पृष्ठम्:श्रीमद्भगवद्गीता.pdf/४१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४०८
[अ० १५क्ष्लो०५-६]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


पुरुषु पूर्षु वा शयानं प्रपद्ये शरणं गतोऽस्मीत्येवं तदेकशरणतया तदन्वेष्टव्यमित्यर्थः । तं कं पुरुष यतो यस्मात्पुरुषात्प्रवृत्तिर्मायामयसंसारवृक्षप्रवृत्तिः पुराणी चिरंतन्यनादिरेषा प्रसृता निःसृतैन्द्रजालिकादिव मायाहस्त्यादि तं पुरुषं प्रपद्य इत्यन्वयः ॥ ४ ॥

 श्री०टी०-तत इति । ततस्तस्य मूलभूतं तत्पदं वस्तु वैष्णवं पदं परिमार्गितव्यमन्वेष्टव्यम् , कीदृशम् , यस्मिन्गता यत्पदं प्राप्ताः सन्तो भूयो न निवर्तन्ति नाऽऽवर्तन्त इत्यर्थः । अन्वेषणप्रकारमेवाऽऽह-यत एषा पुराणी चिरंतनी संसारप्रवृत्तिः प्रसूता विसृता तमेव चाऽऽयं पुरुषं प्रपद्ये शरणं व्रजामीत्येवमेकान्तभक्त्याऽन्वेष्टव्यमित्यर्थः ॥ ४ ॥

 म०टी०-~-परिमार्गणपूर्वकं वैष्णवं पदं गच्छतामङ्गान्तराण्याह-

निर्मानमोहा जितसङ्गदोषा
 अध्यात्मनित्या विनिवृत्तकामाः ॥
द्वंद्वैर्विमुक्ताः सुखदुःखसंज्ञै-
 र्गच्छन्त्यमूढाः पदमव्ययं तत् ॥५॥

 मानोऽहंकारो गर्वः, मोहस्त्वविवेको विपर्ययो वा, ताभ्यां निष्क्रान्ता निर्मानमोहाः, तौ निर्गतौ येभ्यस्ते वा । तथाऽहंकाराविवेकाभ्यां रहिता इति यावत् । जितसङ्गदोषाः प्रियाप्रियसंनिधावपि रागद्वेषवर्जिता इति यावत् । अध्यात्मनित्याः परमात्मस्वरूपालोचनतत्पराः, विनिवृत्तकामा विशेषतो निरवशेषेण निवृत्ताः कामा विषयभोगा येषां ते विवेकवैराग्यद्वारा त्यक्तसर्वकर्माण इत्यर्थः । द्वंद्वैः शीतोष्णक्षुत्पिपासादिभिः सुखदुः- खसंज्ञैः सुखदुःखहेतुत्वात्सुखदुःखनामकैः[१] सुखदुःखसङ्गैरिति पाठान्तरे सुखदुःखाभ्यां सङ्गः संबन्धो येषां तैः सुखदुःखसङ्गैर्द्वैविमुक्ताः परित्यक्ताः, अमूढा वेदान्तप्रमाणसंजातसम्यग्ज्ञाननिवारितात्माज्ञानास्तव्ययं यथोक्तं पदं गच्छन्ति ॥ ५॥

 श्रीटी०-तत्प्राप्तौ साधनान्तरा[२]णि दर्श[३]यन्नाह-निर्मानेति । निर्गतौ मानमोहावहंकारमिथ्याभिनिवेशौ येभ्यस्ते । जितः पुत्रादिसङ्गरूपो दोषो यैस्ते । अध्यात्म आत्मज्ञाने नित्याः परिनिष्ठिताः । विशेषेण निवृत्तः कामो येभ्यस्ते । सुखदुःखहेतु- त्वात्सुखदुःखसंज्ञानि शीतोष्णादीनि द्वंद्वानि तैर्विमुक्ताः। अत एवामूढा निवृत्ताविद्याः सन्तस्तदव्ययं पदं वैष्णवं गच्छन्ति ॥ ५ ॥

 म०टी०-तदेव गन्तव्यं पदं विशिनष्टि-

न तद्भासयते सूर्यो न शशाङ्को न पावकः ॥
यदत्वा न निवर्तन्ते तद्धाम परमं मम ॥६॥


  1. ग. घ. ङ. च. छ. ज. झ क पा ।
  2. ख. राण्याह ।
  3. झ. यति-नि'।