पृष्ठम्:श्रीमद्भगवद्गीता.pdf/३४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३४०
[अ०११क्ष्लो ०३७]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


रोधि प्रहृष्यति प्रकृष्टं हर्षमाप्नोतीति यत्तत्स्थाने युक्तमेवेत्यर्थः । तथा सर्वं जगदनुरज्यते च तद्विषयमनुरागमुपैतीति च यत्तदपि युक्तमेव । तथा रक्षांसि भीतानि भयाविष्टानि सन्ति दिशो द्रवन्ति गच्छन्ति सर्वासु दिक्ष पलायन्त इति यत्तदपि युक्तमेव । तथा सर्वे सिद्धानां कपिलादीनां संघा नमस्यन्ति चेति यत्तदपि युक्तमेव । सर्वत्र तव प्रकीर्त्येत्यस्यान्वयः स्थान इत्यस्य च । अयं श्लोको रक्षोघ्नमन्त्रत्वेन मन्त्रशास्त्रे प्रसिद्धः[१] । स च नारायणाष्टाक्षरसुदर्शनास्त्रमन्त्राभ्यां संपुटितो ज्ञेय इति रहस्यम् ॥ ३६ ॥

 श्री०टी०-स्थान इत्येकादशभिरर्जुनस्योक्तिः । स्थाने इत्यव्ययं युक्तमित्यस्मिन्नर्थे । हे हृषीकेश यत एवं त्वमद्भुतप्रमावो मक्तवत्सलश्चातस्तव प्रकीर्त्या माहात्म्यसंकीर्तनेन न केवलमहमेव प्रहृप्यामि किं तु जगत्सर्व प्रहप्यति प्रकर्षेण हर्षं प्राप्नोति एतत्तु स्थाने युक्तमित्यर्थः । तथा जगदनुरज्यते चानुरागं चौपैतीति यत्, तथा रक्षांसि भीतानि सन्ति दिशः प्रति द्रवन्ति पलायन्त इति यत्, सर्वे योगतपोमन्त्रादिसिद्धानां संघा नमस्यन्ति प्रणमन्तीति यत्, एतच्च स्थाने युक्तमेव न चित्रमित्यर्थः ॥ ३६ ॥

 म०टी०-भगवतो हर्षादिविषयत्वे हेतुमाह-

कस्माच्च ते न नमेन्महात्म-
 न्गरीयसे ब्रह्मणोऽप्यादिकर्त्रे ॥
अनन्त देवेश जगन्निवास
 त्मक्षरं सदसत्तत्परं यत् ॥ ३७॥

 कस्माच्च हेतोस्ते तुभ्यं न नमेरन्न नमस्कुर्युः सिद्धसंघाः सर्वेऽपि हे महात्मन्परमोदारचित्त हेऽनन्त सर्वपरिच्छेदशून्य हे देवेश हिरण्यगर्भादीनामपि देवानां नियन्तः, हे जगन्निवास सर्वाश्रय । तुभ्यं कीदृशाय ब्रह्मणोऽपि गरीयसे गुरुतरायाऽऽदिकर्त्रे ब्रह्मणोऽपि जनकाय । नियन्तृत्वमुपदेष्टुत्वं जनकत्वमित्यादिरेकैकोऽपि हेतुर्नमस्कार्यताप्रयोजकः किं पुनर्महात्मत्वानन्तत्वजगन्निवासत्वादिनानाकल्याणगुणसमुच्चित इत्यनाश्चर्यतासूचनार्थं नमस्कारस्य कस्माच्चेति वाशब्दार्थश्चकारः । किं च सत् , विधिमुखेन प्रतीयमानमस्तीति, असन्निषेधमुखेन प्रतीयमानं नास्तीति, अथवा सद्यक्तमसदव्यक्तं त्वमेव । तथा तत्परं ताभ्यां सदसद्भ्यां परं [२] मूलकारणं यदक्षरं ब्रह्म तदपि


  1. क. ख. ग. घ, ङ. छ. भ. "दः ॥ ३६ ॥
  2. ङ. ञ. र सूक्ष्म। छ. र सूक्ष्मं मूं।