पृष्ठम्:श्रीमद्भगवद्गीता.pdf/३७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ०१३क्ष्लो०८-६]
३६९
श्रीमद्भगवद्गीता।


"शौचं तु द्विविधं प्रोक्तं बाह्यमाभ्यन्तरं तथा ।
मृज्जलाभ्यां स्मृतं बाह्यं भावशुद्धिस्तथाऽऽन्तरम् ” इति ॥

 स्थैर्य सन्मार्गे प्रवृत्तस्य तदेकनिष्ठता । आत्मविनिग्रहः शरीरसंयमः । एतज्ज्ञानमिति प्रोक्तमिति पश्चमेनान्वयः ॥ ७ ॥

 म०टी०-किं च-

इन्द्रियार्थेषु वैराग्यमनहंकार एव च ॥
जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् ॥ ८ ॥

 इन्द्रियार्थेषु शब्दादिषु दृष्टेष्वानुश्रविकेषु वा भोगेषु रागविरोधिन्यस्पृहात्मिका चित्तवृत्तिर्वैराग्यम् । आत्मश्लाघनाभावेऽपि मनसि प्रादुर्भूतोऽहं सर्वोत्कृष्ट इति गर्वोऽहंकारस्तदभावोऽनहंकारः । अयोगव्यवच्छेदार्थ एवकारः । समुच्चयार्थश्चकारः । तेनामानित्वादीनां विंशतिसंख्याकानां समुच्चितो योग एव ज्ञानमिति प्रोक्तं न त्वेकस्याप्यभाव इत्यर्थः । जन्मनो गर्भवासयोनिद्वारनिस्सरणरूपस्य मृत्योः सर्वमर्मच्छेदनरूपस्य जरायाः प्रज्ञाशक्तितेजोनिरोधपरपरिभवादिरूपाया व्याधीनां ज्वरातिसारादिरूपाणां दुःखानामिष्टवियोगानिष्टसंयोगजानामध्यात्माधिभूताधिदैवनिमित्तानां दोषस्य वातपित्त-श्लेष्ममलमूत्रादिपरिपूर्णत्वेन कायजुगुप्सितत्वस्य चानुदर्शनं पुनः पुनरालोचनं जन्मादिदुःखान्तेषु दोषस्यानुदर्शनं जन्मादिव्याध्यन्तेषु दुःखरूपदोषस्यानुदर्शनमिति वा। इदं च विषयवैराग्यहेतुत्वेनाऽऽत्मदर्शनस्यो पकरोति ॥ ८ ॥

 श्री०टी०-किं च-इन्द्रियार्थेष्विति । जन्मादिषु दुःखदोषयोरनुदर्शनं पुनः पुनरालोचनम् । दुःखरूपस्य दोषस्यानुदर्शनमिति वा । स्पष्टमन्यत् ॥ ८ ॥

 म०टी०-किं च-

असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु ॥
नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु ॥ ९॥

 सक्तिर्ममेदमित्येतावन्मात्रेण प्रीतिः । अभिष्वङ्गस्त्वहमेवायमित्यनन्यस्वभावनया प्रीत्यतिशयोऽन्यस्मिन्सुखिनि दुःखिनि वाऽहमेव सुखी दुःखी चेति । तद्राहित्यमसक्तिरनभिष्वङ्ग इति चोक्तम् । कुत्र सक्त्यभिष्वङ्गौ वर्जनीयावत आह-पुत्रदारगृहादिषु पुत्रेषु दारेषु गृहेषु, आदिग्रहणादन्येष्वपि भृत्यादिषु सर्वेषु स्नेहविषयेष्वित्यर्थः । नित्यं च सर्वदा च समचित्तत्वं हर्षविषादशून्यमनस्त्वमिष्टानिष्टोपपत्तिषु । उपपत्तिः प्राप्तिः । इष्टोपपत्तिषु हर्षभावोऽनिष्टोपपत्तिषु विषादाभाव इत्यर्थः । चः समुच्चये ॥ ९ ॥

श्री. टी०--किं च-असक्तिरिति । असक्तिः पुत्रादिपदार्थेषु प्रीतित्यागः ।