पृष्ठम्:श्रीमद्भगवद्गीता.pdf/४१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ० १५क्ष्लो०१२-१३]
४१३
श्रीमद्भगवद्गीता।


पदस्य सर्वात्मत्वसर्वव्यवहारास्पदत्वप्रदर्शनेन ब्रह्मणो हि प्रतिष्ठाऽहमिति प्रागुक्तं विवरीतुं चतुर्भिः श्लोकैरात्मनो विभूतिसंक्षेपमाह भगवान्-

यदादित्यगतं तेजो जगदासयतेऽखिलम् ॥
यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ॥ १२॥

 "न तत्र सूर्यों माति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः" इति श्रुत्यर्ध प्राग्व्याख्यातं न तद्भासयते सूर्य इत्यादिना । “तमेव भान्तमनुभाति सर्व तस्य भासा सर्वमिदं विभाति" इति श्रुत्यर्धमनेन व्याख्यायते । यदादित्यगतं तेजश्चैतन्यात्मकं ज्योतिर्यच्चन्द्रमसि यच्चाग्नौ स्थितं तेजो जगदखिलमवभासयते तत्तेजो मामकं मदीयं विद्धि। यद्यपि स्थावरजङ्गमेषु समानं चैतन्यात्मकं ज्योतिस्तथाऽपि सत्त्वोत्कर्षेणाऽऽदित्यादीनामुत्कर्षात्तत्रैवाऽऽविस्तरां चैतन्यज्योतिरिति तैर्विशेष्यते यदादित्यगतमित्यादि । यथा तुल्येऽपि मुखसंनिधाने काष्ठकुड्यादौ न मुखमाविर्भवति । आदर्शादौ च स्वच्छे स्वच्छतरे च तारतम्येनाऽऽविर्भवति तद्वत् । यदादित्यगतं तेज इत्युक्त्वा पुनस्तत्तेजो विद्धि मामकमिति तेजोग्रहणाद्यदादित्यादिगतं तेजः प्रकाशः परप्रकाशसमर्थंं सितभास्वरं रूपं जगदखिलं रूपवद्वस्तु अवभासयते, एवं यच्चन्द्रमसि यच्चाग्नौ जगदवभासकं तेजस्तन्मामकं विद्धीति विभूतिकथनाय द्वितीयोऽप्यर्थो द्रष्टव्यः। अन्यथा तन्मामकं विद्धीत्येतावद्ब्रूयात्तेजोग्रहणमन्तरेणैवेति भावः ॥ १२ ॥

 श्री०टी०-तदेवं न तद्भासयते सूर्य इत्यादिना पारमेश्वरं परं धामोक्तं, तत्प्राप्तानां चापुनरावृत्तिरुक्ता । तत्र च संसारिणोऽभावमाशङ्कय संसारिस्वरूपं देहादिव्यतिरिक्तं दर्शितम् । इदानीं तदेव पारमेश्वरं रूपमनन्तशक्तित्वेन निरूपयति-यदित्यादिचतुर्भिः । आदित्यादिषु स्थितं यदनेकप्रकारं तेजो विश्वं प्रकाशयति तत्सर्वं तेजो मदीयमेव जानीहि ॥ १२ ॥

 म०टी०-किं च-

गामाविश्य च भूतानि धारयाम्यहमोजसा ॥
पुष्णामि चौषधीः सर्वाःसोमो भूत्वा रसात्मकः॥१३॥

गां पृथिवीं पृथिवीदेवतारूपेणाऽऽविश्यौजसा निजेन बलेन पृथिवीं धूलिमुष्टितुल्यां दृढीकृत्य भूतानि पृथिव्याधेयानि वस्तून्यहमेव धारयामि । अन्यथा पृथिवी सिकतामुष्टिवद्विशीर्येताधो निमज्जेद्वा, "येन द्यौरुग्रा पृथिवी च दृहळा" इति मन्त्रवर्णात् । “स दाधार पृथिवीम् " इति च हिरण्यगर्भभावापन्नं भगवन्तमेवाऽह । किं च रसात्मकः सर्वरसस्वभावः सोमो भूत्वौषधीः सर्वा व्रीहियवाद्याः पृथिव्यां जाता अहमेव पुष्णामि पुष्टिमती रसस्वादुमतीश्च करोमि ॥ १३ ॥ ,