
३४३
श्रीमद्भगवद्गीता।

सखेति मत्वा प्रसभं यदुक्तं
 हे कृष्ण हे यादव हे सखेति ॥
अजानता महिमानं तवेदं
 मया प्रमादात्प्रणयेन वाऽपि ॥४१॥

 त्वं मम सखा समानवया इति मत्वा प्रसभं स्वोत्कर्षख्यापनरूपेणामिभवेन यदुक्तं मया तवेदं विश्वरूपं तथा महिमानमैश्वर्यातिशयमजानता, पुंलिङ्गपाठ इमं विश्वरूपात्मकं महिमानमजानता प्रमादाञ्चित्तविक्षेपात्प्रणयेन स्नेहेन वाऽपि किमुक्तमित्याह हे कृष्ण हे यादव हे सखेति ॥ ४१ ॥

 श्री0 टी०-इदानी भगवन्तं क्षमापयति सखेति द्वाभ्याम् । त्वं प्राकृतः सखेत्येवं मत्वा प्रसभं हठेन तिरस्कारेण यदुक्तं तत्क्षामये त्वामित्युत्तरेणान्वयः । किं तत्, हे कृष्ण हे यादव हे सखेति च संधिरार्षः । प्रप्तभोक्तौ हेतुः-तव महिमानमिदं च विश्वरूपमजानता मया प्रमादात्प्रणयेन स्नेहेनापि वा यदुक्तमिति ॥ ४१ ॥

यच्चावहासार्थमसत्कृतोऽसि
 विहारशय्यासनभोजनेषु ॥
एकोऽथवाऽप्यच्युत तत्समक्षं
 तत्क्षामये त्वामहमप्रमेयम् ॥ ४२ ॥

 म० टी०-यञ्चावहासार्थं परिहासार्थ विहारशय्यासनभोजनेषु विहारः क्रीडा व्यायामो वा । शय्या तूलिकाद्यास्तरणविशेषः । आसनं सिंहासनादि भोजन बहूनां पङ्कावशनं तेषु विषयभूतेषु असत्कृतोऽसि मया परिभूतोऽसि एकः सखीन्विहाय रहसि स्थितो वा त्वम् । अथवा तत्समक्षं तेषां सखीनां परिहसतां समक्षं वा, हेऽच्युत सर्वदा निर्विकार, तत्सर्वं वचनरूपमसत्करणरूपं चापराधजातं क्षामये क्षामयामि त्वामप्रमेयमचिन्त्यप्रभावमचिन्त्यप्रभावेन निर्विकारेण च परमकारुणिकेन भगवता त्वमाहात्म्यानभिज्ञस्य ममापराधाः क्षन्तव्या इत्यर्थः ॥ ४२ ॥

 श्री०टी०-किं च-यच्चेति । हेऽच्युत यच्च परिहासार्थं क्रीडादिषु तिरस्कृतोऽसि [१]एक एकलः सखीन्विना रहसि स्थित इत्यर्थः । 'अथवा तत्समक्षं तेषां परिहसतां सखीनां समक्षं पुरतोऽपि तत्सर्वमपराधजातं त्वामप्रमेयमचिन्त्यप्रभावं क्षामये क्षमां कारयामि ॥ ४२ ॥


  1. क. झ. एकः केवलः।