पृष्ठम्:श्रीमद्भगवद्गीता.pdf/३८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ०१३क्ष्लो०१०]
३७३
श्रीमद्भगवद्गीता।

तत्सर्वतःश्रुतिमत् । लोके सर्वप्राणिनिकाये । एकमेव नित्यं विभु च सर्वमचेतनवर्गमावृत्य स्वसत्तया स्फूर्त्या चाऽऽध्यासिकेन संबन्धेन व्याप्य तिष्ठति निर्विकारमेव स्थिति लभते, न तु स्वाध्यस्तस्य जडप्रपञ्चस्य दोषेण गुणेन वाऽणुमात्रेणापि संबध्यत इत्यर्थः । यथा च सर्वेषु देहेष्वेकमेव चेतनं नित्यं विभु च न प्रतिदेहं भिन्नं तथा प्रपञ्चितं प्राक् ॥ १३ ॥

 श्री०टी०-नन्वेवं ब्रह्मणः सदसद्विलक्षणत्वे सति “सर्वं खल्विदं ब्रह्म" "ब्रह्मैवेदं सर्वम्" इत्यादिश्रुतिभिर्विरुध्येतेत्याशङ्कय “पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानवलक्रिया च" इत्यादिश्रुतिप्रसिद्धयाऽचिन्त्यशक्त्या सर्वात्मतां तस्य दर्शयन्नाह सर्वत इति पञ्चभिः---सर्वतः सर्वत्र पाणयः पादाश्च यस्य तत्, सर्वतोऽक्षीणि शिरांसि मुखानि च यस्य तत्, सर्वतःश्रुतिमच्छ्वणेन्द्रियैर्युक्तं सल्लोके सर्वमावृत्य व्याप्य तिष्ठति सर्वप्राणिवृत्तिभिः पाण्यादिभिरुपाधिभिः सर्वव्यवहारास्पदत्वेन तिष्ठतीत्यर्थः॥१३॥

 म० टी०अध्यारोपापवादाभ्यां निष्प्रपञ्चं प्रपञ्चयते " इति न्यायमनुसृत्य सर्वप्रपश्चाध्यारोपेणानादिमत्परं ब्रह्मेति व्याख्यातमधुना तदपवादेन न सत्तन्नासदुच्यत इति व्याख्यातुमारभते निरुपाधिस्वरूपज्ञानाय-

सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् ॥
असक्तं सर्वभृञ्चैव निर्गुणं गुणभोक्तृ च ॥ १४ ॥

 परमार्थतः सर्वेन्द्रियविवर्जितं तन्मायया सर्वेन्द्रियगुणाभासं सर्वेषां बहिष्करणानां श्रोत्रादीनामन्तःकरणयोश्च बुद्धिमनसोर्गुणैरध्यवसायसंकल्पश्रवणवचनादिभिस्तत्तद्विषयरूपतयाऽवभासत इव सर्वेन्द्रियव्यापारार्व्यापृतमिव तज्ज्ञेयं ब्रह्म " ध्यायतीव लेलायतीव " इतिश्रुतेः । अत्र ध्यानं बुद्धीन्द्रियव्यापारोपलक्षणम् । लेलायनं चलनं कमेंन्द्रियव्यापारोपलक्षणार्थम् । तथा परमार्थतोऽसक्तं सर्वसंबन्धशून्यमेव, मायया सर्वभृच्च सदात्मना सर्व कल्पितं धारयति पोषयतीति च सर्वभृत् , निरधिष्ठानभ्रमायोगात् । तथा परमार्थतो निर्गुणं सत्त्वरजस्तमोगुणरहितमेव, गुणभोक्तृ च गुणानां सत्त्वरजस्तमसां शब्दादिद्वारा सुखदुःखमोहाकारेण परिणतानां भोक्तु उपलब्ध च तज्ज्ञेयं ब्रह्मेत्यर्थः ॥ १४॥

 श्री० टी०-किं च -सर्वेन्द्रियेति । सर्वेषां चक्षुरादीनामिन्द्रियाणां गुणेषु रूपाद्याकारासु वृत्तिषु तत्तदाकारेण भासत इति तथा, सर्वाणीन्द्रियाणि गुणांश्च तत्तद्विषयानाभासयतीति वा । सर्वेन्द्रियविवर्जितं च । तथा च श्रुतिः-"अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णः” इत्यादि । असक्तं सङ्गशून्यम् । तथापि सर्व बिभर्तीति सर्वभृत्सर्वस्याऽऽधारभूतम् । तदेव निर्गुणं सत्त्वादिगुणरहितम् । गुणभोक्तृ गुणानां सत्वादीनां भोक्तृ च पालकम् ॥ १४ ॥ ,