पृष्ठम्:श्रीमद्भगवद्गीता.pdf/३६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ० १२ क्ष्लो ०४-५]
३५३
श्रीमद्भगवद्गीता।


श्रवणेन प्रमाणगतामसंभावनामपोह्य मननेन च प्रमेयगतामनन्तरं विपरीतभावनानिवृत्तये ध्यायन्ति विजातीयप्रत्ययतिरस्कारेण तैलधारावदविच्छिन्नसमानप्रत्ययप्रवाहेण निदिध्यासनसंज्ञकेन ध्यानेन विषयी कुर्वन्तीत्यर्थः ॥ ३ ॥

 म०टी०-कथं पुनर्विषयेन्द्रियसंयोगे सति विजातीयप्रत्ययतिरस्कारोऽत आह-

संनियम्येन्द्रियग्रामं सर्वत्रसमबुद्धयः ॥
ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः॥४॥

 संनियम्य स्वविषयभ्य उपसंहृत्येन्द्रियग्रामं करणसमुदायम् । एतेन शमदमादिसंपत्तिरुक्ता । विषयभोगवासनायां सत्यां कुत इन्द्रियाणां ततो निवृत्तिस्तत्राऽऽह- सर्वत्र विषये समा तुल्या हर्षविषादाभ्यां रागद्वेषाम्यां च रहिता मतियेषां सम्यग्ज्ञानेन तत्कारणस्याज्ञानस्यापनीतत्वाद्विषयेषु दोषदर्शनाभ्यासेन स्पृहाया निरसनाच्च ते सर्वत्रसमबुद्धयः । एतेन वशीकार[१] संज्ञा वैराग्यमुक्तम् । अत एव सर्वत्राऽऽत्मदृशष्ट्या हिंसाकारणद्वेषरहितत्वात्सर्वभूतहिते रताः "अभयं सर्वभूतेभ्यो मत्तः स्वाहा” इति मन्त्रेण दत्तसर्वभूताभयदक्षिणाः कृतसंन्यासा इति यावत् । “ अभयं सर्वभूतेभ्यो दत्त्वा संन्यासमाचरेत् " इति स्मृ[२]तेः । एवंविधाः सर्वसाधनसंपन्नाः सन्तः स्वयं ब्रह्मभूता निर्विचिकित्सेन साक्षात्कारेण सर्वसाधनफलभूतेन मामक्षरं ब्रह्मैव ते प्राप्नुवन्ति, पूर्वमपि मद्रूपा एव सन्तोऽविद्यानिवृत्त्या मद्रूपा एव तिष्ठन्तीत्यर्थः । " ब्रह्मैव सन्ब्रह्माप्येति" "ब्रह्म वेद ब्रह्मैव भवति " इत्यादिश्रुतिभ्यः । इहापि च ज्ञानी त्वात्मैव मे मतमित्युक्तम् ॥ ४ ॥

 श्री०टी०-तर्हीतरे किं न श्रेष्ठा इत्यत आह ये त्विति द्वाभ्याम्-ये त्वक्षरं पर्युपासते ध्यायन्ति तेऽपि मामेव प्राप्नुवन्तीति द्वयोरन्वयः । अक्षरस्य लक्षणमनिर्देश्यमित्यादि । अनि[३] र्देश्यं शब्देन निर्देष्टुमशक्यम् । यतोऽव्यक्तं रूपादिहीनम् । सर्वत्रगं सर्वव्यापि । अव्यक्तत्वादेवाचिन्त्य, कूटस्थं कूटे मायाप्रपञ्चेऽधिष्ठानत्वेन स्थितम् । अचलं वृद्ध्यादिरहितम् । अत एव ध्रुवं नित्यम् । स्पष्टमन्यत् ॥ ३ ॥ ४ ॥

 म०टी०-इदानीमेतेभ्यः पूर्वेषामतिशयं दर्शयन्नाह-

क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् ॥
अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते ॥५॥

 पूर्वेषामपि विषयेभ्य आहृत्य सगुणे ब्रह्मणि मनआवे[४]शे सततं तत्कर्मपरायणत्वे च परश्रद्धोपेतत्वे च क्लेशोऽधिको भवत्येव । किं तु अव्यक्तासक्तचेतसां निर्गुणब्रह्मचिन्तनपराणां तेषां पूर्वोक्तसाधनवतां क्लेश आयाप्तोऽधिकतरोऽतिशयेनाधिकः । अत्र स्वय.


  1. झ. संज्ञ वै ।
  2. ग. ज. श्रुतेः।
  3. ख, ग, घ. ङ. व. छ. ज. श. 'देश्यशब्देन व्यपदेष्टुं ।
  4. ख. ग. झ. अ. वेश्य स ।