पृष्ठम्:श्रीमद्भगवद्गीता.pdf/४१६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ०१५क्ष्लो०८-९]
४११
श्रीमद्भगवद्गीता ।


संपद्य न विदुः सति संपद्यामह इत्यादिश्रुतेः सुषुप्तिप्रलयसमये त्वत्प्राप्तिः सर्वेषामस्तीति को नाम संसारी स्यादित्याशङ्कय संसारिणं दर्शयति ममेति पञ्चभिः-ममैवांशो योऽयमविद्यया जीवभूतः सनातनः सर्वदा संसारित्वेन प्रसिद्धः, असौ सुषुप्तिप्रलययोः प्रकृतौ लीनतया स्थितानि मनः षष्ठं येषां तानीन्द्रियाणि पुनर्जीवलोके संसारे भोगार्थमाकर्षति । एतच्च कर्मेन्द्रियाणां प्राणस्य चोपलक्षणार्थम् । अयं भावः---सत्यं सुषुतिप्रलययोरपि मदंशत्वात्सर्वस्यापि जीवमात्रस्य मयि लयादस्त्येव मत्प्राप्तिः, तथाऽप्यविद्ययाऽऽवृतस्य सानुशयस्य सप्रकृतिके मयि लयो न तु शुद्धे । तदुक्तम्---- अव्यक्ताव्ध्यक्तयः सर्वाः प्रभवन्ति " इत्यादिना । अतश्च पुनः संसाराय निर्गच्छन्वविद्वान्प्रकृतौ लीनतया स्थितानि स्वोपाधिभूतानीन्द्रियाण्याकर्षति । विदुषां तु शुद्धस्वरूपप्राप्तेर्नाऽऽवृत्तिरिति ॥ ७ ॥

 म०टी०-कस्मिन्काले कर्षतीत्युच्यते-

शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः ॥
गृहीत्वैतानि संयाति वायुर्गन्धानिवाऽऽशयात् ॥ ८॥

 यद्यदोत्क्रामति बहिर्निर्गच्छतीश्वरो देहेन्द्रियसंघातस्य स्वामी जीवस्तदा यतो देहादुत्क्रामति ततो मनःषष्ठानीन्द्रियाणि कर्षतीति द्वितीयपादस्य प्रथममन्वय उत्क्रमणोत्तरभावित्वाद्गमनस्य । न केवलं कर्षत्येव किं तु यद्यदा च पूर्वस्माच्छरीरान्तरमवाप्नोति तदैतानि मनःषष्ठानीन्द्रियाणि गृहीत्वा संयात्यपि सम्यक्पुनरागमनराहित्येन गच्छत्यपि। शरीरे सत्येवेन्द्रियग्रहणे दृष्टान्तः-आशयात्कुसुमादेः स्थानाद्गन्धानगन्धात्मकान्सूक्ष्मानंशान्गृहीत्वा यथा वायुर्याति तद्वत् ॥ ८ ॥

 श्री०टी०-तान्याकृष्य किं करोतीत्यत्राऽऽह-शरीरमिति । यद्यदा शरीरान्तरं कर्मवशादवाप्नोति, यतश्च शरीरादुत्कामतीश्वरो देहादीनां स्वामी तदा पूर्वस्माच्छरीरादेतानि गृहीत्वा तच्छरीरान्तरं सम्यग्याति । शरीरे सत्येवेन्द्रियग्रहणे दृष्टान्तः---- आशयात्स्वस्थानात्कुसुमादेः सकाशाद्गन्धान्गन्धवतः सूक्ष्मानंशान्गृहीत्वा यथा वायुर्गच्छति तद्वत् ॥ ८॥

 म०टी०-तान्येवेन्द्रियाणि दर्शयन्यदर्थं गृहीत्वा गच्छति तदाह-

श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च ॥
अधिष्ठाय मनश्चायं विषयानुपसेवते ॥ ९ ॥

 श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च, चकारात्कर्मेन्द्रियाणि प्राणं च मनश्च षष्ठमधिष्ठायैवाऽऽश्रित्यैव विषयाशब्दादीनयं जीव उपसेव[१]ते भुड़्क्ते ॥९॥


  1. ज. वत उपभु।