पृष्ठम्:श्रीमद्भगवद्गीता.pdf/३४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३३६
[अ०११क्ष्लो०३१-३२]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


यस्मात्त्वं भाभिर्जगदापूरयसि तस्मात्तवोग्रास्तीव्रा भासो दीप्तयः प्रज्वलतो ज्वलनस्येव प्रतपन्ति संताप जनयन्ति हे विष्णो व्यापनशील ॥ ३० ॥

 श्री०टी०--ततः किमत आह-लेलियस इति । ग्रसमानो गिलन्समग्राल्लोकान्सर्वानेतान्वीरान्समन्तात्सर्वतो लेलिह्यसेऽतिशयेन भक्षयसि । कैः, ज्वलद्भिर्वदनैः । किं च हे विष्णो तव भासो दीप्तयस्तेजोभिर्विस्फुरणैः समस्तं जगद्व्याप्य तीव्रा- सत्यः प्रतपन्ति संतापयन्ति ॥ ३० ॥

 म०टी०-यस्मादेवं तस्मात्-

आख्याहि मे को भवानुग्ररूपो
 नमोऽस्तु ते देववर प्रसीद ॥
विज्ञातुमिच्छामि भवन्तमाद्यं
 न हि प्रजानामि तव प्रवृत्तिम् ॥ ३१ ॥

 एवमुग्ररूपः क्रूराकारः को भवानित्याख्याहि कथय मे मह्यमत्यन्तानुग्राह्याय । अत एव नमोऽस्तु ते तुभ्यं सर्वगुरवे हे देववर प्रसीद प्रसादं क्रौर्यत्यागं कुरु । विज्ञातुं विशेषेण ज्ञातुमिच्छामि भवन्तमाद्यं सर्वकारणं, न हि यस्मात्तव सखाऽपि सन्प्रजानामि तव प्रवृत्तिं चेष्टाम् ॥ ३१ ॥

 श्री० टी०.-यत एवं तस्मात्-आख्याहीति । भवानुग्ररूपः क इत्याख्याहि कथय । ते तुभ्यं नमोऽस्तु, हे देववर प्रसीद प्रसन्नो भव । भवन्तमाद्यं पुरुषं विशेषेण ज्ञातुमिच्छामि, यतस्तव प्रवृत्तिं चेष्टां किमर्थमेवं प्रवृत्तोऽसीति न जानामि । एवंभूतस्य तव प्रवृत्तिं वार्तामपि न जानामीति वा ॥ ३१ ॥

 म० टी०-एवमर्जुनेन प्रार्थितो यः स्वयं यदर्था च स्वप्रवृत्तिस्तत्सर्वं त्रिभिः श्लोकः-

 श्रीभगवानुवाच-
  कालोऽस्मि लोकक्षयकृत्प्रवृद्धो
   लोकान्समाहर्तुमिह प्रवृत्तः ॥
  ऋतेऽपि त्वा न भविष्यन्ति
   सर्वे येऽवस्थिताः प्रद्यनीकेषु योधाः॥३२॥

 कालः क्रियाशक्त्युपहितः सर्वस्य संहर्ता परमेश्वरोऽस्मि भवामीदानीं प्रवृद्धो वृद्धिं गतः । यदर्थं प्रवृत्तस्तच्छृणु-लोकान्दुर्योधनादीन्समाहर्तुं सम्यगाहर्तुं भक्षयितुं प्रवृ- -