पृष्ठम्:श्रीमद्भगवद्गीता.pdf/३६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ०१क्ष्लो०१५-१६]
३५९
श्रीमद्भगवदीता।


ल्लामे विपर्यये च । सततमिति सर्वत्र संबध्यते । योगी समाहितचित्तः । यतात्मा संयतशरीरेन्द्रियादिसंघातः । दृढः कुतार्किकैरमिभवितुमशक्यतया स्थिरो निश्चयोऽहमस्म्यकर्त्रभोक्तसच्चिदानन्दाद्वितीयं ब्रह्मेत्यध्यवसायो यस्य स दृढनिश्चयः स्थितप्रज्ञ इत्यर्थः । मयि भगवति वासुदेवे शुद्धे ब्रह्मणि अर्पितमनोबुद्धिः समर्पितान्तःकरणः । ईदृशो यो मद्भक्तः शुद्धाक्षरब्रह्मवित्स मे प्रियः सदात्मत्वात् ॥ १४ ॥

 श्री० टी०-संतुष्ट इति । सततं लाभेऽलाभे च संतुष्टः प्रसन्नचित्तः । योग्यप्रमत्तः । यतात्मा संयतस्वभावः । दृढो मद्विषयो निश्चयो यस्य, मय्यर्पिते मनोबुद्धी येन, एवंभूतो यो मद्भक्तः स मे प्रियः ॥ १४ ॥

 म०टी०--पुनस्तस्यैव विशेषणानि-

यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः॥
हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः ॥ १५ ॥

 यस्मात्सर्वभूताभयदायिनः संन्यासिनो हेतोर्नोंद्विजते न संतप्यते लोको यः कश्चिदपि जनः । तथा लोकान्निरपराधोद्वेजनैक्रतात्खलजनान्नोद्विजते च यः, अद्वैतदर्शित्वात्परमकारुणिकत्वेन क्षमाशीलत्वाच्च । किंच हर्षः स्वस्य प्रियलाभे रोमाञ्चाश्रुपातादिहेतुरानन्दाभिव्यञ्जकश्चित्तवृत्तिविशेषः, अमर्षः परोत्कर्षासहनरूपश्चित्तवृत्तिविशेषः, भयं व्याघ्रादिदर्शनाधीनश्चित्तवृत्तिविशेषस्त्रासः, उद्वेग एकाकी कथं विजने सर्वपरिग्रहशून्यो जीविष्यामीत्येवंविधो व्याकुलतारूपश्चित्तवृत्तिविशेषस्तैहर्षामर्षभयोद्वेगैर्मुक्तो यः, अद्वैतदर्शितया तदयोग्यत्वेन तैरेव स्वयं परित्यक्तो न तु तेषां त्यागाय स्वयं व्यापृत इति यावत् । चेन मद्भक्त इत्यनुकृष्यते । ईदृशो मद्भक्तो यः स मे प्रिय इति पूर्ववत् ॥ १५ ॥

 श्री०टी०-किंच-यस्मादिति । यस्मात्सकाशाल्लोको जनो नोद्विजते भय- शङ्कया संक्षोभं न प्राप्नोति । यश्च लोकान्नोद्विजते । यश्च स्वाभाविकैहर्षादिभिर्मुक्तः । तत्र हर्षः स्वस्येष्टार्थलाभ उत्साहः । अमर्षः परस्य लाभेऽसहनम् । भयं त्रासः । उद्वेगो भयादिनिमित्तचित्तक्षोभः । एतैर्विमुक्तो यो मद्भक्तः स च मे प्रियः ॥ १५ ॥

 म०टी०-किं च--

अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः ॥
सर्वारम्भपरित्यागी यो मद्भक्तः स मे प्रियः ॥ १६ ॥

 निरपेक्षः सर्वेषु भोगोपकरणेषु यदृच्छोपनीतेष्वपि निःस्पृहः । शुचिर्बाह्याभ्यन्तरशौचसंपन्नः । दक्ष उपस्थितेषु ज्ञातव्येषु कर्तव्येषु च सद्य एवं ज्ञातुं कर्तुं च समर्थः । उदासीनो न कस्यचिन्मित्रादेः पक्षं भजते यः । गतव्यथः परैस्ताड्यमानस्यापि गता