पृष्ठम्:श्रीमद्भगवद्गीता.pdf/३७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ०१३क्ष्लो०६]
३६७
श्रीमद्भगवद्गीता।


संभूतः । आकाशाद्वायुः । वायोरग्निः । अग्नेरापः । अद्भयः पृथिवी ।" इति पञ्च भूतानि श्रौतानि । अयमेव पक्षः साधीयान् । इन्द्रियाणि दशैकं च श्रोत्रत्वक्चक्षुरसनघ्राणाख्यानि पञ्च बुद्धीन्द्रियाणि वाक्पाणिपादपायुपस्थाख्यानि पञ्च कर्मेन्द्रियाणीति तानि एकं च मनः संकल्पविकल्पात्मकं, पञ्च चेन्द्रियगोचराः शब्दस्पर्शरूपरसगन्धास्ते बुद्धीन्द्रियाणां ज्ञाप्यत्वेन विषयाः कर्मेन्द्रियाणां तु कार्यत्वेन । तान्येतानि सांख्याश्चतुर्विशतितत्त्वान्याचक्षते ॥ ५॥

 श्री० टी०-तत्र[१] क्षेत्रस्वरूपमाह महाभूतानीति द्वाभ्याम्-महाभूतानि भूम्यादीनि पञ्च । अहंकारस्तत्कारणभूतः । बुद्धिर्विज्ञानात्मकं महत्तत्त्वम् । अव्यक्तं मूलप्रकृतिः । इन्द्रियाणि बाह्यानि दश श्रोत्रत्वग्वाणग्जिह्वावाग्दोर्मेढ्राङ्घ्रीपायव इति । एकं च मनः। इन्द्रियगोचराश्च पञ्च तन्मात्ररूपा एव शब्दादय आकाशादिविशेषगुणतया व्यक्ताः सन्त इन्द्रियविषयाः पञ्च । तदेवं चतुर्विंशतितत्त्वान्युक्तानि ॥ ५ ॥

इच्छा द्वेषः सुखं दुःख संघातश्चेतना धृतिः ॥
एतत्क्षेत्रं समासेन सर्विकारमुदात्दृतम् ॥ ६॥

 म० टी०-इच्छा सुखे तत्साधने चेदं मे भूयादिति स्पृहात्मा चित्तवृत्तिः काम इति राग इति चोच्यते । द्वेषो दुःखे तत्साधने चेदं मे मा भूदिति स्पृहाविरोधिनी चित्तवृत्तिः क्रोध इतीर्ष्येति चोच्यते । सुखं निरुपाधीच्छाविषयीभूता धर्मासाधारणकारणिका चित्तवृत्तिः परमात्मसुखव्यज्जिका । दुःखं निरुपाधिद्वेषविषयीभूता चित्तवृत्तिरधर्मासाधारणकारणिका । संघातः पञ्चमहाभूतपरिणामः सेन्द्रियं शरीरम् । चेतना स्वरूपज्ञानव्यञ्जिका प्रमाणासाधारणकारणिका चित्तवृत्तिर्ज्ञानाख्या। धृतिरवसन्नानां देहेन्द्रियाणामवष्टम्भहेतुः प्रयत्नः । उपलक्षणमेतदिच्छादिग्रहणं सर्वान्तःकरणधर्माणाम् । तथाच श्रुतिः- " कामः संकल्पो विचिकित्सा श्रद्धाऽश्रद्धा धृतिरधृतिर्ह्रीर्धीभीरित्येतत्सर्वं मन एव" इति मृद्धट इतिवदुपादानाभेदेन कार्याणां कामादीनां मनोधर्मत्वमाह । एतत्परिदृश्यमानं सर्वं महाभूतादिधृत्यन्तं जडं क्षेत्रज्ञेन साक्षिणाऽवभास्यमानत्वात्तदनात्मकं क्षेत्रं भास्यमचेतनं समासेनोदात्दृतमुक्तम् । ननु शरीरेन्द्रियसंघात एव चेतनः क्षेत्रज्ञ इति लोकायतिकाः । चेतना क्षणिकं ज्ञानमेवाऽऽत्मेति सुगताः । इच्छाद्वेषप्रयत्नसुखदुःखज्ञानान्यात्मनो लिङ्गमिति नैयायिकाः । तत्कथं क्षेत्रमेवैतत्सर्वमिति तत्राऽऽह-सविकारमिति । विकारो जन्मादिर्शान्तः परिणामो नैरुक्तैः पठितः । तत्सहितं सविकारामिदं महाभूतादिधृत्यन्तमतो न विकारसाक्षि स्वोत्पत्तिविनाशयोः स्वेन द्रष्टुमशक्यत्वात् । अन्येषामपि स्वधर्माणां स्वदर्शनमन्तरेण


  1. ख. ग. इ. च. छ. तत्क्षेत्र ।